ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2
Select a line for its word-by-word analysis.
द्वावर्कौ नेपालम्लेच्छौ रसे नेपालमुत्तमम् । (२।२)
dvāvarkau nepālamlecchau rase nepālamuttamam |
सितं कृष्णारुणच्छायं म्लेच्छकं त्वतिवामि च । (२।३)
sitaṃ kṛṣṇāruṇacchāyaṃ mlecchakaṃ tvativāmi ca |
सुस्निग्धं मृदुलं शोणं नेपालं निर्विकारकम् । (२।४)
susnigdhaṃ mṛdulaṃ śoṇaṃ nepālaṃ nirvikārakam |
इमं रूक्षम् अतिस्तब्धं श्वेतं वापि च वासहम् । (२।५)
imaṃ rūkṣam atistabdhaṃ śvetaṃ vāpi ca vāsaham |
एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्तिताः । (२।७)
eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ |
भ्रमो मूर्च्छा विदाहश्च स्वेदोत्क्लेदनवान्तयः । (२।८)
bhramo mūrcchā vidāhaśca svedotkledanavāntayaḥ |
विषवत्स्थापितं ताम्रं यत्नतः साध्यते हि तत् । (२।१०)
viṣavatsthāpitaṃ tāmraṃ yatnataḥ sādhyate hi tat |
मीनाक्षी मत्स्यगन्धा चाङ्गेरी स्पष्टमन्यत् ॥ (४।०)
mīnākṣī matsyagandhā cāṅgerī spaṣṭamanyat ||
अन्यच्च सूक्ष्माणि ताम्रपत्राणि पलद्वितयमात्रया ॥ (५।०)
anyacca sūkṣmāṇi tāmrapatrāṇi paladvitayamātrayā ||
सूततूर्यांशकं दत्त्वा तत्तुल्यं विडचूर्णकम् ॥ (८।०)
sūtatūryāṃśakaṃ dattvā tattulyaṃ viḍacūrṇakam ||
पत्राणि खल्वे निक्षिप्य मर्दयेत्सर्वमेव तत् । (९।१)
patrāṇi khalve nikṣipya mardayetsarvameva tat |
कज्जलीकृत्य पत्रेषु अध ऊर्ध्वं प्रदापयेत् । (१०।१)
kajjalīkṛtya patreṣu adha ūrdhvaṃ pradāpayet |
वालुकाभिः प्रपूर्याथ पाचयेत् प्रहरद्वयम् । (११।१)
vālukābhiḥ prapūryātha pācayet praharadvayam |
स्वाङ्गशीतं समुद्धृत्य भक्षयेद्रक्तिकाद्वयम् ॥ (११।२)
svāṅgaśītaṃ samuddhṛtya bhakṣayedraktikādvayam ||
श्वासकासहरं ताम्रं वातघ्नं वह्निमान्द्यजित् ॥ (१२।२)
śvāsakāsaharaṃ tāmraṃ vātaghnaṃ vahnimāndyajit ||
ताम्रं कषायं मधुरं सतिक्तमम्लं च पाके कटु सारकं च । (१४।१)
tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca |
पित्तापहं श्लेष्महरं च शीतं तद्रोपणं स्याल्लघुलेखनं वा ॥ (१४।२)
pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghulekhanaṃ vā ||
पाण्डुरर्शो ज्वरः कुष्ठं कासश्च क्षतसक्षयान् । (१५।१)
pāṇḍurarśo jvaraḥ kuṣṭhaṃ kāsaśca kṣatasakṣayān |
पीतं समस्तपित्तं शोथकफं शूलम् उपाकरोति । (१५।२)
pītaṃ samastapittaṃ śothakaphaṃ śūlam upākaroti |
Data courtesy of The Digital Corpus of Sanskrit.