गोकर्णपुराणसारःGokarṇapurāṇasāraḥ
GokPurS, 1
Select a line for its word-by-word analysis.
सर्वाभीष्टप्रसिद्ध्यर्थं तं नमामि गजाननम् । (१।३)
sarvābhīṣṭaprasiddhyarthaṃ taṃ namāmi gajānanam |
शौनकाद्यैर् मुनिवरैः कृतसत्प्रश्नसत्कथः ॥ (१।५)
śaunakādyair munivaraiḥ kṛtasatpraśnasatkathaḥ ||
तीर्थयात्रां परिचरन् सूतः पौराणिको ऽर्थवित् ॥ (३।२)
tīrthayātrāṃ paricaran sūtaḥ paurāṇiko 'rthavit ||
अभिवाद्य मुनीन् सर्वान् शौनकादींस् तपोधनान् ॥ (४।२)
abhivādya munīn sarvān śaunakādīṃs tapodhanān ||
पप्रच्छ कुशलं सर्वं तपःस्वाध्यायकर्मसु । (५।१)
papraccha kuśalaṃ sarvaṃ tapaḥsvādhyāyakarmasu |
ततः स राजा धर्मात्मा युधिष्ठिरकुलोद्भवः ॥ (५।२)
tataḥ sa rājā dharmātmā yudhiṣṭhirakulodbhavaḥ ||
अनुज्ञां प्राप्य सूतस् तु मुनीनां भावितात्मनाम् । (७।१)
anujñāṃ prāpya sūtas tu munīnāṃ bhāvitātmanām |
विश्रान्तो ऽभूच् चिरं तस्यां सभायां सूतनन्दनः । (८।१)
viśrānto 'bhūc ciraṃ tasyāṃ sabhāyāṃ sūtanandanaḥ |
ततो ऽब्रवीद् इदं वाक्यं शौनकः सूतम् आदरात् ॥ (८।२)
tato 'bravīd idaṃ vākyaṃ śaunakaḥ sūtam ādarāt ||
क्व गतो ऽसि भवान् पूर्वं किम् उद्दिश्य प्रयोजनम् ॥ (९।३)
kva gato 'si bhavān pūrvaṃ kim uddiśya prayojanam ||
तीर्थयात्रां गतो ब्रह्मन् त्रिः परीत्य धराम् इमाम् । (१०।२)
tīrthayātrāṃ gato brahman triḥ parītya dharām imām |
भवन्तं द्रष्टुमायातः शतानीकं च पार्थिवम् ॥ (१०।३)
bhavantaṃ draṣṭumāyātaḥ śatānīkaṃ ca pārthivam ||
पारिक्षितं च राजर्षिं संन्यासाय कृतक्षणम् । (११।१)
pārikṣitaṃ ca rājarṣiṃ saṃnyāsāya kṛtakṣaṇam |
सह स्थित्वा द्विजवरैर् गोकर्णे सुचिरं द्विज ॥ (११।२)
saha sthitvā dvijavarair gokarṇe suciraṃ dvija ||
इहागतो ऽस्मि विप्रर्षे किं करोमि प्रशाधि माम् । (१२।१)
ihāgato 'smi viprarṣe kiṃ karomi praśādhi mām |
तीर्थानां दर्शने पुण्यं स्नाने दाने च यत् फलम् ॥ (१२।३)
tīrthānāṃ darśane puṇyaṃ snāne dāne ca yat phalam ||
तीर्थानाम् अपि चोत्पत्तिं पुण्यं पुण्यफलं तथा ॥ (१३।२)
tīrthānām api cotpattiṃ puṇyaṃ puṇyaphalaṃ tathā ||
तत् सर्वं कथयास्माकं परं कौतूहलं हि नः । (१४।१)
tat sarvaṃ kathayāsmākaṃ paraṃ kautūhalaṃ hi naḥ |
इत्य् उक्ते मुनिना तत्र शतानीको ऽपि पार्थिवः ॥ (१४।२)
