RMañj, 5
Select a line for its word-by-word analysis.
वक्ष्ये सप्रत्ययं योगं यथागुरुमुखोदितम् ॥ (१।२)
vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam ||
मेतल्स्:: शोधनतैले तक्रे गवां मूत्रे क्वाथे कौलत्थकाञ्जिके । (२।१)
metals:: śodhanataile takre gavāṃ mūtre kvāthe kaulatthakāñjike |
तप्तं तप्तं निषेचेत्तु तत्तद्द्रावे तु सप्तधा ॥ (२।२)
taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā ||
स्वर्णादिलोहपर्यन्तं शुद्धिर्भवति निश्चितम् । (३।१)
svarṇādilohaparyantaṃ śuddhirbhavati niścitam |
गोल्द्:: शोधनमृत्तिकामातुलुङ्गाम्लैः पञ्चवासरभाविता । (४।१)
gold:: śodhanamṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā |
गोल्द्:: मारण:: निरुत्थशुद्धसूतसमं हेम खल्वे कुर्याच्च गोलकम् । (५।१)
gold:: māraṇa:: nirutthaśuddhasūtasamaṃ hema khalve kuryācca golakam |
अधोर्ध्वं गन्धकं दत्त्वा सर्वं तुल्यं निरुध्य च ॥ (५।२)
adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca ||
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥ (६।२)
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ ||
गोल्द्:: मारणकृत्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् । (७।१)
gold:: māraṇakṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet |
लुङ्गाम्बुभस्मसूतेन म्रियते दशभिः पुटैः ॥ (७।२)
luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ ||
गोल्द्:: मारण:: निरुत्थरसस्य भस्मना वाथ रसैर्वा लेपयेद्दलम् । (८।१)
gold:: māraṇa:: niruttharasasya bhasmanā vātha rasairvā lepayeddalam |
हिङ्गुहिङ्गुलसिन्दूरैः शिलासाम्येन लेपयेत् ॥ (८।२)
hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet ||
संमर्द्य काञ्चनद्रावैर्दिनं कृत्वाथ गोलकम् । (९।१)
saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam |
तं भाण्डस्य तले धृत्वा भस्मना पूरयेद्दृढम् ॥ (९।२)
taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham ||
अग्निं प्रज्वालयेद्गाढं द्विनिशं स्वाङ्गशीतलम् । (१०।१)
agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam |
उद्धृत्य सावशेषं च पुनर्देयं पुटत्रयम् ॥ (१०।२)
uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam ||
अनेन विधिना स्वर्णं निरुत्थं जायतेऽमितम् । (११।१)
anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam |
एतद्रसायनं बल्यं वृष्यं शीतं क्षयादिहृत् ॥ (११।२)
etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt ||
गोल्द्:: मारण:: निरुत्थगलितस्य सुवर्णस्य षोडशांशेन सीसकम् । (१२।१)
gold:: māraṇa:: nirutthagalitasya suvarṇasya ṣoḍaśāṃśena sīsakam |
योजयित्वा समुद्धृत्य निम्बुनीरेण मर्दयेत् ॥ (१२।२)
yojayitvā samuddhṛtya nimbunīreṇa mardayet ||
शरावसम्पुटे धृत्वा पुटेद्विंशद्वनोपलैः ॥ (१३।२)
śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ ||
गोल्द्:: मारणमाक्षिकं नागचूर्णं च पिष्टमर्करसे पुनः ॥ (१४।२)
gold:: māraṇamākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ ||
गोल्द्:: मेद्। प्रोपेर्तिएस्कषायतिक्तमधुरं सुवर्णं गुरु लेखनम् ॥ (१५।२)
gold:: med. propertieskaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam ||
वृष्यं रसायनं बल्यं चक्षुष्यं कान्तिदं शुचि । (१६।१)
vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci |
आयुर्मेदोवयःस्थैर्यवाग्विशुद्धिस्मृतिप्रदम् ॥ (१६।२)
āyurmedovayaḥsthairyavāgviśuddhismṛtipradam ||
रजतशोधनम्भागेन क्षारराजेन द्रावितं शुद्धिमिच्छता ॥ (१७।२)
rajataśodhanambhāgena kṣārarājena drāvitaṃ śuddhimicchatā ||
रजतभस्मतारपत्रं चतुर्भागं भागैकं शुद्धतालकम् । (१८।१)
rajatabhasmatārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam |
मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् ॥ (१८।२)
mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet ||
रुद्ध्वा त्रिभिः पुटैः पाच्यं पञ्चविंशद्वनोपलैः । (१९।१)
ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ |
म्रियते नात्र सन्देहो गन्धो देयः पुनः पुनः ॥ (१९।२)
mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ ||
सिल्वेर्:: मारणस्वर्णमाक्षिकगन्धस्य समं भागं तु कारयेत् । (२०।१)
