रसेन्द्रचिन्तामणिRasendracintāmaṇi
RCint, 6
Select a line for its word-by-word analysis.
विनिघ्नन्ति जराव्याधीन् रसयुक्तानि किं पुनः ॥ (२।२)
vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ ||
मेतल्स्:: शोधनस्वर्णतारारताम्रायःपत्राण्य् अग्नौ प्रतापयेत् । (३।१)
metals:: śodhanasvarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet |
निषिञ्चेत्तप्ततैलानि तैले तक्रे गवां जले ॥ (३।२)
niṣiñcettaptatailāni taile takre gavāṃ jale ||
काञ्जिके च कुलत्थानां कषाये सप्तधा पृथक् । (४।१)
kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak |
एवं स्वर्णादिलोहानां विशुद्धिः सम्प्रजायते ॥ (४।२)
evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate ||
मेतल्स्:: शोधनतप्तानि सर्वलोहानि कदलीमूलवारिणि । (५।१)
metals:: śodhanataptāni sarvalohāni kadalīmūlavāriṇi |
सप्तधाभिनिषिक्तानि शुद्धिम् आयान्त्यनुत्तमाम् ॥ (५।२)
saptadhābhiniṣiktāni śuddhim āyāntyanuttamām ||
लेअद्, तिन्:: शोधननागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत् । (६।१)
lead, tin:: śodhananāgavaṅgau prataptau ca gālitau tau niṣecayet |
सप्तधैव विशुद्धिः स्याद्रविदुग्धे च सप्तधा ॥ (६।२)
saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā ||
गोल्द्:: शोधनवर्णवृत्तिकया लिप्त्वा सप्तधा ध्मापितं वसु । (७।१)
gold:: śodhanavarṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu |
विशुध्यति वरं किंचिद् वर्षवृद्धिश्च जायते ॥ (७।२)
viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate ||
गोल्द्:: शोधनवल्मीकमृत्तिका धूमं गैरिकं चेष्टका पटुः । (८।१)
gold:: śodhanavalmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ |
पिष्ट्वा लेप्यं स्वर्णपत्रं श्रेष्ठं पुटेन शुध्यति । (९।१)
piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati |
सिल्वेर्:: शोधननागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति । (९।२)
silver:: śodhananāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati |
रजतं दोषनिर्मुक्तं किं वा क्षाराम्लपाचितम् ॥ (९।३)
rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam ||
ताम्र:: शोधनस्नुह्यर्कक्षीरलवणकाञ्जिकैस्ताम्रपत्रकम् । (१०।१)
tāmra:: śodhanasnuhyarkakṣīralavaṇakāñjikaistāmrapatrakam |
लिप्त्वा प्रताप्य निर्गुण्डीरसे सिञ्चेत्पुनः पुनः । (१०।२)
liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ |
वारान् द्वादश तच्छुध्येल्लेपात्तापाच्च सेचनात् ॥ (१०।३)
vārān dvādaśa tacchudhyellepāttāpācca secanāt ||
चोप्पेर्:: शोधनगोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना । (११।१)
copper:: śodhanagomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā |
साम्लक्षारेण संशुद्धिं ताम्रमाप्नोति सर्वथा ॥ (११।२)
sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā ||
राजरीति, ब्रोन्ज़े:: शोधन, मारणराजरीतिं तथा घोषं ताम्रवच्छोधयेद् भिषक् । (१२।१)
rājarīti, bronze:: śodhana, māraṇarājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak |
ताम्रवन्मारयेच्चापि ताम्रवच्च तयोर्गुणाः ॥ (१२।२)
tāmravanmārayeccāpi tāmravacca tayorguṇāḥ ||
ब्रोन्ज़े, ब्रस्स्, लेअद्, तिन्:: शोधनघोषारनागवङ्गानि निषेकैर्मुनितुल्यकैः । (१३।१)
bronze, brass, lead, tin:: śodhanaghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ |
निर्गुण्डीरसमध्ये तु शुध्यन्ते नात्र संशयः ॥ (१३।२)
nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ ||
इरोन्:: शोधन:: अद्रित्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् । (१४।१)
iron:: śodhana:: adritriphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam |
कृत्वा पत्राणि तप्तानि सप्तवारान्निषेचयेत् । (१५।१)
kṛtvā patrāṇi taptāni saptavārānniṣecayet |
इरोन्:: शोधनतत्तद्व्याध्युपयुक्तानाम् औषधानां जलेऽयसः । (१६।१)
iron:: śodhanatattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ |
प्रक्षेपं प्राह तत्त्वज्ञः सिद्धो नागार्जुनस्ततः ॥ (१६।२)
prakṣepaṃ prāha tattvajñaḥ siddho nāgārjunastataḥ ||
इरोन्:: शोधनसर्वाभावे निषेक्तव्यं क्षीरतैलाज्यगोजले । (१७।१)
iron:: śodhanasarvābhāve niṣektavyaṃ kṣīratailājyagojale |
शुद्धस्य शोधनं ह्येतद्गुणाधिक्याय संमतम् ॥ (१७।२)
śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam ||
दिवेर्स् सत्त्वस्:: शोधनखसत्त्वं लौहवच्छोध्यं ताम्रवत्ताप्यसत्त्वकम् । (१८।१)
divers sattvas:: śodhanakhasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam |
दिनैकेनैव शुध्यन्ति भूनागाद्यास्तथाविधैः ॥ (१८।३)
dinaikenaiva śudhyanti bhūnāgādyāstathāvidhaiḥ ||
सिद्धलक्ष्मीश्वरप्रोक्तप्रक्रियाकुशलो भिषक् । (१९।१)
siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak |
लोहानां सरसं भस्म सर्वोत्कृष्टं प्रकल्पयेत् ॥ (१९।२)
lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet ||
सप्तधातु:: मारणशिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सप्तधातवः । (२०।१)
saptadhātu:: māraṇaśilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ |
म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥ (२०।२)
mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā ||
सप्तधातु:: मारणरसमिश्राश्चतुर्यामं स्वर्णाद्याः सप्तधातवः । (२१।१)
saptadhātu:: māraṇarasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ |
म्रियन्ते सिकतायन्त्रे गन्धकैरमृताधिकाः ॥ (२१।२)
mriyante sikatāyantre gandhakairamṛtādhikāḥ ||
गन्धैर् एकद्वित्रिवारान् पच्यन्ते फलदर्शनात् । (२२।१)
gandhair ekadvitrivārān pacyante phaladarśanāt |
षड्गुणादिश्च गन्धोऽत्र गुणाधिक्याय जार्यते ॥ (२२।२)
ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate ||
गोल्द्:: मारणसमसूतेन वै पिष्टिं कृत्वाग्नौ नाशयेद्रसम् । (२३।१)
gold:: māraṇasamasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam |
स्वर्णं तत्समताप्येन पुटितं भस्म जायते ॥ (२३।२)
svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate ||
गोल्द्:: मारण, रेमोवल् ओड़् नागहेमपत्राणि सूक्ष्माणि जम्भाम्भो नागभस्मतः । (२४।१)
gold:: māraṇa, removal of nāgahemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ |
पुनः पुटे त्रिवारं तन्म्लेच्छतो नागहानये ॥ (२४।३)
punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye ||
गोल्द्:: मारणशुद्धसूतसमं स्वर्णं खल्वे कृत्वा तु गोलकम् । (२५।१)
gold:: māraṇaśuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam |
ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ॥ (२५।२)
ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca ||
त्रिंशद्वनोपलैर्देयाः पुटाश्चैवं चतुर्दश । (२६।१)
triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa |
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥ (२६।२)
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ ||
गोल्द्:: मारणस्वर्णम् आवृत्य तोलैकं माषैकं शुद्धगन्धकम् । (२७।१)
gold:: māraṇasvarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam |
क्षिप्त्वा चाम्लेन संचूर्ण्य तत्तुल्यौ गन्धमाक्षिकौ ॥ (२७।२)
kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau ||
अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् । (२८।१)
amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet |
गन्धः पुनः पुनर्देयो म्रियते दशभिः पुटैः ॥ (२८।२)
gandhaḥ punaḥ punardeyo mriyate daśabhiḥ puṭaiḥ ||