ity ukte muninā tatra śatānīko 'pi pārthivaḥ ||
पप्रच्छेदं सभामध्ये सूतं वै रोमहर्षणिम् । (१५।१)
papracchedaṃ sabhāmadhye sūtaṃ vai romaharṣaṇim |
गोकर्णाद् आगतम् इति श्रुतं ते वदतां वर ॥ (१५।३)
gokarṇād āgatam iti śrutaṃ te vadatāṃ vara ||
कस्मिन् देशे स गोकर्णं तीर्थराजः प्रशस्यते । (१६।१)
kasmin deśe sa gokarṇaṃ tīrtharājaḥ praśasyate |
किम् अर्थम् उषितं तत्र कैर् वा विप्रर्षिभिः सह ॥ (१६।२)
kim artham uṣitaṃ tatra kair vā viprarṣibhiḥ saha ||
ब्रूह्य् अशेषेण नः सूत यस्माद् अद्यागतो ह्य् असि । (१७।१)
brūhy aśeṣeṇa naḥ sūta yasmād adyāgato hy asi |
श्रूयतां कुरुशार्दूल सहैभिर् मुनिपुङ्गवैः ॥ (१७।३)
śrūyatāṃ kuruśārdūla sahaibhir munipuṅgavaiḥ ||
व्यासप्रसादाद् वक्ष्यामि सर्वं प्रत्यक्षदर्शिवत् । (१८।१)
vyāsaprasādād vakṣyāmi sarvaṃ pratyakṣadarśivat |
गोकर्णक्षेत्रमाहात्म्यं नारदो ऽग्निसुताय च । (१९।१)
gokarṇakṣetramāhātmyaṃ nārado 'gnisutāya ca |
सिद्धिक्षेत्राणि त्रीण्य् आहूरहस्यानि सुरेष्व् अपि । (२०।१)
siddhikṣetrāṇi trīṇy āhūrahasyāni sureṣv api |
शालग्रामं पुष्करं च गोकर्णं च नराधिप ॥ (२०।२)
śālagrāmaṃ puṣkaraṃ ca gokarṇaṃ ca narādhipa ||
शालग्रामात् पुष्कराच् च गोकर्णं शीघ्रसिद्धिदम् । (२१।१)
śālagrāmāt puṣkarāc ca gokarṇaṃ śīghrasiddhidam |
यद् यद् इच्छति गोकर्णे तत् तद् आप्नोति निश्चयात् ॥ (२१।२)
yad yad icchati gokarṇe tat tad āpnoti niścayāt ||
देर् उर्स्प्रुन्ग् वोन् गोकर्णएकार्णवे जगत्य् अस्मिन् सृष्टिकाल उपस्थिते । (२२।१)
Der Ursprung von Gokarṇaekārṇave jagaty asmin sṛṣṭikāla upasthite |
ब्रह्मा चतुर्मुखः पूर्वं सृष्ट्यर्थं तप आस्थितः ॥ (२२।२)
brahmā caturmukhaḥ pūrvaṃ sṛṣṭyarthaṃ tapa āsthitaḥ ||
तदा तस्य भ्रुवोर् मध्याद् रुद्रः प्रादुरभूत् प्रभुः । (२३।१)
tadā tasya bhruvor madhyād rudraḥ prādurabhūt prabhuḥ |
ब्रह्मा प्रोवाच तं दृष्ट्वा सृष्टिं कुरु महामते ॥ (२३।२)
brahmā provāca taṃ dṛṣṭvā sṛṣṭiṃ kuru mahāmate ||
तथेत्य् उक्त्वा तदा रुद्रो जरामरणवर्जिताः । (२४।१)
tathety uktvā tadā rudro jarāmaraṇavarjitāḥ |
सत्त्वैकगुणसम्पन्नाः समप्रकृतयः प्रजाः ॥ (२४।२)
sattvaikaguṇasampannāḥ samaprakṛtayaḥ prajāḥ ||