silver:: māraṇasvarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet |
अर्कक्षीरेण सम्पिष्टं तारपत्रं प्रलिप्य च ॥ (२०।२)
arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca ||
सिल्वेर्:: मारणविधाय पिष्टिं सूतेन रजतस्याथ मेलयेत् ॥ (२१।२)
silver:: māraṇavidhāya piṣṭiṃ sūtena rajatasyātha melayet ||
तालं गन्धं समं पश्चान्मर्दयेन्निम्बुकद्रवैः । (२२।१)
tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ |
द्वित्रैः पुटैः भवेद्भस्म योज्यमेव रसादिषु ॥ (२२।२)
dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu ||
सिल्वेर्:: मेद्। प्रोपेर्तिएस्शीतं कषायं मधुरमम्लं वातप्रकोपजित् । (२३।१)
silver:: med. propertiesśītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit |
दीपनं बलकृत् स्निग्धं गाढाजीर्णविनाशनम् । (२३।२)
dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam |
आयुष्यं दीर्घरोगघ्नं रजतं लेखनं परम् ॥ (२३।३)
āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param ||
ताम्रन विषं विषमित्याहुस्ताम्रं तु विषमुच्यते । (२४।१)
tāmrana viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate |
चोप्पेर्:: ८ दोषसेको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्तिताः ॥ (२४।२)
copper:: 8 doṣaseko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ ||
भ्रमो मूर्च्छा विदाहश्च स्वेदक्लेदनवान्तयः । (२५।१)
bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ |
तस्माद्विशुद्धं संग्राह्यं ताम्रं रोगप्रशान्तये । (२६।१)
tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye |
चोप्पेर्:: शोधनलवणैर् वज्रदुग्धेन ताम्रपत्रं विलेपयेत् ॥ (२६।२)
copper:: śodhanalavaṇair vajradugdhena tāmrapatraṃ vilepayet ||
अग्नौ संताप्य निर्गुण्डीरसैः सिक्तं च सप्तधा । (२७।१)
agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā |
स्नुह्यर्कस्वरसेऽप्येवं शुल्बशुद्धिर्भविष्यति ॥ (२७।२)
snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati ||
चोप्पेर्:: शोधनगोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना । (२८।१)
copper:: śodhanagomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā |
शुध्यते नात्र सन्देहो मारणं वाप्यथोच्यते ॥ (२८।२)
śudhyate nātra sandeho māraṇaṃ vāpyathocyate ||
ताम्रभस्मसूतमेकं द्विधा गन्धं यामं कन्यां विमर्दयेत् । (२९।१)
tāmrabhasmasūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet |
द्वयोस्तुल्यं ताम्रपत्रं स्थाल्या गर्भं निरोधयेत् ॥ (२९।२)
dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet ||
सम्यङ् मृल्लवणैः सार्द्धं पार्श्वे भस्म निधाय च । (३०।१)
samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca |
चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमये ॥ (३०।२)
caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye ||
जलं पुनः पुनर्देयं स्वाङ्गशीतं विचूर्णयेत् । (३१।१)
jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet |
म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत् ॥ (३१।२)
mriyate nātra sandehaḥ sarvayogeṣu yojayet ||
ताम्रभस्मचतुर्थांशेन सूतेन ताम्रपत्राणि लेपयेत् । (३२।१)
tāmrabhasmacaturthāṃśena sūtena tāmrapatrāṇi lepayet |
अम्लपिष्टं द्विगुणितमधोर्ध्वं दापयेद् बलिम् ॥ (३२।२)
amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim ||
चाङ्गेरीकल्कगर्भे तद्भाण्डे यामं पचेद्दृढम् । (३३।१)
cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham |
भस्मीभूतं ताम्रपत्रं सर्वयोगेषु योजयेत् ॥ (३३।२)
bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet ||
ताम्रभस्मजम्बीररससम्पिष्टं रसगन्धकलेपितम् । (३४।१)
tāmrabhasmajambīrarasasampiṣṭaṃ rasagandhakalepitam |
शुल्बपत्रं शरावस्थं त्रिपुटैर्याति पञ्चताम् ॥ (३४।२)
śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām ||
ताम्रभस्मगुणाःताम्रं तिक्ताम्लमधुरं कषायं शीतलं परम् ॥ (३५।०)
tāmrabhasmaguṇāḥtāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param ||
कफपित्तक्षयं धातुकुष्ठघ्नं च रसायनम् । (३६।१)
kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam |
नाशयेच्छूलम् अर्शांसि वृक्षमिन्द्राशनिर्यथा ॥ (३६।२)
nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā ||
राजरीति-, घोषशोधन, -मारणराजरीतिस्तथा घोषं ताम्रवन्मारयेत् पृथक् । (३७।१)
rājarīti-, ghoṣaśodhana, -māraṇarājarītistathā ghoṣaṃ tāmravanmārayet pṛthak |
ताम्रवच्छोधनं तेषां ताम्रवद् गुणकारकम् ॥ (३७।२)
tāmravacchodhanaṃ teṣāṃ tāmravad guṇakārakam ||
नागवङ्गशोधनम्नागवङ्गौ च गलितौ रविदुग्धेन सेचयेत् । (३८।१)
nāgavaṅgaśodhanamnāgavaṅgau ca galitau ravidugdhena secayet |
त्रिवारं शुद्धिमायाति सच्छिद्रे हण्डिकान्तरे ॥ (३८।२)
trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare ||
लेअद्:: मारण (१)त्रिभिः कुम्भपुटैर्नागो वासास्वरसमर्दितः । (३९।१)
lead:: māraṇa (1)tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ |
नागभस्मभूभुजङ्गम् अगस्तिं च पिष्ट्वा पात्रं विलेपयेत् । (४०।१)
nāgabhasmabhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet |
तद्रसं विद्रुते नागे वासापामार्गसम्भवम् ॥ (४०।२)
tadrasaṃ vidrute nāge vāsāpāmārgasambhavam ||
क्षारं विमिश्रयेत्तत्र चतुर्थांशं गुरूक्तितः । (४१।१)
kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ |
प्रहरं पाचयेच्चुल्ल्यां वासादर्व्या च घट्टिता ॥ (४१।२)
praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā ||
तत उद्धृत्य तच्चूर्णं वासानीरे विमर्दयेत् । (४२।१)
tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet |
पुटेत् पुनः समुद्धृत्य तेनैव परिमर्दयेत् ॥ (४२।२)
puṭet punaḥ samuddhṛtya tenaiva parimardayet ||
एवं सप्त पुटं नागं सिन्दूरं जायते ध्रुवम् । (४३।१)
evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam |
नागभस्मगुणाःतारस्थो रञ्जनो नागो वातपित्तकफापहः ॥ (४३।२)
nāgabhasmaguṇāḥtārastho rañjano nāgo vātapittakaphāpahaḥ ||
तिन्:: मारण (१)आभीरं शोधयेदादौ द्रावयेद्धण्डिकान्तरे ॥ (४४।२)
tin:: māraṇa (1)ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare ||
स्थूलाग्रया लोहदर्व्या शनैस्तद् अवचालयेत् ॥ (४५।२)
sthūlāgrayā lohadarvyā śanaistad avacālayet ||
यावद्भस्मत्वमायाति तावन्मर्द्यं च पूर्ववत् । (४६।१)
yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat |
पश्चात्तीव्राग्निना पक्वं वङ्गभस्म भवेद्ध्रुवम् ॥ (४७।२)
paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam ||
तिन्:: मारणवङ्गं सतालमर्कस्य पिष्ट्वा दुग्धेन तं पुटेत् । (४८।१)
tin:: māraṇavaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet |
शुष्काश्वत्थभवैर्वल्कैः सप्तधा भस्मतां व्रजेत् ॥ (४८।२)
śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet ||
वङ्गभस्मगुणाःवङ्गं तिक्तोष्णकं रूक्षमीषद्वातप्रकोपनम् । (४९।१)
vaṅgabhasmaguṇāḥvaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam |
मेहश्लेष्मामयघ्नं च कृमिघ्नं मोहनाशनम् ॥ (४९।२)
mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam ||
इरोन्:: शोधन:: अद्रित्रिफलादष्टगुणे तोये त्रिफला षोडशं पलम् । (५०।१)
iron:: śodhana:: adritriphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam |
कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् । (५१।१)
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet |
इरोन्:: मारण:: वारितरशुद्धस्य सूतराजस्य भागो भागद्वयं बलेः । (५२।१)
iron:: māraṇa:: vāritaraśuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ |
द्वयोः समं सारचूर्णं मर्दयेत् कन्यकाम्बुना ॥ (५२।२)
dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā ||
आच्छाद्यैरण्डजैः पत्रैरुष्णो यामद्वयं भवेत् ॥ (५३।२)
ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet ||
त्रिदिनं धान्यराशिस्थं तं ततो मर्दयेद् दृढम् । (५४।१)
tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham |
तीक्ष्णं मुण्डं कान्तलोहं निरुत्थं जायते मृतम् । (५५।१)
tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam |
त्रिफलामधुसंयुक्तम् एतत्सेव्यं रसायनम् ॥ (५५।२)
triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam ||
इरोन्:: मारणद्वादशांशेन दरदं तीक्ष्णचूर्णस्य मेलयेत् । (५६।१)
iron:: māraṇadvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet |
कन्यानीरेण संमर्द्य यामयुग्मं तु तत्पुटेत् । (५६।२)
kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet |
पुटेदेवं लोहचूर्णं सप्तधा मरणं व्रजेत् ॥ (५६।३)
puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet ||
इरोन्:: मारण:: वारितरकाकोदुम्बरिकानीरे लोहपत्राणि सेचयेत् । (५७।१)
iron:: māraṇa:: vāritarakākodumbarikānīre lohapatrāṇi secayet |
तप्ततप्तानि षड्वारं कुट्टयेत्तद् उदूखले ॥ (५७।२)
taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale ||
तत्पञ्चमांशं दरदं क्षिप्त्वा सर्वं विमर्दयेत् । (५८।१)
tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet |
त्रिवारं त्रिफलाक्वाथैस्तत्संख्याकैरतन्द्रितः । (५९।१)
trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ |
इरोन्:: मारणतिन्दूफलस्य मज्जायां खड्गं लिप्त्वातपे खरे । (६०।१)
iron:: māraṇatindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare |
धारयेत् कांस्यपात्रेण दिनैकेन पुटत्यलम् ॥ (६०।२)
dhārayet kāṃsyapātreṇa dinaikena puṭatyalam ||
लेपं पुनः पुनः कुर्याद् दिनान्ते तत्प्रपेषयेत् । (६१।१)
lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet |
त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतिर्भवेत् ॥ (६१।२)
triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet ||
इरोन्:: मारणलोहं पत्रमतीव तप्तमसकृत्क्वाथे क्षिपेत्त्रैफले चूर्णीभूतमतो भवेत् त्रिफलजे क्वाथे पचेत् गोजले । (६२।१)
iron:: māraṇalohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale |
मत्स्याक्षीत्रिफलारसेन पुटयेद्यावन्निरुत्थं भवेत् पश्चादाज्यमधुप्लुतं सुपुटितं भस्म भवेद् आयसम् ॥ (६२।२)
matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam ||
इरोन्:: छेच्किन्ग् थे वारितर स्ततेसर्वमेतन्मृतं लोहं ध्मातव्यं मृतपञ्चके । (६३।१)
iron:: checking the vāritara statesarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake |
यद्येव स्यान्निरुत्थानं सत्यं वारितरं भवेत् ॥ (६३।२)
yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet ||
इरोन्:: मारण:: निरुत्थगन्धकं तुत्थकं लोहं तुल्यं खल्वे विमर्दयेत् । (६४।१)
iron:: māraṇa:: nirutthagandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet |
दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् । (६४।२)
dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet |
इत्येवं सर्वलोहानां कर्तव्येत्थं निरुत्थितिः ॥ (६४।३)
ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ ||
लोहभस्मगुणाःकृष्णायसोऽथ शूलार्शःकुष्ठपाण्डुत्वमेहनुत् । (६५।१)
lohabhasmaguṇāḥkṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut |
वयःस्थं गुरु चक्षुष्यं सरं मेदोगदापहम् ॥ (६५।२)
vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham ||
आयुःप्रदाता बलवीर्यकर्ता रोगस्य हर्ता मदनस्य कर्ता । (६६।१)
āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā |
अयःसमानं नहि किंचिद् अन्यद् रसायनं श्रेष्ठतमं हि जन्तो ॥ (६६।२)
ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto ||
कूष्माण्डं तिलतैलं च माषान्नं राजकं तथा । (६७।१)
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā |
मुण्डये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके । (६८।१)
muṇḍaye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake |
तस्मात् सर्वत्र मण्डूरं रोगशान्त्यै नियोजयेत् ॥ (६८।२)
tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet ||
शतोत्थमुत्तमं किट्टं मध्यमाशीतिवार्षिकम् । (६९।१)
śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam |
दग्धाक्षकाष्ठैर् मलम् आयसं तु गोमूत्रनिर्वापितमष्टवारान् । (७०।१)
dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān |
विचूर्ण्य लीढं मधुनाचिरेण नृणां क्षयं पाण्डुगदं निहन्ति ॥ (७०।२)
vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti ||
किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् । (७१।१)
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam |
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात् कुरुते गुणम् ॥ (७१।२)
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam ||
Data courtesy of The Digital Corpus of Sanskrit.