रसमञ्जरीRasamañjarī

RMañj, 6

6 of 10 · 687 verses

Select a line for its word-by-word analysis.

1.1१.१

क्षीराब्धेरुत्थितं देवं पीतवस्त्रं चतुर्भुजम् । (१।१)

kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam |

1.2१.२

वन्दे धन्वन्तरिं नित्यं नानागदनिषूदनम् ॥ (१।२)

vande dhanvantariṃ nityaṃ nānāgadaniṣūdanam ||

2.1२.१

यथा गुरुमुखं श्रुत्वा सानुभूतं च तद्रसम् । (२।१)

yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam |

2.2२.२

स रसः प्रोच्यते ह्यत्र व्याधिनाशनहेतवे ॥ (२।२)

sa rasaḥ procyate hyatra vyādhināśanahetave ||

3.1३.१

मुक्त्वैकं रसवैद्यं च लाभपूजायशस्विनम् । (३।१)

muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam |

3.2३.२

तृणकाष्ठौषधैर् वैद्यः को लभेत वराटिकाम् ॥ (३।२)

tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām ||

4.1४.१

यस्य रोगस्य यो योगो मुनिभिः परिकीर्तितः । (४।१)

yasya rogasya yo yogo munibhiḥ parikīrtitaḥ |

4.2४.२

तत्तद्योगसमायुक्तं भिषक् सूतं प्रयोजयेत् ॥ (४।२)

tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet ||

5.1५.१

मात्राधिकं न सेवेत रसं वा विषम् औषधम् । (५।१)

mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham |

5.2५.२

त्र्याधिबद्धं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत् ॥ (५।२)

tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet ||

6.1६.१

रत्नगर्भपटोलीरसं वज्रं हेम तारं नागं लोहं च ताम्रकम् । (६।१)

ratnagarbhapaṭolīrasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam |

6.2६.२

तुल्यांशमारिते योज्यं मुक्तामाक्षिकविद्रुमम् ॥ (६।२)

tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam ||

7.1७.१

शंखं च तुल्यतुल्यांशं सप्ताहं चित्रकद्रवैः । (७।१)

śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ |

7.2७.२

मर्दयित्वा विचूर्ण्याथ तेनापूर्य वराटिकाम् ॥ (७।२)

mardayitvā vicūrṇyātha tenāpūrya varāṭikām ||

8.1८.१

टङ्कणं रविदुग्धेन पिष्ट्वा मूषां च बन्धयेत् । (८।१)

ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet |

8.2८.२

मृद्भाण्डे च निरुध्याथ सम्यग्गजपुटे पचेत् ॥ (८।२)

mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet ||

9.1९.१

स्वाङ्गशीतं समुद्धृत्य सूक्ष्मचूर्णानि कारयेत् । (९।१)

svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet |

9.2९.२

आदाय चूर्णयेत्सर्वं निर्गुण्ड्याः सप्तभावनाः ॥ (९।२)

ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ ||

10.1१०.१

आर्द्रकस्य रसैः सप्त चित्रकस्यैकविंशतिः । (१०।१)

ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ |

10.2१०.२

द्रवैर्भाव्यं ततः शोष्यं देयं गुञ्जाचतुष्टयम् ॥ (१०।२)

dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam ||

11.1११.१

क्षयरोगं निहन्त्याशु साध्यासाध्यं न संशयः । (११।१)

kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ |

11.2११.२

योजयेत् पिप्पलीक्षौद्रैः सघृतैर्मरिचेन च ॥ (११।२)

yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca ||

12.1१२.१

महारोगाष्टके कासे ज्वरे श्वासेऽतिसारके । (१२।१)

mahārogāṣṭake kāse jvare śvāse'tisārake |

12.2१२.२

पोटलीरत्नगर्भोऽयं योगवाहेषु योजयेत् ॥ (१२।२)

poṭalīratnagarbho'yaṃ yogavāheṣu yojayet ||

13.1१३.१

मृगाङ्करसःस्याद्रसेन समं हेम मौक्तिकं द्विगुणं भवेत् । (१३।१)

mṛgāṅkarasaḥsyādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet |

13.2१३.२

गन्धकं च समं तेन रसपादस्तु टंकणम् ॥ (१३।२)

gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam ||

14.1१४.१

सर्वं तद्गोलकं कृत्वा काञ्जिकेनावशोषयेत् । (१४।१)

sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet |

14.2१४.२

भाण्डे लवणपूर्णे च पचेद्यामचतुष्टयम् ॥ (१४।२)

bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam ||

15.1१५.१

मृगाङ्कसंज्ञको ज्ञेयो राजयोगनिकृन्तनः । (१५।१)

mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ |

15.2१५.२

गुञ्जाचतुष्टयं चास्य मरिचैर्भक्षयेद्भिषक् ॥ (१५।२)

guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak ||

16.1१६.१

पिप्पलीदशकैर्वापि मधुना लेहयेद् बुधः । (१६।१)

pippalīdaśakairvāpi madhunā lehayed budhaḥ |

16.2१६.२

पथ्यं सुलघुमांसेन प्रायेणास्य प्रयोजयेत् ॥ (१६।२)

pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet ||

17.1१७.१

दध्याज्यगव्यं तक्रं वा क्षीरं वाजं प्रयोजयेत् । (१७।१)

dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet |

17.2१७.२

व्यञ्जनैर् मृतपक्वैश्च नातिक्षारैर् अहिङ्गुकैः ॥ (१७।२)

vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ ||

18.1१८.१

एलाजम्बीरमरिचैः संस्कृतैरविदाहिभिः । (१८।१)

elājambīramaricaiḥ saṃskṛtairavidāhibhiḥ |

18.2१८.२

वृन्ताकतैलबिल्वानि कारवेल्लं च वर्जयेत् ॥ (१८।२)

vṛntākatailabilvāni kāravellaṃ ca varjayet ||

19.1१९.१

स्त्रियं परिहरेद् दूरात् कोपं चापि परित्यजेत् । (१९।१)

striyaṃ parihared dūrāt kopaṃ cāpi parityajet |

19.2१९.२

वल्ली तुम्बरिकानाम तन्मूलं क्वाथयेत्पलम् ॥ (१९।२)

vallī tumbarikānāma tanmūlaṃ kvāthayetpalam ||

20.1२०.१

कटुकत्रयसंयुक्तं पाययेत्कासशान्तये । (२०।१)

kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye |

20.2२०.२

त्रिशूली या समाख्याता तन्मूलं क्वाथयेद् वलम् ॥ (२०।२)

triśūlī yā samākhyātā tanmūlaṃ kvāthayed valam ||

21.1२१.१

ईषद्धिङ्गुसमायुक्तं काकिणी चित्रकं वचा । (२१।१)

īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā |

21.2२१.२

भक्षयेत्पथ्यभोज्यं च सर्वरोगप्रशान्तये ॥ (२१।२)

bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye ||

22.1२२.१

मर्कटीपत्रचूर्णस्य गुटिकां मधुना कृताम् । (२२।१)

markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām |

22.2२२.२

धारयेत् सततं वक्त्रे कासविष्टम्भनाशिनीम् ॥ (२२।२)

dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm ||

23.1२३.१

छागमांसं पयश्छागं छागं सर्पिः सनागरम् । (२३।१)

chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram |

23.2२३.२

छागोपसेवासहनं छागमध्ये तु यक्ष्मनुत् ॥ (२३।२)

chāgopasevāsahanaṃ chāgamadhye tu yakṣmanut ||

24.1२४.१

मलायत्तं बलं पुंसां शुक्रायत्तं च जीवितम् । (२४।१)

malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam |

24.2२४.२

अतो विशेषतो रक्षेद्यक्ष्मिणो मलरेतसी ॥ (२४।२)

ato viśeṣato rakṣedyakṣmiṇo malaretasī ||

25.1२५.१

लोकनाथरसःपलं कपर्दचूर्णस्य पलं पारदगन्धयोः । (२५।१)

lokanātharasaḥpalaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ |

25.2२५.२

माषोऽपि टंकणस्यैको जम्बीरेण विमर्दयेत् ॥ (२५।२)

māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet ||

26.1२६.१

पुटेल्लोकेश्वरो नाम लोकनाथोऽयमुत्तमः । (२६।१)

puṭellokeśvaro nāma lokanātho'yamuttamaḥ |

26.2२६.२

जयेत्कुष्ठं रक्तपित्तमन्यरोगं क्षयं नयेत् ॥ (२६।२)

jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet ||

27.1२७.१

पुष्टवीर्यप्रदाता च कान्तिलावण्यदः परः । (२७।१)

puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ |

27.2२७.२

कोऽस्ति लोकेश्वराद् अन्यो नृणां शम्भुमुखोद्गतात् ॥ (२७।२)

ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt ||

28.1२८.१

लोकेश्वरपटोलीरसःरसस्य भस्मना हेम पादांशेन प्रकल्पयेत् । (२८।१)

lokeśvarapaṭolīrasaḥrasasya bhasmanā hema pādāṃśena prakalpayet |

28.2२८.२

द्विगुणं गन्धकं दत्त्वा मर्दयेच्चित्रकाम्बुना ॥ (२८।२)

dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā ||

29.1२९.१

वराटकांश्च सम्पूर्य टङ्कणेन निरुध्य च । (२९।१)

varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca |

29.2२९.२

भाण्डे चूर्णं प्रतिलिखेत्क्षिप्त्वा रुन्धीत मृन्मये ॥ (२९।२)

bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye ||

30.1३०.१

शोषयित्वा पुटेद्गर्भे वह्निं दत्त्वा पराह्निके । (३०।१)

śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike |

30.2३०.२

स्वांगशीतं समुद्धृत्य चूर्णयित्वाथ विन्यसेत् ॥ (३०।२)

svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset ||

31.1३१.१

एष लोकेश्वरो नाम वीर्यपुष्टिविवर्द्धनः । (३१।१)

eṣa lokeśvaro nāma vīryapuṣṭivivarddhanaḥ |

31.2३१.२

गुञ्जाचतुष्टयं चास्य पिप्पलीमधुसंयुतम् ॥ (३१।२)

guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam ||

32.1३२.१

खादयेत्परया भक्त्या लोकेशः सर्वसिद्धिदः । (३२।१)

khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ |

32.2३२.२

अङ्गकार्श्येऽग्निमान्द्ये च कासपित्ते रसस्त्वयम् ॥ (३२।२)

aṅgakārśye'gnimāndye ca kāsapitte rasastvayam ||

33.1३३.१

मरिचैर्घृतसंयुक्तैः प्रदातव्यो दिनत्रयम् । (३३।१)

maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam |

33.2३३.२

लवणं वर्जयेत्तत्र शयीतोत्तानपादतः ॥ (३३।२)

lavaṇaṃ varjayettatra śayītottānapādataḥ ||

34.1३४.१

एकविंशद्दिनं यावन्मरिचं सघृतं पिबेत् । (३४।१)

ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet |

34.2३४.२

पथ्यं मृगाङ्कवद्देयं शयीतोत्तानपादतः ॥ (३४।२)

pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ ||

35.1३५.१

ये शुष्का विषमानिलैः क्षयरुजा व्याप्ताश्च ये कुष्ठिनो ये पाण्डुत्वहताः कुवैद्यविधिना ये शोषिणो दुर्भगाः । (३५।१)

ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ |

35.2३५.२

ये तप्ता विविधैर् ज्वरैर् भ्रममदोन्मादैः प्रमादं गतास्ते सर्वे विगतामया हतरुजः स्युः पोटलीसेवया ॥ (३५।२)

ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā ||

36.1३६.१

राजमृगाङ्करसःरसभस्म त्रयो भागा भागैकं हेमभस्मकम् । (३६।१)

rājamṛgāṅkarasaḥrasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam |

36.2३६.२

मृतताम्रस्य भागैकं शिलागन्धकतालकम् ॥ (३६।२)

mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam ||

37.1३७.१

प्रतिभागद्वयं शुद्धमेकीकृत्य विचूर्णयेत् । (३७।१)

pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet |

37.2३७.२

वराटीः पूरयेत्तेन ह्यजाक्षीरेण टंकणम् ॥ (३७।२)

varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam ||

38.1३८.१

पिष्ट्वा तेन मुखं रुद्ध्वा मृद्भाण्डे च निरोधयेत् । (३८।१)

piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet |

38.2३८.२

शुष्कं गजपुटे पाच्यं चूर्णयेत्स्वाङ्गशीतलम् ॥ (३८।२)

śuṣkaṃ gajapuṭe pācyaṃ cūrṇayetsvāṅgaśītalam ||

39.1३९.१

रसो राजमृगाङ्कोऽयं चतुर्गुञ्जः कफापहः । (३९।१)

raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ |

39.2३९.२

दशभिः पिप्पलीक्षौद्रैर्मरिचैकोनविंशतिः । (३९।२)

daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ |

39.3३९.३

सघृतैर्दापयेत्क्वाथं वातश्लेष्मोद्भवे क्षये ॥ (३९।३)

saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye ||

40.1४०.१

रत्नगिरिरसःशुद्धं सूतं समं गन्धं मृतं स्वर्णाभ्रताम्रकम् । (४०।१)

ratnagirirasaḥśuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam |

40.2४०.२

प्रत्येकं सूततुल्यं स्यात्सूतार्द्धं मृतलोहकम् ॥ (४०।२)

pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam ||

41.1४१.१

लोहार्द्धं मृतवैक्रान्तं मर्दयेद्भृङ्गजैर्द्रवैः । (४१।१)

lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ |

41.2४१.२

पर्पटीरसवत्पाच्यं चूर्णितं भावयेत्पृथक् ॥ (४१।२)

parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak ||

42.1४२.१

शिग्रुवासकनिर्गुण्डीवचासोमाग्निभृङ्गजैः । (४२।१)

śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ |

42.2४२.२

क्षुद्रामृताजयन्तीभिर् मुनिब्राह्मीसुतिक्तकैः ॥ (४२।२)

kṣudrāmṛtājayantībhir munibrāhmīsutiktakaiḥ ||

43.1४३.१

कन्याद्रावैश्च संभाव्य प्रतिद्रावैस्त्रिधा त्रिधा । (४३।१)

kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā |

43.2४३.२

रुद्ध्वा लघुपुटे पाच्यं भूधरे तं समुद्धरेत् ॥ (४३।२)

ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet ||

44.0४४.०

इमं नवज्वरे दद्यान्माषमात्रं रसस्य तु ॥ (४४।०)

imaṃ navajvare dadyānmāṣamātraṃ rasasya tu ||

45.1४५.१

कृष्णाधान्यकसम्मिश्रं मुहूर्ताद्विज्वरो भवेत् । (४५।१)

kṛṣṇādhānyakasammiśraṃ muhūrtādvijvaro bhavet |

45.2४५.२

अयं रत्नगिरिर्नाम रसो योगस्य वाहकः ॥ (४५।२)

ayaṃ ratnagirirnāma raso yogasya vāhakaḥ ||

46.1४६.१

हिङ्गुलेश्वररसः (?)तुल्यांशं चूर्णयेत् खल्वे पिप्पलीं हिङ्गुलं विषम् । (४६।१)

hiṅguleśvararasaḥ (?)tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam |

46.2४६.२

द्विगुंजं मधुना देयं वातज्वरनिवृत्तये ॥ (४६।२)

dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye ||

47.1४७.१

शीतभञ्जीरसःपारदं रसकं तालं तुत्थं टङ्कणगन्धकम् । (४७।१)

śītabhañjīrasaḥpāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam |

47.2४७.२

सर्वमेतत्समं शुद्धं कारवेल्ल्या द्रवैर्दिनम् ॥ (४७।२)

sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam ||

48.1४८.१

मर्दयेत्तेन कल्केन ताम्रपात्रोदरं लिपेत् । (४८।१)

mardayettena kalkena tāmrapātrodaraṃ lipet |

48.2४८.२

अङ्गुल्यर्धप्रमाणेन पचेत्तत्सिकताह्वये ॥ (४८।२)

aṅgulyardhapramāṇena pacettatsikatāhvaye ||

49.1४९.१

यन्त्रे यावत्स्फुटन्त्येवं व्रीहयस्तस्य पृष्ठतः । (४९।१)

yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ |

49.2४९.२

ततः सुशीतलं ग्राह्यं ताम्रपात्रोदराद्भिषक् ॥ (४९।२)

tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak ||

50.1५०.१

शीतभञ्जीरसो नाम चूर्णयेन्मरिचैः समम् । (५०।१)

śītabhañjīraso nāma cūrṇayenmaricaiḥ samam |

50.2५०.२

माषैकं पर्णखण्डेन भक्षयेन्नाशयेज्ज्वरम् । (५०।२)

māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram |

50.3५०.३

त्रिदिनैर् विषमं तीव्रमेकद्वित्रिचतुर्थकम् ॥ (५०।३)

tridinair viṣamaṃ tīvramekadvitricaturthakam ||

51.1५१.१

शीतभञ्जीरसःरसहिङ्गुलगन्धं च जैपालं च त्रिभिः समम् । (५१।१)

śītabhañjīrasaḥrasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam |

51.2५१.२

दन्तीक्वाथेन संमर्द्य रसो ज्वरहरः स्मृतः ॥ (५१।२)

dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ ||

52.1५२.१

आर्द्रकस्य रसेनाथ दापयेद्रक्तिकाद्वयम् । (५२।१)

ārdrakasya rasenātha dāpayedraktikādvayam |

52.2५२.२

नवज्वरं महाघोरं नाशयेद्याममात्रतः ॥ (५२।२)

navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ ||

53.1५३.१

शर्करा दधिभक्तं च पथ्यं देयं प्रयत्नतः । (५३।१)

śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ |

53.2५३.२

शीततोयं पिबेच्चानु इक्षुमुद्गरसो हितः । (५३।२)

śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ |

53.3५३.३

शीतभञ्जीरसो नाम सर्वज्वरविनाशकः ॥ (५३।३)

śītabhañjīraso nāma sarvajvaravināśakaḥ ||

54.1५४.१

शीतारिरसःसूतकं टङ्कणं गन्धं शुल्बचूर्णं समं समम् । (५४।१)

śītārirasaḥsūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam |

54.2५४.२

सूताद्द्विगुणितं देयं जैपालं तुषवर्जितम् ॥ (५४।२)

sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam ||

55.1५५.१

सैन्धवं मरिचं चिञ्चात्वग्भस्मापि च शर्कराः । (५५।१)

saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ |

55.2५५.२

प्रत्येकं सूततुल्यं स्याज्जम्बीरैर् मर्दयेद् दिनम् ॥ (५५।२)

pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam ||

56.1५६.१

द्विगुञ्जं तप्ततोयेन वातश्लेष्मज्वरापहम् । (५६।१)

dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham |

56.2५६.२

रसः शीतारिनामायं शीतज्वरहरः परः ॥ (५६।२)

rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ ||

57.0५७.०

ज्वरराजरसःभागैकं रसराजस्य भागस्यार्धेन माक्षिका ॥ (५७।०)

jvararājarasaḥbhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā ||

58.1५८.१

भागद्वयं शिलायाश्च गन्धकस्य त्रयो मताः । (५८।१)

bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ |

58.2५८.२

तालकाष्टादश भागाः शुल्बस्य भागपञ्चकम् ॥ (५८।२)

tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam ||

59.1५९.१

भल्लातकत्रयो भागाः सर्वमेकत्र चूर्णयेत् । (५९।१)

bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet |

59.2५९.२

वज्रीक्षीरप्लुतं कृत्वा दृढे मृन्मयभाजने ॥ (५९।२)

vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane ||

60.1६०.१

विधाय सुदृढं मुद्रां पचेद्यामचतुष्टयम् । (६०।१)

vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam |

60.2६०.२

स्वाङ्गशीतं समुद्धृत्य मर्दयेत्सुदृढं पुनः ॥ (६०।२)

svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ ||

61.1६१.१

गुञ्जाचतुष्टयं चास्य पर्णखण्डेन दापयेत् । (६१।१)

guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet |

61.2६१.२

ज्वरराजः प्रसिद्धोऽयमष्टज्वरविनाशकः ॥ (६१।२)

jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ ||

62.1६२.१

प्रातःकाले प्रभुज्यैनं पथ्यं तक्रौदनं हितम् । (६२।१)

prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam |

62.2६२.२

भागेन तुत्थसंयुक्तं चातुर्थिकनिवारणम् ॥ (६२।२)

bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam ||

63.1६३.१

महाज्वराङ्कुशरसःसूतं गन्धं विषं तुल्यं धूर्तबीजं त्रिभिः समम् । (६३।१)

mahājvarāṅkuśarasaḥsūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam |

63.2६३.२

तच्चूर्णाद्द्विगुणं व्योषचूर्णं गुञ्जाद्वयं हितम् ॥ (६३।२)

taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam ||

64.1६४.१

जम्बीरकस्य मज्जाभिरार्द्रकस्य रसैर्युतः । (६४।१)

jambīrakasya majjābhirārdrakasya rasairyutaḥ |

64.2६४.२

महाज्वराङ्कुशो नाम ज्वराष्टकनिकृन्तनः ॥ (६४।२)

mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ ||

65.1६५.१

ऐकाहिकं द्व्याहिकं च त्र्याहिकं च चतुर्थकम् । (६५।१)

aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam |

65.2६५.२

विषमं च त्रिदोषोत्थं हन्ति सर्वं न संशयः ॥ (६५।२)

viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ ||

66.1६६.१

व्यायामं च व्यवायं च स्नानं चङ्क्रमणं तथा । (६६।१)

vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā |

66.2६६.२

ज्वरमुक्तो न सेवेत यावन्नो बलवान्भवेत् ॥ (६६।२)

jvaramukto na seveta yāvanno balavānbhavet ||

67.0६७.०

प्राणेश्वररसःशुद्धसूतं तथा गन्धं मृताभ्रं विषसंयुतम् ॥ (६७।०)

prāṇeśvararasaḥśuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam ||

68.1६८.१

समं तन्मर्दयेत्तालमूलीनीरैस् त्र्यहं बुधः । (६८।१)

samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ |

68.2६८.२

पूरयेत्कुपिकां तेन मुद्रयित्वा विशोषयेत् ॥ (६८।२)

pūrayetkupikāṃ tena mudrayitvā viśoṣayet ||

69.1६९.१

सप्तभिर्मृत्तिकावस्त्रैर्वेष्टयित्वाथ शोषयेत् । (६९।१)

saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet |

69.2६९.२

पुटेत् कुम्भप्रमाणेन स्वाङ्गशीतं समुद्धरेत् ॥ (६९।२)

puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet ||

70.1७०.१

गृहीत्वा कुपिकामध्यान्मर्दयेच्च दिनं ततः । (७०।१)

gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ |

70.2७०.२

अजाजीचित्रकं हिङ्गु स्वर्जिका टङ्कणं च यत् ॥ (७०।२)

ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat ||

71.1७१.१

गुग्गुलुः पञ्चलवणं यवक्षारो यवानिका । (७१।१)

gugguluḥ pañcalavaṇaṃ yavakṣāro yavānikā |

71.2७१.२

मरिचं पिप्पली चैव प्रत्येकं च समानतः ॥ (७१।२)

maricaṃ pippalī caiva pratyekaṃ ca samānataḥ ||

72.1७२.१

एषां कषायेण पुनर्भावयेत्सप्तधातपे । (७२।१)

eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape |

72.2७२.२

नागवल्लीदलयुतः पञ्चगुञ्जो रसेश्वरः ॥ (७२।२)

nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ ||

73.1७३.१

दद्यान्नवज्वरे तीव्रे सोष्णं वारि पिबेदनु । (७३।१)

dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu |

73.2७३.२

प्राणेश्वरो रसो नाम सन्निपातप्रकोपनुत् ॥ (७३।२)

prāṇeśvaro raso nāma sannipātaprakopanut ||

74.1७४.१

शीतज्वरे दाहपूर्वे गुल्मे शूले त्रिदोषजे । (७४।१)

śītajvare dāhapūrve gulme śūle tridoṣaje |

74.2७४.२

वाञ्छितं भोजनं दद्यात् कुर्याच्चन्दनलेपनम् ॥ (७४।२)

vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam ||

75.1७५.१

तापोद्रेकस्य शमनं बालाभाषणगायनैः । (७५।१)

tāpodrekasya śamanaṃ bālābhāṣaṇagāyanaiḥ |

75.2७५.२

प्रभवेन्नात्र सन्देहः स्वास्थ्यं च लभते नरः ॥ (७५।२)

prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ ||

76.1७६.१

नवज्वरेभसिंहरसःशुद्धं सूतं तथा गन्धं लोहं ताम्रं च सीसकम् । (७६।१)

navajvarebhasiṃharasaḥśuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam |

76.2७६.२

मरिचं पिप्पलीं विश्वं समभागानि चूर्णयेत् ॥ (७६।२)

maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet ||

77.1७७.१

अर्द्धभागं विषं दत्त्वा मर्दयेद्वासरद्वयम् । (७७।१)

arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam |

77.2७७.२

शृङ्गवेरानुपानेन दद्याद् गुञ्जाद्वयं भिषक् ॥ (७७।२)

śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak ||

78.1७८.१

नवज्वरे महाघोरे वाते संग्रहणीगदे । (७८।१)

navajvare mahāghore vāte saṃgrahaṇīgade |

78.2७८.२

नवज्वरेभसिंहोऽयं सर्वरोगेषु योजयेत् ॥ (७८।२)

navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet ||

79.1७९.१

पञ्चाननज्वराङ्कुशरसःशम्भोः कण्ठविभूषणं समरिचं मारारिरक्तं रविः पक्षौ सागरलोचनं शशियुतं भागोऽर्कसंख्यान्वितम् । (७९।१)

pañcānanajvarāṅkuśarasaḥśambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam |

79.2७९.२

खल्वे तं खलु मर्दितं रविजलैर् गुञ्जैकमात्रं ततः सिद्धोऽयं ज्वरदन्तदर्पदलनः पञ्चाननाख्यो रसः ॥ (७९।२)

khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ ||

80.1८०.१

पथ्यं च देयं दधितक्रभक्तं सिन्धूत्थयुक्तं सितया समेतम् । (८०।१)

pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam |

80.2८०.२

गन्धानुलेपो हिमतोयपानं दुग्धं च देयं शुभदाडिमं च ॥ (८०।२)

gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca ||

81.1८१.१

पञ्चाननरसःसूतं गन्धकचित्रकं त्रिकटुकं मुस्ता विषं त्रैफलम् एतेभ्यो द्विगुणां गुडेन गुटिकां गुंजाप्रमाणां हरेत् । (८१।१)

pañcānanarasaḥsūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret |

81.2८१.२

कुष्ठाष्टादश वायुशूलमुदरं शोषप्रमेहादिकं रोगानीककरीन्द्रदर्पदलने ख्यातो हि पञ्चाननः ॥ (८१।२)

kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ ||

82.1८२.१

मृतसंजीवनीरसःम्लेच्छस्य भागाश्चत्वारो जैपालस्य त्रयो मताः । (८२।१)

mṛtasaṃjīvanīrasaḥmlecchasya bhāgāścatvāro jaipālasya trayo matāḥ |

82.2८२.२

द्वौ भागौ टङ्कणस्यैव भागैकममृतस्य च ॥ (८२।२)

dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca ||

83.1८३.१

तत्सर्वं मर्दयेत् सूक्ष्मं शुष्कं यामं भिषग्वरः । (८३।१)

tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ |

83.2८३.२

शृङ्गवेराम्बुना देयो व्योषचित्रकसैन्धवैः । (८३।२)

śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ |

83.3८३.३

गुञ्जाद्वयमितस्तापं हरत्येष विनिश्चयः ॥ (८३।३)

guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ ||

84.0८४.०

घनसारेण युक्तेन चन्दनेन विलेपयेत् ॥ (८४।०)

ghanasāreṇa yuktena candanena vilepayet ||

85.1८५.१

विदध्यात्कांस्यपात्रेण जीवयेद्रोगिणं भिषक् । (८५।१)

vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak |

85.2८५.२

शाल्यन्नं तक्रसहितं भोजयेद् बिल्वसंयुतम् ॥ (८५।२)

śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam ||

86.1८६.१

सन्निपाते महाघोरे त्रिदोषे विषमज्वरे । (८६।१)

sannipāte mahāghore tridoṣe viṣamajvare |

86.2८६.२

आमवाते वातशूले गुल्मे प्लीह्नि जलोदरे ॥ (८६।२)

āmavāte vātaśūle gulme plīhni jalodare ||

87.1८७.१

शीतपूर्वे दाहपूर्वे विषमे सततज्वरे । (८७।१)

