RMañj, 7
Select a line for its word-by-word analysis.
प्रणम्य निर्भयं नाथं खेन्द्रदेवं जगत्पतिम् । (१।१)
praṇamya nirbhayaṃ nāthaṃ khendradevaṃ jagatpatim |
अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥ (२।२)
amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam ||
पश्चात्तु योजयेद् देहे क्षेत्रीकरणमिच्छतः । (४।१)
paścāttu yojayed dehe kṣetrīkaraṇamicchataḥ |
यत्क्षेत्रीकरणे सूतस्त्वमृतोऽपि विषं भवेत् ॥ (४।२)
yatkṣetrīkaraṇe sūtastvamṛto'pi viṣaṃ bhavet ||
न क्षेत्रकरणाद्देवि किंचित् कुर्याद्रसायनम् । (५।२)
na kṣetrakaraṇāddevi kiṃcit kuryādrasāyanam |
कर्तव्यं क्षेत्रकरणं सर्वस्मिंश्च रसायने ॥ (५।३)
kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane ||
भस्मसूतं द्विधा गन्धं क्षणं कन्याविमर्दितम् । (६।१)
bhasmasūtaṃ dvidhā gandhaṃ kṣaṇaṃ kanyāvimarditam |
रुद्ध्वा लघुपुटे पच्याद् उद्धृत्य मधुसर्पिषा ॥ (६।२)
ruddhvā laghupuṭe pacyād uddhṛtya madhusarpiṣā ||
निष्कं खादेज्जरामृत्युं हन्ति गन्धामृतो रसः । (७।१)
niṣkaṃ khādejjarāmṛtyuṃ hanti gandhāmṛto rasaḥ |
समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् ॥ (७।२)
samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet ||
तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् । (८।१)
tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet |
हेमसुन्दररसःमृतसूतस्य पादांशं हेमभस्म प्रकल्पयेत् ॥ (९।०)
hemasundararasaḥmṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet ||
क्षीराज्यं मधुना युक्तं माषैकं कांस्यपात्रके । (१०।१)
kṣīrājyaṃ madhunā yuktaṃ māṣaikaṃ kāṃsyapātrake |
अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः ॥ (११।२)
anupānaṃ lihennityaṃ syādraso hemasundaraḥ ||
मृतसंजीवनी गुटीकाशुद्धसूतं वज्रभस्म सत्त्वमभ्रकताप्ययोः । (१२।१)
mṛtasaṃjīvanī guṭīkāśuddhasūtaṃ vajrabhasma sattvamabhrakatāpyayoḥ |
कान्तलोहसमं हेम जम्बीरे मर्दयेद् दृढम् ॥ (१२।२)
kāntalohasamaṃ hema jambīre mardayed dṛḍham ||
सप्ताहं सर्वतुल्यांशं गोलं कृत्वा समुद्धरेत् । (१३।१)
saptāhaṃ sarvatulyāṃśaṃ golaṃ kṛtvā samuddharet |
गोजिह्वावायसीवन्ध्यानिर्गुण्डीमधुसैन्धवैः ॥ (१३।२)
gojihvāvāyasīvandhyānirguṇḍīmadhusaindhavaiḥ ||
लेपयेद्वज्रमूषान्ते गोलकं तत्र निक्षिपेत् । (१४।१)
lepayedvajramūṣānte golakaṃ tatra nikṣipet |
तत्कल्कैश्छादितं कृत्वा पक्षैकं भूधरे पचेत् ॥ (१४।२)
tatkalkaiśchāditaṃ kṛtvā pakṣaikaṃ bhūdhare pacet ||
यामं यामं समुद्धृत्य लिप्त्वामूषां पुनः पुनः । (१५।१)
yāmaṃ yāmaṃ samuddhṛtya liptvāmūṣāṃ punaḥ punaḥ |
रुद्ध्वाथ पूर्ववत्पाच्यमेनं पक्षात्समुद्धरेत् ॥ (१५।२)
ruddhvātha pūrvavatpācyamenaṃ pakṣātsamuddharet ||
एतैः प्रलेपयेन्मूषां गुटिकां तत्र निक्षिपेत् ॥ (१६।२)
etaiḥ pralepayenmūṣāṃ guṭikāṃ tatra nikṣipet ||
टङ्कणं श्वेतकाचं च दत्त्वा यामे दृढं दृढम् । (१७।१)
ṭaṅkaṇaṃ śvetakācaṃ ca dattvā yāme dṛḍhaṃ dṛḍham |
ततस्त्रियामकैर्मर्द्यं सगोमूत्रं दिनैकतः ॥ (१८।२)
tatastriyāmakairmardyaṃ sagomūtraṃ dinaikataḥ ||
अन्धमूषागतो ध्मातो बद्धो भवति वज्रवत् । (१९।१)
andhamūṣāgato dhmāto baddho bhavati vajravat |
कर्षमात्रा जरां मृत्युं हन्ति सत्यं शिवोदितम् । (२०।१)
karṣamātrā jarāṃ mṛtyuṃ hanti satyaṃ śivoditam |
शस्त्रस्तम्भं च कुरुते ब्रह्मायुर्भवते नरः ॥ (२०।२)
śastrastambhaṃ ca kurute brahmāyurbhavate naraḥ ||
वीर्यरोधिनीगुटिकानागवल्लीदलद्रावैः सप्ताहं शुद्धसूतकम् । (२१।१)
vīryarodhinīguṭikānāgavallīdaladrāvaiḥ saptāhaṃ śuddhasūtakam |
मर्दयेत् क्षालयेद् अम्लैश्चतुर्निष्कप्रमाणकम् ॥ (२१।२)
mardayet kṣālayed amlaiścaturniṣkapramāṇakam ||
ततः शूकरमांसस्य गर्भे कृत्वाथ सिञ्चयेत् ॥ (२२।२)
tataḥ śūkaramāṃsasya garbhe kṛtvātha siñcayet ||
संध्याकाले बलिं दत्त्वा कुक्कुटीवारुणीयुतम् । (२३।१)
saṃdhyākāle baliṃ dattvā kukkuṭīvāruṇīyutam |
ततश्चुल्ल्यां लोहपात्रे तैले धत्तूरसंयुते ॥ (२३।२)
tataścullyāṃ lohapātre taile dhattūrasaṃyute ||
क्षिप्त्वा त्रिंशत्पले पाच्यं तद्रसं मांसपिण्डकम् । (२४।१)
kṣiptvā triṃśatpale pācyaṃ tadrasaṃ māṃsapiṇḍakam |
संध्याम् आरभ्य मन्दाग्नौ यावत्सूर्योदयं पचेत् ॥ (२४।२)
saṃdhyām ārabhya mandāgnau yāvatsūryodayaṃ pacet ||
हठाज्जागरणं कुर्यादन्यथा तन्नसिद्धिभाक् । (२५।१)
haṭhājjāgaraṇaṃ kuryādanyathā tannasiddhibhāk |
प्रातरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् ॥ (२५।२)
prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet ||
तत्क्षीरं शुष्यति क्षिप्रमेतत्प्रत्ययकारकम् । (२६।१)
tatkṣīraṃ śuṣyati kṣiprametatpratyayakārakam |
क्षीरं पीत्वा रमेद्रामां कामाकुलकुलान्विताम् । (२७।१)
kṣīraṃ pītvā ramedrāmāṃ kāmākulakulānvitām |
स्वमुखाद्धारयेद्धस्ते तदा वीर्यं विमुञ्चति ॥ (२७।२)
svamukhāddhārayeddhaste tadā vīryaṃ vimuñcati ||
Data courtesy of The Digital Corpus of Sanskrit.