ToḍalT, 4
Select a line for its word-by-word analysis.
यस्याः प्रसङ्गमात्रेण वाचश् चित्तायते नृणाम् ॥ (१।३)
yasyāḥ prasaṅgamātreṇa vācaś cittāyate nṛṇām ||
जलं संशोध्य हस्तौ च पादौ च क्षालयेत्ततः । (३।१)
jalaṃ saṃśodhya hastau ca pādau ca kṣālayettataḥ |
मन्त्रेणाचमनं कृत्वा ततः पीठं विचिन्तयेत् ॥ (३।२)
mantreṇācamanaṃ kṛtvā tataḥ pīṭhaṃ vicintayet ||
शिखां बद्ध्वा ततो देवि त्रिविधं विघ्ननाशनम् । (४।१)
śikhāṃ baddhvā tato devi trividhaṃ vighnanāśanam |
भूम्यासनं च संशोध्य वस्त्रे ग्रन्थिं विधाय च ॥ (४।२)
bhūmyāsanaṃ ca saṃśodhya vastre granthiṃ vidhāya ca ||
यन्त्रं कृत्वा साधकेन्द्रः सामान्यार्घ्यं च विन्यसेत् ॥ (५।२)
yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset ||
पीठशक्तीश्च लक्ष्म्याद्यास्ततः पीठमनुं जपेत् ॥ (६।२)
pīṭhaśaktīśca lakṣmyādyāstataḥ pīṭhamanuṃ japet ||
भूतशुद्धिं प्रवक्ष्यामि विशेषमिह यद्भवेत् । (७।१)
bhūtaśuddhiṃ pravakṣyāmi viśeṣamiha yadbhavet |
कुम्भकेन वरारोहे भस्म कुर्याद् विचक्षणः ॥ (९।२)
kumbhakena varārohe bhasma kuryād vicakṣaṇaḥ ||
चिन्तयेत् परमेशानि कुम्भकेनामृताम्बुधिम् । (११।१)
cintayet parameśāni kumbhakenāmṛtāmbudhim |
आं ह्रीं क्र्ॐ वह्निबीजान्तं हृदि चैकादशं जपेत् ॥ (११।२)
āṃ hrīṃ kroṃ vahnibījāntaṃ hṛdi caikādaśaṃ japet ||
ततस्तु चिन्तयेद् धीमान् ॐकाराद् रक्तपङ्कजम् । (१२।१)
tatastu cintayed dhīmān oṃkārād raktapaṅkajam |
तस्योपरि पुनर्ध्यायेत् हुंकारं नीलसंनिभम् ॥ (१२।२)
tasyopari punardhyāyet huṃkāraṃ nīlasaṃnibham ||
तस्योपरि पुनर् ध्यायेद् बीजभूषितकर्तृकाम् । (१३।१)
tasyopari punar dhyāyed bījabhūṣitakartṛkām |
तस्योपरि परं बिन्दुं शिवरूपं च अव्ययम् ॥ (१३।२)
tasyopari paraṃ binduṃ śivarūpaṃ ca avyayam ||
वालुकायाः सहस्रैकभागं बिन्दुं सुदुर्लभम् । (१४।१)
vālukāyāḥ sahasraikabhāgaṃ binduṃ sudurlabham |
बिन्दुमध्ये परं ज्योतिर्बुद्बुदाकारमण्डलम् । (१५।१)
bindumadhye paraṃ jyotirbudbudākāramaṇḍalam |
यथैव बुद्बुदे देवि प्रतिबिम्बं प्रपश्यति ॥ (१५।२)
yathaiva budbude devi pratibimbaṃ prapaśyati ||
तथा निरीक्षणं कार्यं प्रकुर्याज्ज्ञानचक्षुषा । (१६।१)
tathā nirīkṣaṇaṃ kāryaṃ prakuryājjñānacakṣuṣā |
मणिद्वीपं तु तन्मध्ये सुवर्णवालुकामयम् ॥ (१६।२)
maṇidvīpaṃ tu tanmadhye suvarṇavālukāmayam ||
मध्ये कल्पद्रुमं ध्यायेदात्मानं तारिणीमयम् ॥ (१७।२)
madhye kalpadrumaṃ dhyāyedātmānaṃ tāriṇīmayam ||
मन्दवायुसमायुक्तं गन्धधूपैर् अलंकृतम् ॥ (१९।२)
mandavāyusamāyuktaṃ gandhadhūpair alaṃkṛtam ||
तन्मध्ये वेदिकां ध्यायेन्नानारत्नोपशोभिताम् । (२०।१)
tanmadhye vedikāṃ dhyāyennānāratnopaśobhitām |
सुवर्णसूत्ररचितं चिन्तयेच्छत्त्रम् उत्तमम् ॥ (२०।२)
suvarṇasūtraracitaṃ cintayecchattram uttamam ||
