ToḍalT, 3
Select a line for its word-by-word analysis.
उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः ॥ (२।३)
upaviśyāsane mantrī prāṅmukho vāpyudaṅmukhaḥ ||
गुदच्छिद्रे महेशानि स्वलिङ्गाग्रं निवेशयेत् । (३।१)
gudacchidre maheśāni svaliṅgāgraṃ niveśayet |
श्रोत्रे चैव तथा नेत्रे नासायां च ततो मुखे ॥ (३।२)
śrotre caiva tathā netre nāsāyāṃ ca tato mukhe ||
शब्दप्रत्यक्षतां कृत्वा वर्णमालां विचिन्तयेत् ॥ (५।२)
śabdapratyakṣatāṃ kṛtvā varṇamālāṃ vicintayet ||
अष्टोत्तरशतं मूलमन्त्रं तु प्रजपेत् सुधीः । (६।१)
aṣṭottaraśataṃ mūlamantraṃ tu prajapet sudhīḥ |
यस्याः प्रसङ्गमात्रेण जीवन्मुक्तो भवेन्नरः ॥ (९।३)
yasyāḥ prasaṅgamātreṇa jīvanmukto bhavennaraḥ ||
शिवाद्यं बिन्दुनादाढ्यं वामनेत्राग्निसंयुतम् । (१०।१)
śivādyaṃ bindunādāḍhyaṃ vāmanetrāgnisaṃyutam |
सिद्धविद्या त्व् इयं भद्रे विद्याराज्ञी सुदुर्लभा ॥ (१०।२)
siddhavidyā tv iyaṃ bhadre vidyārājñī sudurlabhā ||
इदं बीजत्रयं चाद्यं गगनं बिन्दुभूषितम् । (११।१)
idaṃ bījatrayaṃ cādyaṃ gaganaṃ bindubhūṣitam |
वामश्रवणसंयुक्तं द्वंद्वं चापरकं शृणु ॥ (११।२)
vāmaśravaṇasaṃyuktaṃ dvaṃdvaṃ cāparakaṃ śṛṇu ||
ईशानं वह्निसंयुक्तं वामनेत्रेन्दुसंयुतम् । (१२।१)
īśānaṃ vahnisaṃyuktaṃ vāmanetrendusaṃyutam |
पुनर् बीजत्रयं कूर्चं मायाद्वंद्वं च ठद्वयम् । (१३।१)
punar bījatrayaṃ kūrcaṃ māyādvaṃdvaṃ ca ṭhadvayam |
द्वाविंशत्यक्षरं मन्त्रं विद्याराज्ञी सुदुर्लभा ॥ (१३।२)
dvāviṃśatyakṣaraṃ mantraṃ vidyārājñī sudurlabhā ||
वाग्भवाद्या महाविद्या श्रीकाली देवता स्मृता । (१४।१)
vāgbhavādyā mahāvidyā śrīkālī devatā smṛtā |
त्र्यक्षरी परमा विद्या चामुण्डा कालिका स्मृता ॥ (१५।२)
tryakṣarī paramā vidyā cāmuṇḍā kālikā smṛtā ||
एतस्याः सदृशी विद्या सिद्धिदा नास्ति सुन्दरि । (१६।१)
etasyāḥ sadṛśī vidyā siddhidā nāsti sundari |
यथा षडक्षरी विद्या तथा विद्या च त्र्यक्षरी ॥ (१६।२)
yathā ṣaḍakṣarī vidyā tathā vidyā ca tryakṣarī ||
पुनर् बीजत्रयं भद्रे वह्निकान्तां समुच्चरेत् ॥ (१७।२)
punar bījatrayaṃ bhadre vahnikāntāṃ samuccaret ||
चतुर्दशाक्षरी विद्या त्रिषु लोकेषु पूजिता । (१८।१)
caturdaśākṣarī vidyā triṣu lokeṣu pūjitā |
पुनश्च कालिकाबीजं ततो वह्निवधूं न्यसेत् ॥ (२०।२)
punaśca kālikābījaṃ tato vahnivadhūṃ nyaset ||
इति चाष्टविधं मन्त्रं सर्वतन्त्रेषु गोपितम् । (२१।१)
