Chapter 6
Select a line for its word-by-word analysis.
अथैवमगदाद्यैश्च पूर्वोक्तैर् बृंहणीयकैः । (१।१)
athaivamagadādyaiśca pūrvoktair bṛṃhaṇīyakaiḥ |
हृष्टान् पुष्टान् समालक्ष्य नूतनच्छदशोभितान् ॥ (१।२)
hṛṣṭān puṣṭān samālakṣya nūtanacchadaśobhitān ||
पूर्वोक्तविधिना रक्तान् विधायाह्वाययेत् पुनः ॥ (४।२)
pūrvoktavidhinā raktān vidhāyāhvāyayet punaḥ ||
ये श्येना नीडनिलया लब्धाः प्राग्बन्धपोषिताः । (६।१)
ye śyenā nīḍanilayā labdhāḥ prāgbandhapoṣitāḥ |
बहुधा शिक्षयेत् प्राज्ञः पाटवक्रमवर्धनैः । (७।१)
bahudhā śikṣayet prājñaḥ pāṭavakramavardhanaiḥ |
सुशिष्या इव ते श्येनाः शिक्षां गृह्णन्ति सत्वरम् ॥ (७।२)
suśiṣyā iva te śyenāḥ śikṣāṃ gṛhṇanti satvaram ||
सम्यक् सुशिक्षितानां तु श्येनानां मरुतामिव । (८।१)
samyak suśikṣitānāṃ tu śyenānāṃ marutāmiva |
नाकार्यं विद्यते किंचित् नासाध्यं योग्यवस्तुषु ॥ (८।२)
nākāryaṃ vidyate kiṃcit nāsādhyaṃ yogyavastuṣu ||
संधारयेयुस्तान् हस्तैर्युवानो मृष्टकुण्डलाः । (९।१)
saṃdhārayeyustān hastairyuvāno mṛṣṭakuṇḍalāḥ |
शिक्षावैशद्यमालक्ष्य तदैषां स्वयमीश्वरः । (१०।१)
śikṣāvaiśadyamālakṣya tadaiṣāṃ svayamīśvaraḥ |
द्रष्टुं विनोदं निर्गच्छेत् आखेटोदितवासरे ॥ (१०।२)
draṣṭuṃ vinodaṃ nirgacchet ākheṭoditavāsare ||
प्रातरेव शरन्मेघैर्यायाद्रुद्धे दिवाकरे ॥ (११।२)
prātareva śaranmeghairyāyādruddhe divākare ||
वाह्यमानः स्वयं स्वश्वैः श्येनवाहैश्च संयुतः । (१४।१)
vāhyamānaḥ svayaṃ svaśvaiḥ śyenavāhaiśca saṃyutaḥ |
प्रच्छाये भूधरेन्द्राणां यथाकालम् अतन्द्रितः ॥ (१४।२)
pracchāye bhūdharendrāṇāṃ yathākālam atandritaḥ ||
शरत्काले पृष्ठतोऽर्कं कृत्वा दूरे तु नो हितम् ॥ (१५।२)
śaratkāle pṛṣṭhato'rkaṃ kṛtvā dūre tu no hitam ||
प्रचारयेत् पदातींश्च गिरिद्रोण्यन्तरादिषु ॥ (१६।२)
pracārayet padātīṃśca giridroṇyantarādiṣu ||
तत्रस्थास्ते च पश्येरन् पक्षिणामपि सर्वतः । (१७।१)
tatrasthāste ca paśyeran pakṣiṇāmapi sarvataḥ |
उड्डीयान्यत्र पतनं निलीयानन्तराः स्थलीः ॥ (१७।२)
uḍḍīyānyatra patanaṃ nilīyānantarāḥ sthalīḥ ||
समायां भुवि विस्तारो मार्गणे सादिनां भवेत् । (१८।१)
samāyāṃ bhuvi vistāro mārgaṇe sādināṃ bhavet |
विषमायां तु पत्तीनां गिरिकूटे शुनां पुनः ॥ (१८।२)
viṣamāyāṃ tu pattīnāṃ girikūṭe śunāṃ punaḥ ||
