GherS, 2
Select a line for its word-by-word analysis.
तेषां मध्ये विशिष्टानि षोडशोनं शतं कृतम् । (२।१)
teṣāṃ madhye viśiṣṭāni ṣoḍaśonaṃ śataṃ kṛtam |
तेषां मध्ये मर्त्यलोके द्वात्रिंशद् आसनं शुभम् ॥ (२।२)
teṣāṃ madhye martyaloke dvātriṃśad āsanaṃ śubham ||
सिद्धं पद्मं तथा भद्रं मुक्तं वज्रं च स्वस्तिकम् । (३।१)
siddhaṃ padmaṃ tathā bhadraṃ muktaṃ vajraṃ ca svastikam |
मृतं गुप्तं तथा मात्स्यं मत्स्येन्द्रासनम् एव च । (४।१)
mṛtaṃ guptaṃ tathā mātsyaṃ matsyendrāsanam eva ca |
गोरक्षं पश्चिमोत्तानम् उत्कटं संकटं तथा ॥ (४।२)
gorakṣaṃ paścimottānam utkaṭaṃ saṃkaṭaṃ tathā ||
मयूरं कुक्कुटं कूर्मं तथा उत्तानकूर्मकम् । (५।१)
mayūraṃ kukkuṭaṃ kūrmaṃ tathā uttānakūrmakam |
उत्तानमण्डुकं वृक्षं मण्डूकं गरुडं वृषम् ॥ (५।२)
uttānamaṇḍukaṃ vṛkṣaṃ maṇḍūkaṃ garuḍaṃ vṛṣam ||
द्वात्रिंशद् आसनान्य् एव मर्त्यलोके च सिद्धिदा ॥ (६।२)
dvātriṃśad āsanāny eva martyaloke ca siddhidā ||
योनिस्थानकम् अङ्घ्रिमूलघटितं संपीड्य गुल्फेतरम् । (७।१)
yonisthānakam aṅghrimūlaghaṭitaṃ saṃpīḍya gulphetaram |
मेढ्रोपर्य् अथ संनिधाय चिबुकं कृत्वा हृदि स्थापितम् । (७।२)
meḍhropary atha saṃnidhāya cibukaṃ kṛtvā hṛdi sthāpitam |
स्थाणुः संयमितेन्द्रियो ऽचलदृशा पश्यन् भ्रुवोर् अन्तरे । (७।३)
sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antare |
एतन् मोक्षकपाटभेदनकरं सिद्धासनं प्रोच्यते ॥ (७।४)
etan mokṣakapāṭabhedanakaraṃ siddhāsanaṃ procyate ||
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा । (८।१)
vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā |
दक्षोरूपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम् । (८।२)
dakṣorūpari paścimena vidhinā kṛtvā karābhyāṃ dṛḍham |
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेत् । (८।३)
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet |
एतद् व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते ॥ (८।४)
etad vyādhivikāranāśanakaraṃ padmāsanaṃ procyate ||
गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ । (९।१)
gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau |
पादाङ्गुष्ठौ कराभ्यां च धृत्वा च पृष्ठदेशतः ॥ (९।२)
pādāṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭhadeśataḥ ||
भद्रासनं भवेद् एतत् सर्वव्याधिविनाशकम् ॥ (१०।२)
bhadrāsanaṃ bhaved etat sarvavyādhivināśakam ||
शिरोग्रीवासमे काये मुक्तासनं तु सिद्धिदम् ॥ (११।२)
śirogrīvāsame kāye muktāsanaṃ tu siddhidam ||
जङ्घयोर् वज्रवत् कृत्वा गुदपार्श्वे पदाव् उभौ । (१२।१)
jaṅghayor vajravat kṛtvā gudapārśve padāv ubhau |
वज्रासनं भवेद् एतद् योगिनां सिद्धिदायकम् ॥ (१२।२)
vajrāsanaṃ bhaved etad yogināṃ siddhidāyakam ||
ऋजुकायः समासीनः स्वस्तिकं तत् प्रचक्षते ॥ (१३।२)
ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate ||
गुल्फौ च वृषणस्याधो व्युत्क्रमेणोर्ध्वतां गतौ । (१४।१)
gulphau ca vṛṣaṇasyādho vyutkrameṇordhvatāṃ gatau |
व्यात्तवक्त्रो जलन्धरेण नासाग्रम् अवलोकयेत् । (१५।१)
vyāttavaktro jalandhareṇa nāsāgram avalokayet |
सिंहासनं भवेद् एतत् सर्वव्याधिविनाशकम् ॥ (१५।२)
siṃhāsanaṃ bhaved etat sarvavyādhivināśakam ||
पादौ भूमौ च संस्थाप्य पृष्ठपार्श्वे निवेशयेत् । (१६।१)
pādau bhūmau ca saṃsthāpya pṛṣṭhapārśve niveśayet |
एकपादम् अथैकस्मिन् विन्यसेद् ऊरुसंस्थितम् । (१७।१)
ekapādam athaikasmin vinyased ūrusaṃsthitam |
इतरस्मिंस् तथा पश्चाद् वीरासनम् इतीरितम् ॥ (१७।२)
itarasmiṃs tathā paścād vīrāsanam itīritam ||
प्रसार्य पादौ भुवि दण्डरूपौ करौ च पृष्ठं धृतपादयुग्मम् । (१८।१)
prasārya pādau bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam |
कृत्वा धनुस्तुल्यविवर्तिताङ्गं निगद्यते वै धनुरासनं तत् ॥ (१८।२)
kṛtvā dhanustulyavivartitāṅgaṃ nigadyate vai dhanurāsanaṃ tat ||
जानूर्वोर् अन्तरे पादौ कृत्वा पादौ च गोपयेत् । (२०।१)
jānūrvor antare pādau kṛtvā pādau ca gopayet |
पादोपरि च संस्थाप्य गुदं गुप्तासनं विदुः ॥ (२०।२)
pādopari ca saṃsthāpya gudaṃ guptāsanaṃ viduḥ ||
कूर्पराभ्यां शिरो वेष्ट्य मत्स्यासनं तु रोगहा ॥ (२१।२)
kūrparābhyāṃ śiro veṣṭya matsyāsanaṃ tu rogahā ||
उदरे पश्चिमं तानं कृत्वा तिष्ठति यत्नतः । (२२।१)
udare paścimaṃ tānaṃ kṛtvā tiṣṭhati yatnataḥ |
नम्राङ्गं वामपदं हि दक्षजानूपरि न्यसेत् ॥ (२२।२)
namrāṅgaṃ vāmapadaṃ hi dakṣajānūpari nyaset ||
तत्र याम्यं कूर्परं च याम्यकरे च वक्त्रकम् । (२३।१)
tatra yāmyaṃ kūrparaṃ ca yāmyakare ca vaktrakam |
भ्रुवोर् मध्ये गता दृष्टिः पीठं मत्स्येन्द्रम् उच्यते ॥ (२३।२)
bhruvor madhye gatā dṛṣṭiḥ pīṭhaṃ matsyendram ucyate ||
जानूर्वोर् अन्तरे पादौ उत्तानौ व्यक्तसंस्थितौ । (२४।१)
jānūrvor antare pādau uttānau vyaktasaṃsthitau |
गुल्फौ चाच्छाद्य हस्ताभ्याम् उत्तानाभ्यां प्रयत्नतः ॥ (२४।२)
gulphau cācchādya hastābhyām uttānābhyāṃ prayatnataḥ ||
गोरक्षासनम् इत्य् आहुर् योगिनां सिद्धिकारणम् ॥ (२५।२)
gorakṣāsanam ity āhur yogināṃ siddhikāraṇam ||
प्रसार्य पादौ भुवि दण्डरूपौ संन्यस्तभालं चितियुग्ममध्ये । (२६।१)
prasārya pādau bhuvi daṇḍarūpau saṃnyastabhālaṃ citiyugmamadhye |
यत्नेन पादौ च धृतौ कराभ्यां योगेन्द्रपीठं पश्चिमतानम् आहुः ॥ (२६।२)
yatnena pādau ca dhṛtau karābhyāṃ yogendrapīṭhaṃ paścimatānam āhuḥ ||
अङ्गुष्ठाभ्याम् अवष्टभ्य धरां गुल्फौ च खे गतौ । (२७।१)
aṅguṣṭhābhyām avaṣṭabhya dharāṃ gulphau ca khe gatau |
तत्रोपरि गुदं न्यसेद् विज्ञेयम् उत्कटासनम् ॥ (२७।२)
tatropari gudaṃ nyased vijñeyam utkaṭāsanam ||
धराम् अवष्टभ्य करद्वयाभ्यां तत् कूर्परे स्थापितनाभिपार्श्वम् । (२९।१)
dharām avaṣṭabhya karadvayābhyāṃ tat kūrpare sthāpitanābhipārśvam |
उच्चासने दण्डवद् उत्थितः खे मयूरम् एतत् प्रवदन्ति पीठम् ॥ (२९।२)
uccāsane daṇḍavad utthitaḥ khe mayūram etat pravadanti pīṭham ||
बहुकदशनभुक्तं भस्म कुर्याद् अशेषं जनयति जठराग्निं जारयेत् कालकूटम् । (३०।१)
bahukadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam |
हरति सकलरोगान् आशु गुल्मज्वरादीन् भवति विगतदोषं ह्य् आसनं श्रीमयूरम् ॥ (३०।२)