iti cāṣṭavidhaṃ mantraṃ sarvatantreṣu gopitam |
ताराया मन्त्रराजं तु श्रोतुमिच्छामि साम्प्रतम् । (२२।१)
tārāyā mantrarājaṃ tu śrotumicchāmi sāmpratam |
यस्याः प्रसङ्गमात्रेण भवाब्धौ न निमज्जति ॥ (२२।२)
yasyāḥ prasaṅgamātreṇa bhavābdhau na nimajjati ||
तन्मन्त्रं वद ईशान यदि स्नेहोऽस्ति मां प्रति । (२३।१)
tanmantraṃ vada īśāna yadi sneho'sti māṃ prati |
चन्द्रबीजं समुच्चार्य आद्यं वह्निसमागतम् ॥ (२३।३)
candrabījaṃ samuccārya ādyaṃ vahnisamāgatam ||
वामनेत्रेन्दुसंयुक्तं मन्त्रराजमिमं प्रिये । (२४।१)
vāmanetrendusaṃyuktaṃ mantrarājamimaṃ priye |
शिरं बिन्दुसमारूढं वामनेत्रेन्दुसंयुतम् । (२६।१)
śiraṃ bindusamārūḍhaṃ vāmanetrendusaṃyutam |
आद्यबीजं द्वितीयं च अस्त्रमन्त्रं समुच्चरेत् ॥ (२६।२)
ādyabījaṃ dvitīyaṃ ca astramantraṃ samuccaret ||
प्रणवाद्या यदा विद्या सोग्रतारा प्रकीर्तिता । (२७।१)
praṇavādyā yadā vidyā sogratārā prakīrtitā |
विद्या चैकजटा प्रोक्ता महामोक्षप्रदायिनी ॥ (२७।२)
vidyā caikajaṭā proktā mahāmokṣapradāyinī ||
वाग्भवाद्या यदा विद्या वागीशत्वप्रदायिनी ॥ (२८।२)
vāgbhavādyā yadā vidyā vāgīśatvapradāyinī ||
श्रीबीजाद्या महाविद्या सदा लक्ष्मीप्रदायिनी । (२९।१)
śrībījādyā mahāvidyā sadā lakṣmīpradāyinī |
मायाद्या परमा विद्या सदा सिद्धिप्रदायिनी ॥ (२९।२)
māyādyā paramā vidyā sadā siddhipradāyinī ||
प्राणबीजादिका चैषा वाञ्छासिद्धिप्रदायिनी ॥ (३१।२)
prāṇabījādikā caiṣā vāñchāsiddhipradāyinī ||
कालिकाद्या महाविद्या मुक्तिदा सिद्धिदा सदा । (३२।१)
kālikādyā mahāvidyā muktidā siddhidā sadā |
प्रातरुत्थाय मन्त्रज्ञः सहस्रारे गुरुं यजेत् । (३३।१)
prātarutthāya mantrajñaḥ sahasrāre guruṃ yajet |
षट्चक्रं भेदयित्वा तु चाष्टोत्तरशतं जपेत् ॥ (३३।२)
ṣaṭcakraṃ bhedayitvā tu cāṣṭottaraśataṃ japet ||
ततः प्रणम्य विधिवत् स्नानकर्म समारभेत् । (३४।१)
tataḥ praṇamya vidhivat snānakarma samārabhet |
अद्येत्यादि समुच्चार्य सौरमासं समुच्चरेत् ॥ (३४।२)
adyetyādi samuccārya sauramāsaṃ samuccaret ||
देवताप्रीतये पश्चात् स्नापयेच्छुद्धवारिणा । (३५।१)
devatāprītaye paścāt snāpayecchuddhavāriṇā |
ॐकारं च समुच्चार्य गङ्गे चेति समुच्चरेत् ॥ (३५।२)
oṃkāraṃ ca samuccārya gaṅge ceti samuccaret ||
नर्मदेति समुच्चार्य सिन्धुकावेरिसंयुतम् ॥ (३६।२)
narmadeti samuccārya sindhukāverisaṃyutam ||
अस्मिन् जले च संनिधिं कुरु शब्दमथो वदेत् । (३७।१)