स्रक्ष्यामीत्य् एव निश्चित्य पाताले तपसि स्थितः । (२५।१)
srakṣyāmīty eva niścitya pātāle tapasi sthitaḥ |
ततो विलम्बितं दृष्ट्वा रुद्रसर्गं प्रजापतिः । (२६।१)
tato vilambitaṃ dṛṣṭvā rudrasargaṃ prajāpatiḥ |
तत्र कारणम् अन्विच्छन् यथापूर्वं ससर्ज ह ॥ (२६।२)
tatra kāraṇam anvicchan yathāpūrvaṃ sasarja ha ||
श्रुत्वेदं प्रकृतेर् वाक्यात् तया रुद्रः सहोत्थितः । (२७।१)
śrutvedaṃ prakṛter vākyāt tayā rudraḥ sahotthitaḥ |
ददृशे मेदिनीं विष्वगावृतां चक्रवत्स्थिताम् ॥ (२७।२)
dadṛśe medinīṃ viṣvagāvṛtāṃ cakravatsthitām ||
क्रुद्धः प्रोवाच तां मार्गम् उद्गन्तुं मम दर्शय । (२८।१)
kruddhaḥ provāca tāṃ mārgam udgantuṃ mama darśaya |
विश्वात्मन् प्रणतां त्राहि स्त्रीभावाद् अपि विह्वलाम् ॥ (२८।३)
viśvātman praṇatāṃ trāhi strībhāvād api vihvalām ||
कर्णच्छिद्रेण मे देव ह्रस्वो भूत्वोर्ध्वम् उत्पत ॥ (२९।२)
karṇacchidreṇa me deva hrasvo bhūtvordhvam utpata ||
तथेति तां समाश्वास्याङ्गुष्ठमात्रवपुर्धरः ऊर्ध्वम् एत्याह गिरिशो भद्रे मत्सङ्गमा त्वयि । (३०।१)
tatheti tāṃ samāśvāsyāṅguṣṭhamātravapurdharaḥ ūrdhvam etyāha giriśo bhadre matsaṅgamā tvayi |
गोशब्देनाख्यायसे त्वं कर्णस्थानम् इदं ह्य् अतः । (३१।१)
gośabdenākhyāyase tvaṃ karṇasthānam idaṃ hy ataḥ |
गोकर्णम् इति नाम्ना तत् त्रैलोक्ये परिगीयते ॥ (३१।२)
gokarṇam iti nāmnā tat trailokye parigīyate ||
पातालाद् ऊर्ध्वगमने योनिकल्पम् अभूद् यतः । (३२।१)
pātālād ūrdhvagamane yonikalpam abhūd yataḥ |
रुद्रयोनिर् इति ख्यातं पुण्यक्षेत्रेषु गण्यते ॥ (३२।२)
rudrayonir iti khyātaṃ puṇyakṣetreṣu gaṇyate ||
कल्पान्ते ऽप्य् आवर्तरूपं वरुणालयमध्यभाक् । (३३।१)
kalpānte 'py āvartarūpaṃ varuṇālayamadhyabhāk |
न विनश्यति तस्माच् च वरुणावर्तसंज्ञकम् ॥ (३३।२)
na vinaśyati tasmāc ca varuṇāvartasaṃjñakam ||
ये स्मरिष्यन्ति गोकर्णं प्रातर् उत्थाय नित्यशः । (३४।१)
ye smariṣyanti gokarṇaṃ prātar utthāya nityaśaḥ |
तेषां रात्रिकृतं पापं तत्क्षणाद् एव नश्यति ॥ (३४।२)
teṣāṃ rātrikṛtaṃ pāpaṃ tatkṣaṇād eva naśyati ||
पञ्चक्रोशपरीमाणं क्षेत्राणाम् उत्तमोत्तमम् ॥ (३५।२)
pañcakrośaparīmāṇaṃ kṣetrāṇām uttamottamam ||