śītapūrve dāhapūrve viṣame satatajvare |

87.2८७.२

अग्निमांद्ये च वाते च प्रयोज्योऽयं रसेश्वरः ॥ (८७।२)

agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ ||

88.0८८.०

मृतसंजीवनं नाम ख्यातोऽयं रससागरे ॥ (८८।०)

mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare ||

89.1८९.१

रविसुन्दररसःद्विभागतालेन हतं च ताम्रं रसं च गन्धं च विषं समं स्यात् । (८९।१)

ravisundararasaḥdvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt |

89.2८९.२

जयपालबीजं द्विगुणं च दद्यात् त्रिसप्तवारेण दिवाकरांशौ ॥ (८९।२)

jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau ||

90.1९०.१

विमर्द्य निम्बस्वरसेन चूर्णं गुञ्जैकमानं सितया समेतम् । (९०।१)

vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam |

90.2९०.२

ज्वराङ्कुशोऽयं रविसुन्दराख्यो ज्वरान्निहन्त्यष्टविधान् समग्रान् ॥ (९०।२)

jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān ||

91.1९१.१

सन्निपातभैरवरसःताम्रगन्धरसश्वेतस्पन्दामरिचपूतनाः । (९१।१)

sannipātabhairavarasaḥtāmragandharasaśvetaspandāmaricapūtanāḥ |

91.2९१.२

समीनपित्तजैपालास्तुल्या एकत्र मर्दिताः ॥ (९१।२)

samīnapittajaipālāstulyā ekatra marditāḥ ||

92.1९२.१

गुञ्जाचतुष्टयं चास्या नवज्वरहरः परः । (९२।१)

guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ |

92.2९२.२

ज्वराङ्कुशः संनिपातभैरवोऽयं प्रकाशितः ॥ (९२।२)

jvarāṅkuśaḥ saṃnipātabhairavo'yaṃ prakāśitaḥ ||

93.1९३.१

भस्मेश्वररसःभस्मषोडशनिष्कं स्यादारण्योपलकोद्भवम् । (९३।१)

bhasmeśvararasaḥbhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam |

93.2९३.२

निष्कत्रयं च मरिचं विषं निष्कं च चूर्णयेत् ॥ (९३।२)

niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet ||

94.1९४.१

अयं भस्मेश्वरो नाम सन्निपातनिकृन्तनः । (९४।१)

ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ |

94.2९४.२

पञ्चगुञ्जामितो भक्षेदार्द्रकस्य रसेन च ॥ (९४।२)

pañcaguñjāmito bhakṣedārdrakasya rasena ca ||

95.1९५.१

प्रतापलङ्केश्वररसःअपामार्गस्य मूलस्य चूर्णं चित्रकमूलजैः । (९५।१)

pratāpalaṅkeśvararasaḥapāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ |

95.2९५.२

वल्कलैर्मर्दयित्वा च रसं वस्त्रेण गालयेत् ॥ (९५।२)

valkalairmardayitvā ca rasaṃ vastreṇa gālayet ||

96.1९६.१

तेन सूतसमं गन्धमभ्रकं दरदं विषम् । (९६।१)

tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam |

96.2९६.२

टङ्कणं तालकं चैव मर्दयेद् दिनसप्तकम् ॥ (९६।२)

ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam ||

97.1९७.१

त्रिदिनं मुशलीकन्दैर्भावयेद् घर्मरक्षितम् । (९७।१)

tridinaṃ muśalīkandairbhāvayed gharmarakṣitam |

97.2९७.२

मूषां च गोस्तनाकारामापूर्य परिढक्कयेत् ॥ (९७।२)

mūṣāṃ ca gostanākārāmāpūrya pariḍhakkayet ||

98.1९८.१

सप्तभिर् मृत्तिकावस्त्रैर् वेष्टयित्वा पुटेल्लघु । (९८।१)

saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu |

98.2९८.२

रसतुल्यं लोहवङ्गौ रजतं ताम्रकं तथा ॥ (९८।२)

rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā ||

99.1९९.१

मधूकसारजलदौ रेणुका गुग्गुलुः शिला । (९९।१)

madhūkasārajaladau reṇukā gugguluḥ śilā |

99.2९९.२

चव्यकं च समांशं स्याद्भागार्द्धं शोधितं विषम् ॥ (९९।२)

cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam ||

100.1१००.१

तत्सर्वं मर्दयेत्खल्वे भावयेद्विषनीरतः । (१००।१)

tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ |

100.2१००.२

आतपे सप्तधा तीव्रे मर्दयेद् घटिकाद्वयम् ॥ (१००।२)

ātape saptadhā tīvre mardayed ghaṭikādvayam ||

101.1१०१.१

कटुत्रयकषायेण कनकस्य रसेन च । (१०१।१)

kaṭutrayakaṣāyeṇa kanakasya rasena ca |

101.2१०१.२

फलत्रयकषायेण मुनिपुष्परसेन च ॥ (१०१।२)

phalatrayakaṣāyeṇa munipuṣparasena ca ||

102.1१०२.१

समुद्रफलनीरेण विजयावारिणा तथा । (१०२।१)

samudraphalanīreṇa vijayāvāriṇā tathā |

102.2१०२.२

चित्रकस्य कषायेण ज्वालामुख्या रसेन च ॥ (१०२।२)

citrakasya kaṣāyeṇa jvālāmukhyā rasena ca ||

103.1१०३.१

प्रत्येकं सप्तधा भाव्यं तद्वत्पिष्टं च भावयेत् । (१०३।१)

pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet |

103.2१०३.२

सर्वस्य समभागेन विषेण परिधूपयेत् ॥ (१०३।२)

sarvasya samabhāgena viṣeṇa paridhūpayet ||

104.1१०४.१

दिनं विमर्दयित्वाथ रक्षयेत्कूपिकान्तरे । (१०४।१)

dinaṃ vimardayitvātha rakṣayetkūpikāntare |

104.2१०४.२

गुञ्जैकं वह्णिनीरेण शृङ्गवेररसेन वा ॥ (१०४।२)

guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā ||

105.1१०५.१

प्रदद्याद्रोगिणे तीव्रमोहविस्मृतिशान्तये । (१०५।१)

pradadyādrogiṇe tīvramohavismṛtiśāntaye |

105.2१०५.२

शस्त्रेण तालुमाहत्य मर्दयेदार्द्रनीरतः ॥ (१०५।२)

śastreṇa tālumāhatya mardayedārdranīrataḥ ||

106.1१०६.१

नोद्घटन्ते यदा दन्तास्तदा कुर्यादमुं विधिम् । (१०६।१)

nodghaṭante yadā dantāstadā kuryādamuṃ vidhim |

106.2१०६.२

सेचयेन्मन्त्रयित्वाथ वारां कुम्भशतैर् मुहुः ॥ (१०६।२)

secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ ||

107.1१०७.१

भोजनेच्छा यदा तस्य जायते रोगिणस्तदा । (१०७।१)

bhojanecchā yadā tasya jāyate rogiṇastadā |

107.2१०७.२

दध्योदनं सितायुक्तं दद्यात्तक्रं सजीरकम् ॥ (१०७।२)

dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam ||

108.1१०८.१

पाने पानं सितायुक्तं यदीच्छति तदा ददेत् । (१०८।१)

pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet |

108.2१०८.२

एवं कृते न शान्तिः स्यात्तापस्य रसजस्य च ॥ (१०८।२)

evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca ||

109.1१०९.१

सचन्द्रचन्दनरसोल्लेपनं कुरु शीतलम् । (१०९।१)

sacandracandanarasollepanaṃ kuru śītalam |

109.2१०९.२

तूलिकामल्लिकाजातीपुन्नागबकुलावृताम् ॥ (१०९।२)

tūlikāmallikājātīpunnāgabakulāvṛtām ||

110.1११०.१

विधाय शय्यां तत्रस्थं लेपयेच्चन्दनैर् मुहुः । (११०।१)

vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ |

110.2११०.२

हावभावविलासोक्तिकटाक्षचञ्चलेक्षणैः ॥ (११०।२)

hāvabhāvavilāsoktikaṭākṣacañcalekṣaṇaiḥ ||

111.1१११.१

पीनोत्तुङ्गकुचोत्पीडैः कामिनीपरिरम्भणैः । (१११।१)

pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ |

111.2१११.२

रम्यवीणानिनादाद्यैर् गायनैः श्रवणामृतैः ॥ (१११।२)

ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ ||

112.1११२.१

पुण्यश्लोकपुराणानां कथासम्भाषणैः शुभैः । (११२।१)

puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ |

112.2११२.२

एभिः प्रकारैस्तापस्य जायते शमनं परम् ॥ (११२।२)

ebhiḥ prakāraistāpasya jāyate śamanaṃ param ||

113.1११३.१

वर्जयेन्मैथुनं तावद्यावन्नो बलवान् भवेत् । (११३।१)

varjayenmaithunaṃ tāvadyāvanno balavān bhavet |

113.2११३.२

दद्याद्वातादिरोगेषु सिन्धुगुग्गुलवह्णिभिः ॥ (११३।२)

dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ ||

114.1११४.१

दद्यात्कणामाक्षिकाभ्यां कामलाक्षयपाण्डुषु । (११४।१)

dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu |

114.2११४.२

तत्तद्रोगानुपानेन सर्वरोगेषु योजयेत् ॥ (११४।२)

tattadrogānupānena sarvarogeṣu yojayet ||

115.0११५.०

अयं प्रतापलङ्केशः सन्निपातनिकृन्तनः ॥ (११५।०)

ayaṃ pratāpalaṅkeśaḥ sannipātanikṛntanaḥ ||

116.1११६.१

महोदधिरसःसूतकं गन्धकं लोहं विषं चापि वराटकम् । (११६।१)

mahodadhirasaḥsūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam |

116.2११६.२

ताम्रकं वङ्गभस्माथ अभ्रकं च समांशकम् ॥ (११६।२)

tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam ||

117.1११७.१

त्रिकटु पत्रमुस्तं च विडङ्गं नागकेशरम् । (११७।१)

trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram |

117.2११७.२

रेणुकामलकं चैव पिप्पलीमूलमेव च ॥ (११७।२)

reṇukāmalakaṃ caiva pippalīmūlameva ca ||

118.1११८.१

एषां च द्विगुणं भागं मर्दयित्वा प्रयत्नतः । (११८।१)

eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ |

118.2११८.२

भावना तत्र दातव्या गजपिप्पलिकाम्बुना ॥ (११८।२)

bhāvanā tatra dātavyā gajapippalikāmbunā ||

119.1११९.१

मात्रा चणकमाना तु वटिकेयं प्रकीर्तिता । (११९।१)

mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā |

119.2११९.२

श्वासं हन्ति तथा कासम् अर्शांसि च भगन्दरम् ॥ (११९।२)

śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram ||

120.1१२०.१

हृच्छूलं पार्श्वशूलं च कर्णरोगं कपालिकम् । (१२०।१)

hṛcchūlaṃ pārśvaśūlaṃ ca karṇarogaṃ kapālikam |

120.2१२०.२

हरेत्संग्रहणीरोगमष्टौ च जाठराणि च । (१२०।२)

haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca |

120.3१२०.३

प्रमेहविंशतिं चैव अश्मरीं च चतुर्विधाम् ॥ (१२०।३)

pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām ||

121.1१२१.१

न चान्नपाने परिहारमस्ति न शीतवाताध्वनि मैथुने च । (१२१।१)

na cānnapāne parihāramasti na śītavātādhvani maithune ca |

121.2१२१.२

यथेष्टचेष्टाभिरतः प्रयोगे नरो भवेत्काञ्चनराशिगौरः ॥ (१२१।२)

yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ ||

122.1१२२.१

मदोदधिवटीएकैकं विषसूतं च जाती टङ्कं द्विकं द्विकम् । (१२२।१)

madodadhivaṭīekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam |

122.2१२२.२

कृष्णात्रिकं विश्वषट्कं दग्धं कपर्दिकाद्विकम् ॥ (१२२।२)

kṛṣṇātrikaṃ viśvaṣaṭkaṃ dagdhaṃ kapardikādvikam ||

123.1१२३.१

देवपुष्पं बाणमितं सर्वं संमर्द्य यत्नतः । (१२३।१)

devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ |

123.2१२३.२

महोदध्याख्यवटिका नष्टस्याग्नेश्च दीपनी ॥ (१२३।२)

mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī ||

124.1१२४.१

उन्मत्तरसःरसं च गन्धकं चैव धत्तूरफलजैर् द्रवैः । (१२४।१)

unmattarasaḥrasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ |

124.2१२४.२

मर्दयेद् दिनमेकं च तुल्यं त्रिकटुकं क्षिपेत् ॥ (१२४।२)

mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet ||

125.1१२५.१

उन्मत्ताख्यरसो नाम सन्निपातनिकृन्तनः । (१२५।१)

unmattākhyaraso nāma sannipātanikṛntanaḥ |

125.2१२५.२

कस्तेन न कृतो धर्मः कां च पूजां न सोऽर्हति । (१२५।२)

kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati |

125.3१२५.३

सन्निपातार्णवे मग्नं योऽभ्युद्धरति देहिनम् ॥ (१२५।३)

sannipātārṇave magnaṃ yo'bhyuddharati dehinam ||

126.1१२६.१

संज्ञाकरणरसःवचा रसोनकटुकं सैन्धवं बृहतीफलम् । (१२६।१)

saṃjñākaraṇarasaḥvacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam |

126.2१२६.२

रुद्राक्षं मधुसारं च फलं सामुद्रकामृतम् ॥ (१२६।२)

rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam ||

127.1१२७.१

समभागानि चैतानि ह्यर्कक्षीरेण भावयेत् । (१२७।१)

samabhāgāni caitāni hyarkakṣīreṇa bhāvayet |

127.2१२७.२

भावयेन्मत्स्यपित्तेन त्रिवारं चूर्णयेत्ततः ॥ (१२७।२)

bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ ||

128.1१२८.१

धमनं कथितं श्रेष्ठं सन्निपाते सुदारुणे । (१२८।१)

dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe |

128.2१२८.२

कफोल्वणेऽतिवाते च अपस्मारे हलीमके ॥ (१२८।२)

kapholvaṇe'tivāte ca apasmāre halīmake ||

129.1१२९.१

शिरोरोगे कर्णरोगे नेत्ररोगे विधानतः । (१२९।१)

