ToḍalT, 9
Select a line for its word-by-word analysis.
त्रिपुराया महामन्त्रं नित्यातन्त्रे श्रुतं मया । (१।२)
tripurāyā mahāmantraṃ nityātantre śrutaṃ mayā |
इदानीं श्रोतुम् इच्छामि नवार्णस्य च वासनाम् ॥ (१।३)
idānīṃ śrotum icchāmi navārṇasya ca vāsanām ||
भूमिश् चन्द्रः शिवो माया शक्तिः कृशानुसादनौ । (२।२)
bhūmiś candraḥ śivo māyā śaktiḥ kṛśānusādanau |
अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते ॥ (२।३)
ardhacandraśca binduśca navārṇo merurucyate ||
ब्रूहि मे जगतांनाथ कथं दीर्घायुषं भवेत् ॥ (६।२)
brūhi me jagatāṃnātha kathaṃ dīrghāyuṣaṃ bhavet ||
शृणु देवि प्रवक्ष्यामि येन दीर्घायुषं भवेत् । (७।२)
śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet |
पूजयेत् कालिकां देवीं तारिणीं वाथ सुन्दरीम् । (८।१)
pūjayet kālikāṃ devīṃ tāriṇīṃ vātha sundarīm |
षोडशी वा महापूर्वा पत्त्रे चाभ्यासमाचरेत् । (१०।१)
ṣoḍaśī vā mahāpūrvā pattre cābhyāsamācaret |
चतुष्पत्त्रे चाष्टवारं षट्पत्त्रे द्वादशं जपेत् ॥ (१०।२)
catuṣpattre cāṣṭavāraṃ ṣaṭpattre dvādaśaṃ japet ||
दशपत्त्रे विंशतिं च द्वादशे वेदनेत्रकम् । (११।१)
daśapattre viṃśatiṃ ca dvādaśe vedanetrakam |
षोडशे दशसंख्यं तु चतुर्वारं श्रुवोऽष्टकम् ॥ (११।२)
ṣoḍaśe daśasaṃkhyaṃ tu caturvāraṃ śruvo'ṣṭakam ||
कुम्भकेन जपेन्मन्त्रं मालाषट्के सुरेश्वरि । (१२।१)
kumbhakena japenmantraṃ mālāṣaṭke sureśvari |
एवं क्रमेण देवेशि स्थिरमायुर्यदा भवेत् ॥ (१२।२)
evaṃ krameṇa deveśi sthiramāyuryadā bhavet ||
मूलचक्राच्छिरोऽन्ता च सुषुम्ना परिकीर्तिता । (१३।३)
mūlacakrācchiro'ntā ca suṣumnā parikīrtitā |
तद्गर्भस्था च या शक्तिः सा देवी कुण्डरूपिका ॥ (१३।४)
tadgarbhasthā ca yā śaktiḥ sā devī kuṇḍarūpikā ||
सहस्रारं तु सम्प्राप्य शिवं दृष्ट्वा तु कामिनी । (१६।१)
sahasrāraṃ tu samprāpya śivaṃ dṛṣṭvā tu kāminī |
मालाकारेण तल्लिङ्गं संवेष्ट्य कुण्डली सदा ॥ (१६।२)
mālākāreṇa talliṅgaṃ saṃveṣṭya kuṇḍalī sadā ||
चरमार्णं सरन्ध्रं च निजपुच्छेन कामिनी ॥ (१७।२)
caramārṇaṃ sarandhraṃ ca nijapucchena kāminī ||
भेदयित्वा स्वपुच्छेन नागपाशं तदूर्ध्वके । (१८।१)
bhedayitvā svapucchena nāgapāśaṃ tadūrdhvake |
एतत्कारणं संव्याप्य संस्थिता कुण्डली यदा ॥ (१८।२)
etatkāraṇaṃ saṃvyāpya saṃsthitā kuṇḍalī yadā ||
तदैव प्रजपेन्मन्त्रम् अमरत्वं स विन्दति । (१९।१)
tadaiva prajapenmantram amaratvaṃ sa vindati |
रेचनात् कामिनी देवी प्रविशन्ती स्वकेतनम् ॥ (१९।२)
recanāt kāminī devī praviśantī svaketanam ||
न तत्र प्रजपेन्मन्त्रं जपान्मृत्युमवाप्नुयात् । (२०।१)
na tatra prajapenmantraṃ japānmṛtyumavāpnuyāt |
रेचके छिन्नमालायां सत्यं हि सुरवन्दिते ॥ (२०।२)
recake chinnamālāyāṃ satyaṃ hi suravandite ||
छिन्ने सूत्रे भवेन्मृत्युः पुरैव कथितं मया । (२१।१)
chinne sūtre bhavenmṛtyuḥ puraiva kathitaṃ mayā |
इति ते कथितं कान्ते यतो मृत्युंजयो भवेत् ॥ (२१।२)
iti te kathitaṃ kānte yato mṛtyuṃjayo bhavet ||
वायुं संधार्य यत्नेन एकोच्चारेण चोच्चरेत् ॥ (२२।२)
vāyuṃ saṃdhārya yatnena ekoccāreṇa coccaret ||
मालामन्त्रं षोडशीं वा तथा चाष्टादशाक्षरीम् । (२३।१)
mālāmantraṃ ṣoḍaśīṃ vā tathā cāṣṭādaśākṣarīm |
सहस्रं प्रजपेन्मन्त्रं प्रत्यहं यदि पार्वति ॥ (२३।२)
sahasraṃ prajapenmantraṃ pratyahaṃ yadi pārvati ||
जित्वा मृत्युं जरां रोगं दीर्घकालं स जीवति । (२४।१)
jitvā mṛtyuṃ jarāṃ rogaṃ dīrghakālaṃ sa jīvati |
यजेत् कात्यायनीं देवीं भूतपूर्वां प्रयत्नतः ॥ (२५।२)
yajet kātyāyanīṃ devīṃ bhūtapūrvāṃ prayatnataḥ ||
तदा पञ्चसहस्राब्दं निश्चितं तु स जीवति । (२६।१)
tadā pañcasahasrābdaṃ niścitaṃ tu sa jīvati |
एतत्तत्त्वेन देवेशि भोगो योगायते ध्रुवम् ॥ (२७।२)
etattattvena deveśi bhogo yogāyate dhruvam ||
भूमिकामी जपेन् मन्त्रं मूलाधारे चतुष्टये । (२९।२)
bhūmikāmī japen mantraṃ mūlādhāre catuṣṭaye |
स्वाधिष्ठाने जपादेव महेन्द्रो जायतेऽचिरात् ॥ (२९।३)
svādhiṣṭhāne japādeva mahendro jāyate'cirāt ||
अनाहते महापद्मे जपाद् ब्रह्मपुरं व्रजेत् ॥ (३०।२)
anāhate mahāpadme japād brahmapuraṃ vrajet ||
विशुद्धाख्ये जपादेव विष्णुलोके वसेद् ध्रुवम् । (३१।१)
viśuddhākhye japādeva viṣṇuloke vased dhruvam |
आज्ञाचक्रे च जप्तव्ये श्वेतद्वीपे वसेत् सदा ॥ (३१।२)
ājñācakre ca japtavye śvetadvīpe vaset sadā ||
माहात्म्यं तस्य देवेशि किं वक्तुं शक्यते मया । (३३।१)
māhātmyaṃ tasya deveśi kiṃ vaktuṃ śakyate mayā |
सहस्रारे स्थिरीभूय यदि चाष्टशतं जपेत् ॥ (३३।२)
sahasrāre sthirībhūya yadi cāṣṭaśataṃ japet ||
तत्फलात् कोटिभागैकं भागं चान्येन विद्यते । (३४।१)
tatphalāt koṭibhāgaikaṃ bhāgaṃ cānyena vidyate |
यन्मालायां जपेन्मन्त्रमभ्यासार्थं हि पार्वति । (३५।१)
yanmālāyāṃ japenmantramabhyāsārthaṃ hi pārvati |
वेदाद्यं शब्दबीजं च महामायां ततः परम् ॥ (३६।२)
vedādyaṃ śabdabījaṃ ca mahāmāyāṃ tataḥ param ||
अस्त्रयुग्मं वह्निजाया मनुः सप्ताक्षरः परः । (३७।१)
astrayugmaṃ vahnijāyā manuḥ saptākṣaraḥ paraḥ |
श्रीशिवोऽस्य ऋषिः प्रोक्तो विराट् छन्द उदाहृतम् ॥ (३७।२)
śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam ||
प्रणवेन षडङ्गं च प्राणायामं च सुन्दरि ॥ (३८।२)
praṇavena ṣaḍaṅgaṃ ca prāṇāyāmaṃ ca sundari ||
ध्यानमस्याः प्रवक्ष्यामि शृणु सुन्दरि सादरम् । (३९।१)
dhyānamasyāḥ pravakṣyāmi śṛṇu sundari sādaram |
गौरवर्णां मुक्तकेशीं सर्वाभरणभूषिताम् ॥ (३९।२)
gauravarṇāṃ muktakeśīṃ sarvābharaṇabhūṣitām ||
मद्यपूर्णस्वर्णपात्रां ग्रीवायां हारभूषिताम् । (४१।१)
madyapūrṇasvarṇapātrāṃ grīvāyāṃ hārabhūṣitām |
एवं तां वरदां नित्यां भावयेत् सिद्धिहेतवे । (४२।१)
evaṃ tāṃ varadāṃ nityāṃ bhāvayet siddhihetave |
सामान्यार्घ्यं ततो देवि स्ववामे विन्यसेत्ततः ॥ (४२।२)
sāmānyārghyaṃ tato devi svavāme vinyasettataḥ ||
जीवन्यासादिकं कृत्वा पूजयेत् परमेश्वरीम् । (४३।१)
jīvanyāsādikaṃ kṛtvā pūjayet parameśvarīm |
ततश्च पूजयेद् देवीं शून्यागारे दिनत्रयम् । (४५।१)
tataśca pūjayed devīṃ śūnyāgāre dinatrayam |
प्रत्यहं प्रजपेन्मन्त्रं गजान्तकसहस्रकम् ॥ (४५।२)
pratyahaṃ prajapenmantraṃ gajāntakasahasrakam ||
ततश्च प्रजपेन्मन्त्रं पितृभूमौ दिनत्रयम् ॥ (४६।२)
tataśca prajapenmantraṃ pitṛbhūmau dinatrayam ||
ततः सिद्धिर्भवेद् देवि सत्यं सत्यं हि सुप्रिये । (४७।१)
tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye |
तद्वाक्यं प्रार्थनावाक्यं डामराख्ये मयोदितम् ॥ (४७।२)
tadvākyaṃ prārthanāvākyaṃ ḍāmarākhye mayoditam ||
Data courtesy of The Digital Corpus of Sanskrit.