तदधश्चिन्तयेन्मन्त्री रत्नसिंहासनं प्रिये । (२१।१)
tadadhaścintayenmantrī ratnasiṃhāsanaṃ priye |
तत्र देवीं चिन्तयेच्च यथोक्तध्यानयोगतः ॥ (२१।२)
tatra devīṃ cintayecca yathoktadhyānayogataḥ ||
प्राणायामं ततः कृत्वा ऋष्यादिन्यासमाचरेत् ॥ (२२।२)
prāṇāyāmaṃ tataḥ kṛtvā ṛṣyādinyāsamācaret ||
वर्णन्यासं ततः कृत्वा कराङ्गन्यासमाचरेत् । (२३।१)
varṇanyāsaṃ tataḥ kṛtvā karāṅganyāsamācaret |
तालत्रयं छोटिकाभिर् दशदिग्बन्धनं चरेत् ॥ (२३।२)
tālatrayaṃ choṭikābhir daśadigbandhanaṃ caret ||
षोढान्यासं ततः कृत्वा व्यापकं तदनन्तरम् । (२४।१)
ṣoḍhānyāsaṃ tataḥ kṛtvā vyāpakaṃ tadanantaram |
विशेषार्घ्यं च संस्थाप्य पञ्चतत्त्वं विशोधयेत् ॥ (२४।२)
viśeṣārghyaṃ ca saṃsthāpya pañcatattvaṃ viśodhayet ||
कुम्भे पुष्पं समादाय त्रिकोणे त्रिः प्रपूजयेत् ॥ (२५।२)
kumbhe puṣpaṃ samādāya trikoṇe triḥ prapūjayet ||
वामदेहं त्रिधा चोक्त्वा खेचरीं दशधा जपेत् । (२६।१)
vāmadehaṃ tridhā coktvā khecarīṃ daśadhā japet |
तथा चानन्दगायत्रीम् ऋचं च त्रिर् जपेत् सुधीः ॥ (२६।२)
tathā cānandagāyatrīm ṛcaṃ ca trir japet sudhīḥ ||
ब्रह्मशापं शुक्रशापं कृष्णशापं सुरेश्वरि । (२७।१)
brahmaśāpaṃ śukraśāpaṃ kṛṣṇaśāpaṃ sureśvari |
दिग्जपान्नाशयेद्धीमान् ततो मन्त्रत्रयं जपेत् ॥ (२७।२)
digjapānnāśayeddhīmān tato mantratrayaṃ japet ||
छुरिकां चामृतं चैव प्रीतिसंरक्षणीं तथा । (२८।१)
churikāṃ cāmṛtaṃ caiva prītisaṃrakṣaṇīṃ tathā |
पावमानं च त्रिर् जप्त्वा शोषणादीन् समाचरेत् ॥ (२८।२)
pāvamānaṃ ca trir japtvā śoṣaṇādīn samācaret ||
वारुणं त्रिर् जपेद्देवि चामृतं सप्तधा जपेत् । (२९।१)
vāruṇaṃ trir japeddevi cāmṛtaṃ saptadhā japet |
विद्यातत्त्वे धेनुमुद्रां प्रदर्श्य मूलमष्टधा ॥ (२९।२)
vidyātattve dhenumudrāṃ pradarśya mūlamaṣṭadhā ||
कुण्डलिनीं समुत्थाप्य शिवोऽहं भावयेत्ततः । (३०।१)
kuṇḍalinīṃ samutthāpya śivo'haṃ bhāvayettataḥ |
मांसं मीनं शोधयित्वा मुद्राशोधनमाचरेत् ॥ (३०।२)
māṃsaṃ mīnaṃ śodhayitvā mudrāśodhanamācaret ||
शक्तिं च कुलपुष्पं च शोधयेत् साधकोत्तमः । (३१।१)
śaktiṃ ca kulapuṣpaṃ ca śodhayet sādhakottamaḥ |
देवान् पितॄन् ऋषींश्चैव तर्पयेदिष्टदेवताम् ॥ (३१।२)
devān pitṝn ṛṣīṃścaiva tarpayediṣṭadevatām ||
शोधितं द्रव्यमादाय विशेषार्घ्ये विनिक्षिपेत् । (३२।१)
śodhitaṃ dravyamādāya viśeṣārghye vinikṣipet |
ततो ब्रह्ममयं ध्यात्वा पूजाध्यानं समाचरेत् ॥ (३२।२)
tato brahmamayaṃ dhyātvā pūjādhyānaṃ samācaret ||
नासारन्ध्रात् समानीय पीठे पुष्पं निधाय च । (३३।१)
nāsārandhrāt samānīya pīṭhe puṣpaṃ nidhāya ca |
ततश्चावाहनं कृत्वा पञ्चमुद्राः प्रदर्शयेत् ॥ (३३।२)
tataścāvāhanaṃ kṛtvā pañcamudrāḥ pradarśayet ||
षडङ्गेन च सम्पूज्य पुनर्मुद्रां प्रदर्शयेत् । (३४।१)