मध्ये श्येनधरो नेता पार्श्वयोर्द्वौ च सैनिकौ । (१९।१)
madhye śyenadharo netā pārśvayordvau ca sainikau |
एकविंशत्यश्ववारैर् मण्डलं परिकीर्तितम् ॥ (१९।२)
ekaviṃśatyaśvavārair maṇḍalaṃ parikīrtitam ||
पार्श्वयोः समभागेन मण्डलस्थश्चरेज्जनः ॥ (२०।२)
pārśvayoḥ samabhāgena maṇḍalasthaścarejjanaḥ ||
आ पूर्वाद् ऐश्वरीम् आशाम् अधिमोक्तुम् अथार्हति । (२१।१)
ā pūrvād aiśvarīm āśām adhimoktum athārhati |
श्यैनिको येन नो लक्ष्यकृतोद्वेगो भवेद्द्वयोः ॥ (२१।२)
śyainiko yena no lakṣyakṛtodvego bhaveddvayoḥ ||
संचारयेत् स परितो मण्डलानि पृथक् पृथक् ॥ (२२।२)
saṃcārayet sa parito maṇḍalāni pṛthak pṛthak ||
मोक्तुं नार्हति नेदिष्ठे लक्ष्ये ऽप्यस्खलितस्थितिः ॥ (२३।२)
moktuṃ nārhati nediṣṭhe lakṣye 'pyaskhalitasthitiḥ ||
मण्डले बहरी त्वेका कुह्यप्येका त्रिवाजिका । (२४।१)
maṇḍale baharī tvekā kuhyapyekā trivājikā |
वासाद्याः पञ्चषाः शस्ताः क्रमो मोके पुरोदितः ॥ (२४।२)
vāsādyāḥ pañcaṣāḥ śastāḥ kramo moke puroditaḥ ||
क्रोशार्द्धाद्धारयेत् स्वीयान् मण्डलान्मण्डलं पृथक् । (२५।१)
krośārddhāddhārayet svīyān maṇḍalānmaṇḍalaṃ pṛthak |
यथा भवेन्न कुह्यादेर्वासादेर्मिश्रणाद्भयम् ॥ (२५।२)
yathā bhavenna kuhyādervāsādermiśraṇādbhayam ||
विकोषाश्चासयः कार्या धार्या वा शक्तयोऽभितः ॥ (२६।२)
vikoṣāścāsayaḥ kāryā dhāryā vā śaktayo'bhitaḥ ||
बहवः पत्रिणो धार्या विनीतैः कालवेदिभिः । (२७।१)
bahavaḥ patriṇo dhāryā vinītaiḥ kālavedibhiḥ |
सादिनामग्रगा ये च वेत्रिणस्तेऽपि धूतिकाः । (२९।१)
sādināmagragā ye ca vetriṇaste'pi dhūtikāḥ |
टोनादीन् मुष्टिमोकेन क्षिपेरन् वर्त्तिकादिषु ॥ (२९।२)
ṭonādīn muṣṭimokena kṣiperan varttikādiṣu ||
शैघ्र्याद् अलक्ष्ययातयस् तेऽपि तिर्यङ्निपातिषु । (३०।१)
śaighryād alakṣyayātayas te'pi tiryaṅnipātiṣu |
प्रक्रीडयेत्तदा तज्ज्ञैर्भाव्यं वेत्रिभिरादरात् ॥ (३१।२)
prakrīḍayettadā tajjñairbhāvyaṃ vetribhirādarāt ||
वेत्रप्रहारानभितः कुर्वद्भिर्मन्दचारिणः । (३२।१)
vetraprahārānabhitaḥ kurvadbhirmandacāriṇaḥ |
उत्थापयेयुर्लावादीन् ढोकयेयुश्च तद्गतीः ॥ (३२।२)
utthāpayeyurlāvādīn ḍhokayeyuśca tadgatīḥ ||
यत्रैकवारं पतितः पक्षी कुर्यान्न चोत्प्लुतिम् । (३३।१)
yatraikavāraṃ patitaḥ pakṣī kuryānna cotplutim |
