उड्डामरेश्वरतन्त्रUḍḍāmareśvaratantra

UḍḍT, 12

12 of 15 · 129 verses

Select a line for its word-by-word analysis.

1.1१.१

ॐ ह्रीं श्रीं क्लीं द्रं चण्डोग्रे त्रिनेत्रे चामुण्डे अरिष्टे हूं फट् स्वाहा । (१।१)

oṃ hrīṃ śrīṃ klīṃ draṃ caṇḍogre trinetre cāmuṇḍe ariṣṭe hūṃ phaṭ svāhā |

1.2१.२

ह्रीं नमाम्य् अहं महादेवं नृसिंहं भीमरूपिणम् ॐ नमस् तस्मै । (१।२)

hrīṃ namāmy ahaṃ mahādevaṃ nṛsiṃhaṃ bhīmarūpiṇam oṃ namas tasmai |

1.3१.३

श्रीपार्वत्य् उवाच । (१।३)

śrīpārvaty uvāca

1.4१.४

उड्डीशेन समाकीर्णे योगिवृन्दसमाकुले । (१।४)

uḍḍīśena samākīrṇe yogivṛndasamākule |

1.5१.५

प्रणम्य शिरसा गौरी परिपृच्छति शंकरम् ॥ (१।५)

praṇamya śirasā gaurī paripṛcchati śaṃkaram ||

2.1२.१

श्रीश्वर उवाच । (२।१)

śrīśvara uvāca

2.2२.२

शृणु त्वं हि वरारोहे सिद्ध्यर्थं प्रतिवाससे । (२।२)

śṛṇu tvaṃ hi varārohe siddhyarthaṃ prativāsase |

2.3२.३

तं वदिष्यामि ते देवि सर्वं तत् समुपाहृतम् ॥ (२।३)

taṃ vadiṣyāmi te devi sarvaṃ tat samupāhṛtam ||

3.1३.१

देवि यो द्विजो मन्त्रैस् तु विप्रहन्यान् न संशयः । (३।१)

devi yo dvijo mantrais tu viprahanyān na saṃśayaḥ |

3.2३.२

पूर्वोदितं मयोड्डीशं कथ्यते तव भक्तितः ॥ (३।२)

pūrvoditaṃ mayoḍḍīśaṃ kathyate tava bhaktitaḥ ||

4.1४.१

उड्डीशं च नमस्कृत्य रुद्रं चैव सुदुर्जयम् । (४।१)

uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurjayam |

4.2४.२

कपर्दिनं विरूपाक्षं सर्वभूतभयावहम् ॥ (४।२)

kapardinaṃ virūpākṣaṃ sarvabhūtabhayāvaham ||

5.1५.१

प्रथमं भूतकरणं द्वितीयोन्मादनं तथा । (५।१)

prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā |

5.2५.२

तृतीयं द्वेषणं चैव तुर्यम् उच्चाटनं तथा ॥ (५।२)

tṛtīyaṃ dveṣaṇaṃ caiva turyam uccāṭanaṃ tathā ||

6.1६.१

ग्रामोच्चाटं पञ्चमं च षष्ठं च जलस्तम्भनम् । (६।१)

grāmoccāṭaṃ pañcamaṃ ca ṣaṣṭhaṃ ca jalastambhanam |

6.2६.२

सप्तमम् अग्निस्तम्भं च वशीकरणम् अष्टमम् ॥ (६।२)

saptamam agnistambhaṃ ca vaśīkaraṇam aṣṭamam ||

7.1७.१

अन्यान् अपि प्रयोगांश् च शृणुष्व वै वरानने । (७।१)

anyān api prayogāṃś ca śṛṇuṣva vai varānane |

7.2७.२

शिवेन कथिता योगा उड्डीशे शास्त्रनिश्चये ॥ (७।२)

śivena kathitā yogā uḍḍīśe śāstraniścaye ||

8.1८.१

अन्धी च वन्धीकरणं मूकीकारस् तथैव च । (८।१)

andhī ca vandhīkaraṇaṃ mūkīkāras tathaiva ca |

8.2८.२

गात्रसंकोचनं चैव भूतज्वरकरस् तथा ॥ (८।२)

gātrasaṃkocanaṃ caiva bhūtajvarakaras tathā ||

9.1९.१

अस्त्रशस्त्रस्य त्रुटितं पानीयस्य विनाशनम् । (९।१)

astraśastrasya truṭitaṃ pānīyasya vināśanam |

9.2९.२

दधिमधुनाशनं च नखकरणं तथैव च ॥ (९।२)

dadhimadhunāśanaṃ ca nakhakaraṇaṃ tathaiva ca ||

10.1१०.१

गजानां वाजिनां चैव प्रकोपनं परस्परम् । (१०।१)

gajānāṃ vājināṃ caiva prakopanaṃ parasparam |

10.2१०.२

आकर्षणं भुजंगानां मानवानां तथा ध्रुवम् ॥ (१०।२)

ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam ||

11.1११.१

सस्यविनाशनं चैव गर्भस्यान्तर्धिकारणम् । (११।१)

sasyavināśanaṃ caiva garbhasyāntardhikāraṇam |

11.2११.२

वेतालाञ्जनसिद्धिश् च उलूकसिद्धिर् अपि हि ॥ (११।२)

vetālāñjanasiddhiś ca ulūkasiddhir api hi ||

12.1१२.१

अन्यान् अपि महारौद्रान् प्रयोगान् शृणु साम्प्रतम् । (१२।१)

anyān api mahāraudrān prayogān śṛṇu sāmpratam |

12.2१२.२

विद्यामन्त्रप्रयोगांश् च औषधं चाभिचारिकम् ॥ (१२।२)

vidyāmantraprayogāṃś ca auṣadhaṃ cābhicārikam ||

13.1१३.१

गुप्ता गुप्ततराः कार्या रक्षितव्याः प्रयत्नतः । (१३।१)

guptā guptatarāḥ kāryā rakṣitavyāḥ prayatnataḥ |

13.2१३.२

अकुलीनाधमबुद्धेर् भक्तिहीनस्य वै तथा ॥ (१३।२)

akulīnādhamabuddher bhaktihīnasya vai tathā ||

14.1१४.१

हिंसकस्य च क्षुद्रस्य निन्दकस्य विशेषतः । (१४।१)

hiṃsakasya ca kṣudrasya nindakasya viśeṣataḥ |

14.2१४.२

स्वार्थं फलादिलुब्धस्य उपदेशम् अमन्यतः ॥ (१४।२)

svārthaṃ phalādilubdhasya upadeśam amanyataḥ ||

15.1१५.१

अस्मिन् शापे पूरुषास् ते वर्जनीयाः प्रयत्नतः । (१५।१)

asmin śāpe pūruṣās te varjanīyāḥ prayatnataḥ |

15.2१५.२

एतैश् च सह संयोगो न कार्यः सर्वदा बुधैः ॥ (१५।२)

etaiś ca saha saṃyogo na kāryaḥ sarvadā budhaiḥ ||

16.1१६.१

य उड्डीशक्रियाशक्तिभेदं कुर्वन्ति मोहिताः । (१६।१)

ya uḍḍīśakriyāśaktibhedaṃ kurvanti mohitāḥ |

16.2१६.२

ते दुष्टा दुर्जयाश् चैव किम् अत्र बहुभाषितैः ॥ (१६।२)

te duṣṭā durjayāś caiva kim atra bahubhāṣitaiḥ ||

17.1१७.१

यदीच्छासिद्धिम् आत्मानम् आत्मार्थं हि तथैव च । (१७।१)

yadīcchāsiddhim ātmānam ātmārthaṃ hi tathaiva ca |

17.2१७.२

सत्पूरुषाय दातव्यं देवगुरुरताय च ॥ (१७।२)

satpūruṣāya dātavyaṃ devagururatāya ca ||

18.1१८.१

प्रयोगास् तु प्रयोक्तव्याः साधकैः शत्रुकारणे । (१८।१)

prayogās tu prayoktavyāḥ sādhakaiḥ śatrukāraṇe |

18.2१८.२

अनिमित्ता निवर्तन्ते स्वात्मग्राहे न संशयः ॥ (१८।२)

animittā nivartante svātmagrāhe na saṃśayaḥ ||

19.1१९.१

असंतुष्टो ह्य् अयुक्तश् च प्रयोगान् इति नाचरेत् । (१९।१)

asaṃtuṣṭo hy ayuktaś ca prayogān iti nācaret |

19.2१९.२

शास्त्रसिद्धविचारास् तु सामन्तकोषकाः शुभाः ॥ (१९।२)

