घेरण्डसंहिताGheraṇḍasaṃhitā

GherS, 5

5 of 7 · 216 verses

Select a line for its word-by-word analysis.

1.1१.१

घेरण्ड उवाच । (१।१)

gheraṇḍa uvāca

1.2१.२

अथातः सम्प्रवक्ष्यामि प्राणायामस्य यद् विधिम् । (१।२)

athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim |

1.3१.३

यस्य साधनमात्रेण देवतुल्यो भवेन् नरः ॥ (१।३)

yasya sādhanamātreṇa devatulyo bhaven naraḥ ||

2.1२.१

आदौ स्थानं तथा कालं मिताहारं तथापरम् । (२।१)

ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam |

2.2२.२

नाडीशुद्धिं ततः पश्चात् प्राणायामं च साधयेत् ॥ (२।२)

nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet ||

3.1३.१

दूरदेशे तथारण्ये राजधान्यां जनान्तिके । (३।१)

dūradeśe tathāraṇye rājadhānyāṃ janāntike |

3.2३.२

योगारम्भं न कुर्वीत कृतश् चेत् सिद्धिहा भवेत् ॥ (३।२)

yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet ||

4.1४.१

अविश्वासं दूरदेशे अरण्ये भक्षवर्जितम् । (४।१)

aviśvāsaṃ dūradeśe araṇye bhakṣavarjitam |

4.2४.२

लोकारण्ये प्रकाशश् च तस्मात् त्रीणि विवर्जयेत् ॥ (४।२)

lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet ||

5.1५.१

सुदेशे धार्मिके राज्ये सुभिक्षे निरुपद्रवे । (५।१)

sudeśe dhārmike rājye subhikṣe nirupadrave |

5.2५.२

तत्रैकं कुटिरं कृत्वा प्राचीरैः परिवेष्टयेत् ॥ (५।२)

tatraikaṃ kuṭiraṃ kṛtvā prācīraiḥ pariveṣṭayet ||

6.1६.१

वापीकूपतडागं च प्राचीरमध्यवर्ति च । (६।१)

vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca |

6.2६.२

नात्युच्चं नातिनीचं वा कुटिरं कीटवर्जितम् ॥ (६।२)

nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam ||

7.1७.१

सम्यग् गोमयलिप्तं च कुटिरं रन्ध्रवर्जितम् । (७।१)

samyag gomayaliptaṃ ca kuṭiraṃ randhravarjitam |

7.2७.२

एवं स्थाने हि गुप्ते च प्राणायामं समभ्यसेत् ॥ (७।२)

evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset ||

8.1८.१

हेमन्ते शिशिरे ग्रीष्मे वर्षायां च ऋतौ तथा । (८।१)

hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā |

8.2८.२

योगारम्भं न कुर्वीत कृते योगो हि रोगदः ॥ (८।२)

yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ ||

9.1९.१

वसन्ते शरदि प्रोक्तं योगारम्भं समाचरेत् । (९।१)

vasante śaradi proktaṃ yogārambhaṃ samācaret |

9.2९.२

तदा योगो भवेत् सिद्धो रोगान् मुक्तो भवेद् ध्रुवम् ॥ (९।२)

tadā yogo bhavet siddho rogān mukto bhaved dhruvam ||

10.1१०.१

चैत्रादिफाल्गुनान्ते च माघादिफाल्गुनान्तिके । (१०।१)

caitrādiphālgunānte ca māghādiphālgunāntike |

10.2१०.२

द्वौ द्वौ मासौ ऋतुभागौ अनुभावश् चतुश् चतुः ॥ (१०।२)

dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ ||

11.1११.१

वसन्तश् चैत्रवैशाखौ ज्येष्ठाषाढौ च ग्रीष्मकौ । (११।१)

vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau |

11.2११.२

वर्षा श्रावणभाद्राभ्यां शरद् आश्विनकार्त्तिकौ । (११।२)

varṣā śrāvaṇabhādrābhyāṃ śarad āśvinakārttikau |

11.3११.३

मार्गपौषौ च हेमन्तः शिशिरो माघफाल्गुनौ ॥ (११।३)

mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau ||

12.1१२.१

अनुभावं प्रवक्ष्यामि ऋतूनां च यथोदितम् । (१२।१)

anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam |

12.2१२.२

माघादिमाधवान्ते हि वसन्तानुभवश् चतुः ॥ (१२।२)

māghādimādhavānte hi vasantānubhavaś catuḥ ||

13.1१३.१

चैत्रादि चाषाढान्तं च ग्रीष्मश् चानुभवश् चतुः । (१३।१)

caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ |

13.2१३.२

आषाढादि चाश्विनान्तं वर्षा चानुभवश् चतुः ॥ (१३।२)

āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ ||

14.1१४.१

भाद्रादिमार्गशीर्षान्तं शरदो ऽनुभवश् चतुः । (१४।१)

bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ |

14.2१४.२

कार्त्तिकादिमाघमासान्तं हेमन्तानुभवश् चतुः । (१४।२)

kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ |

14.3१४.३

मार्गादींश् चतुरो मासाञ् शिशिरानुभवं विदुः ॥ (१४।३)

mārgādīṃś caturo māsāñ śiśirānubhavaṃ viduḥ ||

15.1१५.१

वसन्ते वापि शरदि योगारम्भं तु समाचरेत् । (१५।१)

vasante vāpi śaradi yogārambhaṃ tu samācaret |

15.2१५.२

तदा योगो भवेत् सिद्धो विनायासेन कथ्यते ॥ (१५।२)

tadā yogo bhavet siddho vināyāsena kathyate ||

16.1१६.१

मिताहारं विना यस् तु योगारम्भं तु कारयेत् । (१६।१)

mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet |

16.2१६.२

नानारोगो भवेत् तस्य किंचिद् योगो न सिध्यति ॥ (१६।२)

nānārogo bhavet tasya kiṃcid yogo na sidhyati ||

17.1१७.१

शाल्यन्नं यवपिण्डं वा गोधूमपिण्डकं तथा । (१७।१)

śālyannaṃ yavapiṇḍaṃ vā godhūmapiṇḍakaṃ tathā |

17.2१७.२

मुद्गं माषचणकादि शुभ्रं च तुषवर्जितम् ॥ (१७।२)

mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam ||

18.1१८.१

पटोलं पनसं मानं कक्कोलं च शुकाशकम् । (१८।१)

paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śukāśakam |

18.2१८.२

द्राढिकां कर्कटीं रम्भां डुम्बरीं कण्टकण्टकम् ॥ (१८।२)

drāḍhikāṃ karkaṭīṃ rambhāṃ ḍumbarīṃ kaṇṭakaṇṭakam ||

19.1१९.१

आमरम्भां बालरम्भां रम्भादण्डं च मूलकम् । (१९।१)

āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam |

19.2१९.२

वार्त्ताकीं मूलकम् ऋद्धिं योगी भक्षणम् आचरेत् ॥ (१९।२)

vārttākīṃ mūlakam ṛddhiṃ yogī bhakṣaṇam ācaret ||

20.1२०.१

बालशाकं कालशाकं तथा पटोलपत्रकम् । (२०।१)

bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam |

20.2२०.२

पञ्चशाकं प्रशंसीयाद् वास्तूकं हिलमोचिकाम् ॥ (२०।२)

pañcaśākaṃ praśaṃsīyād vāstūkaṃ hilamocikām ||

21.1२१.१

शुद्धं सुमधुरं स्निग्धम् उदरार्धविवर्जितम् । (२१।१)

śuddhaṃ sumadhuraṃ snigdham udarārdhavivarjitam |

21.2२१.२

भुज्यते सुरसंप्रीत्या मिताहारम् इमं विदुः ॥ (२१।२)

bhujyate surasaṃprītyā mitāhāram imaṃ viduḥ ||

22.1२२.१

अन्नेन पूरयेद् अर्धं तोयेन तु तृतीयकम् । (२२।१)

annena pūrayed ardhaṃ toyena tu tṛtīyakam |

22.2२२.२

उदरस्य तुरीयांशं संरक्षेद् वायुचारणे ॥ (२२।२)

udarasya turīyāṃśaṃ saṃrakṣed vāyucāraṇe ||

23.1२३.१

कट्व् अम्लं लवणं तिक्तं भृष्टं च दधि तक्रकम् । (२३।१)

kaṭv amlaṃ lavaṇaṃ tiktaṃ bhṛṣṭaṃ ca dadhi takrakam |

23.2२३.२

शाकोत्कटं तथा मद्यं तालं च पनसं तथा ॥ (२३।२)

śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā ||

24.1२४.१

कुलत्थं मसूरं पाण्डुं कूष्माण्डं शाकदण्डकम् । (२४।१)

kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śākadaṇḍakam |

24.2२४.२

तुम्बीकोलकपित्थं च कण्टबिल्वं पलाशकम् ॥ (२४।२)

tumbīkolakapitthaṃ ca kaṇṭabilvaṃ palāśakam ||

25.1२५.१

कदम्बं जम्बीरं बिम्बं लकुचं लशुनं विषम् । (२५।१)

kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam |

25.2२५.२

कामरङ्गं पियालं च हिङ्गुशाल्मलिकेमुकम् ॥ (२५।२)

kāmaraṅgaṃ piyālaṃ ca hiṅguśālmalikemukam ||

26.1२६.१

योगारम्भे वर्जयेच् च पथस्त्रीवह्निसेवनम् । (२६।१)

yogārambhe varjayec ca pathastrīvahnisevanam |

26.2२६.२

नवनीतं घृतं क्षीरं गुडं शर्करादि चैक्षवम् ॥ (२६।२)

navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam ||

27.1२७.१

पक्वरम्भां नारिकेलं दाडिम्बम् अशिवासवम् । (२७।१)

pakvarambhāṃ nārikelaṃ dāḍimbam aśivāsavam |

27.2२७.२

द्राक्षां तु लवलीं धात्रीं रसम् अम्लविवर्जितम् ॥ (२७।२)

drākṣāṃ tu lavalīṃ dhātrīṃ rasam amlavivarjitam ||

28.1२८.१

एलाजातिलवङ्गं च पौरुषं जम्बु जाम्बलम् । (२८।१)