asmin jale ca saṃnidhiṃ kuru śabdamatho vadet |
रुद्रसंख्यं जपेन्मन्त्रमाच्छाद्य मीनमुद्रया ॥ (३८।२)
rudrasaṃkhyaṃ japenmantramācchādya mīnamudrayā ||
सूर्यायाभिमुखं तोयं निःक्षिप्य रविसंख्यया । (३९।१)
sūryāyābhimukhaṃ toyaṃ niḥkṣipya ravisaṃkhyayā |
मूलमन्त्रं समुच्चार्य क्षालयेच्चरणद्वयम् ॥ (३९।२)
mūlamantraṃ samuccārya kṣālayeccaraṇadvayam ||
चरणान्निःसृते तोये त्रिर् निमज्य जपेन्मनुम् । (४०।१)
caraṇānniḥsṛte toye trir nimajya japenmanum |
मूलमन्त्रं त्रिर् जप्त्वा तु मुद्रया कुम्भसंज्ञया ॥ (४०।२)
mūlamantraṃ trir japtvā tu mudrayā kumbhasaṃjñayā ||
आत्मविद्याशिवैस् तत्त्वैर् आचामेत् पयसा ततः ॥ (४१।२)
ātmavidyāśivais tattvair ācāmet payasā tataḥ ||
वह्निजायान्विता मन्त्रा विज्ञेयाः प्रणवादिकाः । (४२।१)
vahnijāyānvitā mantrā vijñeyāḥ praṇavādikāḥ |
गङ्गे चेत्यादिना देवि तीर्थमावाहनं चरेत् ॥ (४२।२)
gaṅge cetyādinā devi tīrthamāvāhanaṃ caret ||
मूलेन दर्भया भूमौ त्रिवारं निक्षिपेत् सुधीः । (४३।१)
mūlena darbhayā bhūmau trivāraṃ nikṣipet sudhīḥ |
अङ्गन्यासं ततः कृत्वा वामहस्ते सुरेश्वरि । (४४।१)
aṅganyāsaṃ tataḥ kṛtvā vāmahaste sureśvari |
वह्निबीजं बिन्दुयुक्तं त्रिवारं जपमाचरेत् । (४५।१)
vahnibījaṃ binduyuktaṃ trivāraṃ japamācaret |
मूलमन्त्रं समुच्चार्य सप्तधा तत्त्वमुद्रया । (४६।१)
mūlamantraṃ samuccārya saptadhā tattvamudrayā |
हस्तं प्रक्षाल्य चाचम्य प्राणायामपुरःसरम् ॥ (४९।२)
hastaṃ prakṣālya cācamya prāṇāyāmapuraḥsaram ||
तर्पयेत् कुलदेवं च सूर्यायार्घ्यं निवेदयेत् । (५०।१)
tarpayet kuladevaṃ ca sūryāyārghyaṃ nivedayet |
देवतार्घ्यं ततः पश्चाद् गायत्रीं परमाक्षरीम् ॥ (५०।२)
devatārghyaṃ tataḥ paścād gāyatrīṃ paramākṣarīm ||
प्रणवं च समुद्धृत्य कालिकायै ततो वदेत् । (५१।१)
praṇavaṃ ca samuddhṛtya kālikāyai tato vadet |
विद्महे इति संलिख्य श्मशानं च समुद्धरेत् ॥ (५१।२)
vidmahe iti saṃlikhya śmaśānaṃ ca samuddharet ||
तन्नो घोरे महेशानि प्रजपेत्तु प्रचोदयात् ॥ (५२।२)
tanno ghore maheśāni prajapettu pracodayāt ||
गायत्रीं प्रपठेद् धीमान् त्रिवारं जलमुत्क्षिपेत् । (५३।१)
gāyatrīṃ prapaṭhed dhīmān trivāraṃ jalamutkṣipet |
ततो जपेन्महामन्त्रं गायत्रीं परमाक्षरीम् ॥ (५३।२)
tato japenmahāmantraṃ gāyatrīṃ paramākṣarīm ||
इष्टदेवीं महेशानि ध्यात्वा तु परिमण्डले ॥ (५४।२)
iṣṭadevīṃ maheśāni dhyātvā tu parimaṇḍale ||
ॐ तारायै विद्महे इति महोग्रायै ततो वदेत् । (५५।१)
oṃ tārāyai vidmahe iti mahogrāyai tato vadet |
धीमहीति ततः पश्चात्ततो देवि प्रचोदयात् ॥ (५५।२)
dhīmahīti tataḥ paścāttato devi pracodayāt ||
प्राणायामं ततः कृत्वा चाष्टोत्तरशतं जपेत् । (५६।१)
prāṇāyāmaṃ tataḥ kṛtvā cāṣṭottaraśataṃ japet |
स्वस्तिवाचनसंकल्पं घटं संस्थाप्य यत्नतः । (५७।१)
svastivācanasaṃkalpaṃ ghaṭaṃ saṃsthāpya yatnataḥ |
मन्त्रेणाचमनं कार्यं सामान्यार्घ्यं ततो न्यसेत् ॥ (५७।२)
mantreṇācamanaṃ kāryaṃ sāmānyārghyaṃ tato nyaset ||
तज्जलैर् द्वारम् अभ्युक्ष्य द्वारपूजां समाचरेत् । (५८।१)
tajjalair dvāram abhyukṣya dvārapūjāṃ samācaret |
त्रिविधं विघ्नम् उत्सार्य भूतापसरणं ततः ॥ (५८।२)
trividhaṃ vighnam utsārya bhūtāpasaraṇaṃ tataḥ ||
आसनं च समभ्यर्च्य गुरुदेवं नमेत् सुधीः । (५९।१)
āsanaṃ ca samabhyarcya gurudevaṃ namet sudhīḥ |
करशुद्धिं च तालं च त्रयं दिग्बन्धनं ततः ॥ (५९।२)
karaśuddhiṃ ca tālaṃ ca trayaṃ digbandhanaṃ tataḥ ||
वह्निना वेष्टनं कार्यं भूतशुद्धिम् अथाचरेत् । (६०।१)
vahninā veṣṭanaṃ kāryaṃ bhūtaśuddhim athācaret |
मातृकायाः षडङ्गं च कुर्याद् आन्तरमातृकाम् ॥ (६०।२)
mātṛkāyāḥ ṣaḍaṅgaṃ ca kuryād āntaramātṛkām ||
मातृकाध्यानम् उच्चार्य बाह्ये तु मातृकां न्यसेत् । (६१।१)
mātṛkādhyānam uccārya bāhye tu mātṛkāṃ nyaset |
पीठन्यासं ततः कृत्वा प्राणायामं समाचरेत् ॥ (६१।२)
pīṭhanyāsaṃ tataḥ kṛtvā prāṇāyāmaṃ samācaret ||
ऋष्यादिकं कराङ्गं च वर्णन्यासं समाचरेत् । (६२।१)
ṛṣyādikaṃ karāṅgaṃ ca varṇanyāsaṃ samācaret |
षोढान्यासं ततो देवि व्यापकं तदनन्तरम् ॥ (६२।२)
ṣoḍhānyāsaṃ tato devi vyāpakaṃ tadanantaram ||
बीजन्यासं ततो देवि व्यापकं विन्यसेत् सुधीः ॥ (६३।२)
bījanyāsaṃ tato devi vyāpakaṃ vinyaset sudhīḥ ||
मूलेन सप्तधा ध्यानं मानसैः पूजनं चरेत् । (६४।१)
mūlena saptadhā dhyānaṃ mānasaiḥ pūjanaṃ caret |
विशेषार्घ्यं पीठपूजां पुनर्ध्यानं सनेत्रकम् ॥ (६४।२)
viśeṣārghyaṃ pīṭhapūjāṃ punardhyānaṃ sanetrakam ||
धेन्वादिकं ततः प्राणप्रतिष्ठां मूलपूजनम् ॥ (६५।२)
dhenvādikaṃ tataḥ prāṇapratiṣṭhāṃ mūlapūjanam ||
आज्ञाप्रार्थनमङ्गानि काल्यादीन् परिपूजयेत् । (६६।१)
ājñāprārthanamaṅgāni kālyādīn paripūjayet |
ब्राह्म्यादीनसिताङ्गादीन् महाकालं प्रपूजयेत् ॥ (६६।२)
brāhmyādīnasitāṅgādīn mahākālaṃ prapūjayet ||
खड्गादीन् गुरुपङ्क्तिं च पुनर्देवीं प्रपूजयेत् । (६७।१)
khaḍgādīn gurupaṅktiṃ ca punardevīṃ prapūjayet |
जपं समर्पयेद्धीमान् प्राणायामं ततश्चरेत् । (६८।१)
japaṃ samarpayeddhīmān prāṇāyāmaṃ tataścaret |
अर्घ्यं दत्त्वा महेशानि चात्मानं च समर्पयेत् । (६९।१)
arghyaṃ dattvā maheśāni cātmānaṃ ca samarpayet |
स्तुतिं च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत् सुधीः ॥ (६९।२)
stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ ||
शिवोऽहम् इति संचिन्त्य संहारेण विसर्जयेत् । (७०।१)
śivo'ham iti saṃcintya saṃhāreṇa visarjayet |
ऐशान्यां मण्डलं कृत्वा चाण्डाल्युच्छिष्टपूर्विकाम् ॥ (७०।२)
aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām ||
अर्घ्यं संधार्य शिरसि चन्दनं तु ललाटके । (७१।१)
arghyaṃ saṃdhārya śirasi candanaṃ tu lalāṭake |
नैवेद्यं किंचित् स्वीकृत्य विहरेच्च निजेच्छया ॥ (७१।२)
naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā ||
संक्षेपपूजामथवा कुर्यान्मन्त्री समाहितः । (७२।१)
saṃkṣepapūjāmathavā kuryānmantrī samāhitaḥ |
आदौ ऋष्यादिकं न्यासं करशुद्धिस्ततः परम् ॥ (७२।२)
ādau ṛṣyādikaṃ nyāsaṃ karaśuddhistataḥ param ||
तालत्रयं च दिग्बन्धः प्राणायामस्ततः परम् ॥ (७३।२)
tālatrayaṃ ca digbandhaḥ prāṇāyāmastataḥ param ||
पीठपूजां पुनर्ध्यानं ततश्चावाहनं चरेत् ॥ (७४।२)
pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret ||
अङ्गपूजां च काल्यादीन् ब्राह्म्यादींश्चाष्टभैरवान् ॥ (७५।२)
aṅgapūjāṃ ca kālyādīn brāhmyādīṃścāṣṭabhairavān ||
महाकालं पूजयित्वा गुरुपङ्क्तिं यजेत्ततः । (७६।१)
mahākālaṃ pūjayitvā gurupaṅktiṃ yajettataḥ |
खड्गादीन् पूजयित्वा तु पुनर्देवीं प्रपूजयेत् ॥ (७६।२)
khaḍgādīn pūjayitvā tu punardevīṃ prapūjayet ||
प्राणायामं ततः कृत्वा पूजयेत् साधकाग्रणीः । (७७।१)
prāṇāyāmaṃ tataḥ kṛtvā pūjayet sādhakāgraṇīḥ |
प्राणायामं ततः कृत्वा चाष्टाङ्गं प्रणमेत् सुधीः । (७८।१)
prāṇāyāmaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ |
स्तुतिं च कवचं स्मृत्वा विशेषार्घ्यं प्रदापयेत् ॥ (७८।२)
stutiṃ ca kavacaṃ smṛtvā viśeṣārghyaṃ pradāpayet ||
ऐशान्यां मण्डलं कृत्वा चाण्डाल्युच्छिष्टपूर्विकाम् । (७९।२)
aiśānyāṃ maṇḍalaṃ kṛtvā cāṇḍālyucchiṣṭapūrvikām |
नैवेद्यं किंचित् स्वीकृत्य विहरेच्च निजेच्छया ॥ (७९।३)
naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā ||
Data courtesy of The Digital Corpus of Sanskrit.