śāstrasiddhavicārās tu sāmantakoṣakāḥ śubhāḥ ||

20.1२०.१

ॐ ग्लौं गं गणेशाय नमः । (२०।१)

oṃ glauṃ gaṃ gaṇeśāya namaḥ |

20.2२०.२

मन्त्रेणानेन मन्त्रज्ञः कुम्भकारमृदा तथा । (२०।२)

mantreṇānena mantrajñaḥ kumbhakāramṛdā tathā |

20.3२०.३

लम्बोदरं प्रकुर्वीत पूजयेद् उपचारकैः ॥ (२०।३)

lambodaraṃ prakurvīta pūjayed upacārakaiḥ ||

21.1२१.१

साप्ताहिकं त्रिसंध्यायां जप्तव्यं सावधानतः । (२१।१)

sāptāhikaṃ trisaṃdhyāyāṃ japtavyaṃ sāvadhānataḥ |

21.2२१.२

सहस्रैकप्रमाणेन जपाच्छान्तिर् भविष्यति ॥ (२१।२)

sahasraikapramāṇena japācchāntir bhaviṣyati ||

22.1२२.१

प्रातर् अष्टोत्तरं जप्त्वा लभेद् बुद्धिं शुभां नरः । (२२।१)

prātar aṣṭottaraṃ japtvā labhed buddhiṃ śubhāṃ naraḥ |

22.2२२.२

मासेनैकेन देवेशि श्रीलाभश् च भवेद् ध्रुवम् ॥ (२२।२)

māsenaikena deveśi śrīlābhaś ca bhaved dhruvam ||

23.1२३.१

षण्मासेन वरारोहे महाधनपतिर् भवेत् । (२३।१)

ṣaṇmāsena varārohe mahādhanapatir bhavet |

23.2२३.२

त्रिकालज्ञानवेत्ता च वर्षैकेन न संशयः ॥ (२३।२)

trikālajñānavettā ca varṣaikena na saṃśayaḥ ||

24.1२४.१

ऐं नमः स्वाहा । (२४।१)

aiṃ namaḥ svāhā |

24.2२४.२

प्रातः सहस्रवारं तु प्रजप्तेन प्रपूजयेत् । (२४।२)

prātaḥ sahasravāraṃ tu prajaptena prapūjayet |

24.3२४.३

वरदां तु महादेवीं श्वेतगन्धानुलेपनैः ॥ (२४।३)

varadāṃ tu mahādevīṃ śvetagandhānulepanaiḥ ||

25.1२५.१

पुष्पैर् जापैर् दक्षिणादिसोपचारैस् तु प्रत्यहम् । (२५।१)

puṣpair jāpair dakṣiṇādisopacārais tu pratyaham |

25.2२५.२

सप्तमे दिवसे ह्य् एवं वागैश्वर्यं प्रजायते ॥ (२५।२)

saptame divase hy evaṃ vāgaiśvaryaṃ prajāyate ||

26.1२६.१

भवेत् सद्यः प्रवक्ता च श्रुतिस्मृतिधरो ऽपि च । (२६।१)

bhavet sadyaḥ pravaktā ca śrutismṛtidharo 'pi ca |

26.2२६.२

बान्धवः सर्वभूतानां चिरायुः सुखम् एधते ॥ (२६।२)

bāndhavaḥ sarvabhūtānāṃ cirāyuḥ sukham edhate ||

27.1२७.१

ॐ क्लीं मन्त्रेणानेन देवेशि साधकः जपम् आरभेत् । (२७।१)

oṃ klīṃ mantreṇānena deveśi sādhakaḥ japam ārabhet |

27.2२७.२

रक्तवस्त्रावृतो नित्यं तथा कुङ्कुमजाङ्गले ॥ (२७।२)

raktavastrāvṛto nityaṃ tathā kuṅkumajāṅgale ||

28.1२८.१

सप्ताहजपमात्रेण ह्य् आनयेत् त्रिदशाङ्गनाम् । (२८।१)

saptāhajapamātreṇa hy ānayet tridaśāṅganām |

28.2२८.२

ॐ द्रीं द्रीं द्रीं द्रीं स्वाहा । (२८।२)

oṃ drīṃ drīṃ drīṃ drīṃ svāhā |

28.3२८.३

पूर्वविधानो हि जपेद् एकान्तसंस्थितः ॥ (२८।३)

pūrvavidhāno hi japed ekāntasaṃsthitaḥ ||

29.1२९.१

आकर्षेति स्त्रियं शस्तां सालंकारां सुवाससम् । (२९।१)

