गोकर्णपुराणसारःGokarṇapurāṇasāraḥ
GokPurS, 2
Select a line for its word-by-word analysis.
ददर्श च गजास्येन भूम्यां लिङ्गं प्रतिष्ठितम् ॥ (१।३)
dadarśa ca gajāsyena bhūmyāṃ liṅgaṃ pratiṣṭhitam ||
दोर्भ्यां लिङ्गं प्रगृह्याशु जानुभ्याम् अवनिं गतः ॥ (२।२)
dorbhyāṃ liṅgaṃ pragṛhyāśu jānubhyām avaniṃ gataḥ ||
न शशाक तद् उद्धर्तुं न्यपतन् मूर्छितः स्वयम् ॥ (३।२)
na śaśāka tad uddhartuṃ nyapatan mūrchitaḥ svayam ||
ततः कलकलः शब्दस् तत्रात्यन्तम् अभून् नृप । (४।१)
tataḥ kalakalaḥ śabdas tatrātyantam abhūn nṛpa |
तत्र देवाश् च ऋषयः स्थापयामासुर् उत्तमम् ॥ (४।२)
tatra devāś ca ṛṣayaḥ sthāpayāmāsur uttamam ||
त्रिषु लोकेषु विख्यातं लिङ्गं कलकलेश्वरम् । (५।१)
triṣu lokeṣu vikhyātaṃ liṅgaṃ kalakaleśvaram |
तस्य लिङ्गस्य सविधे ह्य् उदीच्यां दिशि संस्थितः । (६।१)
tasya liṅgasya savidhe hy udīcyāṃ diśi saṃsthitaḥ |
तत्र गत्वा यस् तु राजन् दक्षिणाशां विलोकयन् । (७।१)
tatra gatvā yas tu rājan dakṣiṇāśāṃ vilokayan |
प्रदक्षिणीकृत्य गिरिं स्थित्वा तस्य तले शुभे ॥ (७।२)
pradakṣiṇīkṛtya giriṃ sthitvā tasya tale śubhe ||
अष्टाक्षरं जपेन् मन्त्रम् ऋषिछन्दः सदैवतम् । (८।१)
aṣṭākṣaraṃ japen mantram ṛṣichandaḥ sadaivatam |
उच्चैः शब्दं प्रकुर्वीत हर३ इत्य् अथवा हरे३ ॥ (८।२)
uccaiḥ śabdaṃ prakurvīta hara3 ity athavā hare3 ||
एवं यः कुरुते राजन्न् अमृतत्वं स गच्छति ॥ (९।२)
evaṃ yaḥ kurute rājann amṛtatvaṃ sa gacchati ||
लब्धसंज्ञो मुहूर्तेन रावणः क्रोधविह्वलः । (१०।२)
labdhasaṃjño muhūrtena rāvaṇaḥ krodhavihvalaḥ |
एवं वितथयत्नो ऽसौ रावणो वञ्चितः सुरैः । (११।१)
evaṃ vitathayatno 'sau rāvaṇo vañcitaḥ suraiḥ |
लज्जितो गूढम् अम्भोधिं तीर्त्वा स्वपुरम् आविशत् ॥ (११।२)
lajjito gūḍham ambhodhiṃ tīrtvā svapuram āviśat ||
गजाननो ऽपि लिङ्गस्य आग्नेयां दिशि पृष्ठतः । (१२।१)
gajānano 'pi liṅgasya āgneyāṃ diśi pṛṣṭhataḥ |
पश्चिमाभिमुखो भूत्वा चत्वारिंशत्पदे स्थितः ॥ (१२।२)
paścimābhimukho bhūtvā catvāriṃśatpade sthitaḥ ||
देवाश् च गण्डकीक्षेत्राच् छालग्रामशिलामयम् । (१३।१)
devāś ca gaṇḍakīkṣetrāc chālagrāmaśilāmayam |
पीठम् आनाय्य लिङ्गस्य योजयामासुर् उत्तमम् ॥ (१३।२)
pīṭham ānāyya liṅgasya yojayāmāsur uttamam ||
अथ वायुमुखात् सर्वं वृत्तं श्रुत्वा महेश्वरः । (१४।१)
atha vāyumukhāt sarvaṃ vṛttaṃ śrutvā maheśvaraḥ |
गोकर्णम् एत्य तल् लिङ्गं गजास्येन प्रतिष्ठितम् ॥ (१४।२)
gokarṇam etya tal liṅgaṃ gajāsyena pratiṣṭhitam ||