ये पश्यन्ति महाक्षेत्रं गोकर्णं सुरपूजितम् । (३६।१)
ye paśyanti mahākṣetraṃ gokarṇaṃ surapūjitam |
जन्मप्रभृति यत् तेषां कृतं पापं विनश्यति ॥ (३६।२)
janmaprabhṛti yat teṣāṃ kṛtaṃ pāpaṃ vinaśyati ||
स्नानं कुर्वन्ति ये तत्र गोकर्णे तीर्थसत्तमे । (३७।१)
snānaṃ kurvanti ye tatra gokarṇe tīrthasattame |
तेषां त्रिजन्माचरितं पापं नश्यत्य् असंशयः ॥ (३७।२)
teṣāṃ trijanmācaritaṃ pāpaṃ naśyaty asaṃśayaḥ ||
श्रीशैलकाश्योर् अपि रामसेतौ गोकर्णमुख्येष्व् अपि पुण्यभूमिषु । (३९।१)
śrīśailakāśyor api rāmasetau gokarṇamukhyeṣv api puṇyabhūmiṣu |
आरभ्य तस्माद् अपि मुख्यदेशात् सद् योजनैर् द्वादशभिश् च मण्डलम् ॥ (३९।२)
ārabhya tasmād api mukhyadeśāt sad yojanair dvādaśabhiś ca maṇḍalam ||
इत्य् उक्त्वा धरणीं रुद्रो दृष्ट्वा सृष्टिं स्वयंभुवः । (४०।१)
ity uktvā dharaṇīṃ rudro dṛṣṭvā sṛṣṭiṃ svayaṃbhuvaḥ |
क्रुद्धः सन् तां संजिहीर्षुः किंचिद् ईशानभागगः ॥ (४०।२)
kruddhaḥ san tāṃ saṃjihīrṣuḥ kiṃcid īśānabhāgagaḥ ||
प्रमथान् ससृजे तत्र तावद् विष्णुर् उपागतः । (४१।१)
pramathān sasṛje tatra tāvad viṣṇur upāgataḥ |
उवाच रुद्रं भो देव क्षम्यतां ब्रह्मणा कृतम् ॥ (४१।२)
uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam ||
अन्ते त्वम् एव संहर्ता क्रोधम् अद्योपसंहर । (४२।१)
ante tvam eva saṃhartā krodham adyopasaṃhara |
ततः प्रसन्नो भगवान् प्राहानुग्राहकं वचः ॥ (४२।२)
tataḥ prasanno bhagavān prāhānugrāhakaṃ vacaḥ ||
दिधक्षोर् मम संस्थित्या भूयाद् ईशानभूर् इयम् । (४३।१)
didhakṣor mama saṃsthityā bhūyād īśānabhūr iyam |
रुद्रभूमिर् इति ख्याता मोक्षदा दहनान् नृणाम् ॥ (४३।२)
rudrabhūmir iti khyātā mokṣadā dahanān nṛṇām ||
प्रकृत्या पार्षदैः साकम् अत्र विष्णो वसाम्य् अहम् । (४४।१)
prakṛtyā pārṣadaiḥ sākam atra viṣṇo vasāmy aham |
इत्य् उक्ते शम्भुना विष्णुस् तथास्त्व् इति ययौ दिवम् ॥ (४४।२)
ity ukte śambhunā viṣṇus tathāstv iti yayau divam ||
रुद्रभूम्यां तु दहनं काङ्क्षन्ते विबुधा अपि ॥ (४५।३)
rudrabhūmyāṃ tu dahanaṃ kāṅkṣante vibudhā api ||
रुद्र क्लौत् दिए एस्सेन्ज़् देर् ग्त्तेर्ततः रुद्रश् चिन्तयित्वा भविष्यत् कार्यं गौरवम् । (४६।१)
Rudra klaut die Essenz der Gttertataḥ rudraś cintayitvā bhaviṣyat kāryaṃ gauravam |
