RMañj, 8
Select a line for its word-by-word analysis.
हेमन्ते शिशिरे चैव मध्याह्नेऽञ्जनमिष्यते ॥ (१।२)
hemante śiśire caiva madhyāhne'ñjanamiṣyate ||
पूर्वाह्ने चापराह्णे च ग्रीष्मे शरदि चेष्यते । (२।१)
pūrvāhne cāparāhṇe ca grīṣme śaradi ceṣyate |
वर्षासु कुर्यादत्युष्णे वा वसन्ते सदैव हि ॥ (२।२)
varṣāsu kuryādatyuṣṇe vā vasante sadaiva hi ||
हरेणुमात्रां कुर्वीत वर्तिं तीक्ष्णाञ्जने भिषक् । (४।१)
hareṇumātrāṃ kurvīta vartiṃ tīkṣṇāñjane bhiṣak |
प्रमाणं मध्यमं सार्धं द्विगुणं च मृदौ भवेत् ॥ (४।२)
pramāṇaṃ madhyamaṃ sārdhaṃ dviguṇaṃ ca mṛdau bhavet ||
सूतकं गन्धकः पेतं चाङ्गेरीरससंमूर्छितम् । (५।१)
sūtakaṃ gandhakaḥ petaṃ cāṅgerīrasasaṃmūrchitam |
रसेन्द्रभुजगौ तुल्यौ ताभ्यां द्विगुणमञ्जनम् । (६।१)
rasendrabhujagau tulyau tābhyāṃ dviguṇamañjanam |
चिपिटं मधुना हन्ति स्त्रीक्षीरेण च पुष्पकम् ॥ (९।२)
cipiṭaṃ madhunā hanti strīkṣīreṇa ca puṣpakam ||
अपामार्गशिखां घृष्ट्वा मधुना सैन्धवेन च । (१०।१)
apāmārgaśikhāṃ ghṛṣṭvā madhunā saindhavena ca |
ताम्रपात्रे कृता नेत्रे हन्ति पीडां सुविस्तरात् ॥ (१०।२)
tāmrapātre kṛtā netre hanti pīḍāṃ suvistarāt ||
शङ्खमुक्ताम्भोधिफेनयुतैः सर्वैर् विचूर्णयेत् । (११।२)
śaṅkhamuktāmbhodhiphenayutaiḥ sarvair vicūrṇayet |
हन्ति वर्तिः कृता श्लक्ष्णं शुक्राणां नाशिनी परम् ॥ (११।३)
hanti vartiḥ kṛtā ślakṣṇaṃ śukrāṇāṃ nāśinī param ||
संयोज्य मधुना कुर्यादन्धानां सा रसक्रिया । (१३।१)
saṃyojya madhunā kuryādandhānāṃ sā rasakriyā |
पिप्पली मरिचं कुष्ठं वचा चेति समांशकम् ॥ (१४।२)
pippalī maricaṃ kuṣṭhaṃ vacā ceti samāṃśakam ||
छागीक्षीरेण संपिष्ट्वा वर्तिं कृत्वा यथोन्मिताम् । (१५।१)
chāgīkṣīreṇa saṃpiṣṭvā vartiṃ kṛtvā yathonmitām |
हरेणुमात्रां संघृष्य जलैः कुर्यादथाञ्जनम् ॥ (१५।२)
hareṇumātrāṃ saṃghṛṣya jalaiḥ kuryādathāñjanam ||
तिमिरं मांसवृद्धिं च काचं पटलम् अर्बुदम् । (१६।१)
timiraṃ māṃsavṛddhiṃ ca kācaṃ paṭalam arbudam |
राज्यन्धं वार्षिकं पुष्पं वर्तिचन्द्रोदया जयेत् ॥ (१६।२)
rājyandhaṃ vārṣikaṃ puṣpaṃ varticandrodayā jayet ||
शुद्धे नागे द्रुते तुल्यं शुद्धसूतं विनिक्षिपेत् । (१७।१)
śuddhe nāge drute tulyaṃ śuddhasūtaṃ vinikṣipet |
कृष्णाञ्जनं तयोस्तुल्यं सर्वमेकत्र चूर्णयेत् ॥ (१७।२)
kṛṣṇāñjanaṃ tayostulyaṃ sarvamekatra cūrṇayet ||
दशमांशेन कर्पूरमस्मिंश्चूर्णे प्रदापयेत् । (१८।१)
daśamāṃśena karpūramasmiṃścūrṇe pradāpayet |
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर् यदि दीयते । (१९।१)
bhuktvā pāṇitalaṃ ghṛṣṭvā cakṣuṣor yadi dīyate |
जाता रोगाः प्रणश्यन्ति न भवन्ति कदाचन ॥ (१९।२)
jātā rogāḥ praṇaśyanti na bhavanti kadācana ||
त्रिफला लौहचूर्णं तु वारिणा पेषयेत् समम् । (२१।१)
triphalā lauhacūrṇaṃ tu vāriṇā peṣayet samam |
द्वयोस्तुल्येन तैलेन पचेन्मृद्वग्निना क्षणम् ॥ (२१।२)
dvayostulyena tailena pacenmṛdvagninā kṣaṇam ||
तैलतुल्ये भृङ्गरसे तत्तैलं तु विपाचयेत् । (२२।१)
tailatulye bhṛṅgarase tattailaṃ tu vipācayet |
स्निग्धभाण्डगतं भूमौ स्थित्वा मासात्समुद्धरेत् ॥ (२२।२)
snigdhabhāṇḍagataṃ bhūmau sthitvā māsātsamuddharet ||
सप्ताहं लेपयेद्वेष्ट्य कदल्याश्च दलैः शिरः । (२३।१)
saptāhaṃ lepayedveṣṭya kadalyāśca dalaiḥ śiraḥ |
निर्वाते क्षीरभोजी स्यात् छालयेत् त्रिफलाजलैः ॥ (२३।२)
nirvāte kṣīrabhojī syāt chālayet triphalājalaiḥ ||
नित्यमेव प्रकर्तव्यं सप्ताहं रञ्जनं भवेत् । (२४।१)
nityameva prakartavyaṃ saptāhaṃ rañjanaṃ bhavet |
यावज्जीवं न सन्देहः कचाः स्युर्भ्रमरोपमाः ॥ (२४।२)
yāvajjīvaṃ na sandehaḥ kacāḥ syurbhramaropamāḥ ||
तत्तैलं ग्राहयेद्यन्त्रे तेन स्यात् केशरञ्जनम् ॥ (२५।२)
tattailaṃ grāhayedyantre tena syāt keśarañjanam ||
लोहमलामलकल्कः सजपा कुसुमैर्नरः सदा स्नायी । (२६।१)
lohamalāmalakalkaḥ sajapā kusumairnaraḥ sadā snāyī |
पलितानीह निहन्याद् गङ्गास्नायीव नरकौघम् ॥ (२६।२)
palitānīha nihanyād gaṅgāsnāyīva narakaugham ||
काश्मर्या मूलमादौ सहचरकुसुमं केतकीनां च मूलं लौहं चूर्णं सभृङ्गं त्रिफलजलयुतं तैलमेभिर् विपक्वम् । (२७।१)
kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam |
कृत्वा वै लोहभाण्डे क्षितितलनिहितं मासम् एकं निधाय केशाः काशप्रकाशा भ्रमरकुलनिभा लेपनाद् एव कृष्णाः ॥ (२७।२)
kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ ||
वज्रीक्षीरेण सप्ताहं सुश्वेतान् भावयेत्तिलान् । (२८।१)
vajrīkṣīreṇa saptāhaṃ suśvetān bhāvayettilān |
तैलेन लिप्ताः केशाः स्युः शुक्ला वै नात्र संशयः ॥ (२८।२)
tailena liptāḥ keśāḥ syuḥ śuklā vai nātra saṃśayaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.