ākarṣeti striyaṃ śastāṃ sālaṃkārāṃ suvāsasam |

29.2२९.२

ॐ हैं हः हुं । (२९।२)

oṃ haiṃ haḥ huṃ |

29.3२९.३

ऊर्ध्वदृष्टिप्रयोगेण जपेल् लक्षत्रयं प्रिये ॥ (२९।३)

ūrdhvadṛṣṭiprayogeṇa japel lakṣatrayaṃ priye ||

30.1३०.१

सर्वपापविनिर्मुक्तो जायते खेचरे पदे । (३०।१)

sarvapāpavinirmukto jāyate khecare pade |

30.2३०.२

ॐ द्रीं कारीण्डः क्षः क्षीं फट् स्वाहा । (३०।२)

oṃ drīṃ kārīṇḍaḥ kṣaḥ kṣīṃ phaṭ svāhā |

30.3३०.३

एकपादस्थितो भद्रे जपेद् अष्टोत्तरं शतम् ॥ (३०।३)

ekapādasthito bhadre japed aṣṭottaraṃ śatam ||

31.1३१.१

यद् यत् प्रार्थयते वस्तु तद् ददाति दिने दिने । (३१।१)

yad yat prārthayate vastu tad dadāti dine dine |

31.2३१.२

यजेन् नरविशेषं च देवाग्निगुरुब्राह्मणैः ॥ (३१।२)

yajen naraviśeṣaṃ ca devāgnigurubrāhmaṇaiḥ ||

32.1३२.१

ॐ श्रीं क्षीं लोहं मुञ्च किलि किलि अमुकं काटय काटय मातंगिनि स्वाहा । (३२।१)

oṃ śrīṃ kṣīṃ lohaṃ muñca kili kili amukaṃ kāṭaya kāṭaya mātaṃgini svāhā |

32.2३२.२

मन्त्रेणानेन पूर्वाह्णे पूजयन्न् उपचारकैः । (३२।२)

mantreṇānena pūrvāhṇe pūjayann upacārakaiḥ |

32.3३२.३

शरावं पूरयित्वा तु चतुष्पथे बलिं हरेत् ॥ (३२।३)

śarāvaṃ pūrayitvā tu catuṣpathe baliṃ haret ||

33.1३३.१

समन्त्रं क्षिप्यति पुमान् पुरुषं यदि पश्यति । (३३।१)

samantraṃ kṣipyati pumān puruṣaṃ yadi paśyati |

33.2३३.२

आत्मचिन्तितकार्याणि साधयत्य् एव नान्यथा ॥ (३३।२)

ātmacintitakāryāṇi sādhayaty eva nānyathā ||

34.1३४.१

ॐ स्तम्भिनि स्वाहा कपालिनि स्वाहा द्रीं द्रीं वैषादार्थिनि स्वाहा छः छः । (३४।१)

oṃ stambhini svāhā kapālini svāhā drīṃ drīṃ vaiṣādārthini svāhā chaḥ chaḥ |

34.2३४.२

मन्त्रेण मृत्तिकां जप्त्वा प्रतार्य सप्तधा जले । (३४।२)

mantreṇa mṛttikāṃ japtvā pratārya saptadhā jale |

34.3३४.३

संमुखीभूय क्षिप्त्वा च जप्त्वा चायुतं वासरे ॥ (३४।३)

saṃmukhībhūya kṣiptvā ca japtvā cāyutaṃ vāsare ||

35.1३५.१

तेन सिद्धो भवेन् मन्त्रः साधकस्य न संशयः । (३५।१)

tena siddho bhaven mantraḥ sādhakasya na saṃśayaḥ |

35.2३५.२

ॐ श्रीं क्षां क्षीं क्षूं क्षैं क्षौं क्षः । (३५।२)

oṃ śrīṃ kṣāṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ |

35.3३५.३

मध्याह्नसमये सूर्यसम्मुखे जपम् आचरेत् ॥ (३५।३)

madhyāhnasamaye sūryasammukhe japam ācaret ||

36.1३६.१

अयुतं जप्तमात्रेण स्वसामर्थ्यं प्रपश्यति । (३६।१)

ayutaṃ japtamātreṇa svasāmarthyaṃ prapaśyati |

36.2३६.२

तस्य दृष्टिनिपातेन द्विपदश् च चतुष्पदः ॥ (३६।२)

tasya dṛṣṭinipātena dvipadaś ca catuṣpadaḥ ||

37.1३७.१

ज्वराभिभूता जायन्ते अपूर्वा मन्त्रसम्पदः । (३७।१)

jvarābhibhūtā jāyante apūrvā mantrasampadaḥ |

37.2३७.२

ॐ हंसः हंसं सो ऽहं स्वाहा । (३७।२)

oṃ haṃsaḥ haṃsaṃ so 'haṃ svāhā |

37.3३७.३

एकविंशतिजप्तेन जलेन ज्वरपीडितः ॥ (३७।३)

ekaviṃśatijaptena jalena jvarapīḍitaḥ ||

38.1३८.१

विमुच्यते पानमात्रात् सद्यः स्वस्थश् च जायते । (३८।१)

vimucyate pānamātrāt sadyaḥ svasthaś ca jāyate |

38.2३८.२

ॐ द्रीं नमो घोरेश्वरि घोरमुखि चामुण्डे ऊर्ध्वकेशि विकृतानने द्रीं द्रीं हुं फट् हुं स्वाहा । (३८।२)

oṃ drīṃ namo ghoreśvari ghoramukhi cāmuṇḍe ūrdhvakeśi vikṛtānane drīṃ drīṃ huṃ phaṭ huṃ svāhā |

38.3३८.३

अयं सर्वदलनमन्त्रः ॥ (३८।३)

ayaṃ sarvadalanamantraḥ ||

39.1३९.१

ॐ द्रीं द्रीं द्रीं फट् फट् फट् स्वाहा सर्वग्रहाणां त्रासनं कुरु कुरु अङ्गुलिप्रहारेण । (३९।१)

oṃ drīṃ drīṃ drīṃ phaṭ phaṭ phaṭ svāhā sarvagrahāṇāṃ trāsanaṃ kuru kuru aṅguliprahāreṇa |

39.2३९.२

ॐ स्रं स्रां स्रिं स्रीं स्रुं स्रूं स्रें स्रैं स्र्ॐ स्रौं स्रं स्रः ह रं रौं रीं रूं रैं रेविः छुं छुं हंसः अमृतवर्चसे स्वाहा । (३९।२)

oṃ sraṃ srāṃ sriṃ srīṃ sruṃ srūṃ sreṃ sraiṃ sroṃ srauṃ sraṃ sraḥ ha raṃ rauṃ rīṃ rūṃ raiṃ reviḥ chuṃ chuṃ haṃsaḥ amṛtavarcase svāhā |

39.3३९.३

अनेन मन्त्रेणोदकं शरावं संक्षिप्याष्टोत्तरशतेनाभिमन्त्रितं कृत्वा पिबेत् प्रातर् उत्थाय संवत्सरेण वल्लीपलितवर्जितो भवति । (३९।३)

anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati |

39.4३९.४

वृक्षस्थावरजङ्गमाकृतिं समाङ्गीकाराच् च व्याघ्रलोमादिकं पूर्वोदर्यां भस्मीकरोति सर्वजनप्रियो भवति चिरायुर् भवति । (३९।४)

vṛkṣasthāvarajaṅgamākṛtiṃ samāṅgīkārāc ca vyāghralomādikaṃ pūrvodaryāṃ bhasmīkaroti sarvajanapriyo bhavati cirāyur bhavati |

39.5३९.५

ॐ नमो भगवते रुद्राय चण्डेश्वराय हुं हुं हुं फट् स्वाहा । (३९।५)

oṃ namo bhagavate rudrāya caṇḍeśvarāya huṃ huṃ huṃ phaṭ svāhā |

39.6३९.६

अनेन मन्त्रेण जपं कृत्वा शीघ्रम् ईप्सितं लभेत् ॥ (३९।६)

anena mantreṇa japaṃ kṛtvā śīghram īpsitaṃ labhet ||

40.1४०.१

ॐ हूं द्रीं क्षं क्षां क्षिं क्षीं क्षुं क्षूं क्षें क्षैं क्ष्ॐ क्षौं क्षं क्षः हूं फट् स्वाहा । (४०।१)

oṃ hūṃ drīṃ kṣaṃ kṣāṃ kṣiṃ kṣīṃ kṣuṃ kṣūṃ kṣeṃ kṣaiṃ kṣoṃ kṣauṃ kṣaṃ kṣaḥ hūṃ phaṭ svāhā |