स्वप्रतिज्ञा वृथा मा भूद् इति ब्रह्मादिषु स्वयम् ॥ (४६।२)
svapratijñā vṛthā mā bhūd iti brahmādiṣu svayam ||
स्थावरान्तेषु यत् सत्त्वं तद् आकृष्य महेश्वरः । (४७।१)
sthāvarānteṣu yat sattvaṃ tad ākṛṣya maheśvaraḥ |
तेन सत्त्वेन सौवर्णं निर्ममे मृगम् उत्तमम् ॥ (४७।२)
tena sattvena sauvarṇaṃ nirmame mṛgam uttamam ||
स्वस्य विष्णोर् ब्रह्मणश् च सत्त्वाच् छृङ्गत्रयं तथा । (४८।१)
svasya viṣṇor brahmaṇaś ca sattvāc chṛṅgatrayaṃ tathā |
अशेषप्राणिनां सत्त्वाच् चतुष्पादं त्रिनेत्रकम् ॥ (४८।२)
aśeṣaprāṇināṃ sattvāc catuṣpādaṃ trinetrakam ||
तन्मृगेण ह्य् अगात् स्वामी सह कैलासमन्दिरम् । (४९।१)
tanmṛgeṇa hy agāt svāmī saha kailāsamandiram |
ततः प्रजाः प्रजापालाः सर्वे सत्त्वविवर्जिताः ॥ (४९।२)
tataḥ prajāḥ prajāpālāḥ sarve sattvavivarjitāḥ ||
सुरासुरमनुष्याश् च ब्रह्माणं शरणं ययुः । (५०।१)
surāsuramanuṣyāś ca brahmāṇaṃ śaraṇaṃ yayuḥ |
ततः स्वयंभुवा सार्धं सुरा विष्णुम् उपागमन् ॥ (५०।२)
tataḥ svayaṃbhuvā sārdhaṃ surā viṣṇum upāgaman ||
उवाच विष्णुस् तान् देवान् सत्त्वं रुद्रेण वै हृतम् । (५१।१)
uvāca viṣṇus tān devān sattvaṃ rudreṇa vai hṛtam |
तं गत्वा विबुधश्रेष्ठा याचिष्यामः कृपानिधिम् ॥ (५१।२)
taṃ gatvā vibudhaśreṣṭhā yāciṣyāmaḥ kṛpānidhim ||
इति निश्चित्य ते सर्वे कैलासम् अगमन् सुराः । (५२।१)
iti niścitya te sarve kailāsam agaman surāḥ |
पूजयित्वा महादेवं प्रार्थयामासुर् ईहितम् ॥ (५२।२)
pūjayitvā mahādevaṃ prārthayāmāsur īhitam ||
ततस् तुष्टः शिवः प्रादात् तेभ्यः सत्त्वमयं मृगम् । (५३।१)
tatas tuṣṭaḥ śivaḥ prādāt tebhyaḥ sattvamayaṃ mṛgam |
प्रीताः सुरास् तद् विभज्य जगृहुः सत्त्वम् आत्मनः ॥ (५३।२)
prītāḥ surās tad vibhajya jagṛhuḥ sattvam ātmanaḥ ||
ब्रह्मा विष्णुश् च रुद्रश् च स्वीयं शृङ्गं समाददे । (५४।१)
brahmā viṣṇuś ca rudraś ca svīyaṃ śṛṅgaṃ samādade |
तच्छृङ्गं पूजयन्न् आस्ते रुद्रो भक्त्यानुकम्पया ॥ (५४।२)
tacchṛṅgaṃ pūjayann āste rudro bhaktyānukampayā ||
एतद् एव प्राणलिङ्गं चात्मलिङ्गम् इतीर्यते । (५५।१)
etad eva prāṇaliṅgaṃ cātmaliṅgam itīryate |
य एतत् पूजयेद् भक्त्या स प्राप्नोतीप्सितं ध्रुवम् ॥ (५५।२)