रावणस्य नखक्षुण्णं दृष्ट्वा चात्मन्य् अतीतपत् । (१५।१)
rāvaṇasya nakhakṣuṇṇaṃ dṛṣṭvā cātmany atītapat |
अपराधो ममैवात्र यद् दुष्टस्य वशे कृतम् ॥ (१५।२)
aparādho mamaivātra yad duṣṭasya vaśe kṛtam ||
तत्रेदं नु महद्भाग्यं गोकर्णे सुप्रतिष्ठितम् । (१६।१)
tatredaṃ nu mahadbhāgyaṃ gokarṇe supratiṣṭhitam |
जन्मभूमित्वबुध्या हि ममाप्य् अस्त्य् अत्र गौरवम् ॥ (१६।२)
janmabhūmitvabudhyā hi mamāpy asty atra gauravam ||
लिङ्गरत्नम् इदं देवा अजैषीद् रावणं बलात् । (१८।१)
liṅgaratnam idaṃ devā ajaiṣīd rāvaṇaṃ balāt |
त्रैलोक्ये बलिनं तस्माद् अस्य नाम महाबलम् ॥ (१८।२)
trailokye balinaṃ tasmād asya nāma mahābalam ||
इत्य् उक्त्वा प्रणनामाथ पार्वत्या सह पार्षदैः । (१९।१)
ity uktvā praṇanāmātha pārvatyā saha pārṣadaiḥ |
नमो ऽस्मद्भागधेयाय नमस्ते त्रिगुणात्मने । (२१।१)
namo 'smadbhāgadheyāya namaste triguṇātmane |
स्तुत्वैवं स गजास्यस्यान्तिकम् एत्य तम् आश्लिषन् ॥ (२३।२)
stutvaivaṃ sa gajāsyasyāntikam etya tam āśliṣan ||
मूर्ध्नि तस्य व्रणं दृष्ट्वा सान्त्वयन्न् इदम् अब्रवीत् । (२४।१)
mūrdhni tasya vraṇaṃ dṛṣṭvā sāntvayann idam abravīt |
आदौ त्वाम् अर्चयित्वा यो ऽर्चयतीह महाबलम् ॥ (२४।२)
ādau tvām arcayitvā yo 'rcayatīha mahābalam ||
वाञ्छितार्थं स लभतां मत्प्रसादाद् असंशयम् । (२५।१)
vāñchitārthaṃ sa labhatāṃ matprasādād asaṃśayam |
इत्य् उक्त्वा पूजयामास विघ्नेशं विधिपूर्वकम् ॥ (२५।२)
ity uktvā pūjayāmāsa vighneśaṃ vidhipūrvakam ||
भो देवाः कार्तिके मासे लिङ्गम् एतत् प्रतिष्ठितम् ॥ (२६।२)
bho devāḥ kārtike māse liṅgam etat pratiṣṭhitam ||
तस्माद् अहं वसाम्य् अत्र कार्तिके स्वगणैः सह । (२७।१)
tasmād ahaṃ vasāmy atra kārtike svagaṇaiḥ saha |
भवन्तो ऽपि वसन्त्व् अत्र पूजयामो महाबलम् ॥ (२७।२)
bhavanto 'pi vasantv atra pūjayāmo mahābalam ||
यस् तदा कोटितीर्थे ऽत्र स्नात्वा लिङ्गं प्रपूजयेत् । (२८।१)
yas tadā koṭitīrthe 'tra snātvā liṅgaṃ prapūjayet |
शक्त्या च किंचिद् दद्याच् चेत् कर्मबन्धात् स मुच्यते ॥ (२८।२)
śaktyā ca kiṃcid dadyāc cet karmabandhāt sa mucyate ||
यद् यद् दत्तं हुतं जप्तं कृतं कर्म सुरोत्तमाः । (२९।१)
yad yad dattaṃ hutaṃ japtaṃ kṛtaṃ karma surottamāḥ |
तद् अनन्तफलं चास्तु नराणां मत्प्रसादतः ॥ (२९।२)
tad anantaphalaṃ cāstu narāṇāṃ matprasādataḥ ||
तत्र गोकर्णयात्रायां विषुयुक् कार्तिको वरः । (३०।१)
tatra gokarṇayātrāyāṃ viṣuyuk kārtiko varaḥ |
पूजयेत् तस्य माहात्म्यं नालं ब्रह्मापि वर्णितुम् ॥ (३१।२)
pūjayet tasya māhātmyaṃ nālaṃ brahmāpi varṇitum ||
शिवरात्रिश् चेति देवा दुर्लभं हि चतुष्टयम् ॥ (३२।२)
śivarātriś ceti devā durlabhaṃ hi catuṣṭayam ||
तस्मिन् काले तु यद् दत्तम् एकं कोटिफलप्रदम् । (३३।१)
tasmin kāle tu yad dattam ekaṃ koṭiphalapradam |
इत्य् उक्त्वा स प्रसन्नात्मा ययौ कैलासपर्वतम् ॥ (३३।२)
ity uktvā sa prasannātmā yayau kailāsaparvatam ||
तदा प्रभृति गोकर्णे वासं चक्रुर् दिवौकसः । (३४।१)
tadā prabhṛti gokarṇe vāsaṃ cakrur divaukasaḥ |
महाबलम् इति प्राहुर् लिङ्गं त्रिभुवनेश्वरम् ॥ (३४।२)
mahābalam iti prāhur liṅgaṃ tribhuvaneśvaram ||
तस्मात् पुण्यतमं लिङ्गम् अन्यन् नास्ति जगत्त्रये ॥ (३५।२)
tasmāt puṇyatamaṃ liṅgam anyan nāsti jagattraye ||
कृते महाबलं श्वेतं त्रेतायाम् अतिलोहितम् ॥ (३६।२)
kṛte mahābalaṃ śvetaṃ tretāyām atilohitam ||
द्वापरे पीतवर्णं च कलौ श्यामं भविष्यति । (३७।१)
dvāpare pītavarṇaṃ ca kalau śyāmaṃ bhaviṣyati |
घोरे कलियुगे प्राप्ते मृदुताम् उपयास्यति ॥ (३७।२)
ghore kaliyuge prāpte mṛdutām upayāsyati ||
दृष्ट्वा वा दिव्यलिङ्गं च श्रुत्वा वा सागरध्वनिम् । (३८।१)
dṛṣṭvā vā divyaliṅgaṃ ca śrutvā vā sāgaradhvanim |
कोटितीर्थे नरः स्नात्वा पुनर्जन्म न विन्दते ॥ (३८।२)
koṭitīrthe naraḥ snātvā punarjanma na vindate ||
सर्वाण्य् अश्मानि लिङ्गानि तीर्थान्य् अम्भांसि सर्वशः । (३९।१)
sarvāṇy aśmāni liṅgāni tīrthāny ambhāṃsi sarvaśaḥ |
सकृत् प्रविश्य गोकर्णं सद्यो मुच्येत पातकैः ॥ (४०।२)
sakṛt praviśya gokarṇaṃ sadyo mucyeta pātakaiḥ ||
यत्रेन्द्रब्रह्मविष्ण्वादिदेवानां प्रीतिकाम्यया । (४१।१)
yatrendrabrahmaviṣṇvādidevānāṃ prītikāmyayā |
अत्रैकेन दिनेनापि यत् कृतं कर्म चोत्तमम् । (४२।१)
atraikena dinenāpi yat kṛtaṃ karma cottamam |
तद् अन्यत्राब्दलक्षेण भविष्यति सुसम्भृतम् ॥ (४२।२)
tad anyatrābdalakṣeṇa bhaviṣyati susambhṛtam ||
इन्द्रो ब्रह्मा मुकुन्दश् च विश्वेदेवा मरुद्गणाः । (४३।१)
indro brahmā mukundaś ca viśvedevā marudgaṇāḥ |
आदित्या वसवो रुद्राः शशाङ्कश् च सतारकः ॥ (४३।२)
ādityā vasavo rudrāḥ śaśāṅkaś ca satārakaḥ ||
कालो मृत्युर् यमः साक्षाच् चित्रगुप्तश् च पालकः । (४५।१)
kālo mṛtyur yamaḥ sākṣāc citraguptaś ca pālakaḥ |
पितृभिः सह रुद्रैश् च दक्षिणद्वारम् आश्रिताः ॥ (४५।२)
pitṛbhiḥ saha rudraiś ca dakṣiṇadvāram āśritāḥ ||
एते गन्धर्ववर्गेण गायन्तः पश्चिमे स्थिताः ॥ (४६।२)
ete gandharvavargeṇa gāyantaḥ paścime sthitāḥ ||
रम्भा कृतस्थला मेना पूर्वचित्तिस् तिलोत्तमा । (४७।१)
rambhā kṛtasthalā menā pūrvacittis tilottamā |
नृत्यन्ति च पुरः शम्भोर् उर्वश्याद्याः सुरस्त्रियः ॥ (४७।२)
nṛtyanti ca puraḥ śambhor urvaśyādyāḥ surastriyaḥ ||
वसिष्ठः कश्यपः कण्वो विश्वामित्रो महातपाः । (४८।१)
vasiṣṭhaḥ kaśyapaḥ kaṇvo viśvāmitro mahātapāḥ |
जैमिनिश् च भरद्वाजो जाबालिः क्रतुर् अङ्गिराः ॥ (४८।२)
jaiminiś ca bharadvājo jābāliḥ kratur aṅgirāḥ ||
गौतमो जमदग्निश् च भार्गवो ऽत्रिः पराशरः । (४९।१)
gautamo jamadagniś ca bhārgavo 'triḥ parāśaraḥ |
एते चान्ये च राजेन्द्र सर्वे ब्रह्मर्षयो ऽमलाः । (५०।१)
ete cānye ca rājendra sarve brahmarṣayo 'malāḥ |
देवं महाबलं भक्त्या उत्तरं द्वारम् आश्रिताः ॥ (५०।२)
devaṃ mahābalaṃ bhaktyā uttaraṃ dvāram āśritāḥ ||
नारदो वालखिल्याश् च मरीच्याद्याः प्रजेश्वराः । (५१।१)
nārado vālakhilyāś ca marīcyādyāḥ prajeśvarāḥ |
तथान्ये मुनयो ऽसङ्ख्या जटिनो वल्कलाम्बराः । (५२।१)
tathānye munayo 'saṅkhyā jaṭino valkalāmbarāḥ |
प्रस्तुवन्ति प्रगायन्ति नृत्यन्ति प्रणमन्ति च । (५५।१)
prastuvanti pragāyanti nṛtyanti praṇamanti ca |
लभन्ते ऽभीप्सितान् कामान् नमन्ते च यथासुखम् ॥ (५५।२)
labhante 'bhīpsitān kāmān namante ca yathāsukham ||
तत्र ये ये तपस् तप्तुम् आवसन् देवतादयः । (५६।१)
tatra ye ye tapas taptum āvasan devatādayaḥ |
तेषां तेषाम् आश्रमश् च तीर्थं लिङ्गं पृथक् पृथक् ॥ (५६।२)
teṣāṃ teṣām āśramaś ca tīrthaṃ liṅgaṃ pṛthak pṛthak ||
तत् तन् नाम्नैव विख्यातं विद्यते गणितं च तत् । (५७।१)
tat tan nāmnaiva vikhyātaṃ vidyate gaṇitaṃ ca tat |
त्रयस्त्रिंशत्कोटितीर्थं लिङ्गं चेति विनिश्चितम् ॥ (५७।२)
trayastriṃśatkoṭitīrthaṃ liṅgaṃ ceti viniścitam ||
सर्वेषां शिवलिङ्गानां सार्वभौमो महाबलम् । (५८।१)
sarveṣāṃ śivaliṅgānāṃ sārvabhaumo mahābalam |
कोटितीर्थं च सर्वेषां तीर्थानां मुख्यतां गतम् ॥ (५८।२)
koṭitīrthaṃ ca sarveṣāṃ tīrthānāṃ mukhyatāṃ gatam ||
ये मातृपितृहन्तारो ये वा भूतद्रुहः शठाः । (५९।१)
ye mātṛpitṛhantāro ye vā bhūtadruhaḥ śaṭhāḥ |
गोघ्नाश् चैव कृतघ्नाश् च परदाररताश् च ये ॥ (५९।२)
goghnāś caiva kṛtaghnāś ca paradāraratāś ca ye ||
ते सर्वे प्राप्य गोकर्णं स्नात्वा तीर्थजले शुभे । (६०।१)
te sarve prāpya gokarṇaṃ snātvā tīrthajale śubhe |
महाबलं च सम्पूज्य प्रयान्ति शिवमन्दिरम् ॥ (६०।२)
mahābalaṃ ca sampūjya prayānti śivamandiram ||
तत्र पुण्यासु तिथिषु पुण्यर्क्षे पुण्यवासरे । (६१।१)
tatra puṇyāsu tithiṣu puṇyarkṣe puṇyavāsare |
फलाधिक्यं जपे होमे द्विजार्चादौ व्रतेषु च ॥ (६२।२)
phalādhikyaṃ jape home dvijārcādau vrateṣu ca ||
महाबलालये पुण्ये पुण्यं पुण्यसमृद्धिकृत् ॥ (६३।२)
mahābalālaye puṇye puṇyaṃ puṇyasamṛddhikṛt ||
कोटितीर्थं तत्र गङ्गा समुद्रोऽत्र विशिष्यते ॥ (६४।२)
koṭitīrthaṃ tatra gaṅgā samudro'tra viśiṣyate ||
पृथिव्यां यानि तीर्थानि गङ्गादिसरितश् च याः । (६५।१)
pṛthivyāṃ yāni tīrthāni gaṅgādisaritaś ca yāḥ |
विशन्ति सागरं यस्माद् गोकर्णं तद् विशिष्यते ॥ (६५।२)
viśanti sāgaraṃ yasmād gokarṇaṃ tad viśiṣyate ||
गोकर्णं रामसेतुश् च काशीति त्रिस्थली स्मृता । (६६।१)
gokarṇaṃ rāmasetuś ca kāśīti tristhalī smṛtā |
त्रिस्थलीषु कृतं कर्म शेषेणापि न गण्यते ॥ (६६।२)
tristhalīṣu kṛtaṃ karma śeṣeṇāpi na gaṇyate ||
यदा प्राप्नोति गोकर्णं यो वा को वापि मानवः । (६७।१)
yadā prāpnoti gokarṇaṃ yo vā ko vāpi mānavaḥ |
मुण्डनं चोपवासं च श्राद्धं च विधिवच् चरेत् ॥ (६७।२)
muṇḍanaṃ copavāsaṃ ca śrāddhaṃ ca vidhivac caret ||
गङ्गायां भास्करक्षेत्रे चौले चैवोपनायने । (६८।१)
gaṅgāyāṃ bhāskarakṣetre caule caivopanāyane |
श्रीशैले यज्ञदीक्षायां प्रायश्चित्तव्रतेषु च ॥ (६८।२)
śrīśaile yajñadīkṣāyāṃ prāyaścittavrateṣu ca ||
जीवत्पितापि कुर्वीत वपनं श्राद्धम् एव च ॥ (६९।२)
jīvatpitāpi kurvīta vapanaṃ śrāddham eva ca ||
नवमासात् परं चैव पुनः क्षेत्रं विशेद् यदि । (७०।१)
navamāsāt paraṃ caiva punaḥ kṣetraṃ viśed yadi |
रुद्रेणाधिष्ठितं पुण्यं भास्करक्षेत्रम् उच्यते । (७१।१)
rudreṇādhiṣṭhitaṃ puṇyaṃ bhāskarakṣetram ucyate |
काशी पुष्पगिरिः काञ्ची निवृत्ताख्या ह्य् अलंपुरी ॥ (७१।२)
kāśī puṣpagiriḥ kāñcī nivṛttākhyā hy alaṃpurī ||
श्रीशैलः श्रीविरूपाक्षः सेतुः केदार एव च । (७२।१)
śrīśailaḥ śrīvirūpākṣaḥ setuḥ kedāra eva ca |
गोकर्णं च दशैतानि भास्कराण्य् आहुर् उत्तमाः ॥ (७२।२)
gokarṇaṃ ca daśaitāni bhāskarāṇy āhur uttamāḥ ||
आदौ स्नात्वा कोटितीर्थे स्थापयेद् ब्रह्मदण्डकम् । (७३।१)
ādau snātvā koṭitīrthe sthāpayed brahmadaṇḍakam |
क्षौरं कृत्वा विधानेन स्नानं दशविधं चरेत् ॥ (७३।२)
kṣauraṃ kṛtvā vidhānena snānaṃ daśavidhaṃ caret ||
मलापकर्षणं चैव स्नानं दशविधं स्मृतम् ॥ (७४।२)
malāpakarṣaṇaṃ caiva snānaṃ daśavidhaṃ smṛtam ||
एवं स्नात्वा विधानेन श्राद्धं कुर्याच् च भक्तितः । (७५।१)
evaṃ snātvā vidhānena śrāddhaṃ kuryāc ca bhaktitaḥ |
ततः समुद्रे विधिवत् स्नात्वा पिण्डादिकं चरेत् ॥ (७५।२)
tataḥ samudre vidhivat snātvā piṇḍādikaṃ caret ||
पृथिव्यां सर्वतीर्थानि समुद्रं प्रविशन्ति हि । (७६।१)
pṛthivyāṃ sarvatīrthāni samudraṃ praviśanti hi |
तस्मात् समुद्रो ह्य् अधिकः स्नानमात्राद्धि मुक्तिदः ॥ (७६।२)
tasmāt samudro hy adhikaḥ snānamātrāddhi muktidaḥ ||
तदा जलनिधौ स्नानम् अनन्तफलदं स्मृतम् ॥ (७७।२)
tadā jalanidhau snānam anantaphaladaṃ smṛtam ||
सेतौ सिन्धौ सरस्वत्यां गोकर्णे पुरुषोत्तमे । (७८।१)
setau sindhau sarasvatyāṃ gokarṇe puruṣottame |
क्षेत्रेष्व् अन्येषु सर्वेषु पर्वण्य् एव विधीयते । (७९।१)
kṣetreṣv anyeṣu sarveṣu parvaṇy eva vidhīyate |
गोकर्णे सर्वकालं च सिन्धुस्नानं समाचरेत् ॥ (७९।२)
gokarṇe sarvakālaṃ ca sindhusnānaṃ samācaret ||
पिप्पलादं कविं कण्वं कृतान्तं जीवितेश्वरम् । (८०।१)
pippalādaṃ kaviṃ kaṇvaṃ kṛtāntaṃ jīviteśvaram |
मन्युं च कालरात्रिं च विद्यां दुर्गां गणाधिपम् ॥ (८०।२)
manyuṃ ca kālarātriṃ ca vidyāṃ durgāṃ gaṇādhipam ||
देवान् ऋषीन् पितॄंश् चैव तर्पयित्वा विधानतः । (८१।१)
devān ṛṣīn pitṝṃś caiva tarpayitvā vidhānataḥ |
पुनः स्नानं च कृत्वैव ब्राह्मणेभ्यो यथाविधि ॥ (८१।२)
punaḥ snānaṃ ca kṛtvaiva brāhmaṇebhyo yathāvidhi ||
पितृस्थालीं समासाद्य पितॄणां पिण्डदो भवेत् ॥ (८२।२)
pitṛsthālīṃ samāsādya pitṝṇāṃ piṇḍado bhavet ||
स्वर्गं प्रयान्ति पितरः कुलकोटिसमन्विताः । (८३।१)
svargaṃ prayānti pitaraḥ kulakoṭisamanvitāḥ |
स्नात्वा रुद्रपदे चैवम् अर्चयित्वा महाबलम् ॥ (८३।२)
snātvā rudrapade caivam arcayitvā mahābalam ||
शृणुयात् तीर्थमाहात्म्यं कुर्याच् च निशि जागरम् । (८४।१)
śṛṇuyāt tīrthamāhātmyaṃ kuryāc ca niśi jāgaram |
ब्राह्मणान् भोजयेत् पश्चात् स्वयं भुञ्जीत वाग्यतः ॥ (८४।२)
brāhmaṇān bhojayet paścāt svayaṃ bhuñjīta vāgyataḥ ||
एवं क्षेत्रविधिं कुर्वन् स्नायात् तीर्थेषु च क्रमात् । (८५।१)
evaṃ kṣetravidhiṃ kurvan snāyāt tīrtheṣu ca kramāt |
त्रयस्त्रिंशत्सु मुख्येषु त्रयस्त्रिंशद्दिनैर् नृप ॥ (८५।२)
trayastriṃśatsu mukhyeṣu trayastriṃśaddinair nṛpa ||
तत्र स्थं चार्चयेल् लिङ्गं तीर्थनामानि मे शृणु । (८६।१)
tatra sthaṃ cārcayel liṅgaṃ tīrthanāmāni me śṛṇu |
गोकर्णं गुहतीर्थं च ताम्रगौरी च निम्नगा ॥ (८६।२)
gokarṇaṃ guhatīrthaṃ ca tāmragaurī ca nimnagā ||
गायत्रं च तथा ब्राह्मं ब्रह्मकुण्डम् अतः परम् । (८७।१)
gāyatraṃ ca tathā brāhmaṃ brahmakuṇḍam ataḥ param |
विश्वामित्रं सङ्गमं च चक्रं कापिलम् एव च ॥ (८७।२)
viśvāmitraṃ saṅgamaṃ ca cakraṃ kāpilam eva ca ||
अरण्यम् अग्नितीर्थं च वैनायकम् अतः परम् । (८८।१)
araṇyam agnitīrthaṃ ca vaināyakam ataḥ param |
कौबेरं नादतीर्थं च ततः सांवर्तकं शुभम् ॥ (८८।२)
kauberaṃ nādatīrthaṃ ca tataḥ sāṃvartakaṃ śubham ||
सूर्यं च मार्कण्डेयं च पापनाशनतीर्थकम् । (८९।१)
sūryaṃ ca mārkaṇḍeyaṃ ca pāpanāśanatīrthakam |
दुर्गाकुण्डं नागतीर्थं कोटितीर्थम् अतः परम् ॥ (८९।२)
durgākuṇḍaṃ nāgatīrthaṃ koṭitīrtham ataḥ param ||
भीमकुण्डं तथागस्त्यं वसिष्ठं गरुडं तथा । (९१।१)
bhīmakuṇḍaṃ tathāgastyaṃ vasiṣṭhaṃ garuḍaṃ tathā |
मालिन्य् आख्या नदी शुक्ला शिंशुमारम् इहोच्यते ॥ (९१।२)
māliny ākhyā nadī śuklā śiṃśumāram ihocyate ||
एकबिन्द्वादिबिन्दूनां चतुष्कं त्व् एकम् उच्यते । (९२।१)
ekabindvādibindūnāṃ catuṣkaṃ tv ekam ucyate |
एतान्य् एकैककोटीनां तीर्थानां नायकानि तु ॥ (९२।२)
etāny ekaikakoṭīnāṃ tīrthānāṃ nāyakāni tu ||
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे । (९३।१)
brahmāṇḍodaratīrthāni karaiḥ spṛṣṭāni te rave |
तेन सत्येन गोकर्णे तीर्थेष्व् आवाहितो भव ॥ (९३।२)
tena satyena gokarṇe tīrtheṣv āvāhito bhava ||
इमं मन्त्रं समुच्चार्य स्नायात् तीर्थेषु च क्रमात् । (९४।१)
imaṃ mantraṃ samuccārya snāyāt tīrtheṣu ca kramāt |
स्नातुम् एतेष्व् अशक्तश् चेत् स्नायाद् अष्टसु वा नृप ॥ (९४।२)
snātum eteṣv aśaktaś cet snāyād aṣṭasu vā nṛpa ||
गोकर्णं गुहतीर्थं च ताम्रगौरी च निम्नगा । (९५।१)
gokarṇaṃ guhatīrthaṃ ca tāmragaurī ca nimnagā |
गायत्रं कोटितीर्थं च ब्रह्मकुण्डम् अतः परम् ॥ (९५।२)
gāyatraṃ koṭitīrthaṃ ca brahmakuṇḍam ataḥ param ||
रामतीर्थं सङ्गमं चेत्य् अष्टौ तीर्थान्य् अनुक्रमात् । (९६।१)
rāmatīrthaṃ saṅgamaṃ cety aṣṭau tīrthāny anukramāt |
गोकर्णं शतशृङ्गं च ताम्रगौरीं च निम्नगाम् ॥ (९६।२)
gokarṇaṃ śataśṛṅgaṃ ca tāmragaurīṃ ca nimnagām ||
तीर्थराजं समुद्रं च संस्मरेत् पुण्यपञ्चकम् । (९७।१)
tīrtharājaṃ samudraṃ ca saṃsmaret puṇyapañcakam |
य एवं कुरुते भक्त्या क्षेत्रम् आसाद्य यत्नतः ॥ (९७।२)
ya evaṃ kurute bhaktyā kṣetram āsādya yatnataḥ ||
भुक्त्वेह भोगान् विविधान् शिवलोकं व्रजेद् असौ ॥ (९८।२)
bhuktveha bhogān vividhān śivalokaṃ vrajed asau ||
इति श्रीस्कान्दे गोकर्णमाहात्म्ये द्वितीयो ऽध्यायः । ॥ (९९।१)
iti śrīskānde gokarṇamāhātmye dvitīyo 'dhyāyaḥ | ||
Data courtesy of The Digital Corpus of Sanskrit.