गोकर्णपुराणसारःGokarṇapurāṇasāraḥ
GokPurS, 11
Select a line for its word-by-word analysis.
रुद्रपादस्य माहात्म्यं वक्ष्यामि शृणु पार्थिव । (१।२)
rudrapādasya māhātmyaṃ vakṣyāmi śṛṇu pārthiva |
मथुरायां द्विजः कश्चित् सुहोत्र इति विश्रुतः ॥ (१।३)
mathurāyāṃ dvijaḥ kaścit suhotra iti viśrutaḥ ||
ब्रह्मक्षत्रविशः शूद्रान् याजयन् परवञ्चकः । (२।१)
brahmakṣatraviśaḥ śūdrān yājayan paravañcakaḥ |
चन्द्रसूर्यग्रहे चैव श्राद्धे दानग्रही सदा । (३।१)
candrasūryagrahe caiva śrāddhe dānagrahī sadā |
न व्ययं कृतवान् सो ऽपि देशाद् देशं व्रजन्न् अपि । (४।१)
na vyayaṃ kṛtavān so 'pi deśād deśaṃ vrajann api |
दृष्टवान् उच्छ्रितं तत्र निष्पत्रं शाल्मलीतरुम् । (५।१)
dṛṣṭavān ucchritaṃ tatra niṣpatraṃ śālmalītarum |
तच्छाखालम्बमानांश् च ऊर्ध्वपादान् अतिकृशान् ॥ (५।२)
tacchākhālambamānāṃś ca ūrdhvapādān atikṛśān ||
भयानकान् ऊर्ध्वरोम्णः शुष्ककण्ठोष्ठतालुकान् । (६।१)
bhayānakān ūrdhvaromṇaḥ śuṣkakaṇṭhoṣṭhatālukān |
क्रन्दमानान् स दृष्ट्वा तु वेगेन महता ययौ ॥ (६।२)
krandamānān sa dṛṣṭvā tu vegena mahatā yayau ||
धावमानं समालोक्य ज्ञात्वा तं च स्ववंशजम् । (७।१)
dhāvamānaṃ samālokya jñātvā taṃ ca svavaṃśajam |
आहूय तं पिशाचास् ते प्रोचुः प्रीतियुतं वचः ॥ (७।२)
āhūya taṃ piśācās te procuḥ prītiyutaṃ vacaḥ ||
सुहोत्रागच्छ भद्रं ते मा भैषीः पुत्र साम्प्रतम् । (८।२)
suhotrāgaccha bhadraṃ te mā bhaiṣīḥ putra sāmpratam |
पालयास्मान् पितॄंस् ते ऽद्य प्राक्तनेन तु कर्मणा ॥ (८।३)
pālayāsmān pitṝṃs te 'dya prāktanena tu karmaṇā ||
पतमानांस् तु नरके त्वम् उद्धर्तुम् इहार्हसि ॥ (९।२)
patamānāṃs tu narake tvam uddhartum ihārhasi ||
स्वपितॄणां वचः श्रुत्वा सुहोत्रो ऽतीव विह्वलः । (१०।१)
svapitṝṇāṃ vacaḥ śrutvā suhotro 'tīva vihvalaḥ |
साष्टाङ्गं प्रणिपत्याह ह्य् आत्मानं निन्दयन् बहु ॥ (१०।२)
sāṣṭāṅgaṃ praṇipatyāha hy ātmānaṃ nindayan bahu ||
अपराधः कृतो यो वै स क्षन्तव्यो हि साम्प्रतम् । (११।१)
aparādhaḥ kṛto yo vai sa kṣantavyo hi sāmpratam |
केन पुण्येन भवतां स्वर्गलोको भवेत् ध्रुवम् ॥ (११।२)
kena puṇyena bhavatāṃ svargaloko bhavet dhruvam ||
शृणु राजन् महत्पुण्यं गोकर्णं गच्छ साम्प्रतम् । (१२।२)
śṛṇu rājan mahatpuṇyaṃ gokarṇaṃ gaccha sāmpratam |
पुरा मित्रसहो राजा रक्षो ऽभूद् गुरुशापतः । (१३।१)
purā mitrasaho rājā rakṣo 'bhūd guruśāpataḥ |
ततः स भक्षयामास वसिष्ठस्यात्मजाञ्छतान् ॥ (१३।२)
tataḥ sa bhakṣayāmāsa vasiṣṭhasyātmajāñchatān ||
दुर्मुखत्वं तदा प्राप्ता वसिष्ठस्य सुतास् ततः । (१४।१)
durmukhatvaṃ tadā prāptā vasiṣṭhasya sutās tataḥ |
वसिष्ठेन समाज्ञप्तः शक्तिपुत्रः पराशरः ॥ (१४।२)
vasiṣṭhena samājñaptaḥ śaktiputraḥ parāśaraḥ ||
गोकर्णं क्षेत्रम् आसाद्य गत्वा रुद्रपदं शुभम् । (१५।१)
gokarṇaṃ kṣetram āsādya gatvā rudrapadaṃ śubham |
चक्रे श्राद्धं विधानेन पिण्डं दत्त्वा तिलोदकम् ॥ (१५।२)
cakre śrāddhaṃ vidhānena piṇḍaṃ dattvā tilodakam ||
ततः शक्त्यादयः सर्वे ब्रह्मलोकं ययुः सुत । (१६।१)
tataḥ śaktyādayaḥ sarve brahmalokaṃ yayuḥ suta |
तस्मात् पुत्र त्वम् अपि वै गत्वा रुद्रपदं शुभम् ॥ (१६।२)
tasmāt putra tvam api vai gatvā rudrapadaṃ śubham ||
तत्पादं सम्यग् अभ्यर्च्य श्राद्धं कुरु विधानतः । (१७।१)
tatpādaṃ samyag abhyarcya śrāddhaṃ kuru vidhānataḥ |
दानं वित्तानुसारेण यावच् छम्भुः प्रसीदति ॥ (१७।२)
dānaṃ vittānusāreṇa yāvac chambhuḥ prasīdati ||
इति श्रुत्वा पितृवचो रुद्रपादं ततो ऽगमत् । (१८।१)
iti śrutvā pitṛvaco rudrapādaṃ tato 'gamat |
नित्यं समुद्रे स्नात्वा तु श्राद्धं कुर्वन् समाहितः ॥ (१८।२)
nityaṃ samudre snātvā tu śrāddhaṃ kurvan samāhitaḥ ||
तपश् चचार सुचिरं कुर्वन् दानानि पार्थिव । (१९।१)
tapaś cacāra suciraṃ kurvan dānāni pārthiva |
स्वयं भुञ्जन् हविष्यान्नं पितॄणां मुक्तये नृप ॥ (१९।२)
svayaṃ bhuñjan haviṣyānnaṃ pitṝṇāṃ muktaye nṛpa ||
ततो बहुतिथे काले शिवः प्रत्यक्षतां गतः । (२०।१)
tato bahutithe kāle śivaḥ pratyakṣatāṃ gataḥ |
तुष्टो ऽस्मि नितरां ब्रह्मन् वरं वरय काङ्क्षितम् ॥ (२०।३)
tuṣṭo 'smi nitarāṃ brahman varaṃ varaya kāṅkṣitam ||
यदि तुष्टः असि देवेश पितॄणां मुक्तिदो भव । (२१।२)
yadi tuṣṭaḥ asi deveśa pitṝṇāṃ muktido bhava |
पितॄणां तव विप्रेन्द्र स्वर्गलोको भवेत् ध्रुवम् ॥ (२१।४)
pitṝṇāṃ tava viprendra svargaloko bhavet dhruvam ||
श्राद्धं कुर्वन् रुद्रपादे उद्धरेत् स्वपितॄन्त् स्वयम् ॥ (२२।२)
śrāddhaṃ kurvan rudrapāde uddharet svapitṝnt svayam ||
इत्य् उक्त्वा ब्राह्मणं राजंस् तत्रैवान्तर्दधे हरः ॥ (२३।२)
ity uktvā brāhmaṇaṃ rājaṃs tatraivāntardadhe haraḥ ||
ततस् तत्पितरो जग्मुर् ब्रह्मलोकं मुदान्विताः । (२४।१)
tatas tatpitaro jagmur brahmalokaṃ mudānvitāḥ |
सुहोत्रो ऽपि द्विजश्रेष्ठो देहान्ते स्वर्गतिं ययौ ॥ (२४।२)
suhotro 'pi dvijaśreṣṭho dehānte svargatiṃ yayau ||
धर्मेण निर्जितो ऽधर्मो धर्मं जेष्य इति ध्रुवं । (२५।२)
dharmeṇa nirjito 'dharmo dharmaṃ jeṣya iti dhruvaṃ |
गोकर्णं क्षेत्रम् आसाद्य तपस् तप्त्वा समाहितः ॥ (२५।३)
gokarṇaṃ kṣetram āsādya tapas taptvā samāhitaḥ ||
प्रसन्नीकृत्य देवेशं वरं लब्ध्वा महेश्वरात् । (२६।१)
prasannīkṛtya deveśaṃ varaṃ labdhvā maheśvarāt |
कलौ युगे ह्य् अधर्मस् तु धर्मं जिग्ये नृपोत्तम ॥ (२६।२)
kalau yuge hy adharmas tu dharmaṃ jigye nṛpottama ||
कार्तिक्यां सोमवारे तु तीर्थे स्नात्वा समाहितः । (२७।१)
kārtikyāṃ somavāre tu tīrthe snātvā samāhitaḥ |
अधर्मं नाप्नुयात् को ऽपि अग्निष्टोमफलं लभेत् ॥ (२७।२)
adharmaṃ nāpnuyāt ko 'pi agniṣṭomaphalaṃ labhet ||
असूया मत्सरी चण्डी क्रोधा द्वेषाक्षमा तथा । (२८।२)
asūyā matsarī caṇḍī krodhā dveṣākṣamā tathā |
ईर्ष्यालक्ष्मीश् च घोरा च मोहना च नृपोत्तम ॥ (२८।३)
īrṣyālakṣmīś ca ghorā ca mohanā ca nṛpottama ||
निर्जिता धर्मपुत्रैस् तु सत्याद्यैर् दुःखिता भृशम् । (२९।१)
nirjitā dharmaputrais tu satyādyair duḥkhitā bhṛśam |
गोकर्णं क्षेत्रम् आसाद्य तपस् तप्त्वा यथाविधि ॥ (२९।२)
gokarṇaṃ kṣetram āsādya tapas taptvā yathāvidhi ||
प्रसन्नीकृत्य विश्वेशं सम्प्राप्ते ह्य् अन्तिमे युगे । (३०।१)
prasannīkṛtya viśveśaṃ samprāpte hy antime yuge |
धर्मस्य तनयान् हत्वा स्वयं च बलिनो ऽभवन् ॥ (३०।२)
dharmasya tanayān hatvā svayaṃ ca balino 'bhavan ||
तीर्थेषु तेषु स्नातानां तत्तज्जातं भयं न हि । (३१।१)
tīrtheṣu teṣu snātānāṃ tattajjātaṃ bhayaṃ na hi |
क्षमा सत्यं दमः कीर्तिर् अहिंसानन्द एव च ॥ (३१।३)
kṣamā satyaṃ damaḥ kīrtir ahiṃsānanda eva ca ||
बुद्धिर् मानस् तथा राजन् लक्ष्मीर् लज्जा श्रुतिः स्मृतिः । (३२।१)
buddhir mānas tathā rājan lakṣmīr lajjā śrutiḥ smṛtiḥ |
तथा मेधाधर्मसुतैर् असूयाद्यैः पराजिताः ॥ (३२।२)
tathā medhādharmasutair asūyādyaiḥ parājitāḥ ||
ब्रह्मणो वचनाद् राजन् गोकर्णं क्षेत्रम् आगमन् । (३३।१)
brahmaṇo vacanād rājan gokarṇaṃ kṣetram āgaman |
शालूकिन्यास् तटे रम्ये तपस् तप्त्वा चिरं नृप ॥ (३३।२)
śālūkinyās taṭe ramye tapas taptvā ciraṃ nṛpa ||
तीर्थेषु तेषु स्नातानां गुणास् तेषां भवेत् ध्रुवम् । (३५।१)
tīrtheṣu teṣu snātānāṃ guṇās teṣāṃ bhavet dhruvam |
विन्ध्येन निर्जितो मेरु पुत्राभ्यां सह दुःखितः ॥ (३५।३)
vindhyena nirjito meru putrābhyāṃ saha duḥkhitaḥ ||
गोकर्णं क्षेत्रम् आसाद्य तपः कृत्वातिदारुणम् । (३६।१)
gokarṇaṃ kṣetram āsādya tapaḥ kṛtvātidāruṇam |
प्रत्यक्षीकृत्य देवेशं वरं प्राप्य मनोगतम् ॥ (३६।२)
pratyakṣīkṛtya deveśaṃ varaṃ prāpya manogatam ||
मेरुं विजित्य स्वस्थो ऽभूत् पुत्राभ्यां सह पार्थिव । (३७।१)
meruṃ vijitya svastho 'bhūt putrābhyāṃ saha pārthiva |
रम्यो रमणकश् चैवं मेरुपुत्रौ नृपोत्तम ॥ (३७।२)
ramyo ramaṇakaś caivaṃ meruputrau nṛpottama ||
कृतत्रेतौ द्वापरश् च कलिश् चेति चतुर्युगाः । (३८।२)
kṛtatretau dvāparaś ca kaliś ceti caturyugāḥ |
गोकर्णं क्षेत्रम् आसाद्य सिद्धिं प्राप्ता महेश्वरात् ॥ (३८।३)
gokarṇaṃ kṣetram āsādya siddhiṃ prāptā maheśvarāt ||
तीर्थेषु तेषु स्नातानां स्वर्गलोको भवेद् ध्रुवम् । (३९।१)
tīrtheṣu teṣu snātānāṃ svargaloko bhaved dhruvam |
दिशा, गालव, कहोल, कनक, कप, रोमशसूत उवाच । (३९।२)
Diśā, Gālava, Kahola, Kanaka, Kapa, Romaśasūta uvāca |
दिशश् चापि तपस् तप्त्वा सिद्धास् तत्र कुरूद्वह ॥ (३९।३)
diśaś cāpi tapas taptvā siddhās tatra kurūdvaha ||
गालवश् च कहोलश् च तपस् तप्त्वातिदारुणम् । (४०।१)
gālavaś ca kaholaś ca tapas taptvātidāruṇam |
भक्त्या शिवं समाराध्य सिद्धिं प्राप्तौ द्विजोत्तमौ ॥ (४०।२)
bhaktyā śivaṃ samārādhya siddhiṃ prāptau dvijottamau ||
कनकाख्यो राजपुत्रस् तत्र सम्पूज्य शङ्करम् । (४१।१)
kanakākhyo rājaputras tatra sampūjya śaṅkaram |
पित्रा त्यक्तं स्वकं राज्यं प्राप्तः शम्भोर् अनुग्रहात् ॥ (४१।२)
pitrā tyaktaṃ svakaṃ rājyaṃ prāptaḥ śambhor anugrahāt ||
कपश् च रोमशश् चैव परां सिद्धिम् उपागतौ । (४२।१)
kapaś ca romaśaś caiva parāṃ siddhim upāgatau |
शृणु राजन् प्रवक्ष्यामि शालूकिन्याः कथां शुभाम् ॥ (४२।३)
śṛṇu rājan pravakṣyāmi śālūkinyāḥ kathāṃ śubhām ||
मार्गे तु जह्नुना पीता सेवयित्वा तु तं मुनिम् ॥ (४३।२)
mārge tu jahnunā pītā sevayitvā tu taṃ munim ||
तस्माद् आनीय गङ्गां तु पाताले भस्मशेषितान् । (४४।१)
tasmād ānīya gaṅgāṃ tu pātāle bhasmaśeṣitān |
मुनिः सत्यतपा नाम जह्नोर् आश्रमम् आगमत् । (४५।१)
muniḥ satyatapā nāma jahnor āśramam āgamat |
पूजयामास तं जह्नुः पृष्टः क्षेमादिकं नृप ॥ (४५।२)
pūjayāmāsa taṃ jahnuḥ pṛṣṭaḥ kṣemādikaṃ nṛpa ||
पुष्पभद्रानदीतीरे स्थितः अहं जाह्नवीं गतः । (४६।२)
puṣpabhadrānadītīre sthitaḥ ahaṃ jāhnavīṃ gataḥ |
तत्र स्नात्वा त्व् इहायातः शृणुष्वेदं वचो मम ॥ (४६।३)
tatra snātvā tv ihāyātaḥ śṛṇuṣvedaṃ vaco mama ||
त्वया पीता हि गङ्गेति लोकवादो ऽभवन् मुने । (४७।१)
tvayā pītā hi gaṅgeti lokavādo 'bhavan mune |
कश्यपाद्यैर् मुनिवरैर् गदितं तत्र वै श्रुतम् ॥ (४७।२)
kaśyapādyair munivarair gaditaṃ tatra vai śrutam ||
तद्वाददोषशान्त्यर्थं गच्छ गोकर्णम् अद्य वै । (४८।१)
tadvādadoṣaśāntyarthaṃ gaccha gokarṇam adya vai |
तत्र शालूकिनी नाम नदी ह्य् आस्ते मलापहा ॥ (४८।२)
tatra śālūkinī nāma nadī hy āste malāpahā ||
तटे तत्रास्थाप्य गङ्गामूर्तिं पूजय नित्यशः । (४९।१)
taṭe tatrāsthāpya gaṅgāmūrtiṃ pūjaya nityaśaḥ |
गेस्छिछ्ते वोन् रोमपाद उन्द् पृथुग्रीवतत्र स्नात्वा पुरा जह्नो ब्राह्मणौ कूटसाक्षिणौ । (५०।१)
Geschichte von Romapāda und Pṛthugrīvatatra snātvā purā jahno brāhmaṇau kūṭasākṣiṇau |
किं कारणं कूटसाक्ष्यम् ऊचतुस् तौ महामुने । (५१।२)
kiṃ kāraṇaṃ kūṭasākṣyam ūcatus tau mahāmune |
शालूकिन्यां कथं स्नातौ विमुक्तौ कुत्र संस्थितौ ॥ (५१।३)
śālūkinyāṃ kathaṃ snātau vimuktau kutra saṃsthitau ||
शालूकिन्यास् तथोत्पत्तिं नामधेयं च शंस मे । (५२।१)
śālūkinyās tathotpattiṃ nāmadheyaṃ ca śaṃsa me |
रोमपादपृथुग्रीवौ मत्समीपे स्थिताव् उभौ ॥ (५२।३)
romapādapṛthugrīvau matsamīpe sthitāv ubhau ||
वेदाभ्यासां प्रकुर्वन्तौ ब्रह्मचर्यपरायणौ । (५३।१)
vedābhyāsāṃ prakurvantau brahmacaryaparāyaṇau |
कदाचिद् भृगुवंश्यश् च कण्डुर् नामागतश् च माम् ॥ (५३।२)
kadācid bhṛguvaṃśyaś ca kaṇḍur nāmāgataś ca mām ||
वेदम् अभ्यस्तवान् सो ऽपि मत्सेवातत्परो ह्य् अभूत् । (५४।१)
vedam abhyastavān so 'pi matsevātatparo hy abhūt |
एकदा मां पृथुग्रीवस् तूवाच शृणु मे वचः ॥ (५४।२)
ekadā māṃ pṛthugrīvas tūvāca śṛṇu me vacaḥ ||
कण्डुना वै सुरा पीता गुरो दृष्टं न संशयः । (५५।१)
kaṇḍunā vai surā pītā guro dṛṣṭaṃ na saṃśayaḥ |
रोमपादेन तत् सर्वम् उक्तं स तु विचार्यताम् ॥ (५५।२)
romapādena tat sarvam uktaṃ sa tu vicāryatām ||
तच् छ्रुत्वा रोमपादाख्यम् आहूय परिपृष्टवान् । (५६।१)
tac chrutvā romapādākhyam āhūya paripṛṣṭavān |
सो ऽपि तथ्यम् इति प्राह ततो ऽहं कुपितो भृशम् ॥ (५६।२)
so 'pi tathyam iti prāha tato 'haṃ kupito bhṛśam ||
कण्डो मद्भवनाच् छीघ्रं गच्छ त्वं ब्राह्मणाधम । (५७।१)
kaṇḍo madbhavanāc chīghraṃ gaccha tvaṃ brāhmaṇādhama |
इत्य् उक्ते सो ऽपि साष्टाङ्गं प्रणिपत्याब्रवीच् च माम् ॥ (५७।२)
ity ukte so 'pi sāṣṭāṅgaṃ praṇipatyābravīc ca mām ||
इत्य् उक्ते ऽपि कुलात् सो ऽपि बहिष्कार्य इतीरितः ॥ (५८।२)
ity ukte 'pi kulāt so 'pi bahiṣkārya itīritaḥ ||
निष्पापो ऽयं सत्यतपाः शिष्यस् ते भृगुनन्दन ॥ (५९।२)
niṣpāpo 'yaṃ satyatapāḥ śiṣyas te bhṛgunandana ||
पृथुग्रीवेण मात्सर्याद् रोमपादेन वै तथा । (६०।१)
pṛthugrīveṇa mātsaryād romapādena vai tathā |
तस्मात् त्वम् अपि विप्रर्षे किंचिद् दुष्कृतवान् अभूः । (६१।१)
tasmāt tvam api viprarṣe kiṃcid duṣkṛtavān abhūḥ |
एतत्पापविशुद्ध्यर्थं गच्छ गोकर्णम् अद्य वै ॥ (६१।२)
etatpāpaviśuddhyarthaṃ gaccha gokarṇam adya vai ||
रोमपादस्य कण्डोश् च पृथुग्रीवस्य वै तथा । (६३।१)
romapādasya kaṇḍoś ca pṛthugrīvasya vai tathā |
इत्य् उक्त्वा मां नभोवाणी विरराम द्विजोत्तम ॥ (६३।२)
ity uktvā māṃ nabhovāṇī virarāma dvijottama ||
स्तुतो ऽथ बहुभिः स्तोत्रैः स्वकपर्दाज् जहौ तदा ॥ (६५।२)
stuto 'tha bahubhiḥ stotraiḥ svakapardāj jahau tadā ||
गङ्गां त्रैलोक्यजननीं नदी भूत्वा तु सागता । (६६।१)
gaṅgāṃ trailokyajananīṃ nadī bhūtvā tu sāgatā |
समुद्रं प्राविशच् छीघ्रम् अथोवाच सदाशिवः ॥ (६६।२)
samudraṃ prāviśac chīghram athovāca sadāśivaḥ ||
तेषां पुत्रा यदि स्नायुः पितॄन् उद्दिश्य भक्तितः । (६८।१)
teṣāṃ putrā yadi snāyuḥ pitṝn uddiśya bhaktitaḥ |
सर्वपापविनिर्मुक्ताः प्राप्नुयुः परमां गतिम् ॥ (६८।२)
sarvapāpavinirmuktāḥ prāpnuyuḥ paramāṃ gatim ||
तस्माच् छालूकिनीत्य् एवं वदिष्यन्ति जना भुवि । (६९।१)
tasmāc chālūkinīty evaṃ vadiṣyanti janā bhuvi |
इत्य् उक्त्वा भगवाञ्छम्भुस् तत्रैवान्तरधीयत ॥ (६९।२)
ity uktvā bhagavāñchambhus tatraivāntaradhīyata ||
ततो ऽहं शिष्यसहितः स्नात्वा नद्यां समाहितः । (७०।१)
tato 'haṃ śiṣyasahitaḥ snātvā nadyāṃ samāhitaḥ |
गोकर्णेषु च तीर्थेषु स्नात्वा पूज्य महाबलम् ॥ (७०।२)
gokarṇeṣu ca tīrtheṣu snātvā pūjya mahābalam ||
यथास्थानं गतोऽहं वै तस्मात् त्वं द्विजपुङ्गव । (७१।१)
yathāsthānaṃ gato'haṃ vai tasmāt tvaṃ dvijapuṅgava |
स्नानं कृत्वा तु गङ्गायां स्नात्वार्चय महाबलम् ॥ (७१।२)
snānaṃ kṛtvā tu gaṅgāyāṃ snātvārcaya mahābalam ||
एवम् उक्त्वा सत्यतपा जह्नुं स्वैरगतिर् ययौ । (७२।१)
evam uktvā satyatapā jahnuṃ svairagatir yayau |
ततो जह्नुस् तु गोकर्णे शाल्मलीतीरम् आगमत् ॥ (७२।२)
tato jahnus tu gokarṇe śālmalītīram āgamat ||
शाल्मल्यां स्नानम् आधाय गङ्गामूर्तिम् अपूजयत् । (७३।१)
śālmalyāṃ snānam ādhāya gaṅgāmūrtim apūjayat |
एवं पूजयतस् तस्य गङ्गा प्रत्यक्षतां गता ॥ (७३।२)
evaṃ pūjayatas tasya gaṅgā pratyakṣatāṃ gatā ||
वरं वरय भद्रं ते तुष्टास्मीत्य् आह तं नृप । (७४।१)
varaṃ varaya bhadraṃ te tuṣṭāsmīty āha taṃ nṛpa |
कृतो मयापराधस् ते गङ्गे ऽज्ञानाच् च मोहतः ॥ (७४।३)
kṛto mayāparādhas te gaṅge 'jñānāc ca mohataḥ ||
तत् पापं शमयाद्य त्वं वरम् एतं वृणोम्य् अहम् । (७५।१)
tat pāpaṃ śamayādya tvaṃ varam etaṃ vṛṇomy aham |
जह्नो नास्ति त्वयि द्रोहो मत्प्रसादान् न संशयः ॥ (७५।३)
jahno nāsti tvayi droho matprasādān na saṃśayaḥ ||
आश्वयुज्य् असिते पक्षे ह्य् अष्टम्याम् अरुणोदये । (७६।१)
āśvayujy asite pakṣe hy aṣṭamyām aruṇodaye |
नदीनदैः सर्वतीर्थैः सिद्धैः सुरगणैः सह ॥ (७६।२)
nadīnadaiḥ sarvatīrthaiḥ siddhaiḥ suragaṇaiḥ saha ||
आविर्भवाम्य् अत्र नद्यां सर्वपापहरा नृणाम् । (७७।१)
āvirbhavāmy atra nadyāṃ sarvapāpaharā nṛṇām |
तस्माद् गङ्गावली नाम्ना नदी ख्याता भविष्यति ॥ (७७।२)
tasmād gaṅgāvalī nāmnā nadī khyātā bhaviṣyati ||
तस्मिन् काले ऽत्र यः स्नात्वा मन्मूर्तिं पूजयेन् मुने । (७८।१)
tasmin kāle 'tra yaḥ snātvā manmūrtiṃ pūjayen mune |
स्तोत्रेण त्वत्कृतेनैव मम नाम सहस्रकैः ॥ (७८।२)
stotreṇa tvatkṛtenaiva mama nāma sahasrakaiḥ ||
इह दत्वा सर्वभोगांस्तस्मै दास्यामि मत्पदम् । (७९।१)
iha datvā sarvabhogāṃstasmai dāsyāmi matpadam |
एवम् उक्त्वा तदा गङ्गा तत्रैवान्तरधीयत ॥ (७९।२)
evam uktvā tadā gaṅgā tatraivāntaradhīyata ||
एवं लब्ध्वा वरं जह्नुः कोटितीर्थोदके नृप । (८०।१)
evaṃ labdhvā varaṃ jahnuḥ koṭitīrthodake nṛpa |
स्नात्वा तत्रत्यतीर्थेषु स्वाश्रमं पुनर् आययौ ॥ (८०।२)
snātvā tatratyatīrtheṣu svāśramaṃ punar āyayau ||
गोकर्णे तप आधाय भर्तृद्रोहोद्भवादिकात् ॥ (८१।३)
gokarṇe tapa ādhāya bhartṛdrohodbhavādikāt ||
पापाद् विमुक्ता व्यासोक्तया ह्य् आश्रमः स विमुक्तिदः । (८२।१)
pāpād vimuktā vyāsoktayā hy āśramaḥ sa vimuktidaḥ |
प्राप्य शक्रपदं राजा च्युतो ऽगस्त्यावमानतः । (८३।१)
prāpya śakrapadaṃ rājā cyuto 'gastyāvamānataḥ |
व्यालो भूत्वा ततो मुक्तो गोकर्णे तप आचरत् ॥ (८३।२)
vyālo bhūtvā tato mukto gokarṇe tapa ācarat ||
ततो रुद्रप्रसादेन पुनः स्वर्गम् अवाप्तवान् । (८४।१)
tato rudraprasādena punaḥ svargam avāptavān |
इक्ष्वाकुश् च ययातिश् च बाणो नाम महासुरः । (८५।१)
ikṣvākuś ca yayātiś ca bāṇo nāma mahāsuraḥ |
एते चान्ये च बहवस् तपसा सिद्धिम् आगताः ॥ (८५।२)
ete cānye ca bahavas tapasā siddhim āgatāḥ ||
इति श्रीस्कान्दे श्रीगोकर्णमाहात्म्ये एकादशो ऽध्यायः ॥ (८६।१)
iti śrīskānde śrīgokarṇamāhātmye ekādaśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.