ya etat pūjayed bhaktyā sa prāpnotīpsitaṃ dhruvam ||
शृणुध्वम् अस्य माहात्म्यं सर्वलोकैकविश्रुतम् । (५६।१)
śṛṇudhvam asya māhātmyaṃ sarvalokaikaviśrutam |
युद्धो बभूव तुमुलो देवास् तत्र पराजिताः । (५७।१)
yuddho babhūva tumulo devās tatra parājitāḥ |
तदादेशाल् लिङ्गम् एतद् आराध्य पुनर् आहवे । (५८।१)
tadādeśāl liṅgam etad ārādhya punar āhave |
निर्जित्य दानवान् देवा अलभन्त मनोरथान् ॥ (५८।२)
nirjitya dānavān devā alabhanta manorathān ||
रावण ब्रिन्ग्त् दस् लिङ्गम् नछ् गोकर्णएवमादिकथाः श्रुत्वा रावणो ऽस्य जिघृक्षया । (५९।१)
Rāvaṇa bringt das Liṅgam nach Gokarṇaevamādikathāḥ śrutvā rāvaṇo 'sya jighṛkṣayā |
तत्र रावणम् अन्वीक्ष्य स्वर्गम् एत्याह वज्रिणम् ॥ (६०।२)
tatra rāvaṇam anvīkṣya svargam etyāha vajriṇam ||
कैलासे रावणस् तीव्रं तपश् चरति दुश्चरम् । (६१।१)
kailāse rāvaṇas tīvraṃ tapaś carati duścaram |
मृगशृङ्गं नेतुकामः पुरा युष्माभिर् अर्चितम् ॥ (६१।२)
mṛgaśṛṅgaṃ netukāmaḥ purā yuṣmābhir arcitam ||
नीते लिङ्गे रावणेन निःश्रीकाः स्युर् ध्रुवं सुराः । (६२।१)
nīte liṅge rāvaṇena niḥśrīkāḥ syur dhruvaṃ surāḥ |
तस्माद् विघ्नं कुरु क्षिप्रम् इत्य् उक्त्वागाद् यथागतम् ॥ (६२।२)
tasmād vighnaṃ kuru kṣipram ity uktvāgād yathāgatam ||
ततः संमन्त्र्य गुरुणा साकं शक्रो ऽमरैः सह । (६३।१)
tataḥ saṃmantrya guruṇā sākaṃ śakro 'maraiḥ saha |
पौलस्त्यतपसे विघ्नं कर्तुं कैलासम् अभ्यगात् ॥ (६३।२)
paulastyatapase vighnaṃ kartuṃ kailāsam abhyagāt ||
अत्रान्तरे रावणो ऽपि तोषयित्वा महेश्वरम् । (६४।१)
atrāntare rāvaṇo 'pi toṣayitvā maheśvaram |
पञ्चब्रह्मात्मकम् इदं न निधेहि भुवि क्वचित् ॥ (६४।२)
pañcabrahmātmakam idaṃ na nidhehi bhuvi kvacit ||
इति तेनाप्य् अनुज्ञातो लिङ्गं सम्पाद्य सादरम् । (६५।१)
iti tenāpy anujñāto liṅgaṃ sampādya sādaram |
अथात्र देवाः कैलासगिरिम् एत्य महेश्वरम् । (६६।१)
athātra devāḥ kailāsagirim etya maheśvaram |
पप्रच्छुर् अभिवाद्येशं रावणस्य विचेष्टितम् ॥ (६६।२)
papracchur abhivādyeśaṃ rāvaṇasya viceṣṭitam ||
स तान् उवाच भो देवा लिङ्गं सम्पाद्य रावणः । (६७।१)
sa tān uvāca bho devā liṅgaṃ sampādya rāvaṇaḥ |
निरगात् पादचारेण लङ्कां दक्षिणदिङ्मुखः ॥ (६७।२)