ṣaḍaṅgena ca sampūjya punarmudrāṃ pradarśayet |
जीवन्यासं ततः कृत्वा उपचारैः प्रपूजयेत् ॥ (३४।२)
jīvanyāsaṃ tataḥ kṛtvā upacāraiḥ prapūjayet ||
षडङ्गानि च सम्पूज्य अक्षोभ्यं पूजयेदधः । (३५।१)
ṣaḍaṅgāni ca sampūjya akṣobhyaṃ pūjayedadhaḥ |
महापूर्वांश् च काल्यादीन् यजेद्वैरोचनादिकान् । (३६।१)
mahāpūrvāṃś ca kālyādīn yajedvairocanādikān |
पुनर्देवीं प्रपूज्याथ बलिं दद्याद्विचक्षणः ॥ (३६।२)
punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ ||
प्राणायामं ततः कृत्वा मन्त्रध्यानं समाचरेत् । (३७।१)
prāṇāyāmaṃ tataḥ kṛtvā mantradhyānaṃ samācaret |
जपं कृत्वा महेशानि देव्या हस्ते समर्पयेत् ॥ (३७।२)
japaṃ kṛtvā maheśāni devyā haste samarpayet ||
प्राणायामं पुनः कृत्वा तत्त्वस्वीकारमाचरेत् । (३८।१)
prāṇāyāmaṃ punaḥ kṛtvā tattvasvīkāramācaret |
तस्मै दत्त्वा स्वयं नीत्वा प्रजपेत् साधकाग्रणीः ॥ (३८।२)
tasmai dattvā svayaṃ nītvā prajapet sādhakāgraṇīḥ ||
पीत्वा पीत्वा जपित्वा च मुक्तः कोटिजनैः सह । (३९।१)
pītvā pītvā japitvā ca muktaḥ koṭijanaiḥ saha |
प्रतिपात्रे जपेन्मन्त्रमष्टोत्तरशतं सुधीः ॥ (३९।२)
pratipātre japenmantramaṣṭottaraśataṃ sudhīḥ ||
स्तुतिं च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत् सुधीः । (४०।१)
stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ |
विशेषार्घ्यं प्रदातव्यम् आत्मानं च समर्पयेत् ॥ (४०।२)
viśeṣārghyaṃ pradātavyam ātmānaṃ ca samarpayet ||
रुद्ररूपी स्वयं भूत्वा संहारेण विसर्जयेत् । (४१।१)
rudrarūpī svayaṃ bhūtvā saṃhāreṇa visarjayet |
योनिमुद्रां ततो बद्ध्वा क्षमस्वेति विसर्जयेत् ॥ (४१।२)
yonimudrāṃ tato baddhvā kṣamasveti visarjayet ||
ऐशान्यां मण्डलं कृत्वा निर्माल्येन प्रपूजयेत् ॥ (४२।२)
aiśānyāṃ maṇḍalaṃ kṛtvā nirmālyena prapūjayet ||
निर्माल्यवासिनीं ङेऽन्तां चण्डेश्वर्यै नमो नमः । (४३।१)
nirmālyavāsinīṃ ṅe'ntāṃ caṇḍeśvaryai namo namaḥ |
निर्माल्यं धारयेत् शीर्षे चन्दनं च ललाटके ॥ (४३।२)
nirmālyaṃ dhārayet śīrṣe candanaṃ ca lalāṭake ||
गुरुस्थाने लिखेद् यन्त्रं विचरेद् भैरवो यथा । (४४।१)
gurusthāne likhed yantraṃ vicared bhairavo yathā |
संक्षेपपूजनं देवि मानसं तत्त्ववर्जितम् ॥ (४४।२)
saṃkṣepapūjanaṃ devi mānasaṃ tattvavarjitam ||
अत्रोक्तमाचरेदत्र नान्यत् संचारयेत् सुधीः । (४५।१)
atroktamācaredatra nānyat saṃcārayet sudhīḥ |
अन्यत्संचारणाद्देवि क्रुद्धा भवति तारिणी ॥ (४५।२)
anyatsaṃcāraṇāddevi kruddhā bhavati tāriṇī ||
तत्त्वज्ञानं च मानं च शक्तिमात्रे हि पार्वति । (४६।१)
tattvajñānaṃ ca mānaṃ ca śaktimātre hi pārvati |
इत्येतत् कथितं देवि किमन्यत् श्रोतुमिच्छसि ॥ (४६।२)
ityetat kathitaṃ devi kimanyat śrotumicchasi ||
Data courtesy of The Digital Corpus of Sanskrit.