Chapter 3
Select a line for its word-by-word analysis.
गरवणिजाविष्टिवर्जितानि करणानि यातुर् अनिष्टानि । (१।१)
garavaṇijāviṣṭivarjitāni karaṇāni yātur aniṣṭāni |
गरम् अपि कैश्चिच् छस्तं वणिजा च वणिक्क्रियास्व् एव ॥ (१।२)
garam api kaiścic chastaṃ vaṇijā ca vaṇikkriyāsv eva ||
शिवभुजगमित्रपितृवसुजलविश्वविरिञ्चिपङ्कजप्रभवाः । (२।१)
śivabhujagamitrapitṛvasujalaviśvaviriñcipaṅkajaprabhavāḥ |
इन्द्राग्नीन्द्रनिशाचरवरुणार्यमयोनयश् चाह्नि ॥ (२।२)
indrāgnīndraniśācaravaruṇāryamayonayaś cāhni ||
रुद्राजाहिर्बुध्न्याः पूषा दखान्तकाग्निधातारः । (३।१)
rudrājāhirbudhnyāḥ pūṣā dakhāntakāgnidhātāraḥ |
इन्द्वदितिगुरुहरिरवित्वष्ट्रनिलाख्याः क्षणा रात्रौ ॥ (३।२)
indvaditiguruhariravitvaṣṭranilākhyāḥ kṣaṇā rātrau ||
अह्नः पञ्चदशांशो रात्रेश् चैवं मुहूर्त इति संज्ञा । (४।१)
ahnaḥ pañcadaśāṃśo rātreś caivaṃ muhūrta iti saṃjñā |
स च विज्ञेयस् तज्ज्ञैश् छायायन्त्राम्बुभिर् युक्त्या ॥ (४।२)
sa ca vijñeyas tajjñaiś chāyāyantrāmbubhir yuktyā ||
नक्षत्रवत् क्षणानां परिघादि तदीश्वरैः समं चिन्त्यम् । (५।१)
nakṣatravat kṣaṇānāṃ parighādi tadīśvaraiḥ samaṃ cintyam |
फलम् अपि तद् एव दृष्टं गर्गाद्यैस् तत्र च श्लोकाः ॥ (५।२)
phalam api tad eva dṛṣṭaṃ gargādyais tatra ca ślokāḥ ||
अहोरात्रं च सम्पूर्णं चन्द्रनक्षत्रयोजितम् । (६।१)
ahorātraṃ ca sampūrṇaṃ candranakṣatrayojitam |
तन्नक्षत्रमुहूर्ताश् च समकर्मगुणाः स्मृताः ॥ (६।२)
tannakṣatramuhūrtāś ca samakarmaguṇāḥ smṛtāḥ ||
यश् चाष्टमो मुहूर्तो विरिञ्चिनामाभिजित् स निर्दिष्टः । (७।१)
yaś cāṣṭamo muhūrto viriñcināmābhijit sa nirdiṣṭaḥ |
तस्मिंस् त्र्य [॥। औ२ ज़ेइछेन्झ्] याम्याम् अत्यन्तगतस्य जयलब्धिः ॥ (७।२)
tasmiṃs trya yāmyām atyantagatasya jayalabdhiḥ ||
अष्टमेन दिवसे समे शुभो यो विरिञ्चिविभुसंज्ञिताः । (८।१)
aṣṭamena divase same śubho yo viriñcivibhusaṃjñitāḥ |
तेन यानम् अपहायिदक्षिणां सर्वदिक्ष्व् अजित् प्रशस्यते ॥ (८।२)
tena yānam apahāyidakṣiṇāṃ sarvadikṣv ajit praśasyate ||
Data courtesy of The Digital Corpus of Sanskrit.