RSK, 2
Select a line for its word-by-word analysis.
षड्लोहहेमरूप्यार्कवङ्गाहिलोहैर् लोहाः षडीरिताः । (१।१)
ṣaḍlohahemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ |
मेतल्स्:: ड़च्तितिओउसकृत्रिमा इमे घोषावर्तकाद्यास्तु कृत्रिमाः ॥ (१।२)
metals:: factitiousakṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ ||
मेतल्स्:: शुद्ध, मृत:: मेदिच्। प्रोपेर्तिएस्शुद्धा मृता निरुत्थाश्च सर्वरोगहराः स्मृताः । (२।१)
metals:: śuddha, mṛta:: medic. propertiesśuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ |
मेतल्स्:: इम्पुरे:: मेदिच्। प्रोपेर्तिएसशुद्धान् हीनपाकांश्च रोगमृत्युप्रदांस्त्यजेत् ॥ (२।२)
metals:: impure:: medic. propertiesaśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet ||
मेतल्स्:: मारण:: wइथ् मेर्चुर्य्लोहं सूतयुतं दोषांस्त्यजेत् सूतश्च लोहयुक् । (३।१)
metals:: māraṇa:: with mercurylohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk |
गोल्द्:: सुब्त्य्पेस्स्वर्णं पञ्चविधं प्रोक्तं प्राकृतं सहजाग्निजे । (४।१)
gold:: subtypessvarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije |
खनिजं रसवादोत्थं सुपत्त्रीकृत्य शोधितम् । (५।१)
khanijaṃ rasavādotthaṃ supattrīkṛtya śodhitam |
गोल्द्:: शोधनसुवर्णं सप्तशो वाप्यं काञ्चनाररसे शुचिः । (६।१)
gold:: śodhanasuvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ |
गोल्द्:: मारणसुवर्णे गलिते नागं प्रक्षिपेत् षोडशांशकम् ॥ (६।२)
gold:: māraṇasuvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam ||
अम्लेन मर्दयित्वा तु कृत्वा तस्य च गोलकम् । (७।१)
amlena mardayitvā tu kṛtvā tasya ca golakam |
त्रिंशद्वनोत्पलैरग्नौ सप्तधा भस्मतां व्रजेत् ॥ (८।२)
triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet ||
गोल्द्:: मृत:: मेदिच्। प्रोपेर्तिएस्तिक्तं कषायं ज्वरहृत्स्वादुपाकं बलावहम् । (९।१)
gold:: mṛta:: medic. propertiestiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham |
वयोधीःकान्तिदं वृष्यं शोषालक्ष्मीविषापहम् ॥ (९।२)
vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham ||
सिल्वेर्:: सुब्त्य्पेस्कैलासे सहजं रूप्यं खनिजं कृत्रिमं भुवि । (१०।१)
silver:: subtypeskailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi |
व्युत्क्रमेण गुणैः श्रेष्ठं नागोत्तीर्णं रसे हितम् ॥ (१०।२)
vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam ||
सिल्वेर्:: शोधनश्वेतागस्तिरसे रूप्यं स्वर्णवच्छुचि मारणम् । (११।१)
silver:: śodhanaśvetāgastirase rūpyaṃ svarṇavacchuci māraṇam |
सिल्वेर्:: मारण (???)गन्धकाम्लकसंयोगान्नागं हित्वा क्षिपेत् त्रपु ॥ (११।२)
silver:: māraṇa (???)gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu ||
गोल्द्, सिल्वेर्:: परीक्षा:: मृतएतद्भस्माम्ललिप्तोऽसिस्ताम्रवर्णस्तदा मृतिः ॥ (१२।२)
gold, silver:: parīkṣā:: mṛtaetadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ ||
तत्र कान्तोद्भवं लोहं क्षेप्यं तैस्तत्समं गुणैः ॥ (१३।२)
tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ ||
चोप्पेर्:: सुब्त्य्पेस्द्व्यर्कौ नेपालम्लेच्छौ तु रसे नेपाल उत्तमः । (१४।१)
copper:: subtypesdvyarkau nepālamlecchau tu rase nepāla uttamaḥ |
नेपाल:: फ्य्स्। प्रोपेर्तिएस्घनघातसहः स्निग्धो रक्तपत्रोऽमलो मृदुः ॥ (१४।२)
nepāla:: phys. propertiesghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ ||
म्लेच्छ:: फ्य्स्। प्रोपेर्तिएस्म्लेच्छस्तु क्षालितः कृष्णो रूक्षः स्तब्धो घनासहः । (१५।१)
mleccha:: phys. propertiesmlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ |
मिश्रितो नागलोहाभ्यां न श्रेष्ठो रसकर्मणि ॥ (१५।२)
miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi ||
चोप्पेर्:: दोषस्ताम्रं तु विषवज्ज्ञेयं यत्नतः साध्यते हि तत् । (१६।१)
copper:: doṣastāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat |
एको दोषो विषे सम्यक्ताम्रे त्वष्टौ प्रकीर्तिताः ॥ (१६।२)
eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ ||
कुष्ठं रेको वमिर्भ्रान्तिस्तापो वातश्च कामला । (१७।१)
kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā |
देहस्य नाशनं दोषा इत्यष्टौ कथिता बुधैः ॥ (१७।२)
dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ ||
चोप्पेर्:: शोधनगवां मूत्रैः पचेच्चाहस्ताम्रपत्रं दृढाग्निना । (१८।१)
copper:: śodhanagavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā |
वारिणा क्षालयेत् पश्चादेकविंशतिधा शुचिः ॥ (१८।२)
vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ ||
चोप्पेर्:: मारणपारदं गन्धकं ताम्रं सममम्लेन मर्दयेत् । (१९।१)
copper:: māraṇapāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet |
जायते त्रिपुटाद् भस्म वालुकायन्त्रतोऽथवा ॥ (१९।२)
jāyate tripuṭād bhasma vālukāyantrato'thavā ||
चोप्पेर्:: मारणगन्धार्कौ द्व्येकभागौ च शरावसंपुटे पुटेत् । (२०।१)
copper:: māraṇagandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet |
स्वाङ्गशीतं च संपेष्य खल्वे वस्त्रेण गालयेत् ॥ (२०।२)
svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet ||
सामुद्रं तत्समं कृत्वा पुनः पुटनमाचरेत् । (२१।१)
sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret |
तदेव तत्क्षये देयं सामुद्रं च पुनः पुनः ॥ (२१।२)
tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ ||
चतुःषष्टिपुटैरित्थं निरुत्थं योगवाहिकम् ॥ (२२।२)
catuḥṣaṣṭipuṭairitthaṃ nirutthaṃ yogavāhikam ||
तत्ताम्रं सौरणे कन्दे पुटेत्पञ्चामृतेऽथवा । (२३।१)
tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā |
अष्टौ दोषांश्च पूर्वोक्तान् न करोति गुणावहम् ॥ (२३।२)
aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham ||
हन्ति गुल्मक्षयाजीर्णकासपाण्ड्वामयज्वरान् । (२४।१)
hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān |
स्थौल्योदरे कफं शूलमूर्ध्वाधःशोधनं परम् ॥ (२४।२)
sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param ||
तिन्:: सुब्त्य्पेस्खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते । (२५।१)
tin:: subtypeskhurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate |
खुरकं तु गुणैः श्रेष्ठं मिश्रकं न रसे हितम् ॥ (२५।२)
khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam ||
तिन्:: शोधनकन्याभृङ्गरसे वङ्गनागौ शोध्यौ त्रिसप्तधा । (२६।१)
tin:: śodhanakanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā |
अथवा ब्रह्मवृक्षोत्थे क्वाथे निर्गुण्डिजेऽथवा ॥ (२६।२)
athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā ||
तिन्:: मारणमृद्भाजने द्रुते वङ्गे चिञ्चाश्वत्थत्वचो रजः । (२७।१)
tin:: māraṇamṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ |
क्षिपेत्तस्य चतुर्थांशं लोहदर्व्या प्रचालयेत् ॥ (२७।२)
kṣipettasya caturthāṃśaṃ lohadarvyā pracālayet ||
ब्रह्मद्रुक्वाथकल्काभ्यां मर्द्यं गजपुटे पचेत् ॥ (२८।२)
brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet ||
पुटे पुटे दशांशांशं दत्त्वैवं दशधा पुटेत् । (२९।१)
puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet |
वङ्गभस्म निरुत्थं तत् पाण्डुमेहगदापहम् ॥ (२९।२)
vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham ||
तिन्:: मारणकरीषसंपुटे वङ्गपत्रं छागशकृद्युतम् । (३०।१)
tin:: māraṇakarīṣasaṃpuṭe vaṅgapatraṃ chāgaśakṛdyutam |
म्रियते पुटमात्रेण तन्मेहान् हन्ति विंशतिम् ॥ (३०।२)
mriyate puṭamātreṇa tanmehān hanti viṃśatim ||
लेअद्:: मारणवङ्गवन्नागभस्मापि कृत्वादौ तत्समां शिलाम् । (३१।१)
lead:: māraṇavaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām |
क्षिप्त्वा तुषोदकैर्मर्द्यं दद्याद् गजपुटं ततः ॥ (३१।२)
kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ ||
षष्ट्यंशं गन्धकं दत्त्वा पाच्यं षष्टिपुटावधि । (३२।१)
ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi |
नागभस्म निरुत्थं तद्वङ्गभस्मगुणाधिकम् ॥ (३२।२)
nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam ||
लेअद्, तिन्:: मृत:: मेदिच्। प्रोपेर्तिएस्मृतं वङ्गं च नागं च रसभस्म समं गुणैः । (३३।१)
lead, tin:: mṛta:: medic. propertiesmṛtaṃ vaṅgaṃ ca nāgaṃ ca rasabhasma samaṃ guṇaiḥ |
इरोन्:: सुब्त्य्पेस्मुण्डं तीक्ष्णं तथा कान्तं भेदास्तस्य त्रयोदशाः । (३४।१)
iron:: subtypesmuṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ |
मुण्ड:: सुब्त्य्पेस्मृदु कुण्ठं च काण्डारं त्रिविधं मुण्डमुच्यते ॥ (३४।२)
muṇḍa:: subtypesmṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate ||
तीक्ष्णलोह:: सुब्त्य्पेस्खरसारं च होत्रासं तारावर्तं विडं तथा । (३५।१)
tīkṣṇaloha:: subtypeskharasāraṃ ca hotrāsaṃ tārāvartaṃ viḍaṃ tathā |
कान्तं लोहं गजाख्यं च षड्विधं तीक्ष्णमुच्यते ॥ (३५।२)
kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate ||
कान्त:: परीक्षापात्रे यस्मिन्प्रसरति जले तैलबिन्दुर्न लिप्तो हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्कः । (३६।१)
kānta:: parīkṣāpātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ |
पाके दुग्धं भवति शिखराकारतां नैति भूमौ कान्तं लोहं तदिदमुदितं लक्षणैर्नैव चान्यत् ॥ (३६।२)
pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat ||
कान्त:: सुब्त्य्पेस्कान्तं लोहं चतुर्धोक्तं रोमकं भ्रामकं तथा । (३७।१)
kānta:: subtypeskāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā |
चुम्बकं द्रावकं चेति गुणास्तस्योत्तरोत्तराः ॥ (३७।२)
cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ ||
इरोन्:: शोधनमुण्डादिसर्वलोहानि ताम्रवच्छोधयेत् सुधीः । (३८।१)
iron:: śodhanamuṇḍādisarvalohāni tāmravacchodhayet sudhīḥ |
इरोन्:: पाकलोहपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः खरस्तथा । (३८।२)
iron:: pākalohapākastridhā prokto mṛdurmadhyaḥ kharastathā |
इरोन्:: मारणलोहपत्रं गन्धलिप्तं वह्नौ तप्तं पुनः पुनः । (३९।१)
iron:: māraṇalohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ |
क्षिपेन्मीनाक्षिकानीरे यावत्तत्रैव शीर्यते ॥ (३९।२)
kṣipenmīnākṣikānīre yāvattatraiva śīryate ||
रसहिङ्गुलगन्धेन तुल्यं तन्मर्दयेद् दृढम् । (४०।१)
rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham |
निर्गुण्डीवृषमत्स्याक्षीरसैर्गजपुटान्मृतिः ॥ (४०।२)
nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ ||
इरोन्:: मारण:: वारितरलोहचूर्णं वराक्वाथे पिण्डं कृत्वा पुनः पुनः । (४१।१)
iron:: māraṇa:: vāritaralohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ |
निरुत्थाम्बुतरं योगवाहि स्यात्सर्वरोगहृत् ॥ (४२।२)
nirutthāmbutaraṃ yogavāhi syātsarvarogahṛt ||
इरोन्:: मारण:: वारितरजम्बूत्वचारसे तिन्दुमार्कण्डपत्रजेऽथवा । (४३।१)
iron:: māraṇa:: vāritarajambūtvacārase tindumārkaṇḍapatraje'thavā |
त्रिसप्तधातपे शोष्यं पेष्यं वारितरं भवेत् ॥ (४३।२)
trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet ||
इरोन्:: मारणचिञ्चापत्रनिभं लोहपत्रं दन्तीद्रवे क्षिपेत् । (४४।१)
iron:: māraṇaciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet |
घर्मे धृत्वा रसो देयो मृतं यावद्भवेच्च तत् ॥ (४४।२)
gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat ||
इरोन्:: मारण:: वारितरमत्स्याक्षीरसमध्यस्थं लोहपत्रं विनिक्षिपेत् । (४५।१)
iron:: māraṇa:: vāritaramatsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet |
त्रिंशद्दिनानि घर्मे तु ततो वारितरं भवेत् ॥ (४५।२)
triṃśaddināni gharme tu tato vāritaraṃ bhavet ||
इरोन्:: मारण:: निरुत्थ, परीक्षालोहमध्वाज्यगं तारं ध्मातं चेत्पूर्वमानकम् । (४६।१)
iron:: māraṇa:: niruttha, parīkṣālohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam |
तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुनः ॥ (४६।२)
tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ ||
इरोन्:: अमृतीकरण (?)वराक्वाथे ऽवशेषो तु तत्तुल्यं घृतमायसम् । (४७।१)
iron:: amṛtīkaraṇa (?)varākvāthe 'vaśeṣo tu tattulyaṃ ghṛtamāyasam |
सिता लोहमिता ताम्रे पक्वं चामृतवद्भवेत् ॥ (४७।२)
sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet ||
लोह:: मृत:: मेदिच्। प्रोपेर्तिएस्ग्रहणीपाण्डुशोफार्शोज्वरगुल्मप्रमेहकान् । (४८।१)
loha:: mṛta:: medic. propertiesgrahaṇīpāṇḍuśophārśojvaragulmapramehakān |
हन्ति प्लीहामयं लोहं बलबुद्धिविवर्धनम् ॥ (४८।२)
hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam ||
कुष्माण्डं तिलतैलं च माषान्नं राजिका तथा । (४९।१)
kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā |
मण्डूर:: शोधनगोमूत्रे त्रिफलाक्वाथे तप्तं शोध्यं त्रिसप्तधा । (५०।१)
maṇḍūra:: śodhanagomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā |
स्वर्णादि सर्वलोहानां किट्टं तत्तद्गुणावहम् ॥ (५०।२)
svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham ||
किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् । (५१।१)
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam |
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम् ॥ (५१।२)
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam ||
रसक:: सत्त्व:: मारणलवणान्तर्गतं भाण्डे सत्त्वं खर्परसम्भवम् । (५२।१)
rasaka:: sattva:: māraṇalavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam |
सुखं रुद्ध्वा विपक्वं तन्म्रियते गजवह्निना ॥ (५२।२)
sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā ||
रसक:: मृत:: मेदिच्। प्रोपेर्तिएस्मृतस्तु रसको रूक्षस्त्रिदोषघ्नो ज्वरापहः । (५३।१)
rasaka:: mṛta:: medic. propertiesmṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ |
योगवाह्यतिसारघ्नः क्लेदघ्नो विड्विबन्धकृत् ॥ (५३।२)
yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt ||
ब्रोन्ज़े, ब्रस्स्:: शोधन, मारणकांस्यपित्तलयोः प्रोक्ते ताम्रवच्छुद्धिमारणे । (५४।१)
bronze, brass:: śodhana, māraṇakāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe |
मेतल्स्:: ड़स्त् मारणअथैकः पारदाद्भागो गन्धको द्विगुणस्ततः । (५५।१)
metals:: fast māraṇaathaikaḥ pāradādbhāgo gandhako dviguṇastataḥ |
तयोः समं सुवर्णादिनिरुत्थं शीघ्रमारणम् ॥ (५५।२)
tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam ||
धातुस्:: निरुत्थ:: परीक्षासमध्वाज्यटङ्कणैर्गुञ्जागुडाभ्यां मृतधातवः । (५६।१)
dhātus:: niruttha:: parīkṣāsamadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ |
ध्माताः पिण्डकृता नैव जीवन्ति ते निरुत्थकाः ॥ (५६।२)
dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ ||
धातु:: मारण:: निरुत्थसगन्धश्चोत्थितो धातुर्मर्द्यः कन्यारसे दिनम् । (५७।१)
dhātu:: māraṇa:: nirutthasagandhaścotthito dhāturmardyaḥ kanyārase dinam |
पक्वो गजपुटो दिव्यं सर्वो याति निरुत्थताम् ॥ (५७।२)
pakvo gajapuṭo divyaṃ sarvo yāti nirutthatām ||
अभ्र:: सुब्त्य्पेस्पीतं सितासितं रक्तमेकैकं खं चतुर्विधम् । (५८।१)
abhra:: subtypespītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham |
पिनाकं दर्दुरं नागं वज्रं चाग्नौ परीक्षयेत् ॥ (५८।२)
pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet ||
अभ्र:: वज्रन पत्राणि न शब्दांश्च कुर्यात्तद्वज्रसंज्ञकम् । (५९।१)
abhra:: vajrana patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam |
अभ्र:: वज्र:: सत्त्वपातनत्रीणि ध्मातानि किट्टं हि वज्री सत्त्वं विमुञ्चति ॥ (५९।२)
abhra:: vajra:: sattvapātanatrīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati ||
अभ्र:: वज्र:: सत्त्व:: मारणतत्सत्त्वं विधिवद्ग्राह्यं शोध्यं मार्यं च लोहवत् । (६०।१)
abhra:: vajra:: sattva:: māraṇatatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat |
सत्त्वाभावे तु निश्चन्द्रं रसेष्विष्टं तदुच्यते ॥ (६०।२)
sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate ||
अभ्र:: मारण:: प्रोदुच्तिओन् ओड़् निश्चन्द्र~धान्याभ्रं मेघनादैर् झषनयनजलैर् जम्भलैष्टङ्कणेन खल्वे संमर्द्य गाढं तदनु गजपुटान् द्वादशैवं प्रदद्यात् । (६१।१)
abhra:: māraṇa:: production of niścandra~dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt |
मीनाक्षीभृङ्गतोयैस् त्रिफलजलयुतैर् मर्दयेत् सप्तरात्रं गन्धं तुल्यं च दत्त्वा प्रवरगजपुटात् पञ्चतां याति चाभ्रम् ॥ (६१।२)
mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram ||
अभ्र:: निश्चन्द्र:: मेदिच्। प्रोपेर्तिएस्मृतं निश्चन्द्रतां यातमरुणं चामृतोपमम् । (६२।१)
abhra:: niścandra:: medic. propertiesmṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam |
सचन्द्रं विषवज्ज्ञेयं मृत्युकृद्व्याघ्ररोमवत् ॥ (६२।२)
sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat ||
अभ्र:: अमृतीकरणवराम्बु गोघृतं चाभ्रं कलाषड्दिक्क्रमांशकम् । (६३।१)
abhra:: amṛtīkaraṇavarāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam |
अभ्र:: मृत:: मेदिच्। प्रोपेर्तिएस्वयःस्तम्भकारी जरामृत्युहारी बलारोग्यधारी महाकुष्ठहारी । (६४।१)
abhra:: mṛta:: medic. propertiesvayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī |
मृतो मेघकः सर्वरोगेषु योज्यः सदा सूतराजस्य वीर्येण तुल्यः ॥ (६४।२)
mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ ||
क्षाराम्लं द्विदलं वर्ज्यं कर्कोटिकारवेल्लकम् । (६५।१)
kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam |
Data courtesy of The Digital Corpus of Sanskrit.