elājātilavaṅgaṃ ca pauruṣaṃ jambu jāmbalam |

28.2२८.२

हरीतकीं खर्जूरं च योगी भक्षणम् आचरेत् ॥ (२८।२)

harītakīṃ kharjūraṃ ca yogī bhakṣaṇam ācaret ||

29.1२९.१

लघुपाकं प्रियं स्निग्धं तथा धातुप्रपोषणम् । (२९।१)

laghupākaṃ priyaṃ snigdhaṃ tathā dhātuprapoṣaṇam |

29.2२९.२

मनोऽभिलषितं योग्यं योगी भोजनम् आचरेत् ॥ (२९।२)

mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret ||

30.1३०.१

काठिन्यं दुरितं पूतिम् उष्णं पर्युषितं तथा । (३०।१)

kāṭhinyaṃ duritaṃ pūtim uṣṇaṃ paryuṣitaṃ tathā |

30.2३०.२

अतिशीतं चाति चोष्णं भक्ष्यं योगी विवर्जयेत् ॥ (३०।२)

atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet ||

31.1३१.१

प्रातःस्नानोपवासादि कायक्लेशविधिं तथा । (३१।१)

prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā |

31.2३१.२

एकाहारं निराहारं यामान्ते च न कारयेत् ॥ (३१।२)

ekāhāraṃ nirāhāraṃ yāmānte ca na kārayet ||

32.1३२.१

एवं विधिविधानेन प्राणायामं समाचरेत् । (३२।१)

evaṃ vidhividhānena prāṇāyāmaṃ samācaret |

32.2३२.२

आरम्भे प्रथमे कुर्यात् क्षीराद्यं नित्यभोजनम् । (३२।२)

ārambhe prathame kuryāt kṣīrādyaṃ nityabhojanam |

32.3३२.३

मध्याह्ने चैव सायाह्ने भोजनद्वयम् आचरेत् ॥ (३२।३)

madhyāhne caiva sāyāhne bhojanadvayam ācaret ||

33.1३३.१

कुशासने मृगाजिने व्याघ्राजिने च कम्बले । (३३।१)

kuśāsane mṛgājine vyāghrājine ca kambale |

33.2३३.२

स्थूलासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः । (३३।२)

sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ |

33.3३३.३

नाडीशुद्धिं समासाद्य प्राणायामं समभ्यसेत् ॥ (३३।३)

nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset ||

34.1३४.१

चण्डकापालिर् उवाच । (३४।१)

caṇḍakāpālir uvāca

34.2३४.२

नाडीशुद्धिं कथं कुर्यान् नाडीशुद्धिस् तु कीदृशी । (३४।२)

nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī |

34.3३४.३

तत् सर्वं श्रोतुम् इच्छामि तद् वदस्व दयानिधे ॥ (३४।३)

tat sarvaṃ śrotum icchāmi tad vadasva dayānidhe ||

35.1३५.१

घेरण्ड उवाच । (३५।१)

gheraṇḍa uvāca

35.2३५.२

मलाकुलासु नाडीषु मारुतो नैव गच्छति । (३५।२)

malākulāsu nāḍīṣu māruto naiva gacchati |

35.3३५.३

प्राणायामः कथं सिध्येत् तत्त्वज्ञानं कथं भवेत् । (३५।३)

prāṇāyāmaḥ kathaṃ sidhyet tattvajñānaṃ kathaṃ bhavet |

35.4३५.४

तस्माद् आदौ नाडीशुद्धिं प्राणायामं ततो ऽभ्यसेत् ॥ (३५।४)

tasmād ādau nāḍīśuddhiṃ prāṇāyāmaṃ tato 'bhyaset ||

36.1३६.१

नाडीशुद्धिर् द्विधा प्रोक्ता समनुर् निर्मनुस् तथा । (३६।१)

nāḍīśuddhir dvidhā proktā samanur nirmanus tathā |

36.2३६.२

बीजेन समनुं कुर्यान् निर्मनुं धौतिकर्मणि ॥ (३६।२)

bījena samanuṃ kuryān nirmanuṃ dhautikarmaṇi ||

37.1३७.१

धौतिकर्म पुरा प्रोक्तं षट्कर्मसाधने यथा । (३७।१)

dhautikarma purā proktaṃ ṣaṭkarmasādhane yathā |

37.2३७.२

शृणुष्व समनुं चण्ड नाडीशुद्धिर् यथा भवेत् ॥ (३७।२)

śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet ||

38.1३८.१

उपविश्यासने योगी पद्मासनं समाचरेत् । (३८।१)

upaviśyāsane yogī padmāsanaṃ samācaret |

38.2३८.२

गुर्वादिन्यासनं कृत्वा यथैव गुरुभाषितम् । (३८।२)

gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam |

38.3३८.३

नाडीशुद्धिं प्रकुर्वीत प्राणायामविशुद्धये ॥ (३८।३)

nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye ||

39.1३९.१

वायुबीजं ततो ध्यात्वा धूम्रवर्णं सतेजसम् । (३९।१)

vāyubījaṃ tato dhyātvā dhūmravarṇaṃ satejasam |

39.2३९.२

चन्द्रेण पूरयेद् वायुं बीजं षोडशकैः सुधीः ॥ (३९।२)

candreṇa pūrayed vāyuṃ bījaṃ ṣoḍaśakaiḥ sudhīḥ ||

40.1४०.१

चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत् । (४०।१)

catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet |

40.2४०.२

द्वात्रिंशन्मात्रया वायुं सूर्यनाड्या च रेचयेत् ॥ (४०।२)

dvātriṃśanmātrayā vāyuṃ sūryanāḍyā ca recayet ||

41.1४१.१

नाभिमूलाद् वह्निम् उत्थाप्य ध्यायेत् तेजो ऽवनीयुतम् । (४१।१)

nābhimūlād vahnim utthāpya dhyāyet tejo 'vanīyutam |

41.2४१.२

वह्निबीजं षोडशेन सूर्यनाड्या च पूरयेत् ॥ (४१।२)

vahnibījaṃ ṣoḍaśena sūryanāḍyā ca pūrayet ||

42.1४२.१

चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत् । (४२।१)

catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet |

42.2४२.२

द्वात्रिंशन्मात्रया वायुं शशिनाड्या च रेचयेत् ॥ (४२।२)

dvātriṃśanmātrayā vāyuṃ śaśināḍyā ca recayet ||

43.1४३.१

नासाग्रे शशधृग्बिम्बं ध्यात्वा ज्योत्स्नासमन्वितम् । (४३।१)

nāsāgre śaśadhṛgbimbaṃ dhyātvā jyotsnāsamanvitam |

43.2४३.२

ठं बीजं षोडशेनैव इडया पूरयेन् मरुत् ॥ (४३।२)

ṭhaṃ bījaṃ ṣoḍaśenaiva iḍayā pūrayen marut ||

44.1४४.१

चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत् । (४४।१)

catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet |

44.2४४.२

अमृतप्लावितं ध्यात्वा प्राणायामं समभ्यसेत् ॥ (४४।२)

amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset ||

45.1४५.१

एवं बीजं षोडशेनैव सूर्यनाड्या च पूरयेत् । (४५।१)

evaṃ bījaṃ ṣoḍaśenaiva sūryanāḍyā ca pūrayet |

45.2४५.२

द्वात्रिंशेन लकारेण दृढं भाव्यं विरेचयेत् ॥ (४५।२)

dvātriṃśena lakāreṇa dṛḍhaṃ bhāvyaṃ virecayet ||

46.1४६.१

एवंविधां नाडीशुद्धिं कृत्वा नाडीं विशोधयेत् । (४६।१)

evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet |

46.2४६.२

दृढो भूत्वासनं कृत्वा प्राणायामं समाचरेत् ॥ (४६।२)

dṛḍho bhūtvāsanaṃ kṛtvā prāṇāyāmaṃ samācaret ||

47.1४७.१

सहितः सूर्यभेदश् च उज्जायी शीतली तथा । (४७।१)

sahitaḥ sūryabhedaś ca ujjāyī śītalī tathā |

47.2४७.२

भस्त्रिका भ्रामरी मूर्छा केवली चाष्ट कुम्भिकाः ॥ (४७।२)

bhastrikā bhrāmarī mūrchā kevalī cāṣṭa kumbhikāḥ ||

48.1४८.१

सहितौ द्विविधौ प्रोक्तौ प्राणायामं समाचरेत् । (४८।१)

sahitau dvividhau proktau prāṇāyāmaṃ samācaret |

48.2४८.२

सगर्भो बीजम् उच्चार्य निर्गर्भो बीजवर्जितः । (४८।२)

sagarbho bījam uccārya nirgarbho bījavarjitaḥ |

48.3४८.३

प्राणायामं सगर्भं च प्रथमं कथयामि ते ॥ (४८।३)

prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te ||

49.1४९.१

सुखासने चोपविश्य प्राङ्मुखो वाप्य् उदङ्मुखः । (४९।१)

sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ |

49.2४९.२

ध्यायेद् विधिं रजोगुणं रक्तवर्णम् अवर्णकम् ॥ (४९।२)

dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam ||

50.1५०.१

इडया पूरयेद् वायुं मात्रया षोडशैः सुधीः । (५०।१)

iḍayā pūrayed vāyuṃ mātrayā ṣoḍaśaiḥ sudhīḥ |

50.2५०.२

पूरकान्ते कुम्भकाद्ये कर्तव्यस् तूड्डीयानकः ॥ (५०।२)

pūrakānte kumbhakādye kartavyas tūḍḍīyānakaḥ ||

51.1५१.१

सत्त्वमयं हरिं ध्यात्वा उकारैः शुक्लवर्णकैः । (५१।१)

sattvamayaṃ hariṃ dhyātvā ukāraiḥ śuklavarṇakaiḥ |

51.2५१.२

चतुःषष्ट्या च मात्रया अनिलं कुम्भकं चरेत् । (५१।२)

catuḥṣaṣṭyā ca mātrayā anilaṃ kumbhakaṃ caret |

51.3५१.३

कुम्भकान्ते रेचकाद्ये कर्तव्यं च जालंधरम् ॥ (५१।३)

kumbhakānte recakādye kartavyaṃ ca jālaṃdharam ||

52.1५२.१

रुद्रं तमोगुणं ध्यात्वा मकारैः कृष्णवर्णकैः । (५२।१)

rudraṃ tamoguṇaṃ dhyātvā makāraiḥ kṛṣṇavarṇakaiḥ |

52.2५२.२

द्वात्रिंशन्मात्रया चैव रेचयेद् विधिना पुनः ॥ (५२।२)

dvātriṃśanmātrayā caiva recayed vidhinā punaḥ ||

53.1५३.१

पुनः पिङ्गलयापूर्य कुम्भकेनैव धारयेत् । (५३।१)

punaḥ piṅgalayāpūrya kumbhakenaiva dhārayet |

53.2५३.२

इडया रेचयेत् पश्चात् तद्बीजेन क्रमेण तु ॥ (५३।२)

iḍayā recayet paścāt tadbījena krameṇa tu ||

54.1५४.१

अनुलोमविलोमेन वारं वारं च साधयेत् । (५४।१)

anulomavilomena vāraṃ vāraṃ ca sādhayet |

54.2५४.२

पूरकान्ते कुम्भकाद्ये धृतं नासापुटद्वयम् । (५४।२)

pūrakānte kumbhakādye dhṛtaṃ nāsāpuṭadvayam |

54.3५४.३

कनिष्ठानामिकाङ्गुष्ठैस् तर्जनीमध्यमे विना ॥ (५४।३)

kaniṣṭhānāmikāṅguṣṭhais tarjanīmadhyame vinā ||

55.1५५.१

प्राणायामं निगर्भं तु विना बीजेन जायते । (५५।१)

prāṇāyāmaṃ nigarbhaṃ tu vinā bījena jāyate |

55.2५५.२

वामजानूपरिन्यस्तवामपाणितलं भ्रमेत् । (५५।२)

vāmajānūparinyastavāmapāṇitalaṃ bhramet |

55.3५५.३

मात्रादिशतपर्यन्तं पूरकुम्भकरेचनम् ॥ (५५।३)

mātrādiśataparyantaṃ pūrakumbhakarecanam ||

56.1५६.१

उत्तमा विंशतिर् मात्रा मध्यमा षोडशी स्मृता । (५६।१)

uttamā viṃśatir mātrā madhyamā ṣoḍaśī smṛtā |

56.2५६.२

अधमा द्वादशी मात्रा प्राणायामास् त्रिधा स्मृताः ॥ (५६।२)

adhamā dvādaśī mātrā prāṇāyāmās tridhā smṛtāḥ ||

57.1५७.१

अधमाज् जायते घर्मो मेरुकम्पश् च मध्यमात् । (५७।१)

adhamāj jāyate gharmo merukampaś ca madhyamāt |

57.2५७.२

उत्तमाच् च भूमित्यागस् त्रिविधं सिद्धिलक्षणम् ॥ (५७।२)

uttamāc ca bhūmityāgas trividhaṃ siddhilakṣaṇam ||

58.1५८.१

प्राणायामात् खेचरत्वं प्राणायामाद् रोगनाशनम् । (५८।१)

prāṇāyāmāt khecaratvaṃ prāṇāyāmād roganāśanam |

58.2५८.२

प्राणायामाद् बोधयेच् छक्तिं प्राणायामान् मनोन्मनी । (५८।२)

prāṇāyāmād bodhayec chaktiṃ prāṇāyāmān manonmanī |

58.3५८.३

आनन्दो जायते चित्ते प्राणायामी सुखी भवेत् ॥ (५८।३)

ānando jāyate citte prāṇāyāmī sukhī bhavet ||

59.1५९.१

कथितं सहितं कुम्भं सूर्यभेदनकं शृणु । (५९।१)

kathitaṃ sahitaṃ kumbhaṃ sūryabhedanakaṃ śṛṇu |

59.2५९.२

पूरयेत् सूर्यनाड्या च यथाशक्ति बहिर्मरुत् ॥ (५९।२)

pūrayet sūryanāḍyā ca yathāśakti bahirmarut ||

60.1६०.१

धारयेद् बहुयत्नेन कुम्भकेन जलंधरैः । (६०।१)

dhārayed bahuyatnena kumbhakena jalaṃdharaiḥ |

60.2६०.२

यावत् स्वेदं नखकेशाभ्यां तावत् कुर्वन्तु कुम्भकम् ॥ (६०।२)

yāvat svedaṃ nakhakeśābhyāṃ tāvat kurvantu kumbhakam ||

61.1६१.१

प्राणो ऽपानः समानश् चोदानव्यानौ च वायवः । (६१।१)

prāṇo 'pānaḥ samānaś codānavyānau ca vāyavaḥ |

61.2६१.२

नागः कूर्मश् च कृकरो देवदत्तो धनंजयः ॥ (६१।२)

nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ ||

62.1६२.१

हृदि प्राणो वहेन् नित्यम् अपानो गुदमण्डले । (६२।१)

hṛdi prāṇo vahen nityam apāno gudamaṇḍale |

62.2६२.२

समानो नाभिदेशे तु उदानः कण्ठमध्यगः । (६२।२)

samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ |

62.3६२.३

व्यानो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः ॥ (६२।३)

vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ ||

63.1६३.१

प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः । (६३।१)

prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ |

63.2६३.२

तेषाम् अपि च पञ्चानां स्थानानि च वदाम्य् अहम् ॥ (६३।२)

teṣām api ca pañcānāṃ sthānāni ca vadāmy aham ||

64.1६४.१

उद्गारे नाग आख्यातः कूर्मस् तून्मीलने स्मृतः । (६४।१)

udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ |

64.2६४.२

कृकरः क्षुत्तृषे ज्ञेयो देवदत्तो विजृम्भणे । (६४।२)

kṛkaraḥ kṣuttṛṣe jñeyo devadatto vijṛmbhaṇe |

64.3६४.३

न जहाति मृते क्वापि सर्वव्यापी धनंजयः ॥ (६४।३)

na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ ||

65.1६५.१

नागो गृह्णाति चैतन्यं कूर्मश् चैव निमेषणम् । (६५।१)

nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam |

65.2६५.२

क्षुत्तृषं कृकरश् चैव जृम्भणं चतुर्थेन तु । (६५।२)

kṣuttṛṣaṃ kṛkaraś caiva jṛmbhaṇaṃ caturthena tu |

65.3६५.३

भवेद् धनंजयाच् छब्दं क्षणमात्रं न निःसरेत् ॥ (६५।३)

bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret ||

66.1६६.१

सर्वं च सूर्यकं भित्वा नाभिमूलात् समुद्धरेत् ॥ (६६।१)

sarvaṃ ca sūryakaṃ bhitvā nābhimūlāt samuddharet ||

67.1६७.१

इडया रेचयेत् पश्चाद् धैर्येणाखण्डवेगतः । (६७।१)

iḍayā recayet paścād dhairyeṇākhaṇḍavegataḥ |

67.2६७.२

पुनः सूर्येण चाकृष्य कुम्भयित्वा यथाविधि ॥ (६७।२)

punaḥ sūryeṇa cākṛṣya kumbhayitvā yathāvidhi ||

68.1६८.१

रेचयित्वा साधयेत् तु क्रमेण च पुनः पुनः । (६८।१)

recayitvā sādhayet tu krameṇa ca punaḥ punaḥ |

68.2६८.२

कुम्भकः सूर्यभेदस् तु जरामृत्युविनाशकः ॥ (६८।२)

kumbhakaḥ sūryabhedas tu jarāmṛtyuvināśakaḥ ||

69.1६९.१

बोधयेत् कुण्डलीं शक्तिं देहानलविवर्धनम् । (६९।१)

bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam |

69.2६९.२

इति ते कथितं चण्ड सूर्यभेदनम् उत्तमम् ॥ (६९।२)

iti te kathitaṃ caṇḍa sūryabhedanam uttamam ||

70.1७०.१

नासाभ्यां वायुम् आकृष्य मुखमध्ये च धारयेत् । (७०।१)

nāsābhyāṃ vāyum ākṛṣya mukhamadhye ca dhārayet |

70.2७०.२

हृद्गलाभ्यां समाकृष्य वायुं वक्त्रेण धारयेत् ॥ (७०।२)

hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet ||

71.1७१.१

मुखं प्रफुल्लं संरक्ष्य कुर्याज् जालंधरं ततः । (७१।१)

mukhaṃ praphullaṃ saṃrakṣya kuryāj jālaṃdharaṃ tataḥ |

71.2७१.२

आशक्ति कुम्भकं कृत्वा धारयेद् अविरोधतः ॥ (७१।२)

āśakti kumbhakaṃ kṛtvā dhārayed avirodhataḥ ||

72.1७२.१

उज्जायीकुम्भकं कृत्वा सर्वकार्याणि साधयेत् । (७२।१)

ujjāyīkumbhakaṃ kṛtvā sarvakāryāṇi sādhayet |

72.2७२.२

न भवेत् कफरोगश् च क्रूरवायुर् अजीर्णकम् ॥ (७२।२)

na bhavet kapharogaś ca krūravāyur ajīrṇakam ||

73.1७३.१

आमवातः क्षयः कासो ज्वरप्लीहा न जायते । (७३।१)

āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate |

73.2७३.२

जरामृत्युविनाशाय चोज्जायीं साधयेन् नरः ॥ (७३।२)

jarāmṛtyuvināśāya cojjāyīṃ sādhayen naraḥ ||

74.1७४.१

जिह्वया वायुम् आकृष्य उदरे पूरयेच् छनैः । (७४।१)

jihvayā vāyum ākṛṣya udare pūrayec chanaiḥ |

74.2७४.२

क्षणं च कुम्भकं कृत्वा नासाभ्यां रेचयेत् पुनः ॥ (७४।२)

kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ ||

75.1७५.१

सर्वदा साधयेद् योगी शीतलीकुम्भकं शुभम् । (७५।१)

sarvadā sādhayed yogī śītalīkumbhakaṃ śubham |

75.2७५.२

अजीर्णं कफपित्तं च नैव तस्य प्रजायते । (७५।२)