śiroroge karṇaroge netraroge vidhānataḥ |

129.2१२९.२

दापयेद्घ्राणछिद्राभ्यां संज्ञाकरणम् उत्तमम् ॥ (१२९।२)

dāpayedghrāṇachidrābhyāṃ saṃjñākaraṇam uttamam ||

130.0१३०.०

चन्द्रशेखररसःशुद्धं सूतं समं गन्धं मरिचं टङ्कणं तथा ॥ (१३०।०)

candraśekhararasaḥśuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā ||

131.1१३१.१

चतुस्तुल्या सिता योज्या मत्स्यपित्तेन भावयेत् । (१३१।१)

catustulyā sitā yojyā matsyapittena bhāvayet |

131.2१३१.२

त्रिदिनं मर्दयेत्तेन रसोऽयं चन्द्रशेखरः ॥ (१३१।२)

tridinaṃ mardayettena raso'yaṃ candraśekharaḥ ||

132.1१३२.१

द्विगुञ्जमार्द्रकद्रावैर्देयं शीतोदकं पुनः । (१३२।१)

dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ |

132.2१३२.२

तक्रभक्तं च वृन्ताकं पथ्यं तत्र निधापयेत् ॥ (१३२।२)

takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet ||

133.0१३३.०

कनकसुन्दररसःहिङ्गुलं मरिचं गन्धं पिप्पलीं टङ्कणं विषम् ॥ (१३३।०)

kanakasundararasaḥhiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam ||

134.1१३४.१

कनकस्य च बीजानि समांशं विजयारसैः । (१३४।१)

kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ |

134.2१३४.२

मर्दयेद्याममात्रं तु चणमात्रा वटी कृता ॥ (१३४।२)

mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā ||

135.1१३५.१

भक्षणाद्ग्रहणीं हन्याद्रसः कनकसुन्दरः । (१३५।१)

bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ |

135.2१३५.२

अग्निमांद्यं ज्वरं तीव्रमतिसारं च नाशयेत् ॥ (१३५।२)

agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet ||

136.1१३६.१

ग्रहणीदोषिणां तक्रं दीपनं ग्राहिलाघवम् । (१३६।१)

grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam |

136.2१३६.२

पथ्यं मधुरपाकित्वान्न च पित्तप्रकोपनम् ॥ (१३६।२)

pathyaṃ madhurapākitvānna ca pittaprakopanam ||

137.0१३७.०

राववाणरसःसूतकं गन्धकं चैव शाणं शाणं च गृह्यते ॥ (१३७।०)

rāvavāṇarasaḥsūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate ||

138.1१३८.१

दरदं टङ्कणं चैव मरिचं च विषं तथा । (१३८।१)

daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā |

138.2१३८.२

चत्वार औषधयः सर्वे द्विद्विटङ्कं च कथ्यते ॥ (१३८।२)

catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate ||

139.1१३९.१

जैपालबीजं संयोज्यं टङ्कं च दिक्प्रमाणतः । (१३९।१)

jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ |

139.2१३९.२

तिन्तिडीरससंमर्द्यं गुञ्जामात्रवटी कृता ॥ (१३९।२)

tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā ||

140.1१४०.१

तुलसीपत्रसंयुक्ता सर्वे च विषमज्वराः । (१४०।१)

tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ |

140.2१४०.२

ऐकाहिकं द्व्याहिकं च त्र्याहिकं च चतुर्थकम् ॥ (१४०।२)

aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam ||

141.1१४१.१

शीतदाह्यादिकं सर्वं नाशयति च वेगतः । (१४१।१)

śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ |

141.2१४१.२

पथ्यं दुग्धौदनं देयं दधिभक्तं च भोजनम् ॥ (१४१।२)

pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam ||

142.0१४२.०

रामवाणरसो नाम सर्वरोगप्रणाशकः ॥ (१४२।०)

rāmavāṇaraso nāma sarvarogapraṇāśakaḥ ||

143.1१४३.१

चन्द्रप्रभावटीमृतं सूतं मृतं ताम्रं मृतं स्वर्णं समं समम् । (१४३।१)

candraprabhāvaṭīmṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam |

143.2१४३.२

तुल्यं च खादिरं सारं तथा मोचरसं क्षिपेत् ॥ (१४३।२)

tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet ||

144.1१४४.१

द्रवैः शाल्मलिमूलोत्थैर् मर्दयेत् प्रहरद्वयम् । (१४४।१)

dravaiḥ śālmalimūlotthair mardayet praharadvayam |

144.2१४४.२

चणमात्रां वटीं भक्षेन्निष्कैकं जीरकैः सह । (१४४।२)

caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha |

144.3१४४.३

त्रिदोषोत्थमतीसारं सज्वरं नाशयेद्ध्रुवम् ॥ (१४४।३)

tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam ||

145.1१४५.१

चित्राम्बररसःशुद्धसूतं मृतं चाभ्रं गन्धकं मर्दयेत्समम् । (१४५।१)

citrāmbararasaḥśuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam |

145.2१४५.२

लोहपात्रे घृताभ्यक्ते यामं मृद्वग्निना पचेत् ॥ (१४५।२)

lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet ||

146.1१४६.१

चालयेल्लोहदण्डेन ह्यवतार्य विभावयेत् । (१४६।१)

cālayellohadaṇḍena hyavatārya vibhāvayet |

146.2१४६.२

त्रिदिनं जीरकैः क्वाथैर् मासैकं भक्षयेन्नरः ॥ (१४६।२)

tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ ||

147.1१४७.१

रसश् चित्राम्बरो नाम ग्रहणीं रक्तसंयुताम् । (१४७।१)

rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām |

147.2१४७.२

शमयेदनुपानेन आमशूलं प्रवाहिकाम् ॥ (१४७।२)

śamayedanupānena āmaśūlaṃ pravāhikām ||

148.1१४८.१

ग्रहणीकपाटरसःतारमौक्तिकहेमायः सारश् चैकैकभागिकाः । (१४८।१)

grahaṇīkapāṭarasaḥtāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ |

148.2१४८.२

द्विभागो गन्धकः सूतस्त्रिभागो मर्दयेद्दिनम् ॥ (१४८।२)

dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam ||

149.1१४९.१

कपित्थस्वरसैर्गाढं मृगशृङ्गे ततः क्षिपेत् । (१४९।१)

kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet |

149.2१४९.२

पुटेन्मध्यपुटेनैव तत उद्धृत्य मर्दयेत् ॥ (१४९।२)

puṭenmadhyapuṭenaiva tata uddhṛtya mardayet ||

150.1१५०.१

बलारसैः सप्तधैवम् अपामार्गरसैस् त्रिधा । (१५०।१)

balārasaiḥ saptadhaivam apāmārgarasais tridhā |

150.2१५०.२

लोध्रप्रतिविषामुस्ताधातकीन्द्रयवामृताः ॥ (१५०।२)

lodhraprativiṣāmustādhātakīndrayavāmṛtāḥ ||

151.1१५१.१

प्रत्येकमेषां स्वरसैर्भावना स्यात्त्रिधा त्रिधा । (१५१।१)

pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā |

151.2१५१.२

माषमात्ररसो देयो मधुना मरिचैः सह ॥ (१५१।२)

māṣamātraraso deyo madhunā maricaiḥ saha ||

152.1१५२.१

हन्यात्सर्वानतीसारान्ग्रहणीं पञ्चधापि च । (१५२।१)

hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca |

152.2१५२.२

कपाटो ग्रहणीनाम रसोऽयं चाग्निदीपनः ॥ (१५२।२)

kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ ||

153.1१५३.१

ग्रहणीकपाटरसःमुक्तासुवर्णं रसगन्धटङ्कणं घनं कपर्दोऽमृततुल्यभागम् । (१५३।१)

grahaṇīkapāṭarasaḥmuktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam |

153.2१५३.२

सर्वैः समं शङ्खकचूर्णयुक्तं खल्वे च भाव्योऽतिविषाद्रवेण ॥ (१५३।२)

sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa ||

154.1१५४.१

गोलं च कृत्वा मृत्कर्पटस्थं संरुध्य भाण्डे हि पचेद् दिनार्धम् । (१५४।१)

golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham |

154.2१५४.२

सुस्वाङ्गशीतो रस एष भाव्यो धत्तूरवह्णिमुशलीद्रवैश्च ॥ (१५४।२)

susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca ||

155.1१५५.१

लोहस्य पात्रे परिपाचितश्च सिद्धो भवेत् संग्रहणीकपाटः । (१५५।१)

lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ |

155.2१५५.२

वातोत्तरायां मरिचाज्ययुक्तः पित्तोत्तरायां मधुपिप्पलीभिः ॥ (१५५।२)

vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ ||

156.0१५६.०

श्लेष्मोत्तरायां विजयारसेन कटुत्रयेणापि युतो ग्रहण्याम् ॥ (१५६।०)

śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām ||

157.1१५७.१

क्षये ज्वरेऽप्यर्शसि विड्विकारे सामातिसारेऽरुचिपीनसे च । (१५७।१)

kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca |

157.2१५७.२

मोहे च कृच्छ्रे गतधातुवृद्धौ गुञ्जाद्वयं चापि महामयघ्नम् ॥ (१५७।२)

mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam ||

158.0१५८.०

वज्रकपाटरसःमृतसूताभ्रकं गन्धं यवक्षारं सटङ्कणम् ॥ (१५८।०)

vajrakapāṭarasaḥmṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam ||

159.1१५९.१

अग्निमन्थं वचां कुर्यात् सूततुल्याम् इमां सुधीः । (१५९।१)

agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ |

159.2१५९.२

ततो जयन्तीजम्बीरभृङ्गद्रावैर् विमर्दयेत् ॥ (१५९।२)

tato jayantījambīrabhṛṅgadrāvair vimardayet ||

160.1१६०.१

त्रिवासरं ततो गोलं कृत्वा संशोष्य धारयेत् । (१६०।१)

trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet |

160.2१६०.२

लोहपात्रे च लवणं अथोपरि निधापयेत् ॥ (१६०।२)

lohapātre ca lavaṇaṃ athopari nidhāpayet ||

161.1१६१.१

अधोवह्निं शनैः कुर्याद् यामार्धं च तद् उद्धरेत् । (१६१।१)

adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet |

161.2१६१.२

रसतुल्यामतिविषां दद्यान्मोचरसं तथा ॥ (१६१।२)

rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā ||

162.1१६२.१

कपित्थविजयाद्रावैर्भावयेत् सप्तधा भिषक् । (१६२।१)

kapitthavijayādrāvairbhāvayet saptadhā bhiṣak |

162.2१६२.२

धातकीन्द्रयवमुस्तालोध्रबिल्वगुडूचिकाः ॥ (१६२।२)

dhātakīndrayavamustālodhrabilvaguḍūcikāḥ ||

163.1१६३.१

एतद्रसैर्भावयित्वा वारैकं च विशोषयेत् । (१६३।१)

etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet |

163.2१६३.२

रसवज्रं कपाटाख्यं माषैकं मधुना लिहेत् ॥ (१६३।२)

rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet ||

164.1१६४.१

वह्निः शुण्ठी विडङ्गापि बिल्वं च लवणं समम् । (१६४।१)

vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam |

164.2१६४.२

पिबेद् उष्णाम्बुना चानु सर्वजां ग्रहणीं जयेत् ॥ (१६४।२)

pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet ||

165.1१६५.१

विजयभैरवरसःसूतकं गन्धकं लोहं विषं चित्रकमभ्रकम् । (१६५।१)

vijayabhairavarasaḥsūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam |

165.2१६५.२

विडङ्गं रेणुका मुस्ता एला केशरपत्रकम् । (१६५।२)

viḍaṅgaṃ reṇukā mustā elā keśarapatrakam |

165.3१६५.३

फलत्रयं त्रिकटुकं शुल्बभस्म तथैव च ॥ (१६५।३)

phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca ||

166.1१६६.१

एतानि समभागानि द्विगुणो दीयते गुडः । (१६६।१)

etāni samabhāgāni dviguṇo dīyate guḍaḥ |

166.2१६६.२

कासे श्वासे क्षये गुल्मे प्रमेहे विषमज्वरे ॥ (१६६।२)

kāse śvāse kṣaye gulme pramehe viṣamajvare ||

167.1१६७.१

सूतायां ग्रहणीमांद्ये शूले पाण्ड्वामये तथा । (१६७।१)

sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā |

167.2१६७.२

हस्तपादादिरोगेषु गुटिकेयं प्रशस्यते ॥ (१६७।२)

hastapādādirogeṣu guṭikeyaṃ praśasyate ||

168.0१६८.०

आनन्दभैरवरसःदरदं वत्सनाभं च मरिचं टङ्कणं कणा ॥ (१६८।०)

ānandabhairavarasaḥdaradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā ||

169.1१६९.१

चूर्णयेत्समभागेन रसो ह्यानन्दभैरवः । (१६९।१)

cūrṇayetsamabhāgena raso hyānandabhairavaḥ |

169.2१६९.२

गुञ्जैकं तु द्विगुञ्जं वा बलं ज्ञात्वा प्रयोजयेत् ॥ (१६९।२)

guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet ||

170.1१७०.१

मधुना लेहयेच्चानु कुटजस्य फलत्वचम् । (१७०।१)

madhunā lehayeccānu kuṭajasya phalatvacam |

170.2१७०.२

चूर्णितं कर्षमात्रं तु त्रिदोषस्यातिसारजित् ॥ (१७०।२)

cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit ||

171.1१७१.१

दध्यन्नं दापयेत्पथ्यं गव्याजं तक्रमेव च । (१७१।१)

dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca |

171.2१७१.२

पिपासायां जलं शीतं हिता च विजया निशि ॥ (१७१।२)

pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi ||

172.1१७२.१

मेघडम्बररसःतण्डुलीयजलैः पिष्टं सूततुल्यं च गन्धकम् । (१७२।१)

meghaḍambararasaḥtaṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam |

172.2१७२.२

अन्धमूषागतं पक्त्वा भूधरे भस्मतां नयेत् ॥ (१७२।२)

andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet ||

173.1१७३.१

दशमूलकषायेण भावयेत्प्रहरद्वयम् । (१७३।१)

daśamūlakaṣāyeṇa bhāvayetpraharadvayam |

173.2१७३.२

गुञ्जाद्वयं हरत्याशु हिक्कां कासं ज्वरं तथा । (१७३।२)

guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā |

173.3१७३.३

अनुपानेन दातव्यो रसोऽयं मेघडम्बरः ॥ (१७३।३)

anupānena dātavyo raso'yaṃ meghaḍambaraḥ ||

174.0१७४.०

त्रिगुणाख्यरसःगन्धकाद् द्विगुणं सूतं शुद्धं मृद्वग्निना क्षणम् ॥ (१७४।०)

triguṇākhyarasaḥgandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam ||

175.1१७५.१

पक्त्वावतार्य संचूर्ण्य चूर्णतुल्याभयायुतम् । (१७५।१)

paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam |

175.2१७५.२

सप्तगुञ्जामितं खादेद्वर्धयेच्च दिने दिने ॥ (१७५।२)

saptaguñjāmitaṃ khādedvardhayecca dine dine ||

176.1१७६.१

गुञ्जैकं च क्रमेणैव यावत्स्याद् एकविंशतिः । (१७६।१)

guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ |

176.2१७६.२

क्षीराज्यशर्करामिश्रं शाल्यन्नं पथ्यमाचरेत् ॥ (१७६।२)

kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret ||

177.1१७७.१

कम्पवातप्रशान्त्यर्थं निर्वाते निवसेत्सदा । (१७७।१)

kampavātapraśāntyarthaṃ nirvāte nivasetsadā |

177.2१७७.२

त्रिगुणाख्यो रसो नाम त्रिपक्षात्कम्पवातनुत् ॥ (१७७।२)

triguṇākhyo raso nāma tripakṣātkampavātanut ||

178.1१७८.१

वातरिपुरसःसूतहाटकवज्राणि तारं लोहं च माक्षिकम् । (१७८।१)

vātaripurasaḥsūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam |

178.2१७८.२

तालं नीलाञ्जनं तुत्थमब्धिफेनं समांशकम् ॥ (१७८।२)

tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam ||

179.1१७९.१

पञ्चानां लवणानां च भागमेकं विमर्दयेत् । (१७९।१)

pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet |

179.2१७९.२

वज्रक्षीरैर् दिनैकं तु रुद्ध्वा तं भूधरे पुटेत् ॥ (१७९।२)

vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet ||

180.1१८०.१

माषैकमार्द्रकद्रावैर् लेहयेद् वातनाशनम् । (१८०।१)

māṣaikamārdrakadrāvair lehayed vātanāśanam |

180.2१८०.२

पिप्पलीमूलजं क्वाथं सकृष्णमनुपाययेत् ॥ (१८०।२)

pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet ||

181.1१८१.१

सर्ववातविकारांस्तु निहन्त्याक्षेपकादिकान् । (१८१।१)

sarvavātavikārāṃstu nihantyākṣepakādikān |

181.2१८१.२

रसः सर्वत्र विख्यातो नाम वातरिपुः स्मृतः ॥ (१८१।२)

rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ ||

182.1१८२.१

वातगजाङ्कुशरसःमृतं लोहं सूतगन्धं ताम्रतालकमाक्षिकम् । (१८२।१)

vātagajāṅkuśarasaḥmṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam |

182.2१८२.२

पथ्यां शृङ्गीविषं त्र्यूषम् अग्निमन्थं च टङ्कणम् ॥ (१८२।२)

pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam ||

183.1१८३.१

तुल्यं खल्वे दिनं मर्द्य मुण्डीनिर्गुण्डिजैर् द्रवैः । (१८३।१)

tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ |

183.2१८३.२

द्विगुञ्जां वटिकां खादेत्सर्ववातप्रशान्तये । (१८३।२)

dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye |

183.3१८३.३

साध्यासाध्यं निहन्त्याशु रसो वातगजाङ्कुशः ॥ (१८३।३)

sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ ||

184.1१८४.१

अम्लपित्तान्तकरसःमृतसूताभ्रलोहानां तुल्यां पथ्यां विचूर्णयेत् । (१८४।१)

amlapittāntakarasaḥmṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet |

184.2१८४.२

माषत्रयं लिहेत्क्षौद्रैरम्लपित्तप्रशान्तये ॥ (१८४।२)

māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye ||

185.1१८५.१

अग्निकुमाररसःसूतं गन्धं च नागानां चूर्णं हंसाङ्घ्रिवारिणा । (१८५।१)

agnikumārarasaḥsūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā |

185.2१८५.२

दिनं घर्मे विमर्द्याथ गोलिकां तस्य योजयेत् ॥ (१८५।२)

dinaṃ gharme vimardyātha golikāṃ tasya yojayet ||

186.1१८६.१

काचकुप्यां च संवेष्ट्य तां त्रिभिर् मृत्पुटैर् दृढम् । (१८६।१)

kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham |

186.2१८६.२

मुखं संरुध्य संशोष्य स्थापयेत्सिकताह्वये ॥ (१८६।२)

mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye ||

187.1१८७.१

सार्धं दिनं क्रमेणाग्निं ज्वालयेत् तदधस्ततः । (१८७।१)

sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ |

187.2१८७.२

स्वांगशीतं समुद्धृत्य षडंशेनामृतं क्षिपेत् ॥ (१८७।२)

svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet ||

188.1१८८.१

मरिचान्यर्द्धभागेन समं वास्याथ मर्दयेत् । (१८८।१)

maricānyarddhabhāgena samaṃ vāsyātha mardayet |

188.2१८८.२

अयमग्निकुमाराख्यो रसो मात्रास्य रक्तिका ॥ (१८८।२)

ayamagnikumārākhyo raso mātrāsya raktikā ||

189.1१८९.१

ताम्बूलीरससंयुक्तो हन्ति रोगानमून् अयम् । (१८९।१)

tāmbūlīrasasaṃyukto hanti rogānamūn ayam |

189.2१८९.२

वातरोगान् क्षयं श्वासं कासं पाण्डुकफोल्बणम् ॥ (१८९।२)

vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam ||

190.1१९०.१

अग्निमांद्यं सन्निपातं पथ्यं शाल्यादिकं लघु । (१९०।१)

agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu |

190.2१९०.२

जलयोगप्रयोगोऽपि शस्तस्तापप्रशान्तये ॥ (१९०।२)

jalayogaprayogo'pi śastastāpapraśāntaye ||

191.1१९१.१

अग्निकुमाररसःटङ्कणं रसगन्धौ च समभागं त्रयो विषम् । (१९१।१)

agnikumārarasaḥṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam |

191.2१९१.२

कपर्दिसर्जिकाक्षारमागधीविश्वभेषजम् ॥ (१९१।२)

kapardisarjikākṣāramāgadhīviśvabheṣajam ||

192.1१९२.१

पृथक्पृथक् कर्षमात्रं त्वष्टभागं मरीचकम् । (१९२।१)

pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam |

192.2१९२.२

जम्बीराम्लैर्दिनं पिष्टं भवेदग्निकुमारकः । (१९२।२)

jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ |

192.3१९२.३

विषूचिशूलवातादिवह्णिमांद्यप्रशान्तये ॥ (१९२।३)

viṣūciśūlavātādivahṇimāṃdyapraśāntaye ||

193.1१९३.१

लीलाविलासरसःरसो रविर्व्योम बलिः सुलोहं धात्र्यक्षनीरैस्त्रिदिनं विमर्द्य । (१९३।१)

līlāvilāsarasaḥraso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya |

193.2१९३.२

तदल्पघृष्टं मृदुमार्कवेण संमर्दयेद् अस्य च वल्लयुग्मम् ॥ (१९३।२)

tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam ||

194.1१९४.१

हन्त्यम्लपित्तं मधुनावलीढं लीलाविलासो रसराज एषः । (१९४।१)

hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ |

194.2१९४.२

दुग्धं सकूष्माण्डरसं सधात्रीफलं शनैस्तत्सहितं भजेद्वा ॥ (१९४।२)

dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā ||

195.1१९५.१

मन्थानभैरवरसःमृतं सूतं मृतं ताम्रं हिङ्गुपुष्करमूलकम् । (१९५।१)

manthānabhairavarasaḥmṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam |

195.2१९५.२

सैन्धवं गन्धकं तालं टङ्कणं चूर्णयेत्समम् ॥ (१९५।२)

saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam ||

196.1१९६.१

पुनर्नवादेवदारुनिर्गुण्डीतण्डुलीयकैः । (१९६।१)

punarnavādevadārunirguṇḍītaṇḍulīyakaiḥ |

196.2१९६.२

तिक्तकोशातकीद्रावैर्दिनैकं मर्दयेद् दृढम् ॥ (१९६।२)

tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham ||

197.1१९७.१

माषमात्रं लिहेत्क्षौद्रै रसो मन्थानभैरवः । (१९७।१)

māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ |

197.2१९७.२

कफरोगप्रशान्त्यर्थं निम्बक्वाथं पिबेदनु ॥ (१९७।२)

kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu ||

198.1१९८.१

क्रव्यादरसःपलं रसस्य द्विपलं बलेः स्याच्छुल्वायसी चार्धपलप्रमाणे । (१९८।१)

kravyādarasaḥpalaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe |

198.2१९८.२

संचूर्ण्य सर्वं द्रुतम् अग्नियोगाद् एरण्डपत्रेषु निवेशनीयम् ॥ (१९८।२)

saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam ||

199.1१९९.१

पिष्ट्वाथ तां पर्पटिकां निदध्याल्लोहस्य पात्रे वरपूतम् अस्मिन् । (१९९।१)

piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin |

199.2१९९.२

जम्बीरजं पक्वरसं पलानां शतं नियोज्याग्निमथाम्लमात्रम् ॥ (१९९।२)

jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram ||

200.1२००.१

जीर्णे रसे भावितमेतदेतैः सपञ्चकोलोद्भववारिपूरैः । (२००।१)

jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ |

200.2२००.२

सवेतसाम्लैः शतमत्र योज्यं समं रजष् टंकणजं सुभृष्टम् ॥ (२००।२)

savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam ||

201.1२०१.१

विडं ददर्धं मरिचं समं च तत्सप्तधार्द्रं चणकाम्लवारि । (२०१।१)

viḍaṃ dadardhaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri |

201.2२०१.२

क्रव्यादनामा भवति प्रसिद्धो रसः सुमन्थानकभैरवोक्तः । (२०१।२)

kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ |

201.3२०१.३

माषद्वयं सैन्धवतक्रपीतम् एतसुधन्यं खलु भोजनान्ते ॥ (२०१।३)

māṣadvayaṃ saindhavatakrapītam etasudhanyaṃ khalu bhojanānte ||

202.1२०२.१

गुरूणि मांसानि पयांसि पिष्टीघृतानि खाद्यानि फलानि वेगात् । (२०२।१)

gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt |

202.2२०२.२

मात्रातिरिक्तान्यपि सेवितानि यामद्वयाज्जारयति प्रसिद्धः ॥ (२०२।२)

mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ ||

203.1२०३.१

अग्नितुण्डीवटीशुद्धं सूतं विषं गन्धमजमोदाफलत्रयम् । (२०३।१)

agnituṇḍīvaṭīśuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam |

203.2२०३.२

सर्जिक्षारं यवक्षारं वह्णिसैन्धवजीरकम् ॥ (२०३।२)

sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam ||

204.1२०४.१

सौवर्चलं विडङ्गानि सामुद्रं टङ्कणं समम् । (२०४।१)

sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam |

204.2२०४.२

विषमुष्टिं सर्वतुल्यं जम्बीराम्लेन मर्दयेत् ॥ (२०४।२)

viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet ||

205.0२०५.०

मरिचाभां वटीं खादेद्वह्णिमांद्यप्रशान्तये ॥ (२०५।०)

maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye ||

206.1२०६.१

आनन्दोदयरसःपारदं गन्धकं लोहमभ्रकं विषमेव च । (२०६।१)

ānandodayarasaḥpāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca |

206.2२०६.२

समांशं मरिचं चाष्टौ टङ्कणं च चतुर्गुणम् ॥ (२०६।२)

samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam ||

207.1२०७.१

भृङ्गराजरसैः सप्त भावनाश्चाम्लदाडिमैः । (२०७।१)

bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ |

207.2२०७.२

गुञ्जाद्वयं पर्णखण्डैर्हन्ति सायं तु भक्षितः ॥ (२०७।२)

guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ ||

208.1२०८.१

वातश्लेष्मोद्भवान्रोगान्मन्दाग्निग्रहणीज्वरान् । (२०८।१)

vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān |

208.2२०८.२

अरुचिं पाण्डुतां चैव जयेदचिरसेवनात् ॥ (२०८।२)

aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt ||

209.1२०९.१

चिन्तामणिरसःरसं गन्धं मृतं शुल्बं मृतमभ्रं फलत्रिकम् । (२०९।१)

cintāmaṇirasaḥrasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam |

209.2२०९.२

त्र्यूषणं बीजजैपालं समं खल्वे विमर्दयेत् ॥ (२०९।२)

tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet ||

210.1२१०.१

द्रोणपुष्पीरसैर्भाव्यं शुष्कं तद्वस्त्रगालितम् । (२१०।१)

droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam |

210.2२१०.२

चिन्तामणिरसोऽप्येष अजीर्णानां प्रशस्यते ॥ (२१०।२)

cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate ||

211.1२११.१

ज्वरम् अष्टविधं हन्ति सर्वशूलेषु शस्यते । (२११।१)

jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate |

211.2२११.२

गुञ्जैको वा द्विगुंजो वा आमरोगहरः परः ॥ (२११।२)

guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ ||

212.0२१२.०

राजवल्लभरसःरसनिष्कैकगन्धैकं निष्कमात्रः प्रदीपनः ॥ (२१२।०)

rājavallabharasaḥrasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ ||

213.1२१३.१

सार्धं पलं प्रदातव्यं चूलिकालवणं भिषक् । (२१३।१)

sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak |

213.2२१३.२

खल्वे संमर्दयेत्तत्तु शुष्कवस्त्रेण गालयेत् ॥ (२१३।२)

khalve saṃmardayettattu śuṣkavastreṇa gālayet ||

214.1२१४.१

माषमात्रं प्रदातव्यो मुक्तमांसादिजारकः । (२१४।१)

māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ |

214.2२१४.२

अजीर्णेषु त्रिदोषेषु देयोऽयं राजवल्लभः ॥ (२१४।२)

ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ ||

215.1२१५.१

त्रिनेत्राख्यरसःटङ्कणं हारिणं शृङ्गं स्वर्णं शुल्बं मृतं रसम् । (२१५।१)

trinetrākhyarasaḥṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam |

215.2२१५.२

दिनैकमार्द्रकद्रावैर्मर्द्य रुद्ध्वा पुटे पचेत् ॥ (२१५।२)

dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet ||

216.1२१६.१

त्रिनेत्राख्यो रसो नाम्ना माषैकं मधुसर्पिषा । (२१६।१)

trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā |

216.2२१६.२

सैन्धवं जीरकं हिङ्गुमध्वाज्याभ्यां लिहेदनु । (२१६।२)

saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu |

216.3२१६.३

पक्तिशूलहरं ख्यातं याममात्रान्न संशयः ॥ (२१६।३)

paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ ||

217.1२१७.१

मेहवज्ररसःभस्म सूतं मृतं कान्तं शुल्बभस्म शिलाजतु । (२१७।१)

mehavajrarasaḥbhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu |

217.2२१७.२

शुद्धताप्यं शिला व्योषं त्रिफलाङ्कोलबीजकम् ॥ (२१७।२)

śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam ||

218.1२१८.१

कपित्थरजनीचूर्णं भृङ्गराजेन भावयेत् । (२१८।१)

kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet |

218.2२१८.२

विंशद्वारं विशोष्याथ मधुयुक्तं लिहेत्सदा ॥ (२१८।२)

viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā ||

219.1२१९.१

निष्कमात्रं लिहेन्मेही मेहवज्रो महारसः । (२१९।१)

niṣkamātraṃ lihenmehī mehavajro mahārasaḥ |

219.2२१९.२

महानिम्बस्य बीजानि पिष्ट्वा कर्षमितानि च ॥ (२१९।२)

mahānimbasya bījāni piṣṭvā karṣamitāni ca ||

220.1२२०.१

पलं तण्डुलतोयेन घृतनिष्कद्वयेन च । (२२०।१)

palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca |

220.2२२०.२

एकीकृत्य पिबेत्तोयं हन्ति मेहं चिरोत्थितम् ॥ (२२०।२)

ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam ||

221.1२२१.१

इन्द्रवटीरसःमृतं सूतं मृतं वंगमर्जुनस्य त्वचान्वितम् । (२२१।१)

indravaṭīrasaḥmṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam |

221.2२२१.२

तुल्यांशं मर्दयेत् खल्वे शाल्मल्या मूलजैर् द्रवैः ॥ (२२१।२)

tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ ||

222.1२२२.१

दिनान्ते वटिका कार्या माषमात्रा प्रमेहहा । (२२२।१)

dinānte vaṭikā kāryā māṣamātrā pramehahā |

222.2२२२.२

एषा इन्द्रवटी नाम्ना मधुमेहप्रशान्तये ॥ (२२२।२)

eṣā indravaṭī nāmnā madhumehapraśāntaye ||

223.1२२३.१

रसेन्द्रमङ्गलरसःतालसत्त्वं मृतं ताम्रं मृतं लोहं मृतं रसम् । (२२३।१)

rasendramaṅgalarasaḥtālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam |

223.2२२३.२

हतमभ्रं हतं तारं गन्धं तुत्थं मनःशिला ॥ (२२३।२)

hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā ||

224.1२२४.१

सौवीराञ्जनकासीसं नीलीभल्लातकानि च । (२२४।१)

sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca |

224.2२२४.२

शिलाजत्वर्कमूलं तु कदलीकन्दचित्रकम् ॥ (२२४।२)

śilājatvarkamūlaṃ tu kadalīkandacitrakam ||

225.1२२५.१

त्वचम् अङ्कोलजां कृष्णां कृष्णधत्तूरमूलकम् । (२२५।१)

tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam |

225.2२२५.२

अवल्गुजानि बीजानि गौरीमाध्वीफलानि च ॥ (२२५।२)

avalgujāni bījāni gaurīmādhvīphalāni ca ||

226.1२२६.१

हेमाह्वां फेनजात्यां च फलिनीं विषतिन्दुकम् । (२२६।१)

hemāhvāṃ phenajātyāṃ ca phalinīṃ viṣatindukam |

226.2२२६.२

तैलिन्यो लोहकिट्टं च पुराणममृतं च तत् ॥ (२२६।२)

tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat ||

227.1२२७.१

त्वचा च मीनकाक्षस्य पुनरुक्तं पलं पृथक् । (२२७।१)

tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak |

227.2२२७.२

तैलिन्यो वटकास्तासु सर्वमेकत्र चूर्णयेत् ॥ (२२७।२)

tailinyo vaṭakāstāsu sarvamekatra cūrṇayet ||

228.1२२८.१

खल्वे निधाय दातव्या पुनरेषां च भावना । (२२८।१)

khalve nidhāya dātavyā punareṣāṃ ca bhāvanā |

228.2२२८.२

ब्रह्मदण्डी शिखापुङ्खा देवदाली च नीलिका ॥ (२२८।२)

brahmadaṇḍī śikhāpuṅkhā devadālī ca nīlikā ||

229.1२२९.१

वाणशोना नृपतरु निम्बसारो विभीतकः । (२२९।१)

vāṇaśonā nṛpataru nimbasāro vibhītakaḥ |

229.2२२९.२

करञ्जो भृङ्गराजश्च गायत्री तिन्तडीफलम् ॥ (२२९।२)

karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam ||

230.1२३०.१

मलयूमूलमेतेषां तिस्रस्तिस्रस्तु भावनाः । (२३०।१)

malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ |

230.2२३०.२

दातव्या कुप्पिकां कृत्वा सम्यक् संशोष्य चातपे ॥ (२३०।२)

dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape ||

231.1२३१.१

भाण्डे तद्धारयेद्भाण्डं मुद्रितं चाथ कारयेत् । (२३१।१)

bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet |

231.2२३१.२

यामं मन्दाग्निना पच्यात् पुटमध्ये ह्यसौ रसः ॥ (२३१।२)

yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ ||

232.1२३२.१

पुण्डरीकं निहन्त्येव नात्र कार्या विचारणा । (२३२।१)

puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā |

232.2२३२.२

द्विमासाभ्यन्तरे पुंसामपथ्यं न तु भोजयेत् ॥ (२३२।२)

dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet ||

233.1२३३.१

रोगाः सर्वे विलीयन्ते कुष्ठानि सकलानि च । (२३३।१)

rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca |

233.2२३३.२

भानुभक्तिप्रवृत्तानां गुरुभक्तिकृतां सदा ॥ (२३३।२)

bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā ||

234.1२३४.१

रसेन्द्रमंगलो नाम्ना रसोऽयं प्रकटीकृतः । (२३४।१)

rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ |

234.2२३४.२

अनुग्रहाय भक्तानां शिवेन करुणात्मना ॥ (२३४।२)

anugrahāya bhaktānāṃ śivena karuṇātmanā ||

235.1२३५.१

सर्वेश्वररसःमृतताम्राभ्रलोहानां हिङ्गुलं च पलं पलम् । (२३५।१)

sarveśvararasaḥmṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam |

235.2२३५.२

जम्बीरोन्मत्तभार्गीभिः स्नुह्यर्कविषमुष्टिभिः ॥ (२३५।२)

jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ ||

236.1२३६.१

मर्द्यं हयारिजैर् द्रावैः प्रत्येकं च दिनं दिनम् । (२३६।१)

mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam |

236.2२३६.२

एवं सप्तदिनं मर्द्यं तद्गोलं वस्त्रवेष्टितम् ॥ (२३६।२)

evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam ||

237.1२३७.१

वालुकायन्त्रगं स्वेद्यं त्रिदिनं लघुवह्णिना । (२३७।१)

vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā |

237.2२३७.२

आदाय चूर्णयेत् सर्वं पलैकं योजयेद्विषम् ॥ (२३७।२)

ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam ||

238.1२३८.१

द्विपलं पिप्पलीचूर्णमिश्रं सर्वेश्वरं रसम् । (२३८।१)

dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam |

238.2२३८.२

द्विगुञ्जं लेहयेत् क्षौद्रैर् मुनिमण्डलकुष्ठनुत् ॥ (२३८।२)

dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut ||

239.1२३९.१

वाकुची चैव दारू च कर्षमात्रं विचूर्णितम् । (२३९।१)

vākucī caiva dārū ca karṣamātraṃ vicūrṇitam |

239.2२३९.२

लिहेद् एरण्डतैलेन ह्यनुपानं सुखावहम् ॥ (२३९।२)

lihed eraṇḍatailena hyanupānaṃ sukhāvaham ||

240.1२४०.१

रक्ताधिक्ये सिरामोक्षः पादे बाहौ ललाटके । (२४०।१)

raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake |

240.2२४०.२

कर्तव्यो दृष्टिरोगेषु कुष्ठिनां च विशेषतः ॥ (२४०।२)

kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ ||

241.1२४१.१

बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः । (२४१।१)

balino bahudoṣasya vayaḥsthasya śarīriṇaḥ |

241.2२४१.२

एतत्प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे ॥ (२४१।२)

etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe ||

242.1२४२.१

व्यभ्रे वर्षासु विद्यात्तु ग्रीष्मकाले तु शीतले । (२४२।१)

vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale |

242.2२४२.२

हेमन्तकाले मध्याह्ने शस्त्रकालास्त्रयः स्मृताः ॥ (२४२।२)

hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ ||

243.1२४३.१

तलेश्वररसः (१)कर्षा द्वादश तालस्य कूष्माण्डरससंभृते । (२४३।१)

taleśvararasaḥ (1)karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte |

243.2२४३.२

स्वेदयेद् दोलिकायन्त्रे यावत्तोयं न विद्यते ॥ (२४३।२)

svedayed dolikāyantre yāvattoyaṃ na vidyate ||

244.1२४४.१

पश्चात्तं शोषयेत्खल्वे सूतं कर्षद्वयं क्षिपेत् । (२४४।१)

paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet |

244.2२४४.२

घर्षयेद् बहुधा तत्तु यावत्कज्जलिका भवेत् ॥ (२४४।२)

gharṣayed bahudhā tattu yāvatkajjalikā bhavet ||

245.1२४५.१

स्नुहीक्षीरं रविक्षीरं छागी गोक्षुरवाकुची । (२४५।१)

snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī |

245.2२४५.२

पातालगरुडाङ्कोलचक्रमर्दकहिज्जलाः ॥ (२४५।२)

pātālagaruḍāṅkolacakramardakahijjalāḥ ||

246.1२४६.१

कुमार्युन्मत्तभल्लातत्रिफलाम्बुपुनर्नवाः । (२४६।१)

kumāryunmattabhallātatriphalāmbupunarnavāḥ |

246.2२४६.२

निम्बत्वग् एभिर् भैषज्यैः पुटनाच्च त्रयं त्रयम् ॥ (२४६।२)

nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam ||

247.1२४७.१

षट्कर्षं कलिकाचूर्णं हण्डिकायां तु धारयेत् । (२४७।१)

ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet |

247.2२४७.२

चतुर्थांशमधः स्थाप्यं मध्ये स्थाप्यं तु तालकम् ॥ (२४७।२)

caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam ||

248.1२४८.१

पश्चादुपरिचूर्णं तु सर्वं स्थाप्यं प्रयत्नतः । (२४८।१)

paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ |

248.2२४८.२

हण्डिकां कण्ठपर्यन्तां कुमारीरसयोगतः ॥ (२४८।२)

haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ ||

249.1२४९.१

पूरयेच्च ततो मुद्रां दृढां कुर्यात्प्रयत्नतः । (२४९।१)

pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ |

249.2२४९.२

तस्योपरि शिलां दत्त्वा दृढा न च चलेद्यथा ॥ (२४९।२)

tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā ||

250.1२५०.१

दीपाग्ना चतुर्यामं विंशद्यामं हठाग्निना । (२५०।१)

dīpāgnā caturyāmaṃ viṃśadyāmaṃ haṭhāgninā |

250.2२५०.२

स्वाङ्गशीतलमुद्धृत्य कुष्ठे तालेश्वरो रसः ॥ (२५०।२)

svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ ||

251.1२५१.१

कुष्ठनाशः परः ख्यातो भैरवानन्दयोगिना । (२५१।१)

kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā |

251.2२५१.२

पथ्यं मुद्गाम्बुशाल्यन्नं भिषगत्र प्रयोजयेत् ॥ (२५१।२)

pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet ||

252.0२५२.०

तालेश्वररसः (२)सूतो द्वौ वल्गुजा त्रीणि कणा विश्वा त्रिकं त्रिकम् ॥ (२५२।०)

tāleśvararasaḥ (2)sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam ||

253.1२५३.१

सार्धैकं ब्रह्मपुत्रस्य मरिचस्य चतुष्टयम् । (२५३।१)

sārdhaikaṃ brahmaputrasya maricasya catuṣṭayam |

253.2२५३.२

एकैकं निम्बधत्तूरबीजतो गन्धकत्रयम् ॥ (२५३।२)

ekaikaṃ nimbadhattūrabījato gandhakatrayam ||

254.1२५४.१

जातीटङ्कणतालाया भागा दश दश स्मृताः । (२५४।१)

jātīṭaṅkaṇatālāyā bhāgā daśa daśa smṛtāḥ |

254.2२५४.२

युक्त्या सर्वं विमर्द्याथामृतास्वरसभाविताः ॥ (२५४।२)

yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ ||

255.1२५५.१

सप्तधा शोषयित्वाथ धत्तूरस्यैव दापयेत् । (२५५।१)

saptadhā śoṣayitvātha dhattūrasyaiva dāpayet |

255.2२५५.२

संमर्द्य गोलकं सार्द्रं धत्तूरैर् वेष्टयेद्दलैः ॥ (२५५।२)

saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ ||

256.1२५६.१

गोमये वेष्टयेत्तच्च कुक्कुटाख्यपुटे पचेत् । (२५६।१)

gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet |

256.2२५६.२

रसः कुष्ठहरः सेव्यः सर्वदा भोजनप्रियैः ॥ (२५६।२)

rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ ||

257.1२५७.१

स्वर्णक्षीरीरसःहेमाह्वां पञ्चपलिकां क्षिप्त्वा तक्रघटे पचेत् । (२५७।१)

svarṇakṣīrīrasaḥhemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet |

257.2२५७.२

तक्रे जीर्णे समुद्धृत्य पुनः क्षीरघटे पचेत् ॥ (२५७।२)

takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet ||

258.1२५८.१

क्षीरे जीर्णे समुद्धृत्य क्षालयित्वा विशोषयेत् । (२५८।१)

kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet |

258.2२५८.२

चूर्णितं तत्पञ्चपलं मरिचानां पलद्वयम् ॥ (२५८।२)

cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam ||

259.1२५९.१

पलैकं मूर्छितं सूतम् एकीकृत्वा च भक्षयेत् । (२५९।१)

palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet |

259.2२५९.२

निष्कैकं सुप्तिकुष्ठार्तः स्वर्णक्षीरीरसो ह्ययम् ॥ (२५९।२)

niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam ||

260.1२६०.१

शूलगजकेसरीरसःशुद्धसूतं द्विधा गन्धं यामैकं मर्दयेद् दृढम् । (२६०।१)

śūlagajakesarīrasaḥśuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham |

260.2२६०.२

ताम्रभस्म द्वयोस्तुल्यं सम्पुटे तं निरोधयेत् ॥ (२६०।२)

tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet ||

261.1२६१.१

ऊर्ध्वाधोलवणं दत्त्वा मृद्भाण्डे धारयेद्भिषक् । (२६१।१)

ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak |

261.2२६१.२

ततो गजपुटे पक्त्वा स्वाङ्गशीतं समुद्धरेत् ॥ (२६१।२)

tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet ||

262.1२६२.१

सम्पुटं चूर्णयेत् सूक्ष्मं पर्णखण्डे द्विगुञ्जके । (२६२।१)

sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake |

262.2२६२.२

भक्षयेच्छूलपीडार्थे हिङ्गुशुण्ठीसजीरकम् ॥ (२६२।२)

bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam ||

263.1२६३.१

वचामरिचजं चूर्णं कर्षमुष्णजलैः पिबेत् । (२६३।१)

vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet |

263.2२६३.२

असाध्यं साधयेच्छूलं रसः स्याच्छूलकेसरी ॥ (२६३।२)

asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī ||

264.1२६४.१

व्यायामं मैथुनं मद्यं लवणं कटुकानि च । (२६४।१)

vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca |

264.2२६४.२

वेगरोधं शुक्ररोधं वर्जयेच्छूलवान्नरः ॥ (२६४।२)

vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ ||

265.1२६५.१

ब्रह्मरसःभागैकं मूर्छितं सूतं गन्धावल्गुजचित्रकान् । (२६५।१)

brahmarasaḥbhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān |

265.2२६५.२

चूर्णं तु ब्रह्मबीजानां प्रतिद्वादशभागिकम् ॥ (२६५।२)

cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam ||

266.1२६६.१

भागांस्त्रिंशद्गुडस्यापि क्षौद्रेण गुटिका कृता । (२६६।१)

bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā |

266.2२६६.२

अयं ब्रह्मरसो नाम्ना ब्रह्महत्याविनाशनः ॥ (२६६।२)

ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ ||

267.1२६७.१

द्विनिष्कभक्षणाद्धन्ति प्रसुप्तिं कुष्ठमण्डलम् । (२६७।१)

dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam |

267.2२६७.२

पातालगरुडीमूलं जले पिष्ट्वा पिबेदनु ॥ (२६७।२)

pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu ||

268.1२६८.१

इन्दुधररसःशुद्धं सूतं समं गन्धं तुत्थं च मृतताम्रकम् । (२६८।१)

indudhararasaḥśuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam |

268.2२६८.२

मर्दितं वाकुचीक्वाथैर्दिनैकं वटकीकृतम् ॥ (२६८।२)

marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam ||

269.1२६९.१

निष्कमात्रं सदा खादेच्छ्वेतघ्नेन्दुधरो रसः । (२६९।१)

niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ |

269.2२६९.२

वाकुचीतैलकर्षैकं सक्षौद्रमनुपाययेत् ॥ (२६९।२)

vākucītailakarṣaikaṃ sakṣaudramanupāyayet ||

270.1२७०.१

पारिभद्ररसःमूर्छितं सूतकं धात्रीफलं निम्बस्य चाहरेत् । (२७०।१)

pāribhadrarasaḥmūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet |

270.2२७०.२

तुल्यांशं खादिरक्वाथैर्दिनं मर्द्यं च भक्षयेत् । (२७०।२)

tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet |

270.3२७०.३

निष्कैकं दद्रुकुष्ठघ्नः पारिभद्राह्वयो रसः ॥ (२७०।३)

niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ ||

271.1२७१.१

श्वेतारिरसःशुद्धं सूतं समं गन्धं त्रिफलाभ्रं च वाकुची । (२७१।१)

śvetārirasaḥśuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī |

271.2२७१.२

भल्लातं च शिला कृष्णा निम्बबीजं समं समम् ॥ (२७१।२)

bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam ||

272.1२७२.१

मर्दयेद्भृङ्गजद्रावैः पेष्यं शोष्यं पुनः पुनः । (२७२।१)

mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ |

272.2२७२.२

इत्थं कुर्यात् त्रिसप्ताहं रसं श्वेतारिको भवेत् ॥ (२७२।२)

itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet ||

273.0२७३.०

मध्वाज्यैः खादयेन्निष्कं श्वेतकुष्ठं विनाशयेत् ॥ (२७३।०)

madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet ||

274.1२७४.१

कालाग्निरुद्ररसःसूताभ्रं ताम्रतीक्ष्णानां भस्म माक्षिकगन्धकम् । (२७४।१)

kālāgnirudrarasaḥsūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam |

274.2२७४.२

वन्ध्याकर्कोटकीद्रावै रसो मर्द्यो दिनावधि ॥ (२७४।२)

vandhyākarkoṭakīdrāvai raso mardyo dināvadhi ||

275.1२७५.१

वन्ध्याकर्कोटकीकन्दे क्षिप्त्वा लिप्त्वा मृदा बहिः । (२७५।१)

vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ |

275.2२७५.२

भूधराख्ये पुटे पाच्यं दिनैकं तु विचूर्णयेत् ॥ (२७५।२)

bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet ||

276.1२७६.१

दशमांशं विषं योज्यं माषमात्रं च भक्षयेत् । (२७६।१)

daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet |

276.2२७६.२

रसः कालाग्निरुद्रोऽयं दशाहेन विसर्पनुत् ॥ (२७६।२)

rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut ||

277.1२७७.१

पिप्पलीमधुसंयुक्तं ह्यनुपानं प्रकल्पयेत् । (२७७।१)

pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet |

277.2२७७.२

मकरध्वजरसःस्वर्णादष्टगुणं सूतं मर्दयेद् द्वित्वगन्धकम् ॥ (२७७।२)

makaradhvajarasaḥsvarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam ||

278.1२७८.१

रक्तकार्पासकुसुमैः कुमार्यास्त्रिदिनं ततः । (२७८।१)

raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ |

278.2२७८.२

शुष्कं काचघटे रुद्ध्वा वालुकायन्त्रगं हठात् ॥ (२७८।२)

śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt ||

279.1२७९.१

भस्म कुर्याद्रसेन्द्रस्य नवार्ककिरणोपमम् । (२७९।१)

bhasma kuryādrasendrasya navārkakiraṇopamam |

279.2२७९.२

भागोऽस्य भागाश्चत्वारः कर्पूरस्य सुशोभनाः ॥ (२७९।२)

bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ ||

280.1२८०.१

लवङ्गं मरिचं जातीफलं कर्पूरमात्रया । (२८०।१)

lavaṅgaṃ maricaṃ jātīphalaṃ karpūramātrayā |

280.2२८०.२

मेलयेन्मृगनाभिं च गद्याणकमितां ततः ॥ (२८०।२)

melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ ||

281.1२८१.१

श्लक्ष्णपिष्टो रसः श्रीमाञ्जायते मकरध्वजः । (२८१।१)

ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ |

281.2२८१.२

वल्लं वल्लद्वयं वास्य ताम्बूलदलसंयुतम् ॥ (२८१।२)

vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam ||

282.1२८२.१

भक्षयेन्मधुरं स्निग्धं लघुमांसमवातुलम् । (२८२।१)

bhakṣayenmadhuraṃ snigdhaṃ laghumāṃsamavātulam |

282.2२८२.२

शृतं शीतं सितायुक्तं दुग्धं गोधूमम् आज्यकम् ॥ (२८२।२)

śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam ||

283.1२८३.१

माषाश्च पिष्टमपरं मद्यानि विविधानि च । (२८३।१)

māṣāśca piṣṭamaparaṃ madyāni vividhāni ca |

283.2२८३.२

करोत्यग्निबलं पुंसां वलीपलितनाशनः ॥ (२८३।२)

karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ ||

284.1२८४.१

मेधायुःकान्तिजनकः कामोद्दीपनकृन्महान् । (२८४।१)

medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān |

284.2२८४.२

अभ्यासात् साधकः स्त्रीणां शतं जयति नित्यशः ॥ (२८४।२)

abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ ||

285.1२८५.१

रतिकाले रतान्ते वा पुनः सेव्यो रसोत्तमः । (२८५।१)

ratikāle ratānte vā punaḥ sevyo rasottamaḥ |

285.2२८५.२

मदहानिं करोत्येष प्रमदानां सुनिश्चितम् ॥ (२८५।२)

madahāniṃ karotyeṣa pramadānāṃ suniścitam ||

286.1२८६.१

कृत्रिमं स्थावरविषं जंगमं विषवारिजम् । (२८६।१)

kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam |

286.2२८६.२

न विकाराय भवति साधकानां च वत्सरात् ॥ (२८६।२)

na vikārāya bhavati sādhakānāṃ ca vatsarāt ||

287.1२८७.१

मृत्युञ्जयो यथाभ्यासान्मृत्युं जयति देहिनाम् । (२८७।१)

mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām |

287.2२८७.२

तथायं साधकेन्द्रस्य जरामरणनाशनः ॥ (२८७।२)

tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ ||

288.1२८८.१

मदनकामदेवरसःतारं वज्रं सुवर्णं च ताम्रं च सूतगन्धकम् । (२८८।१)

madanakāmadevarasaḥtāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam |

288.2२८८.२

लोहं च क्रमवृद्धानि कुर्यादेतानि मात्रया ॥ (२८८।२)

lohaṃ ca kramavṛddhāni kuryādetāni mātrayā ||

289.1२८९.१

विमर्द्य कन्यकाद्रावैर्न्यसेत्काचमये घटे । (२८९।१)

vimardya kanyakādrāvairnyasetkācamaye ghaṭe |

289.2२८९.२

मुद्रितं पिठरीमध्ये धारयेत्सैन्धवैर्भृते ॥ (२८९।२)

mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte ||

290.1२९०.१

पिठरीं मुद्रयेत्सम्यक् ततश् चुल्ल्यां निवेशयेत् । (२९०।१)

piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet |

290.2२९०.२

वह्निं शनैः शनैः कुर्याद्दिनैकं तत उद्धरेत् ॥ (२९०।२)

vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet ||

291.1२९१.१

स्वाङ्गशीतं च संचूर्ण्य भावयेदर्कदुग्धकैः । (२९१।१)

svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ |

291.2२९१.२

अश्वगन्धा च कङ्कोली वानरी मुशलीक्षुरः ॥ (२९१।२)

aśvagandhā ca kaṅkolī vānarī muśalīkṣuraḥ ||

292.1२९२.१

त्रिवारं स्वरसं भाव्यं शतावर्या विभावयेत् । (२९२।१)

trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet |

292.2२९२.२

पद्मकन्दकसेरूणां रसैर् भाव्यं तु एकधा ॥ (२९२।२)

padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā ||

293.1२९३.१

कस्तूरीव्योषकपूरैः कङ्कोलैलालवंगकम् । (२९३।१)

kastūrīvyoṣakapūraiḥ kaṅkolailālavaṃgakam |

293.2२९३.२

पूर्वचूर्णादष्टमांशमितचूर्णं विमिश्रयेत् ॥ (२९३।२)

pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet ||

294.1२९४.१

सर्वैः समां शर्करां च दत्त्वा शाणोन्मितं ददेत् । (२९४।१)

sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet |

294.2२९४.२

गोदुग्धद्विपलेनैव मधुराहारसेविनः ॥ (२९४।२)

godugdhadvipalenaiva madhurāhārasevinaḥ ||

295.1२९५.१

अस्य प्रभावात् सौन्दर्य्यं बलं तेजो विवर्धते । (२९५।१)

asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate |

295.2२९५.२

तरुणी रमते बह्वीर्वीर्यहानिर्न जायते ॥ (२९५।२)

taruṇī ramate bahvīrvīryahānirna jāyate ||

296.1२९६.१

पूर्णेन्दुरसःशाल्मल्युत्थैर् द्रवैर् मर्द्य पक्षैकं शुद्धसूतकम् । (२९६।१)

pūrṇendurasaḥśālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam |

296.2२९६.२

यामद्वयं पचेदाज्ये वस्त्रे बद्ध्वाथ मर्दयेत् ॥ (२९६।२)

yāmadvayaṃ pacedājye vastre baddhvātha mardayet ||

297.1२९७.१

दिनैकं शाल्मलिद्रावैर् मर्दयित्वा वटीं कृताम् । (२९७।१)

dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām |

297.2२९७.२

वेष्टयेन्नागवल्ल्या च निःक्षिपेत् काचभाजने ॥ (२९७।२)

veṣṭayennāgavallyā ca niḥkṣipet kācabhājane ||

298.1२९८.१

भाजनं शाल्मलीद्रावैः पूर्णं यामद्वयं पचेत् । (२९८।१)

bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet |

298.2२९८.२

वालुकायंत्रमध्ये तु द्रवे जीर्णे समुद्धरेत् ॥ (२९८।२)

vālukāyaṃtramadhye tu drave jīrṇe samuddharet ||

299.1२९९.१

द्विगुञ्जं भक्षयेत्प्रातर्नागवल्लीदलान्तरे । (२९९।१)

dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare |

299.2२९९.२

मुशलीं ससितां क्षीरैः पलैकं पाययेदनु ॥ (२९९।२)

muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu ||

300.1३००.१

रसः पूर्णेन्दुनामायं सम्यग् वीर्यकरो भवेत् । (३००।१)

rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet |

300.2३००.२

कामिनीनां सहस्रैकं नरः कामयते ध्रुवम् ॥ (३००।२)

kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam ||

301.1३०१.१

कामिनीमदभञ्जनरसःशुद्धं सूतं समं गन्धं त्र्यहं कह्लारजद्रवैः । (३०१।१)

kāminīmadabhañjanarasaḥśuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ |

301.2३०१.२

मर्दितं वालुकायन्त्रे यामैः कूपीगतं पचेत् ॥ (३०१।२)

marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet ||

302.1३०२.१

रक्ताङ्गस्य द्रवैर्भाव्यं दिनैकं तु सितायुतम् । (३०२।१)

raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam |

302.2३०२.२

यथेष्टं भक्षयेच्चानु कामयेत्कामिनीशतम् ॥ (३०२।२)

yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam ||

303.1३०३.१

मदनोदयरसशुद्धं सूतं समं गन्धं रक्तोत्पलदलद्रवैः । (३०३।१)

madanodayarasaśuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ |

303.2३०३.२

यामं मर्द्यं पुनर्गन्धं पूर्वाद् अर्धं विनिष्क्षिपेत् ॥ (३०३।२)

yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet ||

304.1३०४.१

दिनैकं मर्दयेत्तत्तु पुनर्गन्धं च मर्दयेत् । (३०४।१)

dinaikaṃ mardayettattu punargandhaṃ ca mardayet |

304.2३०४.२

पूर्वद्रावैर्दिनैकं तु काचकुप्यां निरुध्य च ॥ (३०४।२)

pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca ||

305.1३०५.१

दिनैकं वालुकायन्त्रे पक्वम् उद्धृत्य भक्षयेत् । (३०५।१)

dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet |

305.2३०५.२

पञ्चगुञ्जा सिता सार्द्धं रसोऽयं मदनोदयः ॥ (३०५।२)

pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ ||

306.1३०६.१

समूलं वानरीबीजं मुशली शर्करासमम् । (३०६।१)

samūlaṃ vānarībījaṃ muśalī śarkarāsamam |

306.2३०६.२

गवां क्षीरेण तत्पेयं पलार्द्धमनुपानकम् ॥ (३०६।२)

gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam ||

307.1३०७.१

अनङ्गसुन्दररसःपलद्वयं द्वयं शुद्धं पारदं गन्धकं तथा । (३०७।१)

anaṅgasundararasaḥpaladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā |

307.2३०७.२

मृतहेम्नस्तु कर्षैकं पलैकं मृतताम्रकम् ॥ (३०७।२)

mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam ||

308.1३०८.१

मृततारं चतुर्निष्कं मर्द्यं पञ्चामृतैर्दिनम् । (३०८।१)

mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam |

308.2३०८.२

रुद्ध्वा तु वै पुटे पश्चाद्दिनैकं तु समुद्धरेत् ॥ (३०८।२)

ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet ||

309.1३०९.१

पिष्ट्वा पञ्चामृतैः कुर्याद्वटिकां बदराकृतिम् । (३०९।१)

piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim |

309.2३०९.२

अनङ्गसुन्दरो नाम परं पुष्टिप्रदायकः ॥ (३०९।२)

anaṅgasundaro nāma paraṃ puṣṭipradāyakaḥ ||

310.1३१०.१

कामेश्वररसःसम्यङ्मारितमभ्रकं कट्फलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुशली गोक्षूरकं क्षूरकम् । (३१०।१)

kāmeśvararasaḥsamyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam |

310.2३१०.२

रम्भाकन्दशतावरी ह्यजमुदा माषास्तिला धान्यकं यष्टी नागबला कचूरमदनं जातीफलं सैन्धवम् ॥ (३१०।२)

rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacūramadanaṃ jātīphalaṃ saindhavam ||

311.1३११.१

भार्ङ्गी कर्कटशृङ्गिका त्रिकटुकं जीरद्वयं चित्रकं चातुर्जातपुनर्नवा गजकणा द्राक्षा शटी वासकम् । (३११।१)

bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam |

311.2३११.२

शाल्मल्यन्ध्रिफलत्रिकं कपिभवं बीजं समं चूर्णयेच्चूर्णांशा विजया सिता द्विगुणिता मध्वाज्ययोः पिण्डितम् ॥ (३११।२)

śālmalyandhriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam ||

312.1३१२.१

कर्षार्द्धा गुटिकावलेहम् अथवा सेव्यं सदा सर्वथा पेयं क्षीरसिता तु वीर्यकरणं स्तम्भोऽप्ययं कामिनी । (३१२।१)

karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī |

312.2३१२.२

रामावश्यकरं सुखातिसुखदं प्रौढाङ्गनाद्रावकम् क्षीणे पुष्टिकरं क्षये क्षयहरं सर्वामयध्वंसनम् ॥ (३१२।२)

rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam ||

313.1३१३.१

कासश्वासमहातिसारशमनं मन्दाग्निसंदीपनं धातोर्वृद्धिकरं रसायनवरं नास्त्यन्यदस्मात्परम् । (३१३।१)

kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam |

313.2३१३.२

अर्शांसि ग्रहणीप्रमेहनिचयश्लेष्मातिरक्तप्रणुन् नित्यानन्दकरं विशेषविदुषां वाचां विलासोद्भवम् ॥ (३१३।२)

arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam ||

314.1३१४.१

अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात् सर्वेषां हितकारको निगदितः श्रीवैद्यनाथेन यः । (३१४।१)

abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ |

314.2३१४.२

वृद्धानां मदनोदयोदयकरः प्रौढाङ्गनासङ्गमे सिंहोऽयं समदृष्टिः प्रत्ययकरो भूपैः सदा सेव्यताम् ॥ (३१४।२)

vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām ||

315.1३१५.१

अजीर्णकण्टकरसःशुद्धं सूतं विषं गन्धं समचूर्णं विचूर्णयेत् । (३१५।१)

ajīrṇakaṇṭakarasaḥśuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet |

315.2३१५.२

मरिचं सर्वतुल्यांशं कण्टकार्याः फलद्रवैः ॥ (३१५।२)

maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ ||

316.1३१६.१

मर्दयेद्भावयेत्सर्वानेकविंशतिवारकान् । (३१६।१)

mardayedbhāvayetsarvānekaviṃśativārakān |

316.2३१६.२

वटीं गुञ्जात्रयां खादेत्सर्वाजीर्णप्रशान्तये ॥ (३१६।२)

vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye ||

317.1३१७.१

उदयभास्कररसःगन्धकेन मृतं ताम्रं दशभागं समुद्धरेत् । (३१७।१)

udayabhāskararasaḥgandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet |

317.2३१७.२

ऊषणं पञ्चभागं स्यादमृतं च द्विभागकम् ॥ (३१७।२)

ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam ||

318.1३१८.१

श्लक्ष्णचूर्णीकृतं सर्वं रक्तिकैकप्रमाणतः । (३१८।१)

ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ |

318.2३१८.२

दातव्यं कुष्ठिने सम्यगनुपानस्य योगतः ॥ (३१८।२)

dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ ||

319.1३१९.१

गलिते स्फुटिते चैव विषूच्यां मण्डले तथा । (३१९।१)

galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā |

319.2३१९.२

विचर्चिकादद्रुपामाकुष्ठाष्टकप्रशान्तये ॥ (३१९।२)

vicarcikādadrupāmākuṣṭhāṣṭakapraśāntaye ||

320.1३२०.१

रौद्ररसःशुद्धं सूतं समं गन्धं मर्द्यं यामचतुष्टयम् । (३२०।१)

raudrarasaḥśuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam |

320.2३२०.२

नागवल्लीरसैर्युक्तं मेघनादपुनर्नवैः ॥ (३२०।२)

nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ ||

321.1३२१.१

गोमूत्रे पिप्पलीयुक्ते मर्द्यं रुद्ध्वा पुटेल्लघु । (३२१।१)

gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu |

321.2३२१.२

लिहेत्क्षौद्रे रसो रौद्रो गुञ्जामात्रोऽर्बुदं जयेत् ॥ (३२१।२)

lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet ||

322.1३२२.१

नित्योदितरसःमृतसूतार्कलोहाभ्रविषगन्धं समं समम् । (३२२।१)

nityoditarasaḥmṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam |

322.2३२२.२

सर्वतुल्यांशभल्लातफलमेकत्र चूर्णयेत् ॥ (३२२।२)

sarvatulyāṃśabhallātaphalamekatra cūrṇayet ||

323.1३२३.१

द्रवैः सूरणकन्दोत्थैः खल्वे मर्द्यं दिनत्रयम् । (३२३।१)

dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam |

323.2३२३.२

माषमात्रं लिहेदाज्ये रसश्चार्शांसि नाशयेत् ॥ (३२३।२)

māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet ||

324.1३२४.१

रसो नित्योदितो नाम्ना गुदोद्भवकुलान्तकः । (३२४।१)

raso nityodito nāmnā gudodbhavakulāntakaḥ |

324.2३२४.२

हस्ते पादे मुखे नाभ्यां गुदवृषणयोस्तथा ॥ (३२४।२)

haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā ||

325.1३२५.१

शोथो हृत्पार्श्वशूलं च यस्यासाध्यार्शसां हितः । (३२५।१)

śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ |

325.2३२५.२

असाध्यस्यापि कर्तव्या चिकित्सा शङ्करोदिता ॥ (३२५।२)

asādhyasyāpi kartavyā cikitsā śaṅkaroditā ||

326.1३२६.१

अर्शकुठाररसःशुद्धसूतं पलैकं तु द्विपलं शुद्धगन्धकम् । (३२६।१)

arśakuṭhārarasaḥśuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam |

326.2३२६.२

मृतं ताम्रं मृतं लोहं प्रत्येकं तु पलत्रयम् ॥ (३२६।२)

mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam ||

327.1३२७.१

त्र्यूषणं लाङ्गली दन्ती पीलुकं चित्रकं तथा । (३२७।१)

tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā |

327.2३२७.२

प्रत्येकं द्विपलं योज्यं यवक्षारं च टङ्कणम् ॥ (३२७।२)

pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam ||

328.1३२८.१

उभौ पञ्चपलौ योज्यौ सैन्धवं पलपञ्चकम् । (३२८।१)

ubhau pañcapalau yojyau saindhavaṃ palapañcakam |

328.2३२८.२

द्वाविंशत्पलगोमूत्रं स्नुहीक्षीरं च तत्समम् ॥ (३२८।२)

dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam ||

329.1३२९.१

मृद्वग्निना पचेत्सर्वं स्थाल्यां यावत्सुपिण्डितम् । (३२९।१)

mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam |

329.2३२९.२

माषद्वयं सदा खादेद्रसोऽप्यर्शःकुठारकः ॥ (३२९।२)

māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ ||

330.1३३०.१

विद्याधररसःगन्धकं तालकं ताप्यं मृतं ताम्रं मनःशिला । (३३०।१)

vidyādhararasaḥgandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā |

330.2३३०.२

शुद्धं सूतं च तुल्यांशं मर्दयेद्भावयेद्दिनम् ॥ (३३०।२)

śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam ||

331.1३३१.१

पिप्पल्याश्च कषायेण वज्रीक्षीरेण भावयेत् । (३३१।१)

pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet |

331.2३३१.२

वल्लं च भक्षयेत् क्षौद्रैः प्लीहगुल्मादिकं जयेत् ॥ (३३१।२)

vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet ||

332.1३३२.१

रसो विद्याधरो नाम गोदुग्धं च पिबेदनु । (३३२।१)

raso vidyādharo nāma godugdhaṃ ca pibedanu |

332.2३३२.२

वङ्गेश्वररसःभस्मसूतं भस्मवङ्गं भागैकैकं प्रकल्पयेत् ॥ (३३२।२)

vaṅgeśvararasaḥbhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet ||

333.1३३३.१

गन्धकं मृतताम्रं च प्रत्येकं च चतुर्गुणम् । (३३३।१)

gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam |

333.2३३३.२

अर्कक्षीरैर्दिनं मर्द्यं सर्वं तद्गोलकीकृतम् ॥ (३३३।२)

arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam ||

334.1३३४.१

रुद्ध्वा तद्भूधरे पाच्यं पुटैकेन समुद्धरेत् । (३३४।१)

ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet |

334.2३३४.२

एवं वङ्गेश्वरो नाम्ना प्लीहगुल्मोदरं जयेत् ॥ (३३४।२)

evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet ||

335.1३३५.१

घृतैर् गुञ्जाद्वयं लिह्यान्निष्कं श्वेतपुनर्नवाम् । (३३५।१)

ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām |

335.2३३५.२

गवां मूत्रैः पिबेच्चानु रजनी वा गवां जलैः ॥ (३३५।२)

gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ ||

336.1३३६.१

उदरारिरसःपारदं शिखितुत्थं च जैपालं पिप्पलीसमम् । (३३६।१)

udarārirasaḥpāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam |

336.2३३६.२

आरग्वधफलान्मज्जा वज्रीदुग्धेन मर्दयेत् ॥ (३३६।२)

āragvadhaphalānmajjā vajrīdugdhena mardayet ||

337.1३३७.१

माषमात्रां वटीं खादेद्धरेत्स्त्रीणां जलोदरम् । (३३७।१)

māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram |

337.2३३७.२

चिञ्चाफलरसं चानु पथ्यं दध्योदनं हितम् । (३३७।२)

ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam |

337.3३३७.३

जलोदरहरं चैव तीव्रेण रेचनेन तु ॥ (३३७।३)

jalodaraharaṃ caiva tīvreṇa recanena tu ||

338.0३३८.०

जलोदरारिरसःपिप्पलीमरिचं ताम्रं काञ्चनीचूर्णसंयुतम् ॥ (३३८।०)

jalodarārirasaḥpippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam ||

339.1३३९.१

स्नुहीक्षीरैर्दिनं मर्द्यं तुत्थं जैपालबीजकम् । (३३९।१)

snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam |

339.2३३९.२

निष्कं खादेद् विरेकं स्यात् सद्यो हन्ति जलोदरम् ॥ (३३९।२)

niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram ||

340.1३४०.१

रेचनानां च सर्वेषां दध्यन्नं स्तम्भनं हितम् । (३४०।१)

recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam |

340.2३४०.२

दिनान्ते च प्रदातव्यमन्नं वा मुद्गयूषकम् ॥ (३४०।२)

dinānte ca pradātavyamannaṃ vā mudgayūṣakam ||

341.1३४१.१

नाराचरसःसूतटङ्कणतुल्यांशं मरिचं सूततुल्यकम् । (३४१।१)

nārācarasaḥsūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam |

341.2३४१.२

गन्धकं पिप्पली शुण्ठी द्वौ द्वौ भागौ विचूर्णयेत् ॥ (३४१।२)

gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet ||

342.1३४२.१

सर्वतुल्यं क्षिपेद्दन्तीबीजानि निस्तुषाणि च । (३४२।१)

sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca |

342.2३४२.२

द्विगुञ्जं रेचने सिद्धं नाराचोऽयं महारसः । (३४२।२)

dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ |

342.3३४२.३

गुल्मप्लीहोदरं हन्ति पिबेत्तमुष्णवारिणा ॥ (३४२।३)

gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā ||

343.1३४३.१

इच्छाभेदीरसःशुण्ठीमरिचसंयुक्तं रसगन्धकटङ्कणम् । (३४३।१)

icchābhedīrasaḥśuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam |

343.2३४३.२

जैपालस्त्रिगुणः प्रोक्तः सर्वमेकत्र चूर्णयेत् ॥ (३४३।२)

jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet ||

344.1३४४.१

इच्छाभेदी द्विगुञ्जः स्यात्सितया सह दापयेत् । (३४४।१)

icchābhedī dviguñjaḥ syātsitayā saha dāpayet |

344.2३४४.२

पिबेच्च चुल्लिकान् यावत् तावद्वारान्विरेचयेत् ॥ (३४४।२)

pibecca cullikān yāvat tāvadvārānvirecayet ||

345.1३४५.१

तक्रौदनं प्रदातव्यमिच्छाभेदी यथेच्छया । (३४५।१)

takraudanaṃ pradātavyamicchābhedī yathecchayā |

345.2३४५.२

दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः ॥ (३४५।२)

doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

RMañj, 6

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit