गोकर्णपुराणसारःGokarṇapurāṇasāraḥ
GokPurS, 4
Select a line for its word-by-word analysis.
दुर्गाशृङ्गमिति ख्यातं गोकर्णस्योत्तरे ऽपतत् ॥ (१।२)
durgāśṛṅgamiti khyātaṃ gokarṇasyottare 'patat ||
वर्तन्ते पञ्च तीर्थानि नागशृङ्गे महान्ति च ॥ (२।२)
vartante pañca tīrthāni nāgaśṛṅge mahānti ca ||
रुद्रकुण्डं नागतीर्थं वसोर्धारम् अतः परम् । (३।१)
rudrakuṇḍaṃ nāgatīrthaṃ vasordhāram ataḥ param |
शङ्खतीर्थं सिद्धकुण्डमिति तीर्थानि पञ्च वै ॥ (३।२)
śaṅkhatīrthaṃ siddhakuṇḍamiti tīrthāni pañca vai ||
तीर्थेषु तेषु यः स्नाति सो ऽनन्तफलम् अश्नुते । (४।१)
tīrtheṣu teṣu yaḥ snāti so 'nantaphalam aśnute |
शतानां चैव तीर्थानां तानि मुख्यानि कौरव । (५।१)
śatānāṃ caiva tīrthānāṃ tāni mukhyāni kaurava |
गङ्गाधारं वसोर्धारं माहिषं नागतीर्थकम् ॥ (५।२)
gaṅgādhāraṃ vasordhāraṃ māhiṣaṃ nāgatīrthakam ||
मुख्यानि तानि राजेन्द्र सहस्राणां महान्ति च । (७।१)
mukhyāni tāni rājendra sahasrāṇāṃ mahānti ca |
नवम्यां तेषु यः स्नाति स पापैर् मुच्यते ध्रुवम् ॥ (७।२)
navamyāṃ teṣu yaḥ snāti sa pāpair mucyate dhruvam ||
रुद्रयोन्याः पूर्वभागे किंचिद् ईशान्यतः स्थितम् ॥ (८।३)
rudrayonyāḥ pūrvabhāge kiṃcid īśānyataḥ sthitam ||
यां चोपयेमे भगवान् रुद्रो गौरीवपुर्धराम् ॥ (९।२)
yāṃ copayeme bhagavān rudro gaurīvapurdharām ||
ताम्राचले ऽपतत् कस्माद् गौरीरूपं दधर सा । (१०।२)
tāmrācale 'patat kasmād gaurīrūpaṃ dadhara sā |
रुद्रः कथं तां चकमे एतन् नो वक्तुम् अर्हसि ॥ (१०।३)
rudraḥ kathaṃ tāṃ cakame etan no vaktum arhasi ||
पुरा जगत्पतिर् ब्रह्मा ध्यानस्थो ऽभून् नृपोत्तम । (११।२)
purā jagatpatir brahmā dhyānastho 'bhūn nṛpottama |
बद्धपद्मासनो देवः संयतात्मा जितेन्द्रियः ॥ (११।३)
baddhapadmāsano devaḥ saṃyatātmā jitendriyaḥ ||
अथैवं ध्यायतस् तस्य तूत्ताने दक्षिणे करे । (१२।१)
athaivaṃ dhyāyatas tasya tūttāne dakṣiṇe kare |
प्रादुर् बभूव चार्वङ्गी कन्यका वरवर्णिनी ॥ (१२।२)
prādur babhūva cārvaṅgī kanyakā varavarṇinī ||
तां दृष्ट्वा भगवान् ब्रह्मा प्रीतिमान् अभवत् तदा । (१३।१)
tāṃ dṛṣṭvā bhagavān brahmā prītimān abhavat tadā |
आह स्म रुद्रकान्ता त्वं भविष्यसि वरानने ॥ (१३।२)
āha sma rudrakāntā tvaṃ bhaviṣyasi varānane ||
इत्य् उक्ते ब्रह्मणा सा च चकमे रुद्रम् एव तु । (१४।१)
ity ukte brahmaṇā sā ca cakame rudram eva tu |
गोकर्णं तस्य च क्षेत्रं ज्ञात्वा ताम्रगिरौ तदा ॥ (१४।२)
gokarṇaṃ tasya ca kṣetraṃ jñātvā tāmragirau tadā ||
अंशेनान्येन परमं दिव्यं रूपं समास्थिता ॥ (१५।२)
aṃśenānyena paramaṃ divyaṃ rūpaṃ samāsthitā ||
ध्यायन्त्य् एकाकिनी रुद्रं गिरौ तत्र चचार ह । (१६।१)
dhyāyanty ekākinī rudraṃ girau tatra cacāra ha |
ततस् तत्रागतो रुद्रो वृषारूढस् त्रिलोचनः ॥ (१६।२)
tatas tatrāgato rudro vṛṣārūḍhas trilocanaḥ ||
दृष्ट्वैव तं शिवं देवी भक्त्या प्रेमभरेण च । (१७।१)
dṛṣṭvaiva taṃ śivaṃ devī bhaktyā premabhareṇa ca |
ववन्दे लज्जया चैवाधोमुखी मौनम् आस्थिता ॥ (१७।२)
vavande lajjayā caivādhomukhī maunam āsthitā ||
ज्ञात्वा सर्वं महादेवः सस्मार च पितामहम् । (१८।१)
jñātvā sarvaṃ mahādevaḥ sasmāra ca pitāmaham |
गौरीं दृष्ट्वाथ हर्षेण ब्रह्मा प्रोवाच शङ्करम् । (१९।१)
gaurīṃ dṛṣṭvātha harṣeṇa brahmā provāca śaṅkaram |
तस्मात् पाणिं गृहाणास्याः सर्वलोकैकमङ्गलम् ॥ (२०।२)
tasmāt pāṇiṃ gṛhāṇāsyāḥ sarvalokaikamaṅgalam ||
इत्य् उक्त्वा विधिवत् तत्र ददौ गङ्गां पिनाकिने । (२१।१)
ity uktvā vidhivat tatra dadau gaṅgāṃ pinākine |
आश्विने कृष्णपक्षे तु चतुर्दश्यां नृपोत्तम ॥ (२१।२)
āśvine kṛṣṇapakṣe tu caturdaśyāṃ nṛpottama ||
ददौ मुहूर्ते कल्याणे स्वात्यृक्षे चन्द्रवासरे । (२२।१)
dadau muhūrte kalyāṇe svātyṛkṣe candravāsare |
तदा प्रभृति राजन् स गिरिर् वैवाहिको ऽभवत् । (२३।१)
tadā prabhṛti rājan sa girir vaivāhiko 'bhavat |
विवाहस् त्रिजगत्पित्रोर् यतस् तत्र गिराव् अभूत् ॥ (२३।२)
vivāhas trijagatpitror yatas tatra girāv abhūt ||
ताम्राचलस्य सम्बन्धात् ताम्रगौरीति साभवत् । (२४।१)
tāmrācalasya sambandhāt tāmragaurīti sābhavat |
एवं सा ताम्रगौरी तु द्विधा लक्ष्या नृपोत्तम ॥ (२४।२)
evaṃ sā tāmragaurī tu dvidhā lakṣyā nṛpottama ||
महाबलस्य निकटे देवी प्राङ्मुखतः स्थिता ॥ (२५।२)
mahābalasya nikaṭe devī prāṅmukhataḥ sthitā ||
दिव्यरूपधरां देवीं ये ऽर्चयन्तीह भक्तितः । (२६।१)
divyarūpadharāṃ devīṃ ye 'rcayantīha bhaktitaḥ |
तेषाम् अभीप्सितं देवी ददात्य् एव न संशयः ॥ (२६।२)
teṣām abhīpsitaṃ devī dadāty eva na saṃśayaḥ ||
वहन्ती दक्षिणाम् आशां क्रोशार्धं सा सुपावनी । (२८।१)
vahantī dakṣiṇām āśāṃ krośārdhaṃ sā supāvanī |
आवृत्य चोत्तरे किंचिद् रुद्रयोनिं गता ततः ॥ (२८।२)
āvṛtya cottare kiṃcid rudrayoniṃ gatā tataḥ ||
तानि सर्वाणि तीर्थानि ताम्रगौर्यां न संशयः । (३०।१)
tāni sarvāṇi tīrthāni tāmragauryāṃ na saṃśayaḥ |
तस्मात् तीर्थवरा सा तु नदीनाम् उत्तमोत्तमा ॥ (३०।२)
tasmāt tīrthavarā sā tu nadīnām uttamottamā ||
पिण्डं तिलोदकं चैव स्नानं तत्र करोति यः । (३१।१)
piṇḍaṃ tilodakaṃ caiva snānaṃ tatra karoti yaḥ |
पितरस् तस्य पुण्येन नरकस्था अपि ध्रुवम् ॥ (३१।२)
pitaras tasya puṇyena narakasthā api dhruvam ||
तृप्ताः स्वर्गं गमिष्यन्ति पूर्णिमायां विशेषतः । (३२।१)
tṛptāḥ svargaṃ gamiṣyanti pūrṇimāyāṃ viśeṣataḥ |
सर्वपापविनिर्मुक्तास् तेऽपि यान्त्य् उत्तमां गतिम् । (३३।१)
sarvapāpavinirmuktās te'pi yānty uttamāṃ gatim |
अत्रैकां कथयिष्यामि कथाम् आश्चर्यकारकाम् ॥ (३३।२)
atraikāṃ kathayiṣyāmi kathām āścaryakārakām ||
देर् अड़्ड़े उन्द् ताम्रगङ्गाकदाचित् ताम्रगङ्गायास् तटे कश्चित् कपीश्वरः । (३४।१)
Der Affe und Tāmragaṅgākadācit tāmragaṅgāyās taṭe kaścit kapīśvaraḥ |
उत्प्लवन् फललोभेन प्रमादाद् अपतद् द्रुमात् ॥ (३४।२)
utplavan phalalobhena pramādād apatad drumāt ||
क्षणेन लब्धसंज्ञस् तु स्वयम् आश्वस्य कृच्छ्रतः ॥ (३५।२)
kṣaṇena labdhasaṃjñas tu svayam āśvasya kṛcchrataḥ ||
ताम्रगङ्गातलभवं शनैर् आरुह्य स द्रुमम् । (३६।१)
tāmragaṅgātalabhavaṃ śanair āruhya sa drumam |
शाखान्तरे निविष्टस् तु वेदनाम् असहन् मृतः ॥ (३६।२)
śākhāntare niviṣṭas tu vedanām asahan mṛtaḥ ||
ततः कतिपयाहःसु विक्लिन्नात् तु कलेवरात् । (३७।१)
tataḥ katipayāhaḥsu viklinnāt tu kalevarāt |
शिरोभागो ऽपतत् तस्य ताम्रगङ्गाजले ऽमले ॥ (३७।२)
śirobhāgo 'patat tasya tāmragaṅgājale 'male ||
संबभूव महिष्यां तु चित्ररूपाख्यभूपतेः ॥ (३८।२)
saṃbabhūva mahiṣyāṃ tu citrarūpākhyabhūpateḥ ||
शेषं सर्वाङ्गम् अपि तु वानराकारम् अद्भुतम् ॥ (३९।२)
śeṣaṃ sarvāṅgam api tu vānarākāram adbhutam ||
विचित्रम् इदम् आलोक्य राजा चिन्ताकुलो ऽभवत् । (४०।१)
vicitram idam ālokya rājā cintākulo 'bhavat |
दिनेषु गच्छत्सु ततः कुमारः स व्यवर्धत ॥ (४०।२)
dineṣu gacchatsu tataḥ kumāraḥ sa vyavardhata ||
कारणं चात्र राजर्षिश् चिन्तयामास दुःखितः । (४१।१)
kāraṇaṃ cātra rājarṣiś cintayāmāsa duḥkhitaḥ |
न मया वञ्चितः कश्चिद् विधात्राहं तु वञ्चितः ॥ (४१।२)
na mayā vañcitaḥ kaścid vidhātrāhaṃ tu vañcitaḥ ||
अत्रापृच्छद् ब्राह्मणांस् तु न शेकुस् ते समीरितुम् ॥ (४२।२)
atrāpṛcchad brāhmaṇāṃs tu na śekus te samīritum ||
एतस्मिन्न् अन्तरे तत्र कश्चित् सिद्धवरो ऽभ्यगात् । (४३।१)
etasminn antare tatra kaścit siddhavaro 'bhyagāt |
तम् अर्चयित्वा राजा तु पुत्रवृत्तं व्यजिज्ञपत् ॥ (४३।२)
tam arcayitvā rājā tu putravṛttaṃ vyajijñapat ||
ज्ञात्वाथ कारणं सिद्धः सो ऽब्रवीज् ज्ञानचक्षुषा । (४४।१)
jñātvātha kāraṇaṃ siddhaḥ so 'bravīj jñānacakṣuṣā |
एष ते तनयः पूर्वजन्मन्य् आसीत् तु वानरः ॥ (४४।३)
eṣa te tanayaḥ pūrvajanmany āsīt tu vānaraḥ ||
कदाचित् प्लवमानस् तु प्राप्तो गोकर्णम् उत्तमम् । (४५।१)
kadācit plavamānas tu prāpto gokarṇam uttamam |
तत्रास्ति ताम्रगौरीति नदी पुण्या सुविश्रुता ॥ (४५।२)
tatrāsti tāmragaurīti nadī puṇyā suviśrutā ||
लभन्ते यज्जलस्पर्शात् तिर्यञ्चो ऽप्य् उत्तमां गतिम् । (४६।१)
labhante yajjalasparśāt tiryañco 'py uttamāṃ gatim |
तत्र तीरद्रुमे दैवाद् उत्प्लवन् प्लवगोत्तमः ॥ (४६।२)
tatra tīradrume daivād utplavan plavagottamaḥ ||
मृतस् तद्वृक्षशाखायां लग्नं तस्य कलेवरम् । (४७।१)
mṛtas tadvṛkṣaśākhāyāṃ lagnaṃ tasya kalevaram |
शिरः कालेन विक्लिन्नं ताम्रगङ्गाजले ऽपतत् ॥ (४७।२)
śiraḥ kālena viklinnaṃ tāmragaṅgājale 'patat ||
तत्पुण्यजलसंस्पर्शान् मुखम् अस्य नराकृति । (४८।१)
tatpuṇyajalasaṃsparśān mukham asya narākṛti |
शेषाङ्गं वानराकारं यथापूर्वम् अभून् नृप ॥ (४८।२)
śeṣāṅgaṃ vānarākāraṃ yathāpūrvam abhūn nṛpa ||
पुत्रः सन्न् अद्य ते जातो महिष्यां भाग्यशालिनः ॥ (४९।२)
putraḥ sann adya te jāto mahiṣyāṃ bhāgyaśālinaḥ ||
राजन्न् अद्यापि तच् छेषम् अङ्गं तद् वृक्षगं कपेः । (५०।१)
rājann adyāpi tac cheṣam aṅgaṃ tad vṛkṣagaṃ kapeḥ |
पातयेत् ताम्रनद्यां तु नृदेहः स्याद् अयं तदा ॥ (५०।२)
pātayet tāmranadyāṃ tu nṛdehaḥ syād ayaṃ tadā ||
इति सिद्धवचः श्रुत्वा राजा संप्रेष्य किङ्करान् । (५१।१)
iti siddhavacaḥ śrutvā rājā saṃpreṣya kiṅkarān |
तथैव वृक्षसंस्थं तत् कपेर् अङ्गम् अपातयत् ॥ (५१।२)
tathaiva vṛkṣasaṃsthaṃ tat kaper aṅgam apātayat ||
सद्यः स राजपुत्रोऽभूद् दिव्यमानवदेहवान् । (५२।१)
sadyaḥ sa rājaputro'bhūd divyamānavadehavān |
ततः सर्वे ऽपि जहृषुः सिद्धश् चागाद् यथागतम् । (५३।१)
tataḥ sarve 'pi jahṛṣuḥ siddhaś cāgād yathāgatam |
एवं तस्यास् ताम्रगौर्या माहात्म्यं परमाद्भुतम् ॥ (५३।२)
evaṃ tasyās tāmragauryā māhātmyaṃ paramādbhutam ||
शृण्वतां पठतां चापि पापघ्नं च समृद्धिदम् । (५४।१)
śṛṇvatāṃ paṭhatāṃ cāpi pāpaghnaṃ ca samṛddhidam |
अस्थिनिक्षेपणं चात्र पितॄणां स्वर्गकारणम् ॥ (५४।२)
asthinikṣepaṇaṃ cātra pitṝṇāṃ svargakāraṇam ||
यावद् अस्थिकणं तिष्ठेत् ताम्रगौर्याः शुभे जले । (५५।१)
yāvad asthikaṇaṃ tiṣṭhet tāmragauryāḥ śubhe jale |
तावत् ते स्वर्महीयन्ते दिव्यभोगोपभोगिनः ॥ (५५।२)
tāvat te svarmahīyante divyabhogopabhoginaḥ ||
एर्ल्सुन्ग् देर् अह्नेन् इन् ताम्रगङ्गाअत्रार्थे कथयिष्ये ऽहम् इतिहासं पुरातनम् । (५६।१)
Erlsung der Ahnen in Tāmragaṅgāatrārthe kathayiṣye 'ham itihāsaṃ purātanam |
उन्मूचिर् नाम राजासीत् पुरा प्राचेतसान्तरे ॥ (५६।२)
unmūcir nāma rājāsīt purā prācetasāntare ||
स सर्वं राज्यम् अकरोत् प्रजानां द्रोहकृत्खलः । (५७।१)
sa sarvaṃ rājyam akarot prajānāṃ drohakṛtkhalaḥ |
तेन पापेन महता प्रजा ह्य् आसन्न् उपद्रुताः ॥ (५७।२)
tena pāpena mahatā prajā hy āsann upadrutāḥ ||
चमसो नाम तत्पुत्रो धर्मात्मा शंसितव्रतः । (५८।१)
camaso nāma tatputro dharmātmā śaṃsitavrataḥ |
पितर्य् उपरते सो ऽपि किंचिच् छोकसमाकुलः ॥ (५८।२)
pitary uparate so 'pi kiṃcic chokasamākulaḥ ||
संस्कारं तु पितुः कर्तुं वनं प्रायाच् च सर्त्विजः । (५९।१)
saṃskāraṃ tu pituḥ kartuṃ vanaṃ prāyāc ca sartvijaḥ |
तत्रान्तरिक्षे शुश्राव पितॄणां भारतीं नृप ॥ (५९।२)
tatrāntarikṣe śuśrāva pitṝṇāṃ bhāratīṃ nṛpa ||
प्राप्ताः स्मो नरकं सर्वे महारौरवसंज्ञकम् ॥ (६०।२)
prāptāḥ smo narakaṃ sarve mahārauravasaṃjñakam ||
तस्माद् अस्मान् उद्दिधीर्षुः पैतृकं चास्थिसञ्चयम् । (६१।१)
tasmād asmān uddidhīrṣuḥ paitṛkaṃ cāsthisañcayam |
तत्र गत्वा तु संस्कारं पितुः कुरु विधानतः ॥ (६२।२)
tatra gatvā tu saṃskāraṃ pituḥ kuru vidhānataḥ ||
अस्थिनिक्षेपणं तत्र ताम्रगौर्यां कुरुष्व भोः । (६३।१)
asthinikṣepaṇaṃ tatra tāmragauryāṃ kuruṣva bhoḥ |
तूर्णं प्रविश्य गोकर्णं ताम्रगौर्यां नृपोत्तमः । (६४।१)
tūrṇaṃ praviśya gokarṇaṃ tāmragauryāṃ nṛpottamaḥ |
अस्थिनिक्षेपणं चक्रे पितॄणां स्वर्गकाम्यया ॥ (६४।२)
asthinikṣepaṇaṃ cakre pitṝṇāṃ svargakāmyayā ||
पितृभिः सहितः सर्वैः स्वर्गं यातः कुरूत्तम ॥ (६५।२)
pitṛbhiḥ sahitaḥ sarvaiḥ svargaṃ yātaḥ kurūttama ||
यावद् अस्थीनि जन्तूनां ताम्रगौर्यां वसन्ति हि । (६६।१)
yāvad asthīni jantūnāṃ tāmragauryāṃ vasanti hi |
तावत् स्वर्गे महीयन्ते दिव्यभोगैः समन्विताः ॥ (६६।२)
tāvat svarge mahīyante divyabhogaiḥ samanvitāḥ ||
इति श्रीस्कान्दे श्रीगोकर्णमाहात्म्ये चतुर्थो ऽध्यायः ॥ (६७।१)
iti śrīskānde śrīgokarṇamāhātmye caturtho 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.