सरज्जुना शुना तत्र मार्गयित्वा विसर्जयेत् ॥ (३३।२)
sarajjunā śunā tatra mārgayitvā visarjayet ||
कुह्या मोकः सारसेऽथ क्रौञ्चे रौद्ररसावहः । (३५।१)
kuhyā mokaḥ sārase'tha krauñce raudrarasāvahaḥ |
परावृत्त्योग्रचञ्च्वा च प्रहारो रौद्रसंगरः ॥ (३६।२)
parāvṛttyogracañcvā ca prahāro raudrasaṃgaraḥ ||
लक्ष्ये मोको बहर्या हि जनयत्यद्भुतं रसम् ॥ (३७।२)
lakṣye moko baharyā hi janayatyadbhutaṃ rasam ||
छिन्नपक्षनगाकाराः खगास्तस्मात् किमद्भुतम् ॥ (३८।२)
chinnapakṣanagākārāḥ khagāstasmāt kimadbhutam ||
हारिणं शिशुमादाय सान्त्राण्यङ्गानि भक्षयन् । (३९।१)
hāriṇaṃ śiśumādāya sāntrāṇyaṅgāni bhakṣayan |
निरुद्यमाः कुञ्जमध्ये दर्शयन्ति भयानकम् ॥ (४०।२)
nirudyamāḥ kuñjamadhye darśayanti bhayānakam ||
प्रलपंल्लक्ष्यतामेष्यन् स्वैरं हासरसायते ॥ (४१।२)
pralapaṃllakṣyatāmeṣyan svairaṃ hāsarasāyate ||
भयार्तेषु प्रलीनेषु वाचा लक्ष्येषु तेष्वथ । (४२।१)
bhayārteṣu pralīneṣu vācā lakṣyeṣu teṣvatha |
गुलिकास्त्रप्रयोगो हि कर्तव्यः कौतुकार्थिना ॥ (४२।२)
gulikāstraprayogo hi kartavyaḥ kautukārthinā ||
दूराल्लक्ष्येषु निपतन् स्थाने ग्रहणमाचरन् । (४३।१)
dūrāllakṣyeṣu nipatan sthāne grahaṇamācaran |
ऊर्द्ध्वाक्रान्तिः समाक्रान्तिर्नीचाक्रान्तिरिति त्रिधा । (४४।१)
ūrddhvākrāntiḥ samākrāntirnīcākrāntiriti tridhā |
छायाकारः निलीयाधो हठाल्लक्ष्ये तथोर्द्ध्वगे । (४५।१)
chāyākāraḥ nilīyādho haṭhāllakṣye tathorddhvage |
उत्प्लुत्य शरवत्पातमूर्द्ध्वाक्रान्ती रसावहा ॥ (४५।२)
utplutya śaravatpātamūrddhvākrāntī rasāvahā ||
दण्डवत् पतनं लक्ष्ये समाक्रान्तिः समा मता ॥ (४६।२)
daṇḍavat patanaṃ lakṣye samākrāntiḥ samā matā ||
संरम्भात् पतनं लक्ष्ये नीचाक्रान्तिः सुदुष्करा ॥ (४७।२)
saṃrambhāt patanaṃ lakṣye nīcākrāntiḥ suduṣkarā ||
अतिविश्रम्भणात् वाजा गताः श्रैष्ठ्यं पतत्रिषु ॥ (४८।२)
ativiśrambhaṇāt vājā gatāḥ śraiṣṭhyaṃ patatriṣu ||
उत्प्लुत्योत्प्लुत्य पतनैः परिगृह्यावपातनैः । (४९।१)
utplutyotplutya patanaiḥ parigṛhyāvapātanaiḥ |
मल्ला इव विदग्धानां हरन्ति प्रसभं मनः ॥ (४९।२)
mallā iva vidagdhānāṃ haranti prasabhaṃ manaḥ ||
द्वन्द्वसंचारिणाम् एकनिग्रहे ऽन्यस्य कूजितम् । (५०।१)
dvandvasaṃcāriṇām ekanigrahe 'nyasya kūjitam |
शृङ्गारः पुष्कलस्तत्र दृश्यते नायके द्विधा । (५१।१)
śṛṅgāraḥ puṣkalastatra dṛśyate nāyake dvidhā |
लक्ष्यप्राप्तौ भोगरूपस्तदप्राप्तौ तथेतरः ॥ (५१।२)
lakṣyaprāptau bhogarūpastadaprāptau tathetaraḥ ||
चिन्ताप्रलापवैवर्ण्यभावैः सत्त्वं व्यनक्ति च ॥ (५२।२)
cintāpralāpavaivarṇyabhāvaiḥ sattvaṃ vyanakti ca ||
स्त्रीसम्भोगादपि रसो मृगव्यायां विशिष्यते । (५३।१)
strīsambhogādapi raso mṛgavyāyāṃ viśiṣyate |
येन त्रस्यत्कुरङ्गाक्ष्याः पतिं सा वशयत्यलम् ॥ (५३।२)
yena trasyatkuraṅgākṣyāḥ patiṃ sā vaśayatyalam ||
कण्ठलग्नां प्रियां हित्वा हैमनीषु निशास्वपि । (५४।१)
kaṇṭhalagnāṃ priyāṃ hitvā haimanīṣu niśāsvapi |
नाभिसारं नराः कुर्युर्यदि नेष्टा च सा भवेत् ॥ (५४।२)
nābhisāraṃ narāḥ kuryuryadi neṣṭā ca sā bhavet ||
जनयन्ति प्रसन्नेन्द्रमुक्तपुष्पोत्करभ्रमम् ॥ (५६।२)
janayanti prasannendramuktapuṣpotkarabhramam ||
ये विमुक्ता निजे लक्ष्ये दूरे दूरे स्खलन्ति न । (५७।१)
ye vimuktā nije lakṣye dūre dūre skhalanti na |
शीघ्रता प्रतिसन्धानं शिकाराणां द्विशस्त्रिशः । (५८।१)
śīghratā pratisandhānaṃ śikārāṇāṃ dviśastriśaḥ |
ग्रहणे तित्तिरादीनां तत् केन प्रतिदिश्यताम् ॥ (५८।२)
grahaṇe tittirādīnāṃ tat kena pratidiśyatām ||
तत्र सम्भूय मोक्षोऽपि विश्रम्भं ये गता मिथः । (६०।१)
tatra sambhūya mokṣo'pi viśrambhaṃ ye gatā mithaḥ |
तेषां प्रशस्यते दिक्षु कवीनां विप्लवाय तु ॥ (६०।२)
teṣāṃ praśasyate dikṣu kavīnāṃ viplavāya tu ||
दुन्दुभ्यास्ताडनं कार्यं वारित्यागाय पत्रिणाम् । (६१।१)
dundubhyāstāḍanaṃ kāryaṃ vārityāgāya patriṇām |
यथा सुखेन गृह्णीयुः श्येनाः स्वस्थानविच्युतान् ॥ (६१।२)
yathā sukhena gṛhṇīyuḥ śyenāḥ svasthānavicyutān ||
ये नाट्यबन्धकुशलैर्विततप्रपञ्चैः संदर्शिताः किल रसाः समयं विभज्य । (६२।१)
ye nāṭyabandhakuśalairvitataprapañcaiḥ saṃdarśitāḥ kila rasāḥ samayaṃ vibhajya |
एकत्र ते समकमेव रसा अनूना दृश्यन्त एव कृतिभिर्मृगयाविहारे ॥ (६२।२)
ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre ||
इति श्रीरुद्रदेवविरचिते श्यैनिके शास्त्रे श्येनपातेति कर्तव्यता परिच्छेदः षष्ठः ॥ (६३।१)
iti śrīrudradevaviracite śyainike śāstre śyenapāteti kartavyatā paricchedaḥ ṣaṣṭhaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.