40.2४०.२

इमं मन्त्रं पूर्वं लक्षम् एकं जपेत् तद्दशांशम् अयुतं हवनं कुर्यात् । (४०।२)

imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt |

40.3४०.३

एकैकं समिधं घृताक्तां जुहुयात् सिद्धो भवति गङ्गागोलोके न ते मेघाः प्रणश्यन्ति न च वर्षन्ति वासवो नदसमुद्रं शोषयति मेघस्तम्भो भवति । (४०।३)

ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati |

40.4४०.४

उदकमध्ये स्थित्वा जपं करोत्य् अनावृष्टिकाले ऽतिवृष्टिं करोति । (४०।४)

udakamadhye sthitvā japaṃ karoty anāvṛṣṭikāle 'tivṛṣṭiṃ karoti |

40.5४०.५

ॐ द्रीं प्रचलिते कुबेरे हूं हूं किलि किलि स्वाहा । (४०।५)

oṃ drīṃ pracalite kubere hūṃ hūṃ kili kili svāhā |

40.6४०.६

पूर्ववेलायाम् आदर्शदीपसमीपे षडङ्गुलेन भाजने सूर्यमण्डले कुमारं वामे वेशयति पूर्वम् अयुतजपः कर्तव्यः पञ्चोपचारेण पूजा च कर्तव्या पूर्वाभिश् च स्वराज्ये । (४०।६)

pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye |

40.7४०.७

ॐ श्रीं हिमजाते प्रयच्छ मे धनं स्वाहा । (४०।७)

oṃ śrīṃ himajāte prayaccha me dhanaṃ svāhā |

40.8४०.८

अनेन मन्त्रेण सिद्धार्थकं घृतमिश्रितं हुनेत् अष्टोत्तरशते न अन्नपानविमिश्रितं सहस्रेण हुनेत् मनसः प्रार्थितं लभेत् अयुतं हुनेच्छ्रीसुमना भवेत् लक्षं हुनेद् ग्रामशतं लभेत् ॥ (४०।८)

anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet ||

41.1४१.१

ॐ नमो नमः । (४१।१)

oṃ namo namaḥ |

41.2४१.२

इमं मन्त्रं शतं जपेत् सर्वकामप्रदो ऽयं मन्त्रः ॥ (४१।२)

imaṃ mantraṃ śataṃ japet sarvakāmaprado 'yaṃ mantraḥ ||

42.1४२.१

ॐ द्रीं श्रीं सारसे सिद्धिकरि क्रीं नमः स्वाहा । (४२।१)

oṃ drīṃ śrīṃ sārase siddhikari krīṃ namaḥ svāhā |

42.2४२.२

इमं मन्त्रं लक्षम् एकं जपेद् रक्तकरवीरैश् च पूजयेत् सततं सर्वकामदो ऽयं मन्त्रः ॥ (४२।२)

imaṃ mantraṃ lakṣam ekaṃ japed raktakaravīraiś ca pūjayet satataṃ sarvakāmado 'yaṃ mantraḥ ||

43.1४३.१

ॐ द्रुं क्षें क्षें हुं क्षः अमुकं क्षः स्वाहा । (४३।१)

oṃ druṃ kṣeṃ kṣeṃ huṃ kṣaḥ amukaṃ kṣaḥ svāhā |

43.2४३.२

अनेन मन्त्रेण राजिकालवणतुषकण्टकशिवनिर्माल्यं तैलेन युतं हुनेत् समस्तश्रीभाजनं भवति ॥ (४३।२)

anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati ||

44.1४४.१

ॐ हुं हुं हुं लूं लं लौं हुं लः अमुकं छः छः स्वाहा । (४४।१)

oṃ huṃ huṃ huṃ lūṃ laṃ lauṃ huṃ laḥ amukaṃ chaḥ chaḥ svāhā |

44.2४४.२

अनेन मन्त्रेण सिद्धार्थं भस्मना सह मन्त्रितं कर्तव्यं यस्य गृहे प्रक्षिप्य मन्त्रबलिपांश्वैर् आक्षिपेत् तस्य बाहुस्तम्भो भवति । (४४।२)

anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati |

44.3४४.३

रिपुसैन्याग्रे क्षिपेत् शत्रुसैन्यस्तम्भो भवति अश्वगजनरा निश्चेष्टा भवन्ति विकला भवन्ति समन्तादेवाकुला भवन्ति ॥ (४४।३)

ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti ||

45.1४५.१

ॐ रुं रुं मुखे स्वाहा । (४५।१)

oṃ ruṃ ruṃ mukhe svāhā |

45.2४५.२

अनेन मन्त्रेण जप्ततैलेन मुखं प्रक्षाल्य तिलतैलेन गात्राभ्यङ्गं वा विधाय वातादिकं दिनसप्तकेन नश्यति । (४५।२)

anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati |

45.3४५.३

ऐं मातंगि विमलावति विकराले द्रीं छः छः स्वाहा । (४५।३)

aiṃ mātaṃgi vimalāvati vikarāle drīṃ chaḥ chaḥ svāhā |

45.4४५.४

अनेन मन्त्रेण जपापुष्पं परिजप्य वारीणि नद्यादौ होमयेत् सप्ताहेन ईप्सितं फलं लभेत् । (४५।४)

anena mantreṇa japāpuṣpaṃ parijapya vārīṇi nadyādau homayet saptāhena īpsitaṃ phalaṃ labhet |

45.5४५.५

कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रभृत् । (४५।५)

kārtavīryārjuno nāma rājā bāhusahasrabhṛt |

45.6४५.६

तन्नामकीर्तनाद् एव हृतं नष्टं च लभ्यते ॥ (४५।६)

tannāmakīrtanād eva hṛtaṃ naṣṭaṃ ca labhyate ||

46.1४६.१

नित्यं नित्यं जपेत् किंचिद् विद्यां वित्तस्य प्राप्तये । (४६।१)

nityaṃ nityaṃ japet kiṃcid vidyāṃ vittasya prāptaye |

46.2४६.२

ॐ मं किणि स्वाहा । (४६।२)

oṃ maṃ kiṇi svāhā |

46.3४६.३

इति वृश्चिकमन्त्रः । (४६।३)

iti vṛścikamantraḥ |

46.4४६.४

ॐ हुं हुं हंसः हंसं सो ऽहं सो ऽहं स्वाहा । (४६।४)

oṃ huṃ huṃ haṃsaḥ haṃsaṃ so 'haṃ so 'haṃ svāhā |

46.5४६.५

इति सर्वविषापहरणमन्त्रः । (४६।५)

iti sarvaviṣāpaharaṇamantraḥ |

46.6४६.६

मयूरपिच्छेन कुशेन शरेण शरदण्डेन वा तद्देहे सम्मार्जनं कुर्यात् । (४६।६)

mayūrapicchena kuśena śareṇa śaradaṇḍena vā taddehe sammārjanaṃ kuryāt |

46.7४६.७

हं हां हिं हीं हुं हूं हें हैं ह्ॐ हौं हं हः छः छः स्वाहा । (४६।७)

haṃ hāṃ hiṃ hīṃ huṃ hūṃ heṃ haiṃ hoṃ hauṃ haṃ haḥ chaḥ chaḥ svāhā |

46.8४६.८

इमं गोक्षीरसदृशं वारं वारं विचिन्तयेद् वा वराननमुखे शिरसि शरीरे ततः कण्ठे ततो हृदि नाभिमण्डले गुह्ये तथा सर्वाङ्गे चिन्तयेत् तथा पूरकेण वरारोहे कण्ठदष्टो ऽपि जीवति । (४६।८)

imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati |

46.9४६.९

ॐ गं गणपतये महागणपतये विघ्नहराय मतंगसम्भवाय लम्बोदराय गौरीप्रियपुत्राय ह्रीं गां नमः रं हं क्षः स्वाहा । (४६।९)

oṃ gaṃ gaṇapataye mahāgaṇapataye vighnaharāya mataṃgasambhavāya lambodarāya gaurīpriyaputrāya hrīṃ gāṃ namaḥ raṃ haṃ kṣaḥ svāhā |

46.10४६.१०

गोरोचनाविषराजिकापिप्पलीनीचयवैर् महातैलेन सह देवदत्तैश् च लक्षितान् आलिखेत् निम्बकाष्ठेन प्रतिकृतिं हुत्वा पृष्ठतो लिखेत् सद्यो ज्वरविलोपो भवति शान्तिर् भवति ॥ (४६।१०)

gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati ||

Data courtesy of The Digital Corpus of Sanskrit.

UḍḍT, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit