उड्डामरेश्वरतन्त्रUḍḍāmareśvaratantra
UḍḍT, 11
Select a line for its word-by-word analysis.
वज्रक्रोधाय महादन्ताय दशदिशो बन्ध बन्ध हं फट् स्वाहा । (१।२)
vajrakrodhāya mahādantāya daśadiśo bandha bandha haṃ phaṭ svāhā |
कुमुदं हरितालं च पिष्ट्वा योनिं प्रलेपयेत् । (१।४)
kumudaṃ haritālaṃ ca piṣṭvā yoniṃ pralepayet |
त्रिरात्रं पञ्चरात्रं च योनिर् भवति संयुता ॥ (१।५)
trirātraṃ pañcarātraṃ ca yonir bhavati saṃyutā ||
मालतीकुसुमैस् तैलैर् वल्कैर् वराङ्गलेपनम् । (३।१)
mālatīkusumais tailair valkair varāṅgalepanam |
ऋतुकाले ऽथवा कुर्यात् तदा तत्तुल्यता भवेत् ॥ (३।२)
ṛtukāle 'thavā kuryāt tadā tattulyatā bhavet ||
लेपनात् तु ततः शिश्नं यथेच्छं कामयेद् बलात् ॥ (५।२)
lepanāt tu tataḥ śiśnaṃ yathecchaṃ kāmayed balāt ||
सौभाग्यपिप्पली लाक्षा विषं च क्रमवर्धितम् । (६।१)
saubhāgyapippalī lākṣā viṣaṃ ca kramavardhitam |
लेपं प्रक्षालितं लिङ्गं नारी कामयते चिरात् ॥ (६।२)
lepaṃ prakṣālitaṃ liṅgaṃ nārī kāmayate cirāt ||
पारावतं तथा गुञ्जा श्वेतोत्पलं समक्षिकम् । (७।१)
pārāvataṃ tathā guñjā śvetotpalaṃ samakṣikam |
नाभिलेपनम् इत्य् उक्तं वीर्यस्तम्भकरं परम् ॥ (७।२)
nābhilepanam ity uktaṃ vīryastambhakaraṃ param ||
द्वादशारं लिखेच् चक्रं कुङ्कुमेन समन्वितम् । (८।१)
dvādaśāraṃ likhec cakraṃ kuṅkumena samanvitam |
भूर्जपत्त्रे ऽथवा वस्त्रे नेत्रे बद्धफलादिके ॥ (८।२)
bhūrjapattre 'thavā vastre netre baddhaphalādike ||
पत्त्रे पत्त्रे लिखेद् बीजं ह्रींकारं परमोज्ज्वलम् । (९।१)
pattre pattre likhed bījaṃ hrīṃkāraṃ paramojjvalam |
मृत्तिकाभिः समस्ताभिः प्रतिमां कारयेद् दृढम् ॥ (१०।२)
mṛttikābhiḥ samastābhiḥ pratimāṃ kārayed dṛḍham ||
कर्षयेत् प्रमदां नॄणां गर्वितां तु न संशयः । (११।१)
karṣayet pramadāṃ nṝṇāṃ garvitāṃ tu na saṃśayaḥ |
वैराग्यं न पुनर् याति दासीभावेन तिष्ठति ॥ (११।२)
vairāgyaṃ na punar yāti dāsībhāvena tiṣṭhati ||
दाडिमं पञ्चकोलं च लोहं वज्रोरसं घृतम् । (१२।१)
dāḍimaṃ pañcakolaṃ ca lohaṃ vajrorasaṃ ghṛtam |
चूर्णं भूमन्दरा शाखा दन्तनखं करोति वै ॥ (१२।२)
cūrṇaṃ bhūmandarā śākhā dantanakhaṃ karoti vai ||
Data courtesy of The Digital Corpus of Sanskrit.