सिल्वेर्:: मारणविधाय पिष्टिं सूतेन रजतस्याथ मेलयेत् । (२९।१)
silver:: māraṇavidhāya piṣṭiṃ sūtena rajatasyātha melayet |
तालं गन्धं समं पश्चान्मर्दयेन्निम्बुकद्रवैः । (२९।२)
tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ |
द्वित्रिपुटैर्भवेद्भस्म योज्यमेवं रसादिषु ॥ (२९।३)
dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu ||
अत्र सूतरक्षार्थं गन्धः पुनर् अधिको देयः ॥ (३०।२)
atra sūtarakṣārthaṃ gandhaḥ punar adhiko deyaḥ ||
चोप्पेर्:: मारणगन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् । (३१।१)
copper:: māraṇagandhena tāmratulyena hyamlapiṣṭena lepayet |
कण्टवेध्यं ताम्रपत्रम् अन्धयित्वा पुटे पचेत् ॥ (३१।२)
kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet ||
उद्धृत्य चूर्णयेत्तस्मिन् पादांशं गन्धकं क्षिपेत् । (३२।१)
uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet |
पाच्यं जम्भाम्भसा पिष्टं समो गन्धश्चतुःपुटे ॥ (३२।२)
pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe ||
मातुलुङ्गरसैः पिष्ट्वा पुटमेकं प्रदापयेत् । (३३।१)
mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet |
चोप्पेर्:: मारणताम्रपादांशतः सूतं ताम्रतुल्यं तु गन्धकम् । (३४।१)
copper:: māraṇatāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam |
मर्दयेद्यामयुग्मं तु यावत्कज्जलिका भवेत् ॥ (३४।२)
mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet ||
तां तु कन्यारसैः पिष्ट्वा ताम्रपत्राणि लेपयेत् । (३५।१)
tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet |
निक्षिप्य हण्डिकामध्ये शरावेण निरोधयेत् । (३६।१)
nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet |
सन्धिरोधं द्वयोः कुर्यादम्बुभस्म विलेपनम् ॥ (३६।२)
sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam ||
पिधाय चुल्ल्यामारोप्य वह्निं प्रज्वालयेद् दृढम् । (३७।२)
pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham |
चतुर्यामं ततः स्वाङ्गशीतलं तत्समुद्धरेत् ॥ (३७।३)
caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet ||
उदरे तस्य किट्टानि जायन्ते नात्र संशयः ॥ (३९।२)
udare tasya kiṭṭāni jāyante nātra saṃśayaḥ ||
वस्तुतस्तु प्राशस्त्याय रसयोगो रसाभ्रयोगश्च । (४०।१)
vastutastu prāśastyāya rasayogo rasābhrayogaśca |
अनयोर्मात्रा युक्त्यनुसारिणी ततो म्रियत इति शेषः ॥ (४०।२)
anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ ||
रेमेद्य् अगैन्स्त् वोमितम्लपिष्टं मृतं ताम्रं शरणस्थं लिपेन्मृदा । (४१।१)
remedy against vomitamlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā |
पचेत्पञ्चामृतैर्वापि त्रिधावान्त्यादिशान्तये ॥ (४१।२)
pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye ||
चोप्पेर्:: मारणजम्भाम्भसा सैन्धवसंयुतेन सगन्धकं स्थापय शुल्वपत्रम् । (४२।२)
copper:: māraṇajambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram |
पङ्कायमानं पुटयेत्सुयुक्त्या वान्त्यादिकं यावदुपैति शान्तिम् ॥ (४२।३)
paṅkāyamānaṃ puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim ||
चोप्पेर्:: मृतोत्थ:: मारण (= रेपेअतेद् मारण)मृतोत्थशुद्धं संतप्तं ताम्रचक्रं बलिस्थितम् । (४३।१)
copper:: mṛtottha:: māraṇa (= repeated māraṇa)mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam |
मृतं स्यात्तत्र सूतेन्द्रं दद्याद्दोषानुसारतः ॥ (४३।२)
mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ ||
चोप्पेर्:: मारणरसगन्धकयोः कृत्वा कञ्जलीम् अर्धमानयोः । (४४।१)
copper:: māraṇarasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ |
वारा लिम्पेत् कण्टवेध्यं म्रियते ताम्रमातपे ॥ (४४।२)
vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape ||
गोल्द्:: प्रोदुच्तिओन्:: ड़्रोम् चोप्पेरार्कं भस्म स्थालिकायां निधाय ज्वालां दत्त्वा नाशयेत्तत्र गन्धम् । (४५।१)
gold:: production:: from copperārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham |
आवर्त्यैतन्मारयेत्सप्तवारानित्थं शुल्बं जायते हेमतुल्यम् ॥ (४५।२)
āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam ||
??शशिहाटकहेलिदलं रसबलितमेकमर्दितं बलिना । (४६।१)
??śaśihāṭakahelidalaṃ rasabalitamekamarditaṃ balinā |
इष्टरसपिष्टमतः कृतपर्पटम् अर्पयेत् तदनु ॥ (४६।२)
iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu ||
माक्षिक:: सत्त्व:: मारणमाक्षीकरसकादीनां सत्त्वं हन्याच्च ताम्रवत् ॥ (४७।०)
mākṣika:: sattva:: māraṇamākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat ||
तिन्:: मारणवङ्गं खर्परके कृत्वा चुल्ल्यां संस्थापयेत् सुधीः । (४८।१)
tin:: māraṇavaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ |
द्रवीभूते पुनस्तस्मिन् चूर्णान्येतानि दापयेत् ॥ (४८।२)
dravībhūte punastasmin cūrṇānyetāni dāpayet ||
तृतीये जीवकं चैव ततश्चिञ्चात्वगुद्भवम् ॥ (४९।२)
tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam ||
अश्वत्थवल्कलोत्थं च चूर्णं तत्र विनिक्षिपेत् । (५०।१)
aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet |
एवं विधानतो वङ्गो म्रियते नात्र संशयः ॥ (५०।२)
evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ ||
लेअद्:: मारणनागं खर्परके निधाय कुनटीचूर्णं ददीत द्रुते निम्बूत्थद्रवगन्धकेन पुटितं भस्मीभवत्याशु तत् । (५१।१)
lead:: māraṇanāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat |
एवं तालकवापतस्तु कुटिलं चूर्णीकृतं तत्पुटेद् गन्धाम्लेन समस्तदोषरहितं योगेषु योज्यं भवेत् ॥ (५१।२)
evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet ||
सिन्दूर:: प्रोदुच्तिओन्भूभुजङ्गमगस्तिं च पिष्ट्वा पात्रं प्रलेपयेत् । (५२।१)
sindūra:: productionbhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet |
क्षारं विमिश्रयेत्तत्र चतुर्थांशं गुरूक्तितः । (५३।१)
kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ |
प्रहरं पाचयेच्चुल्ल्यां वासादर्व्या विघट्टयन् ॥ (५३।२)
praharaṃ pācayeccullyāṃ vāsādarvyā vighaṭṭayan ||
तत उद्धृत्य तच्चूर्णं वासानीरैर्विमर्दयेत् । (५४।१)
tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet |
पुटेत्पुनः समुद्धृत्य तद्द्रवेण विमर्दयेत् । (५४।२)
puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet |
एवं सप्तपुटैर्नागः सिन्दूरो जायते ध्रुवम् ॥ (५४।३)
evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam ||
इरोन्:: मारणम्लौहं पत्रमतीवतप्तम् असकृत् क्वाथे क्षिपेत्त्रैफले चूर्णीभूतम् अतः पुनस्त्रिफलजे क्वाथे पचेद् गोजले । (५५।१)
iron:: māraṇamlauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale |
मत्स्याक्षीत्रिफला एतेन पुटयेद्यावन्निरुत्थं भवेत् पश्चादाज्यमधुप्लुतं सुपुटितं सिद्धं भवेद् आयसम् ॥ (५५।२)
matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam ||
प्रकृतत्रिचतुःपुटे मनःशिलां किंचिद् दद्यात् ॥ (५६।२)
prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt ||
इरोन्:: मारणपरिप्लुतं दाडिमपत्रवारा लौहं रजः स्वल्पकटोरिकायाम् । (५७।१)
iron:: māraṇapariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām |
म्रियेत वस्त्रावृतमर्कभासा योज्यं पुटैः स्यात् त्रिफलादिकानाम् ॥ (५७।२)
mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām ||
पुटबाहुल्यं गुणाधिक्याय शतादिपुटपक्षे मुद्गनिभं कृत्वा पुटान् दद्याद्वस्त्रपूतं च न कुर्यात् । (५८।१)
puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt |
इरोन्:: मारण:: वारितरसूतकाद्द्विगुणं गन्धं दत्त्वा कृत्वा च कज्जलीम् । (५९।१)
iron:: māraṇa:: vāritarasūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm |
द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥ (५९।२)
dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ ||
यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके । (६०।१)
yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake |
घर्मे धृत्वोरुवूकस्य पत्रैराच्छादयेद् बुधः ॥ (६०।२)
gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ ||
यामार्धेनोष्णता भूयाद्धान्यराशौ न्यसेत्ततः । (६१।१)
yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ |
दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ॥ (६१।२)
dattvopari śarāvaṃ tu tridinānte samuddharet ||
पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत् । (६२।१)
piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet |
एवं सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत् ॥ (६२।२)
evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet ||
इरोन्:: छेच्किन्ग् थे वारितर स्ततेसर्वमेतन्मृतं लौहं ध्मातव्यं मित्रपञ्चकैः । (६३।१)
iron:: checking the vāritara statesarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ |
यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं हि तत् ॥ (६३।२)
yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hi tat ||
मित्रपञ्चकमधुसर्पिस्तथा गुञ्जा टङ्कणं गुग्गुलुस्तथा । (६४।१)
mitrapañcakamadhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā |
इरोन्:: मृत:: छेच्किन्ग् थे मृत-स्ततेमध्वाज्यं मृतलौहं च सरूप्यं सम्पुटे क्षिपेत् । (६५।१)
iron:: mṛta:: checking the mṛta-statemadhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet |
रुद्ध्वा ध्माते च संग्राह्यं रूप्यं वै पूर्वमानकम् । (६५।२)
ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam |
तदा लौहं मृतं विद्यादन्यथा मारयेत्पुनः ॥ (६५।३)
tadā lauhaṃ mṛtaṃ vidyādanyathā mārayetpunaḥ ||
इरोन्:: मारण:: निरुत्थानगन्धकेनोत्थितं लौहं तुल्यं खल्वे विमर्दयेत् । (६६।१)
iron:: māraṇa:: nirutthānagandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet |
दिनैकं कन्यकाद्रावैः रुद्ध्वा गजपुटे पचेत् । (६६।२)
dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet |
इत्येवं सर्वलौहानां कर्तव्येयं निरुत्थितिः ॥ (६६।३)
ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ ||
यववृद्ध्या प्रयोक्तव्यं हेम गुञ्जाष्टकं रविः । (६७।१)
yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ |
तारं तद्द्विगुणं लौहमन्यत्तु त्रिगुणाधिकम् ॥ (६७।२)
tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam ||
किट्ट (रुस्त्!):: अगे => क़ुअलित्य्शतोर्ध्वम् उत्तमं किट्टं मध्यं चाशीतिवार्षिकम् । (६८।१)
kiṭṭa (rust!):: age => qualityśatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam |
मण्डूर:: प्रोदुच्तिओनक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैः । (६९।१)
maṇḍūra:: productionakṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ |
सेचयेत्तप्ततप्तं च सप्तवारं पुनः पुनः ॥ (६९।२)
secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ ||
चूर्णयित्वा ततः क्वाथैर् द्विगुणैस्त्रिफलोद्भवैः । (७०।१)
cūrṇayitvā tataḥ kvāthair dviguṇaistriphalodbhavaiḥ |
आलोड्य भर्जयेद्वह्नौ मण्डूरं जायते वरम् ॥ (७०।२)
āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam ||
स्वर्ण, रूप्यआयुर्लक्ष्मीप्रभाधीस्मृतिकरमखिलव्याधिविध्वंसि पुण्यम् । (७१।१)
svarṇa, rūpyaāyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam |
भूतावेशप्रशान्तिस्मरभवसुखदं सौख्यपुष्टिप्रकाशि । (७१।२)
bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi |
गाङ्गेयं चाथ रूप्यं गदहम् अजराकारि मेहापहारि । (७१।३)
gāṅgeyaṃ cātha rūpyaṃ gadaham ajarākāri mehāpahāri |
क्षीणानां पुष्टिकारि स्फुटम् अतिकरणं कारणं वीर्यवृद्धेः ॥ (७१।४)
kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ ||
गोल्द्:: मेदिच्। प्रोपेर्तिएस्मधुरं कटुकं पाके सुवर्णं वीर्यशीतलम् । (७२।१)
gold:: medic. propertiesmadhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam |
आयुर्मेधास्मृतिकरः पुष्टिकान्तिविवर्धनः ॥ (७३।२)
āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ ||
सर्वौषधिप्रयोगैर् ये व्याधयो न विनिर्जिताः । (७४।१)
sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ |
कर्मभिः पञ्चभिश्चापि सुवर्णं तेषु योजयेत् ॥ (७४।२)
karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet ||
अन्यै रसायनैश्चापि प्रयोगो हेम्न उत्तमः ॥ (७५।२)
anyai rasāyanaiścāpi prayogo hemna uttamaḥ ||
ताप्यसूतकयोरित्यत्र सामान्यसंस्कृतसूतको ज्ञेयः । (७६।१)
tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ |
विशेषसंस्कृतसूतकस्य तु व्योमगामित्वादिप्रदत्वात् ॥ (७६।२)
viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt ||
मध्वामलकचूर्णं तु सुवर्णं चेति तत्त्रयम् । (७७।१)
madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam |
प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् ॥ (७७।२)
prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt ||
शङ्खपुष्प्या वयोऽर्थी च विदार्या च प्रजार्थकः ॥ (७८।२)
śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ ||
चोप्पेर्:: मेदिच्। प्रोपेर्तिएस्गुल्मपाण्डुपरिणामशूलहृल्लेखनं कृमिहरं विशोधनम् । (७९।१)
copper:: medic. propertiesgulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam |
प्लीहकुष्ठजठरामशूलजिच्छ्लेष्मवातहरणं रविनाम ॥ (७९।२)
plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma ||
पित्तल, कांस्यरीतिका श्लेष्मपित्तघ्नी कांस्यमुष्णं च लेखनम् ॥ (८०।०)
pittala, kāṃsyarītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam ||
तिन्:: मेदिच्। प्रोपेर्तिएस्वङ्गो दाहहरः पाण्डुजन्तुमेहविनाशनः ॥ (८१।०)
tin:: medic. propertiesvaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ ||
लेअद्:: मेदिच्। प्रोपेर्तिएस्दशनागबलं धत्ते वीर्यायुःकान्तिवर्धनः । (८२।१)
lead:: medic. propertiesdaśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ |
रोगान् हन्ति मृतो नागः सेव्यो रङ्गोऽपि तद्गुणः ॥ (८२।२)
rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ ||
इरोन्:: मेदिच्। प्रोपेर्तिएसायुःप्रदाता बलवीर्यकर्ता रोगापहर्ता कदनस्य कर्ता । (८४।१)
iron:: medic. propertiesāyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā |
अयःसमानं नहि किंचिदस्ति रसायनं श्रेष्ठतमं नराणाम् ॥ (८४।२)
ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām ||
इरोन्:: रेइहेन्ड़ोल्गे देर् ग्तेसामान्याद् द्विगुणं क्रौञ्चं कलिङ्गोऽष्टगुणस्ततः । (८५।१)
iron:: Reihenfolge der Gtesāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ |
कलेर्दशगुणं भद्रं भद्राद्वज्रं सहस्रधा ॥ (८५।२)
kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā ||
वज्राच्छतगुणं पाण्डिर् निरङ्गं दशभिर्गुणैः । (८६।१)
vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ |
तस्मात् सहस्रगुणितम् अयः कान्तं महाबलम् ॥ (८६।२)
tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam ||
यल्लोहं यद्गुणं प्रोक्तं तत्किट्टं चापि तद्गुणम् ॥ (८७।०)
yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam ||
Data courtesy of The Digital Corpus of Sanskrit.