ajīrṇaṃ kaphapittaṃ ca naiva tasya prajāyate |

75.3७५.३

ततो वायुं च नासाभ्याम् उभाभ्यां चालयेच् छनैः ॥ (७५।३)

tato vāyuṃ ca nāsābhyām ubhābhyāṃ cālayec chanaiḥ ||

76.1७६.१

एवं विंशतिवारं च कृत्वा कुर्याच्च कुम्भकम् । (७६।१)

evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam |

76.2७६.२

तदन्ते चालयेद् वायुं पूर्वोक्तं च यथाविधि ॥ (७६।२)

tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi ||

77.1७७.१

त्रिवारं साधयेद् एनं भस्त्रिकाकुम्भकं सुधीः । (७७।१)

trivāraṃ sādhayed enaṃ bhastrikākumbhakaṃ sudhīḥ |

77.2७७.२

न च रोगो न च क्लेश आरोग्यं च दिने दिने ॥ (७७।२)

na ca rogo na ca kleśa ārogyaṃ ca dine dine ||

78.1७८.१

अर्धरात्रे गते योगी जन्तूनां शब्दवर्जिते । (७८।१)

ardharātre gate yogī jantūnāṃ śabdavarjite |

78.2७८.२

कर्णौ निधाय हस्ताभ्यां कुर्यात् पूरकम् उत्तमम् ॥ (७८।२)

karṇau nidhāya hastābhyāṃ kuryāt pūrakam uttamam ||

79.1७९.१

शृणुयाद् दक्षिणे कर्णे नादम् अन्तर्गतं सुधीः । (७९।१)

śṛṇuyād dakṣiṇe karṇe nādam antargataṃ sudhīḥ |

79.2७९.२

प्रथमं झिञ्झीनादं च वंशीनादं ततः परम् । (७९।२)

prathamaṃ jhiñjhīnādaṃ ca vaṃśīnādaṃ tataḥ param |

79.3७९.३

मेघघर्घरभ्रामरी च घण्टाकांस्यं ततः परम् ॥ (७९।३)

meghaghargharabhrāmarī ca ghaṇṭākāṃsyaṃ tataḥ param ||

80.1८०.१

तुरीभेरीमृदङ्गादिनिनादानकदुन्दुभिः । (८०।१)

turībherīmṛdaṅgādininādānakadundubhiḥ |

80.2८०.२

एवं नानाविधो नादो जायते नित्यम् अभ्यासात् ॥ (८०।२)

evaṃ nānāvidho nādo jāyate nityam abhyāsāt ||

81.1८१.१

अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः । (८१।१)

anāhatasya śabdasya tasya śabdasya yo dhvaniḥ |

81.2८१.२

ध्वनेर् अन्तर्गतं ज्योतिर् ज्योतिरन्तर्गतं मनः ॥ (८१।२)

dhvaner antargataṃ jyotir jyotirantargataṃ manaḥ ||

82.1८२.१

तस्मिंस् तु विलयं याति तद् विष्णोः परमं पदम् । (८२।१)

tasmiṃs tu vilayaṃ yāti tad viṣṇoḥ paramaṃ padam |

82.2८२.२

एवं भ्रामरीसंसिद्धिः समाधिसिद्धिम् आप्नुयात् ॥ (८२।२)

evaṃ bhrāmarīsaṃsiddhiḥ samādhisiddhim āpnuyāt ||

83.1८३.१

मुखे च कुम्भकं कृत्वा भ्रुवोर् अन्तर्गतं मनः । (८३।१)

mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ |

83.2८३.२

संत्यज्य विषयान् सर्वान् मनोमूर्छा सुखप्रदा ॥ (८३।२)

saṃtyajya viṣayān sarvān manomūrchā sukhapradā ||

84.1८४.१

आत्मनि मनसंयोगाद् आनन्दं जायते ध्रुवम् । (८४।१)

ātmani manasaṃyogād ānandaṃ jāyate dhruvam |

84.2८४.२

एवं नानाविधानन्दो जायते नित्यम् अभ्यासात् । (८४।२)

evaṃ nānāvidhānando jāyate nityam abhyāsāt |

84.3८४.३

एवम् अभ्यासयोगेन समाधिसिद्धिम् आप्नुयात् ॥ (८४।३)

evam abhyāsayogena samādhisiddhim āpnuyāt ||

85.1८५.१

भुजङ्गिन्याः श्वासवशाद् अजपा जायते ननु । (८५।१)

bhujaṅginyāḥ śvāsavaśād ajapā jāyate nanu |

85.2८५.२

हंकारेण बहिर् याति सःकारेण विशेत् पुनः ॥ (८५।२)

haṃkāreṇa bahir yāti saḥkāreṇa viśet punaḥ ||

86.1८६.१

षट्शतानि दिवारात्रौ सहस्राण्य् एकविंशतिः । (८६।१)

ṣaṭśatāni divārātrau sahasrāṇy ekaviṃśatiḥ |

86.2८६.२

अजपां नाम गायत्रीं जीवो जपति सर्वदा ॥ (८६।२)

ajapāṃ nāma gāyatrīṃ jīvo japati sarvadā ||

87.1८७.१

मूलाधारे यथा हंसस् तथा हि हृदि पङ्कजे । (८७।१)

mūlādhāre yathā haṃsas tathā hi hṛdi paṅkaje |

87.2८७.२

तथा नासापुटद्वंद्वे त्रिवेणीसंगमागमम् ॥ (८७।२)

tathā nāsāpuṭadvaṃdve triveṇīsaṃgamāgamam ||

88.1८८.१

षण्णवत्यङ्गुलीमानं शरीरं कर्मरूपकम् । (८८।१)

ṣaṇṇavatyaṅgulīmānaṃ śarīraṃ karmarūpakam |

88.2८८.२

देहाद् बहिर्गतो वायुः स्वभावाद् द्वादशाङ्गुलिः ॥ (८८।२)

dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ ||

89.1८९.१

शयने षोडशाङ्गुल्यो भोजने विंशतिस् तथा । (८९।१)

śayane ṣoḍaśāṅgulyo bhojane viṃśatis tathā |

89.2८९.२

चतुर्विंशाङ्गुलिः पन्थे निद्रायां त्रिंशदङ्गुलिः । (८९।२)

caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ |

89.3८९.३

मैथुने षट्त्रिंशद् उक्तं व्यायामे च ततो ऽधिकम् ॥ (८९।३)

maithune ṣaṭtriṃśad uktaṃ vyāyāme ca tato 'dhikam ||

90.1९०.१

स्वभावे ऽस्य गतेर् न्यूने परम् आयुः प्रवर्धते । (९०।१)

svabhāve 'sya gater nyūne param āyuḥ pravardhate |

90.2९०.२

आयुःक्षयो ऽधिके प्रोक्तो मारुते चान्तराद् गते ॥ (९०।२)

āyuḥkṣayo 'dhike prokto mārute cāntarād gate ||

91.1९१.१

तस्मात् प्राणे स्थिते देहे मरणं नैव जायते । (९१।१)

tasmāt prāṇe sthite dehe maraṇaṃ naiva jāyate |

91.2९१.२

वायुना घटसम्बन्धे भवेत् केवलकुम्भकः ॥ (९१।२)

vāyunā ghaṭasambandhe bhavet kevalakumbhakaḥ ||

92.1९२.१

यावज् जीवं जपेन् मन्त्रम् अजपासंख्यकेवलम् । (९२।१)

yāvaj jīvaṃ japen mantram ajapāsaṃkhyakevalam |

92.2९२.२

अद्यावधि धृतं संख्याविभ्रमं केवलीकृते ॥ (९२।२)

adyāvadhi dhṛtaṃ saṃkhyāvibhramaṃ kevalīkṛte ||

93.1९३.१

अत एव हि कर्तव्यः केवलीकुम्भको नरैः । (९३।१)

ata eva hi kartavyaḥ kevalīkumbhako naraiḥ |

93.2९३.२

केवली चाजपासंख्या द्विगुणा च मनोन्मनी ॥ (९३।२)

kevalī cājapāsaṃkhyā dviguṇā ca manonmanī ||

94.1९४.१

नासाभ्यां वायुम् आकृष्य केवलं कुम्भकं चरेत् । (९४।१)

nāsābhyāṃ vāyum ākṛṣya kevalaṃ kumbhakaṃ caret |

94.2९४.२

एकादिकचतुःषष्टिं धारयेत् प्रथमे दिने ॥ (९४।२)

ekādikacatuḥṣaṣṭiṃ dhārayet prathame dine ||

95.1९५.१

केवलीम् अष्टधा कुर्याद् यामे यामे दिने दिने । (९५।१)

kevalīm aṣṭadhā kuryād yāme yāme dine dine |

95.2९५.२

अथवा पञ्चधा कुर्याद् यथा तत् कथयामि ते ॥ (९५।२)

athavā pañcadhā kuryād yathā tat kathayāmi te ||

96.1९६.१

प्रातर् मध्याह्नसायाह्ने मध्यरात्रे चतुर्थके । (९६।१)

prātar madhyāhnasāyāhne madhyarātre caturthake |

96.2९६.२

त्रिसंध्यम् अथवा कुर्यात् सममाने दिने दिने ॥ (९६।२)

trisaṃdhyam athavā kuryāt samamāne dine dine ||

97.1९७.१

पञ्चवारं दिने वृद्धिर् वारैकं च दिने तथा । (९७।१)

pañcavāraṃ dine vṛddhir vāraikaṃ ca dine tathā |

97.2९७.२

अजपापरिमाणे च यावत् सिद्धिः प्रजायते ॥ (९७।२)

ajapāparimāṇe ca yāvat siddhiḥ prajāyate ||

98.1९८.१

प्राणायामं केवलीं नाम तदा वदति योगवित् । (९८।१)

prāṇāyāmaṃ kevalīṃ nāma tadā vadati yogavit |

98.2९८.२

कुम्भके केवले सिद्धे किं न सिध्यति भूतले ॥ (९८।२)

kumbhake kevale siddhe kiṃ na sidhyati bhūtale ||

Data courtesy of The Digital Corpus of Sanskrit.

GherS, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit