Chapter 5
Select a line for its word-by-word analysis.
पञ्चविंशतिटङ्कैश्च मात्रा शुद्धामिषस्य या । (२।१)
pañcaviṃśatiṭaṅkaiśca mātrā śuddhāmiṣasya yā |
शशादा नाल्पमात्रार्हा लङ्घनेऽपि तथाक्षमाः । (३।१)
śaśādā nālpamātrārhā laṅghane'pi tathākṣamāḥ |
जातिमात्रेण निर्देशास्तेषां क्रीडा तु नो हिता ॥ (३।२)
jātimātreṇa nirdeśāsteṣāṃ krīḍā tu no hitā ||
ते पञ्चहीनां तासां तु पुंव्यक्तीनां प्रयोजयेत् । (४।१)
te pañcahīnāṃ tāsāṃ tu puṃvyaktīnāṃ prayojayet |
शुद्धानां वेसराणां तु चूलाङ्कानां पुरोदिताः ॥ (५।२)
śuddhānāṃ vesarāṇāṃ tu cūlāṅkānāṃ puroditāḥ ||
तावन्मात्रा सिचानानां यथासात्म्येन कल्पिता ॥ (६।१)
tāvanmātrā sicānānāṃ yathāsātmyena kalpitā ||
चेटाटोनाधूतिकानाम् एकद्वित्रिक्रमात् कृशाम् ॥ (७।२)
ceṭāṭonādhūtikānām ekadvitrikramāt kṛśām ||
प्रकल्पयेदिमां मात्रां द्विवारं तेषु योजयेत् । (८।१)
prakalpayedimāṃ mātrāṃ dvivāraṃ teṣu yojayet |
मात्रैषा हि मृगव्यायां नियुक्तानां प्रकीर्तिता ॥ (१०।२)
mātraiṣā hi mṛgavyāyāṃ niyuktānāṃ prakīrtitā ||
पक्षमोक्षाय ज्यैष्ठादावन्यां मात्रां प्रकल्पयेत् । (११।१)
pakṣamokṣāya jyaiṣṭhādāvanyāṃ mātrāṃ prakalpayet |
ग्रीष्मे प्रचण्डमार्तण्डतापसंतापिता दिशः ॥ (११।२)
grīṣme pracaṇḍamārtaṇḍatāpasaṃtāpitā diśaḥ ||
न भान्ति तरवश्चैव शीर्णपर्णैरनाश्रयाः । (१२।१)
na bhānti taravaścaiva śīrṇaparṇairanāśrayāḥ |
झञ्झानिला धूलिजालैराविला वान्ति सर्वतः ॥ (१२।२)
jhañjhānilā dhūlijālairāvilā vānti sarvataḥ ||
पयांसि क्वथितानीव स्रोतस्विन्यः स्रवन्ति च । (१३।१)
payāṃsi kvathitānīva srotasvinyaḥ sravanti ca |
निर्वैरा विगतोत्साहा लक्ष्यन्ते ज्वरिता इव ॥ (१३।३)
nirvairā vigatotsāhā lakṣyante jvaritā iva ||
तेषां दावाग्निसंकाशो ग्रीष्मो भवति दुःसहः ॥ (१६।२)
teṣāṃ dāvāgnisaṃkāśo grīṣmo bhavati duḥsahaḥ ||
विविक्ते बन्धनं कार्यं जालसंरुद्धमक्षिके । (१९।१)
vivikte bandhanaṃ kāryaṃ jālasaṃruddhamakṣike |
अथवोद्यानसद्वेद्यां रक्षितायां सुरक्षिभिः ॥ (१९।२)
athavodyānasadvedyāṃ rakṣitāyāṃ surakṣibhiḥ ||
सरत्कुल्याम्बुशीतायां निविडोच्छ्रितभूरुहैः । (२०।१)
saratkulyāmbuśītāyāṃ niviḍocchritabhūruhaiḥ |
नैकत्र बहवः स्थाप्याः द्वित्राः स्थाप्याः पृथक् पृथक् ॥ (२३।२)
naikatra bahavaḥ sthāpyāḥ dvitrāḥ sthāpyāḥ pṛthak pṛthak ||
न च तेभ्यः सुशीताम्बु वारवारं प्रदर्शयेत् । (२४।१)
na ca tebhyaḥ suśītāmbu vāravāraṃ pradarśayet |
वाजादिकलविङ्कादेर् मांसं नातिचिरस्थितम् ॥ (२४।२)
vājādikalaviṅkāder māṃsaṃ nāticirasthitam ||
लघु रुच्यं प्रदातव्यं यथा परिणमेत्तथा । (२५।१)
laghu rucyaṃ pradātavyaṃ yathā pariṇamettathā |
पुष्ट्यै प्रवर्धयेद् एषां मात्रामथ शनैःशनैः ॥ (२५।२)
puṣṭyai pravardhayed eṣāṃ mātrāmatha śanaiḥśanaiḥ ||
स्नानार्थं वारिपूर्णाश्च स्थापयेत् कुण्डिकाः पुरः । (२६।१)
snānārthaṃ vāripūrṇāśca sthāpayet kuṇḍikāḥ puraḥ |
भुक्तं यद्युद्गिरेयुस्ते मांसमेषां तदौषधम् ॥ (२६।२)
bhuktaṃ yadyudgireyuste māṃsameṣāṃ tadauṣadham ||
भुक्तं परिणमेन्नैषां यदि देयं तदामिषम् ॥ (२७।२)
bhuktaṃ pariṇamennaiṣāṃ yadi deyaṃ tadāmiṣam ||
सद्योहृतं च मद्याम्बुसिक्तं चन्द्राङ्कसंयुतम् । (२८।१)
sadyohṛtaṃ ca madyāmbusiktaṃ candrāṅkasaṃyutam |
किंवा भङ्गारसोन्मिश्रं पश्चात् तप्ताम्बु पाययेत् । (२९।१)
kiṃvā bhaṅgārasonmiśraṃ paścāt taptāmbu pāyayet |
युक्त्या यथा नोद्विजेरन् युक्तिः सर्वत्र साधिका । (२९।२)
yuktyā yathā nodvijeran yuktiḥ sarvatra sādhikā |
कार्श्यं यदि भजेयुस्ते तदा स्त्रीस्तन्यसंयुतम् ॥ (२९।३)
kārśyaṃ yadi bhajeyuste tadā strīstanyasaṃyutam ||
एवं क्रमेण क्षुद्वृद्धिं विधाय परिबृंहयेत् । (३१।१)
evaṃ krameṇa kṣudvṛddhiṃ vidhāya paribṛṃhayet |
मात्रासंवर्धनैर् नित्यम् उपचारैः सुशीतलैः ॥ (३१।२)
mātrāsaṃvardhanair nityam upacāraiḥ suśītalaiḥ ||
तथैवोपचरेत्तास्तु यथा पुष्टाः स्वपक्षकान् । (३५।१)
tathaivopacarettāstu yathā puṣṭāḥ svapakṣakān |
त्यक्त्वा नवान् प्रपद्येरन् सर्पास्त्वचमिव द्रुतम् ॥ (३५।२)
tyaktvā navān prapadyeran sarpāstvacamiva drutam ||
यदि कालात्ययं कुर्युः पक्षमोक्षाय सामिषम् । (३६।१)
yadi kālātyayaṃ kuryuḥ pakṣamokṣāya sāmiṣam |
नैर्घृण्याद्वेगमाच्छादिकरणान्नैष शस्यते ॥ (३७।२)
nairghṛṇyādvegamācchādikaraṇānnaiṣa śasyate ||
द्विरत्तिमात्रमथवा सैन्धवं स्थूलपक्षिणाम् । (३९।१)
dvirattimātramathavā saindhavaṃ sthūlapakṣiṇām |
लघूनां रत्तिकार्धं तु समांसं दिवसत्रयम् ॥ (३९।२)
laghūnāṃ rattikārdhaṃ tu samāṃsaṃ divasatrayam ||
तज्ज्ञैः सुशिक्षिताः श्येना भवन्त्यानन्ददायिनः । (४०।१)
tajjñaiḥ suśikṣitāḥ śyenā bhavantyānandadāyinaḥ |
अतः सुखविघातार्थं नॄणां प्राग्दृष्टदोषतः ॥ (४०।२)
ataḥ sukhavighātārthaṃ nṝṇāṃ prāgdṛṣṭadoṣataḥ ||
तेषां चोद्देशतो वक्ष्ये ऽनिग्रहायौषधक्रमम् ॥ (४१।२)
teṣāṃ coddeśato vakṣye 'nigrahāyauṣadhakramam ||
चतुर्धा श्वासवैषम्यवृत्तिः शाखेति कथ्यते । (४२।१)
caturdhā śvāsavaiṣamyavṛttiḥ śākheti kathyate |
अभिघातसमुत्थैका श्लेष्मजान्या च पित्तजा ॥ (४२।२)
abhighātasamutthaikā śleṣmajānyā ca pittajā ||
क्षैण्यजान्या शोषितेति कृच्छ्रसाध्या तु सा स्मृता । (४३।१)
kṣaiṇyajānyā śoṣiteti kṛcchrasādhyā tu sā smṛtā |
एषां शाखारुजार्तानां अन्धकारे ऽतिनिर्जने ॥ (४३।२)
eṣāṃ śākhārujārtānāṃ andhakāre 'tinirjane ||
इष्यते स्थानम् अल्पाल्पम् आमिषं साम्बु दापयेत् । (४४।१)
iṣyate sthānam alpālpam āmiṣaṃ sāmbu dāpayet |
घातजे वोलयुग्मांसं देयं गात्रेऽपि सव्यथे ॥ (४४।२)
ghātaje volayugmāṃsaṃ deyaṃ gātre'pi savyathe ||
हरिद्रां लेपयेद् युक्त्या सेकः पर्युषिताम्बुना । (४५।१)
haridrāṃ lepayed yuktyā sekaḥ paryuṣitāmbunā |
श्लेष्मजे मारिचं चूर्णं नस्ये प्राक् संप्रयोजयेत् ॥ (४५।२)
śleṣmaje māricaṃ cūrṇaṃ nasye prāk saṃprayojayet ||
शिग्रुत्वक्चूर्णयुग्मांसं देयं तप्ताम्बु पाययेत् । (४६।१)
śigrutvakcūrṇayugmāṃsaṃ deyaṃ taptāmbu pāyayet |
समांसैर्गुटिका देया मांसात् प्रागेव युक्तितः ॥ (४७।२)
samāṃsairguṭikā deyā māṃsāt prāgeva yuktitaḥ ||
पश्चान्मासं वर्त्तिकादेर् देयम् अल्पं सवारि च । (४८।१)
paścānmāsaṃ varttikāder deyam alpaṃ savāri ca |
क्षैण्यजा दुर्धरा प्रोक्ता तथापि समुदीर्यते ॥ (४८।२)
kṣaiṇyajā durdharā proktā tathāpi samudīryate ||
क्रिया किलायुषः शेषे फलन्त्यपि सुयोजिताः । (४९।१)
kriyā kilāyuṣaḥ śeṣe phalantyapi suyojitāḥ |
शस्यते कलविङ्कादेर् नरासृक्सिक्तम् आमिषम् ॥ (४९।२)
śasyate kalaviṅkāder narāsṛksiktam āmiṣam ||
किटेर् अपि प्रयोक्तव्यम् अल्पम् अल्पं यथाबलम् ॥ (५०।२)
kiṭer api prayoktavyam alpam alpaṃ yathābalam ||
धेन्वाश्च नवनीतेन पत्रिणां मिश्रमामिषम् । (५१।१)
dhenvāśca navanītena patriṇāṃ miśramāmiṣam |
दद्यात्तप्ताम्बु युक्त्या च ततस्तदनुपाययेत् ॥ (५१।२)
dadyāttaptāmbu yuktyā ca tatastadanupāyayet ||
अथैषां शाखिनां शस्ता मिमायी या प्रकीर्त्यते ॥ (५२।२)
athaiṣāṃ śākhināṃ śastā mimāyī yā prakīrtyate ||
स्थूलानां श्यामनेत्राणां रत्तिकात्रितयं भवेत् । (५३।१)
sthūlānāṃ śyāmanetrāṇāṃ rattikātritayaṃ bhavet |
मात्रां तेषां तु सूक्ष्माणां तदर्द्धमुपकल्पयेत् ॥ (५३।२)
mātrāṃ teṣāṃ tu sūkṣmāṇāṃ tadarddhamupakalpayet ||
स्थूलानां पाटलाक्षाणां मात्रा द्वे कृष्णले स्मृता । (५४।१)
sthūlānāṃ pāṭalākṣāṇāṃ mātrā dve kṛṣṇale smṛtā |
सूक्ष्माणां कृष्णलैका तु मात्रा भवति चौषधे ॥ (५४।२)
sūkṣmāṇāṃ kṛṣṇalaikā tu mātrā bhavati cauṣadhe ||
स्तन्यं भङ्गारसोन्मिश्रं मांसेन सह योजयेत् । (५५।१)
stanyaṃ bhaṅgārasonmiśraṃ māṃsena saha yojayet |
अञ्जयेच्चाक्षिणी नित्यं दन्तचर्वितजीरकैः ॥ (५५।२)
añjayeccākṣiṇī nityaṃ dantacarvitajīrakaiḥ ||
त्रिसप्तकदिनान्येव युज्यन्ते सर्वशाखिनां । (५६।१)
trisaptakadinānyeva yujyante sarvaśākhināṃ |
शिग्रुमूलत्वचश्चूर्णं अर्कक्षीरेण मेलितम् । (५८।१)
śigrumūlatvacaścūrṇaṃ arkakṣīreṇa melitam |
मांसेन देयं सर्वेषां शाखिनां दिनसप्तकम् ॥ (५८।२)
māṃsena deyaṃ sarveṣāṃ śākhināṃ dinasaptakam ||
पतन्ति तापात् धूमाच्च घातात् पुष्पाणि नेत्रयोः । (५९।१)
patanti tāpāt dhūmācca ghātāt puṣpāṇi netrayoḥ |
चाङ्गेरीमूलचूर्णेन श्लक्ष्णेणापूरयेद्दृशौ ॥ (५९।२)
cāṅgerīmūlacūrṇena ślakṣṇeṇāpūrayeddṛśau ||
मुच्यते पुष्पकैः श्येनस्तथाष्टादशभिर्दिनैः । (६०।१)
mucyate puṣpakaiḥ śyenastathāṣṭādaśabhirdinaiḥ |
पानभोजनवैषम्यात् पित्तोद्रेकाच्च नेत्रयोः । (६३।१)
pānabhojanavaiṣamyāt pittodrekācca netrayoḥ |
शोफः संजायते वक्त्रे तथा पाकश्च दुर्धरः ॥ (६३।२)
śophaḥ saṃjāyate vaktre tathā pākaśca durdharaḥ ||
श्लेष्माधिक्यादपि तथा दुश्चिकित्स्यः प्रजायते । (६४।१)
śleṣmādhikyādapi tathā duścikitsyaḥ prajāyate |
क्षीरिण्याश् छल्लिकाचूर्णं तिलतैलेन मेलितम् ॥ (६४।२)
kṣīriṇyāś challikācūrṇaṃ tilatailena melitam ||
श्लेष्मजे तु शिरे वेध्ये तप्तलौहशलाकया ॥ (६५।२)
śleṣmaje tu śire vedhye taptalauhaśalākayā ||
मुखपाके नृमूत्रेण मिश्रं मांसं प्रशस्यते । (६६।१)
mukhapāke nṛmūtreṇa miśraṃ māṃsaṃ praśasyate |
ततः प्रक्षालनम् अपि कार्यम् आस्यविशुद्धये ॥ (६६।२)
tataḥ prakṣālanam api kāryam āsyaviśuddhaye ||
बन्धकाठिन्ययोगाच्च भयाद् उत्पतनान्मुहुः । (६७।१)
bandhakāṭhinyayogācca bhayād utpatanānmuhuḥ |
जायते सव्रणः शोफः पदयोर् गर्दभीति सा ॥ (६७।२)
jāyate savraṇaḥ śophaḥ padayor gardabhīti sā ||
पिप्पलौदुम्बरे क्षीरे मेलयित्वा विलेपयेत् ॥ (६८।२)
pippalaudumbare kṣīre melayitvā vilepayet ||
चरणौ गर्दभीशान्त्यै सप्तवासरम् अन्वहम् । (६९।१)
caraṇau gardabhīśāntyai saptavāsaram anvaham |
शान्तिमभ्येति तेषां हि विट्प्रलेपेन वा पुनः ॥ (६९।२)
śāntimabhyeti teṣāṃ hi viṭpralepena vā punaḥ ||
नवनीतेन तु स्विन्नां लिप्त्वा वस्त्रेण वेष्टयेत् ॥ (७०।२)
navanītena tu svinnāṃ liptvā vastreṇa veṣṭayet ||
द्वादशाहे प्रलेपेन मुच्यते चान्द्यपि स्फुटम् ॥ (७१।२)
dvādaśāhe pralepena mucyate cāndyapi sphuṭam ||
द्वे निशे तुत्थकं भार्गी मदनं चार्कजं पयः । (७३।१)
dve niśe tutthakaṃ bhārgī madanaṃ cārkajaṃ payaḥ |
दातव्यं हि यथा मात्रा त्रिसप्तकदिनावधि । (७४।१)
dātavyaṃ hi yathā mātrā trisaptakadināvadhi |
क्लिन्नात्पर्युषिताच्चैव दुर्जरादामिषाशनात् ॥ (७४।२)
klinnātparyuṣitāccaiva durjarādāmiṣāśanāt ||
नानाविधा हि कृमयो दृश्यन्ते तेषु योजयेत् । (७५।१)
nānāvidhā hi kṛmayo dṛśyante teṣu yojayet |
द्विभागेन विडङ्गानि कस्तूरीं चैकभागतः ॥ (७५।२)
dvibhāgena viḍaṅgāni kastūrīṃ caikabhāgataḥ ||
भयादस्नायिनां गात्रे लिक्षा यूकाः पतन्ति च ॥ (७६।२)
bhayādasnāyināṃ gātre likṣā yūkāḥ patanti ca ||
तेषां नाशाय मागध्याश् चूर्णेनोद्धूलनं हितम् । (७७।१)
teṣāṃ nāśāya māgadhyāś cūrṇenoddhūlanaṃ hitam |
बिल्वमूलत्वचं चापि पिष्ट्वा गोमूत्रवारिणा ॥ (७७।२)
bilvamūlatvacaṃ cāpi piṣṭvā gomūtravāriṇā ||
तल्लेपादेव नश्यन्ति यूका लिख्या न संशयः ॥ (७८।१)
tallepādeva naśyanti yūkā likhyā na saṃśayaḥ ||
इत्यगदैर् उदितैर् उपचारैः संविहितैः सुहितैश्च यथावत् । (७९।१)
ityagadair uditair upacāraiḥ saṃvihitaiḥ suhitaiśca yathāvat |
रोगविमुक्ततया परिपुष्टान् वीक्ष्य ततो विनयेन्मृगयायै ॥ (७९।२)
rogavimuktatayā paripuṣṭān vīkṣya tato vinayenmṛgayāyai ||
इति श्रीरुद्रदेवविरचिते श्यैनिके शास्त्रे चिकित्साधिकारपरिच्छेदः पञ्चमः ॥ (८०।१)
iti śrīrudradevaviracite śyainike śāstre cikitsādhikāraparicchedaḥ pañcamaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.