ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1
Select a line for its word-by-word analysis.
दुष्प्राप्यत्वान्निष्फलत्वाच्च लिख्यते हि भिदा मया ॥ (३।०)
duṣprāpyatvānniṣphalatvācca likhyate hi bhidā mayā ||
चारुत्वाद् भद्रवज्रं तु पाण्डिकान्तादयो यथा । (४।१)
cārutvād bhadravajraṃ tu pāṇḍikāntādayo yathā |
रूपैर्गुणैश्च कथ्यन्ते ते नागार्जुनदेशतः ॥ (४।२)
rūpairguṇaiśca kathyante te nāgārjunadeśataḥ ||
सामान्याद्द्विगुणं प्रोक्तं तस्मादष्टगुणं कलिः । (५।१)
sāmānyāddviguṇaṃ proktaṃ tasmādaṣṭaguṇaṃ kaliḥ |
कलेर्दशगुणं भद्रं भद्राद्वज्रं सहस्रधा ॥ (५।२)
kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā ||
काञ्जीजितं तुलाङ्गं स्यादाज्यवर्णमयो विदुः । (८।२)
kāñjījitaṃ tulāṅgaṃ syādājyavarṇamayo viduḥ |
काशताडं कृशाङ्गं च शुलां गन्धो दुदेशतम् ॥ (८।३)
kāśatāḍaṃ kṛśāṅgaṃ ca śulāṃ gandho dudeśatam ||
पण्डितं द्विविधं कृष्णं शुक्लं च समतार्द्रकम् । (९।१)
paṇḍitaṃ dvividhaṃ kṛṣṇaṃ śuklaṃ ca samatārdrakam |
वज्रं दमनपत्राभम् ईषत् स्वर्णच्छविस्तथा । (१०।१)
vajraṃ damanapatrābham īṣat svarṇacchavistathā |
कान्तं मृदुतरं ताररुक्मकान्तः सिताकरम् ॥ (१०।२)
kāntaṃ mṛdutaraṃ tārarukmakāntaḥ sitākaram ||
स्वादुर्यत्र भवेन्निम्बकल्को रात्रिदिवोषितः । (११।१)
svāduryatra bhavennimbakalko rātridivoṣitaḥ |
कान्तं तदुत्तमं यच्च शिलारूपेण वार्त्तिकम् ॥ (११।२)
kāntaṃ taduttamaṃ yacca śilārūpeṇa vārttikam ||
कह्वोणम् उत्तमं कान्तम् अतोऽन्यन्मध्यमं मतम् । (१२।१)
kahvoṇam uttamaṃ kāntam ato'nyanmadhyamaṃ matam |
क्षुद्राण्डं गुरुताडं स्यात्कलिङ्गजमयो मतम् ॥ (१२।२)
kṣudrāṇḍaṃ gurutāḍaṃ syātkaliṅgajamayo matam ||
रुक्मारुक्मप्रतीकाशं तीक्ष्णं मृदुफलं मतम् । (१३।१)
rukmārukmapratīkāśaṃ tīkṣṇaṃ mṛduphalaṃ matam |
वज्रं पञ्चादिकं तेषां भेदा याज्यतमं शुभम् । (१६।१)
vajraṃ pañcādikaṃ teṣāṃ bhedā yājyatamaṃ śubham |
प्राक्पञ्चपलाद् ऊर्ध्वं यावद् आ षोडशं पलम् ॥ (१६।२)
prākpañcapalād ūrdhvaṃ yāvad ā ṣoḍaśaṃ palam ||
त्रिफलात्रिगुणैस्तोयैस् त्रिफला षोडशं पलम् । (१७।२)
triphalātriguṇaistoyais triphalā ṣoḍaśaṃ palam |
कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् । (१८।१)
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet |
म्रियते च पुटाल्लोहं पुटांस्तस्मात्समाचरेत् ॥ (२०।३)
mriyate ca puṭāllohaṃ puṭāṃstasmātsamācaret ||
तथा तथा प्रवर्धन्ते गुणाः शतसहस्रशः ॥ (२१।२)
tathā tathā pravardhante guṇāḥ śatasahasraśaḥ ||
तावल्लोहं पुटेद्वैद्यो यावच्चूर्णीकृतं जले । (२२।१)
tāvallohaṃ puṭedvaidyo yāvaccūrṇīkṛtaṃ jale |
पुटे पुटे क्वाथयित्वा स्थालीपाकं प्रदापयेत् । (२४।१)
puṭe puṭe kvāthayitvā sthālīpākaṃ pradāpayet |
पाकः फलाम्बुदशमूलरसेन वायौ पित्ते तु शीतमधुरैस् त्रिफलैर्विदार्याः । (२६।२)
pākaḥ phalāmbudaśamūlarasena vāyau pitte tu śītamadhurais triphalairvidāryāḥ |
तज्ज्ञैः शतावरिजटास्वरसेन देयः श्लेष्माणके तु दशमूलरसार्द्रकेण ॥ (२६।३)
tajjñaiḥ śatāvarijaṭāsvarasena deyaḥ śleṣmāṇake tu daśamūlarasārdrakeṇa ||
पित्तानिले पित्तयुते च रक्ते द्राक्षाविदारीशतमूलिकाभिः । (२९।२)
pittānile pittayute ca rakte drākṣāvidārīśatamūlikābhiḥ |
क्षीरकाकोलीकाकोल्या च मधूकपुष्पैः खर्जूरकेणापि ॥ (२९।३)
kṣīrakākolīkākolyā ca madhūkapuṣpaiḥ kharjūrakeṇāpi ||
जीर्णज्वरे गुडूची कासे श्वासे च शस्यते व्याघ्री । (३१।२)
jīrṇajvare guḍūcī kāse śvāse ca śasyate vyāghrī |
यक्ष्मासृक् पित्तरुजोर्वासा शस्ता बला नाम ॥ (३१।३)
yakṣmāsṛk pittarujorvāsā śastā balā nāma ||
नासाव्रणशोणितशान्त्यर्थं स्वरसयवदूर्वायाः । (३२।१)
nāsāvraṇaśoṇitaśāntyarthaṃ svarasayavadūrvāyāḥ |
कङ्केल्लिच्छल्लसलिलं शस्तं प्रदरेषु सर्वेषु ॥ (३२।२)
kaṅkellicchallasalilaṃ śastaṃ pradareṣu sarveṣu ||
निचुलदलोद्भवसलिलैः प्रवाहिकायां च शस्यते सुतराम् । (३३।१)
niculadalodbhavasalilaiḥ pravāhikāyāṃ ca śasyate sutarām |
वर्षाभूनागरयोः क्वाथः श्वयथुप्रशान्त्यर्थम् ॥ (३४।२)
varṣābhūnāgarayoḥ kvāthaḥ śvayathupraśāntyartham ||
गोमूत्रं त्रिषु शस्तम् उदरापस्मारपाण्डुरोगेषु । (३५।१)
gomūtraṃ triṣu śastam udarāpasmārapāṇḍurogeṣu |
अस्त्रेषु माणकन्दो गुल्मे रोहीतकः क्वाथः ॥ (३५।२)
astreṣu māṇakando gulme rohītakaḥ kvāthaḥ ||
हिक्काश्वासे ब्राह्मीभार्गीस्वरसेन शस्तश्च । (३६।१)
hikkāśvāse brāhmībhārgīsvarasena śastaśca |
यकृति प्लीह्नि दातव्यो गृहकन्यार्कजं पयः ॥ (३७।२)
yakṛti plīhni dātavyo gṛhakanyārkajaṃ payaḥ ||
त्रिफलेन च कर्तव्यो मूलस्तम्भे त्रिदोषजे ॥ (४०।२)
triphalena ca kartavyo mūlastambhe tridoṣaje ||
वाजिगन्धान्वितैरेभिः क्षयेषु च निगद्यते । (४२।१)
vājigandhānvitairebhiḥ kṣayeṣu ca nigadyate |
अम्लपित्ते शतावर्याः पुटा देयाश्च सर्वतः ॥ (४२।२)
amlapitte śatāvaryāḥ puṭā deyāśca sarvataḥ ||
मुण्डिका शतमूली च चित्राङ्गकरिकर्णकेशराजैस्तु । (४३।१)
muṇḍikā śatamūlī ca citrāṅgakarikarṇakeśarājaistu |
मधुकगुडूचीमार्कवमुसलीभल्लातकैः कल्पे रसायने नागबला हयगन्धा गोकर्णकवृद्धदारकामलकी वाजीकरणे विहिता वानरीशतमूलिका क्षुरिका ज्ञात्वैवम् ॥ (४३।२)
madhukaguḍūcīmārkavamusalībhallātakaiḥ kalpe rasāyane nāgabalā hayagandhā gokarṇakavṛddhadārakāmalakī vājīkaraṇe vihitā vānarīśatamūlikā kṣurikā jñātvaivam ||
रोगविशेषानेभिर्वारत्रयं पुटेन स्थालीपाके अधिकतः पुरुषस्वभावं बुद्धिमान्कथितमपि हेममौषधम् उचितम् उपादेयम् अन्यदपि ॥ (४४।०)
rogaviśeṣānebhirvāratrayaṃ puṭena sthālīpāke adhikataḥ puruṣasvabhāvaṃ buddhimānkathitamapi hemamauṣadham ucitam upādeyam anyadapi ||
यः कल्पकामः कुरुते च लोहं स सर्वशङ्कापरिवर्जिताङ्गः । (४५।१)
yaḥ kalpakāmaḥ kurute ca lohaṃ sa sarvaśaṅkāparivarjitāṅgaḥ |
द्विरष्टवर्षाकृतिरेष नित्यं जीवेत पृथिव्याममरोपमानः । (४५।२)
dviraṣṭavarṣākṛtireṣa nityaṃ jīveta pṛthivyāmamaropamānaḥ |
गोमूत्रत्रिफलाक्वाथे तप्तं शोध्यं त्रिसप्तधा । (४८।१)
gomūtratriphalākvāthe taptaṃ śodhyaṃ trisaptadhā |
स्वर्णादिसर्वलोहानां किट्टस्य च गुणावहम् । (४८।२)
svarṇādisarvalohānāṃ kiṭṭasya ca guṇāvaham |
यवद्वयं प्रयोक्तव्यं हेमगुञ्जाष्टकावधि । (५०।१)
yavadvayaṃ prayoktavyaṃ hemaguñjāṣṭakāvadhi |
तारं तद्द्विगुणं लोहमन्यत् तत्त्रिगुणात्मकम् ॥ (५०।२)
tāraṃ taddviguṇaṃ lohamanyat tattriguṇātmakam ||
Data courtesy of The Digital Corpus of Sanskrit.