harati sakalarogān āśu gulmajvarādīn bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram ||
पद्मासनं समासाद्य जानूर्वोर् अन्तरे करौ । (३१।१)
padmāsanaṃ samāsādya jānūrvor antare karau |
कूर्पराभ्यां समासीनो मञ्चस्थः कुक्कुटासनम् ॥ (३१।२)
kūrparābhyāṃ samāsīno mañcasthaḥ kukkuṭāsanam ||
गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ । (३२।१)
gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau |
कुक्कुटासनबन्धस्थं कराभ्यां धृतकंधरम् । (३३।१)
kukkuṭāsanabandhasthaṃ karābhyāṃ dhṛtakaṃdharam |
खगकूर्मवद् उत्तानम् एतद् उत्तानकूर्मकम् ॥ (३३।२)
khagakūrmavad uttānam etad uttānakūrmakam ||
पादतलौ पृष्ठदेशे अङ्गुष्ठौ द्वौ च संस्पृशेत् । (३४।१)
pādatalau pṛṣṭhadeśe aṅguṣṭhau dvau ca saṃspṛśet |
जानुयुग्मं पुरस्कृत्य साधयेन् मण्डूकासनम् ॥ (३४।२)
jānuyugmaṃ puraskṛtya sādhayen maṇḍūkāsanam ||
मण्डूकासनबन्धस्थं कूर्पराभ्यां धृतं शिरः । (३५।१)
maṇḍūkāsanabandhasthaṃ kūrparābhyāṃ dhṛtaṃ śiraḥ |
एतद् भेकवद् उत्तानम् एतद् उत्तानमण्डुकम् ॥ (३५।२)
etad bhekavad uttānam etad uttānamaṇḍukam ||
तिष्ठति वृक्षवद् भूमौ वृक्षासनम् इदं विदुः ॥ (३६।२)
tiṣṭhati vṛkṣavad bhūmau vṛkṣāsanam idaṃ viduḥ ||
जङ्घोरुभ्यां धरां पीड्य स्थिरकायो द्विजानुना । (३७।१)
jaṅghorubhyāṃ dharāṃ pīḍya sthirakāyo dvijānunā |
विपरीतं स्पृशेद् भूमिं वृषासनम् इदं भवेत् ॥ (३८।२)
viparītaṃ spṛśed bhūmiṃ vṛṣāsanam idaṃ bhavet ||
अध्यास्य शेते पदयुग्मवक्षे भूमिम् अवष्टभ्य करद्वयाभ्याम् । (३९।१)
adhyāsya śete padayugmavakṣe bhūmim avaṣṭabhya karadvayābhyām |
पादौ च शून्ये च वितस्ति चोर्ध्वं वदन्ति पीठं शलभं मुनीन्द्राः ॥ (३९।२)
pādau ca śūnye ca vitasti cordhvaṃ vadanti pīṭhaṃ śalabhaṃ munīndrāḥ ||
अध्यास्य शेते हृदयं निधाय भूमौ च पादौ प्रविसार्यमाणौ । (४०।१)
adhyāsya śete hṛdayaṃ nidhāya bhūmau ca pādau pravisāryamāṇau |
शिरश् च धृत्वा करदण्डयुग्मे देहाग्निकारं मकरासनं तत् ॥ (४०।२)
śiraś ca dhṛtvā karadaṇḍayugme dehāgnikāraṃ makarāsanaṃ tat ||
अध्यास्य शेते पदयुग्मम् अस्तं पृष्ठे निधायापि धृतं कराभ्याम् । (४१।१)
adhyāsya śete padayugmam astaṃ pṛṣṭhe nidhāyāpi dhṛtaṃ karābhyām |
आकुञ्च्य सम्यग्घ्युदरास्यगण्डम् उष्ट्रं च पीठं यतयो वदन्ति ॥ (४१।२)
ākuñcya samyagghyudarāsyagaṇḍam uṣṭraṃ ca pīṭhaṃ yatayo vadanti ||
अङ्गुष्ठनाभिपर्यन्तम् अधो भूमौ च विन्यसेत् । (४२।१)
aṅguṣṭhanābhiparyantam adho bhūmau ca vinyaset |
करतलाभ्यां धरां धृत्वा ऊर्ध्वं शीर्षं फणीव हि ॥ (४२।२)
karatalābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇīva hi ||
देहाग्निर् वर्धते नित्यं सर्वरोगविनाशनम् । (४३।१)
dehāgnir vardhate nityaṃ sarvarogavināśanam |
जागर्ति भुजगी देवी साधनाद् भुजंगासनम् ॥ (४३।२)
jāgarti bhujagī devī sādhanād bhujaṃgāsanam ||
उत्तानौ चरणौ कृत्वा संस्थाप्य जानुनोपरि । (४४।१)
uttānau caraṇau kṛtvā saṃsthāpya jānunopari |
पूरकैर् वायुम् आकृष्य नासाग्रम् अवलोकयेत् । (४५।१)
pūrakair vāyum ākṛṣya nāsāgram avalokayet |
Data courtesy of The Digital Corpus of Sanskrit.