niragāt pādacāreṇa laṅkāṃ dakṣiṇadiṅmukhaḥ ||
गानेन तपसा लुब्धो लिङ्गं तस्मै ददाव् अहम् । (६८।१)
gānena tapasā lubdho liṅgaṃ tasmai dadāv aham |
परन्त्व् अयम् अपात्रो ऽतिदुष्टात्मा इति निश्चयः ॥ (६८।२)
parantv ayam apātro 'tiduṣṭātmā iti niścayaḥ ||
अतस् तस्य कराल् लिङ्गं गलितं सद् यथा भुवि । (६९।१)
atas tasya karāl liṅgaṃ galitaṃ sad yathā bhuvi |
प्रतिष्ठितं भवेच् छीघ्रं प्रयतध्वं तथा सुराः ॥ (६९।२)
pratiṣṭhitaṃ bhavec chīghraṃ prayatadhvaṃ tathā surāḥ ||
इत्य् अवाप्य शिवस्याज्ञाम् अन्विष्यन्तो दशाननम् । (७०।१)
ity avāpya śivasyājñām anviṣyanto daśānanam |
सप्तकोटीश्वरं जग्मुर् देवा नारदबोधिताः ॥ (७०।२)
saptakoṭīśvaraṃ jagmur devā nāradabodhitāḥ ||
दशाननो ऽपि मध्याह्ने तत्र स्थित्वाह्निकं चरन् । (७१।१)
daśānano 'pi madhyāhne tatra sthitvāhnikaṃ caran |
तत्र देवान् निरीक्ष्यैव शङ्कितः क्रोधमूर्छितः । (७२।१)
tatra devān nirīkṣyaiva śaṅkitaḥ krodhamūrchitaḥ |
गोकर्णाभिमुखः प्रागाद् रावणो मेघगर्जनः ॥ (७२।२)
gokarṇābhimukhaḥ prāgād rāvaṇo meghagarjanaḥ ||
तम् अन्वयाताः शक्राद्या लिङ्गस्य स्थापने तदा । (७३।१)
tam anvayātāḥ śakrādyā liṅgasya sthāpane tadā |
विष्णुं सम्प्रार्थयामासुर् उपायश् चिन्त्यताम् इति ॥ (७३।२)
viṣṇuṃ samprārthayāmāsur upāyaś cintyatām iti ||
ततो विष्णुः कार्यम् एतद् उपदिश्य गजाननम् । (७४।१)
tato viṣṇuḥ kāryam etad upadiśya gajānanam |
प्राहिणोद् रावणम् अनु स्वयं चागात् सहायकृत् ॥ (७४।२)
prāhiṇod rāvaṇam anu svayaṃ cāgāt sahāyakṛt ||
तावच् च विष्णुर् भगवान् अलौकिक्यात्ममायया ॥ (७५।२)
tāvac ca viṣṇur bhagavān alaukikyātmamāyayā ||
चक्रेण सूर्यम् आच्छाद्य सन्ध्याम् एवावभासयत् । (७६।१)
cakreṇa sūryam ācchādya sandhyām evāvabhāsayat |
अस्तं गतो ऽर्क इत्य् एवं मन्यमानो दशाननः ॥ (७६।२)
astaṃ gato 'rka ity evaṃ manyamāno daśānanaḥ ||
कथं सन्ध्याम् उपासिष्ये धृत्वा लिङ्गं करे ऽधुना । (७७।१)
kathaṃ sandhyām upāsiṣye dhṛtvā liṅgaṃ kare 'dhunā |
इति चिन्ताकुलस् तावद् गजास्यं बटुरूपिणम् ॥ (७७।२)
iti cintākulas tāvad gajāsyaṃ baṭurūpiṇam ||
दृष्ट्वा तस्य करे लिङ्गं दित्सुर् एवम् उवाच तम् । (७८।१)
dṛṣṭvā tasya kare liṅgaṃ ditsur evam uvāca tam |
मुनिपुत्र गृहाणेदं लिङ्गरत्नं मुहूर्तकम् ॥ (७८।२)
muniputra gṛhāṇedaṃ liṅgaratnaṃ muhūrtakam ||
नद्याम् अस्यां विधिं सान्ध्यं समाप्यादास्य आश्व् अहम् । (७९।१)
nadyām asyāṃ vidhiṃ sāndhyaṃ samāpyādāsya āśv aham |
पञ्चब्रह्मात्मकं चैतन् न निधेहि महीतले ॥ (७९।२)
pañcabrahmātmakaṃ caitan na nidhehi mahītale ||
एवम् उक्तो रावणेन गजास्यः प्रत्युवाच तम् । (८०।१)
evam ukto rāvaṇena gajāsyaḥ pratyuvāca tam |
अहो गुरुतमं ह्य् एतत्कार्यार्थी वटुर् अप्य् अहम् ॥ (८०।२)
aho gurutamaṃ hy etatkāryārthī vaṭur apy aham ||
अवश्यम् एव वाह्यं चेन् न सहेय चिरं क्वचित् । (८१।१)
avaśyam eva vāhyaṃ cen na saheya ciraṃ kvacit |
तद् अहं त्वां त्रिर् आहूय निधास्ये त्वय्य् अनागते ॥ (८१।२)
tad ahaṃ tvāṃ trir āhūya nidhāsye tvayy anāgate ||
इत्य् उक्त्वा जगृहे लिङ्गं सन्ध्यां दध्यौ च रावणः । (८२।१)
ity uktvā jagṛhe liṅgaṃ sandhyāṃ dadhyau ca rāvaṇaḥ |
तावद् देवाः प्राणलिङ्गे त्रिलोकीभारम् आदधुः ॥ (८२।२)
tāvad devāḥ prāṇaliṅge trilokībhāram ādadhuḥ ||
तदा वोढुम् अशक्तस् त्रिर् उच्चैर् उद्घुष्य रावणम् । (८३।१)
tadā voḍhum aśaktas trir uccair udghuṣya rāvaṇam |
गजास्यः स्थापयामास लिङ्गं श्लेष्मातके वने ॥ (८३।२)
gajāsyaḥ sthāpayāmāsa liṅgaṃ śleṣmātake vane ||
वैवस्वते ऽन्तरे राजन् त्रयोविंशतिमे शुभे । (८४।१)
vaivasvate 'ntare rājan trayoviṃśatime śubhe |
त्रेतायुगे त्व् ईश्वराब्दे शरत्काले नृपोत्तम ॥ (८४।२)
tretāyuge tv īśvarābde śaratkāle nṛpottama ||
तुलामासे मीनलग्ने विशाखायां प्रतिष्ठितम् ॥ (८५।२)
tulāmāse mīnalagne viśākhāyāṃ pratiṣṭhitam ||
ततो विष्णुः स्वकं चक्रम् उपसंहृतवान् रवेः । (८६।१)
tato viṣṇuḥ svakaṃ cakram upasaṃhṛtavān raveḥ |
शशंसुश्च स्तवैर् दिव्यैः शिवं विष्णुं गजाननम् । (८७।१)
śaśaṃsuśca stavair divyaiḥ śivaṃ viṣṇuṃ gajānanam |
वीणावेणुमृदङ्गाद्यैर् ननृतुश् चाप्सरोगणाः ॥ (८७।२)
vīṇāveṇumṛdaṅgādyair nanṛtuś cāpsarogaṇāḥ ||
इति श्रीस्कान्दे गोकर्णखण्डे श्रीगोकर्णमाहात्म्ये सारोद्धारे प्रथमो ऽध्यायः । ॥ (८८।१)
iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre prathamo 'dhyāyaḥ | ||
Data courtesy of The Digital Corpus of Sanskrit.