गोकर्णपुराणसारःGokarṇapurāṇasāraḥ
GokPurS, 12
Select a line for its word-by-word analysis.
सिद्ध (स्त्ल्। ग्रेन्ज़े), मणिभद्र (wएस्त्ल्। ग्रेन्ज़े) उन्द् भूतनाथसूत उवाच । (१।१)
Siddha (stl. Grenze), Maṇibhadra (westl. Grenze) und Bhūtanāthasūta uvāca |
पृष्टः प्रोवाच पार्वत्यै स्कन्दाय च महेश्वरः ॥ (१।३)
pṛṣṭaḥ provāca pārvatyai skandāya ca maheśvaraḥ ||
गोकर्णक्षेत्रमाहात्म्यं प्रमथास् तत्र शुश्रुवुः । (२।१)
gokarṇakṣetramāhātmyaṃ pramathās tatra śuśruvuḥ |
मणिभद्रस् ततः सिद्धो भूतनाथश् च भारत ॥ (२।२)
maṇibhadras tataḥ siddho bhūtanāthaś ca bhārata ||
नमस्कृत्य हरं प्रोचुस् तत्क्षेत्रस्य च दर्शनम् । (३।१)
namaskṛtya haraṃ procus tatkṣetrasya ca darśanam |
यात्रां कृत्वा विधानेन क्षिप्रं यास्याम ते ऽन्तिकम् ॥ (३।२)
yātrāṃ kṛtvā vidhānena kṣipraṃ yāsyāma te 'ntikam ||
शीघ्रं गच्छत गोकर्णं दृष्ट्वायात मदन्तिकम् । (४।२)
śīghraṃ gacchata gokarṇaṃ dṛṣṭvāyāta madantikam |
शम्भुनैवम् अनुज्ञाता ययुर् गोकर्णम् अञ्जसा ॥ (४।३)
śambhunaivam anujñātā yayur gokarṇam añjasā ||
प्राच्यां तत्क्षेत्रसीमायां कृत्वाश्रमपदं शुभम् ॥ (५।२)
prācyāṃ tatkṣetrasīmāyāṃ kṛtvāśramapadaṃ śubham ||
सिद्धस् तपश् चरन्न् आसीद् ध्यायन् विश्वेश्वरं प्रभुम् । (६।१)
siddhas tapaś carann āsīd dhyāyan viśveśvaraṃ prabhum |
प्रसन्नस् तु हरः प्राह वरं ब्रूहीति तं नृप ॥ (६।२)
prasannas tu haraḥ prāha varaṃ brūhīti taṃ nṛpa ||
स्थित्वा क्षेत्रे तव विभो त्वत्सेवां कर्तुम् उत्सहे । (७।२)
sthitvā kṣetre tava vibho tvatsevāṃ kartum utsahe |
अत्रैव वस सिद्ध त्वं रक्षन् प्राचीं दिशं सदा ॥ (७।४)
atraiva vasa siddha tvaṃ rakṣan prācīṃ diśaṃ sadā ||
सिद्धकुण्डम् इति ख्यातम् अष्टसिद्धिप्रदं भवेत् । (८।१)
siddhakuṇḍam iti khyātam aṣṭasiddhipradaṃ bhavet |
इति दत्वा वरं तस्मै तस्मिंल् लिङ्गे ऽवसत् ततः ॥ (८।२)
iti datvā varaṃ tasmai tasmiṃl liṅge 'vasat tataḥ ||
मणिभद्रो ऽप्य् अधःशीर्षः पादाभ्यां भूमिम् अस्पृशन् । (९।१)
maṇibhadro 'py adhaḥśīrṣaḥ pādābhyāṃ bhūmim aspṛśan |
ततो रुद्रो ऽप्य् उवाचेदं वरं वरय काङ्क्षितम् ॥ (१०।२)
tato rudro 'py uvācedaṃ varaṃ varaya kāṅkṣitam ||
अत्रैव वस्तुम् इच्छामि क्षेत्रे अस्मिंस् तव शङ्कर । (११।२)
atraiva vastum icchāmi kṣetre asmiṃs tava śaṅkara |
अत्रैव वस भद्र त्वं प्रतीचीसीम्नि रक्षकः ॥ (११।४)
atraiva vasa bhadra tvaṃ pratīcīsīmni rakṣakaḥ ||
इति दत्वा वरं तस्मै तत्रैवान्तर्दधे हरः । (१२।१)
iti datvā varaṃ tasmai tatraivāntardadhe haraḥ |
भूतनाथस् तपस् तप्त्वा प्रत्यक्षीकृत्य शङ्करम् ॥ (१२।२)
bhūtanāthas tapas taptvā pratyakṣīkṛtya śaṅkaram ||
तस्मात् सिद्धिम् अनुप्राप्य तत्रोवास यथासुखम् । (१३।१)
tasmāt siddhim anuprāpya tatrovāsa yathāsukham |
गोकर्णं रक्षमाणास् ते तत्र ह्य् आसन् गणान्विताः ॥ (१३।२)
gokarṇaṃ rakṣamāṇās te tatra hy āsan gaṇānvitāḥ ||
ततो गोकर्णमाहात्म्यं श्रुत्वा देवी मुदान्विता । (१४।२)
tato gokarṇamāhātmyaṃ śrutvā devī mudānvitā |
अथोवाच स्वभर्तारं तत् क्षेत्रं दर्शय प्रभो ॥ (१४।३)
athovāca svabhartāraṃ tat kṣetraṃ darśaya prabho ||
तच् छ्रुत्वा वचनं देव्याः शङ्करः प्रमथैः सह । (१५।१)
tac chrutvā vacanaṃ devyāḥ śaṅkaraḥ pramathaiḥ saha |
वृषारूढः स च ययौ गोकर्णं सिद्धसेवितम् ॥ (१५।२)
vṛṣārūḍhaḥ sa ca yayau gokarṇaṃ siddhasevitam ||
दर्शयामास पार्वत्यै दृष्ट्वा सा विस्मयं ययौ । (१६।१)
darśayāmāsa pārvatyai dṛṣṭvā sā vismayaṃ yayau |
वस्तुम् इच्छाम्य् अहं चात्र क्षेत्रे ऽस्मिन् शङ्कराधुना ॥ (१६।३)
vastum icchāmy ahaṃ cātra kṣetre 'smin śaṅkarādhunā ||
इत्य् उक्ते प्रियया सार्धम् उवास परमेश्वरः । (१७।१)
ity ukte priyayā sārdham uvāsa parameśvaraḥ |
उमावनम् इति ख्यातम् आश्रमः सो ऽप्य् अभून् महान् ॥ (१७।२)
umāvanam iti khyātam āśramaḥ so 'py abhūn mahān ||
दर्शनाद् एव तस्यास् तु सर्वपापं व्यपोहति । (१९।१)
darśanād eva tasyās tu sarvapāpaṃ vyapohati |
पृथिव्यां यानि तीर्थानि यानि स्वर्गे वसन्ति वै ॥ (१९।२)
pṛthivyāṃ yāni tīrthāni yāni svarge vasanti vai ||
तानि सर्वाणि शुद्ध्यर्थं देव्यास् तत्र गतानि वै । (२०।१)
tāni sarvāṇi śuddhyarthaṃ devyās tatra gatāni vai |
तेषां ह्रदाद् अभूत् तीर्थम् उमाह्रदम् इति प्रभो ॥ (२०।२)
teṣāṃ hradād abhūt tīrtham umāhradam iti prabho ||
उमामहेश्वरं नाम स्थापितं लिङ्गम् उत्तमम् । (२१।१)
umāmaheśvaraṃ nāma sthāpitaṃ liṅgam uttamam |
तत्तीर्थेषु नरः स्नात्वा तल्लिङ्गं परिपूजयेत् ॥ (२१।२)
tattīrtheṣu naraḥ snātvā talliṅgaṃ paripūjayet ||
सर्वान् कामान् अवाप्नोति सर्वपापैः प्रमुच्यते । (२२।१)
sarvān kāmān avāpnoti sarvapāpaiḥ pramucyate |
सदा पुष्पफलोपेतः सप्तहस्तोच्छ्रितश् च सः । (२३।१)
sadā puṣpaphalopetaḥ saptahastocchritaś ca saḥ |
मृत्युं जयन्ति तं प्राप्य जन्तवो नात्र संशयः ॥ (२३।२)
mṛtyuṃ jayanti taṃ prāpya jantavo nātra saṃśayaḥ ||
ड़्लुस्स् मालिनीक्रीडागिरेर् अधो भागे मालिनी नाम निम्नगा । (२४।१)
Fluss Mālinīkrīḍāgirer adho bhāge mālinī nāma nimnagā |
आस्ते पुण्योदका राजन् नॄणां पुण्यविवर्धिनी ॥ (२४।२)
āste puṇyodakā rājan nṝṇāṃ puṇyavivardhinī ||
स्वायम्भुवे ऽन्तरे चासीच् चन्द्रदेव इति श्रुतः । (२५।१)
svāyambhuve 'ntare cāsīc candradeva iti śrutaḥ |
तया सार्धं नृपवरः सिद्धिम् इच्छंस् तपो ऽचरत् । (२६।१)
tayā sārdhaṃ nṛpavaraḥ siddhim icchaṃs tapo 'carat |
क्रीडाशैलाद् अधोभागे हरम् आराधयन् स्वयं ॥ (२६।२)
krīḍāśailād adhobhāge haram ārādhayan svayaṃ ||
तुष्टो ऽस्मि तपसा ते ऽद्य सपत्नीकस्य पार्थिव ॥ (२७।३)
tuṣṭo 'smi tapasā te 'dya sapatnīkasya pārthiva ||
वरं वरय भो राजन्न् इत्य् उक्ते शम्भुनाब्रवीत् । (२८।१)
varaṃ varaya bho rājann ity ukte śambhunābravīt |
त्वयि सायुज्यम् इच्छामि तद् देहि भगवन् मम ॥ (२८।३)
tvayi sāyujyam icchāmi tad dehi bhagavan mama ||
मालिनी चापि पार्वत्यां वव्रे सायुज्यम् अञ्जसा । (२९।१)
mālinī cāpi pārvatyāṃ vavre sāyujyam añjasā |
तथास्त्व् इति हरः प्रोचे देवीं ताम् अपि पार्थिव ॥ (२९।२)
tathāstv iti haraḥ proce devīṃ tām api pārthiva ||
चन्द्रदेवाश्रमो नाम ख्यातो मुक्तिप्रदो नृणाम् ॥ (३०।२)
candradevāśramo nāma khyāto muktiprado nṛṇām ||
ततः शिवः पार्वती च तत्र क्रीडां प्रचक्रतुः । (३१।१)
tataḥ śivaḥ pārvatī ca tatra krīḍāṃ pracakratuḥ |
द्वादशे द्वादशे वर्षे फाल्गुने मासि दृश्यते ॥ (३३।२)
dvādaśe dvādaśe varṣe phālgune māsi dṛśyate ||
फाल्गुनर्क्षे कृतघ्नास् तां न पश्यन्ति कुरूद्वह । (३४।१)
phālgunarkṣe kṛtaghnās tāṃ na paśyanti kurūdvaha |
तस्मिन् काले नरो यस् तु तत्र स्नानं करोति च ॥ (३४।२)
tasmin kāle naro yas tu tatra snānaṃ karoti ca ||
सो ऽमरत्वम् अवाप्नोति सत्यं सत्यं मयोदितम् । (३५।१)
so 'maratvam avāpnoti satyaṃ satyaṃ mayoditam |
देर् ज्¦गेर् उ। कौशिक (व्याधतीर्थ)सूत उवाच । (३५।२)
Der J¦ger u. Kauśika (vyādhatīrtha)sūta uvāca |
पुरा व्याधस् तु दुष्टात्मा सह्याद्रिशिखरे नृप ॥ (३५।३)
purā vyādhas tu duṣṭātmā sahyādriśikhare nṛpa ||
दुर्मुखो नाम तत्रास्ते निर्घृणः पापचेतनः । (३६।१)
durmukho nāma tatrāste nirghṛṇaḥ pāpacetanaḥ |
पशुपक्षिद्विजान् हन्ति मांसगृध्नुर् दुरात्मवान् ॥ (३६।२)
paśupakṣidvijān hanti māṃsagṛdhnur durātmavān ||
तद्भीत्या सर्वभूतानि तं देशं नोपचक्रमुः ॥ (३७।२)
tadbhītyā sarvabhūtāni taṃ deśaṃ nopacakramuḥ ||
एवं कालो महान् राजन्न् अत्यगात् तस्य दुर्मतेः । (३८।१)
evaṃ kālo mahān rājann atyagāt tasya durmateḥ |
ततो ऽभ्यगात् कौशिकाख्यस् तीर्थसेवी द्विजोत्तमः ॥ (३८।२)
tato 'bhyagāt kauśikākhyas tīrthasevī dvijottamaḥ ||
गोकर्णस्थानि तीर्थानि स्नात्वा पूर्य कमण्डलुम् । (३९।१)
gokarṇasthāni tīrthāni snātvā pūrya kamaṇḍalum |
सह्याद्रिम् अगमत् सो ऽपि तं दृष्ट्वाभ्यद्रवत् खलः ॥ (३९।२)
sahyādrim agamat so 'pi taṃ dṛṣṭvābhyadravat khalaḥ ||
गृहीत्वा चर्मखड्गे च तिष्ठ तिष्ठेति चाब्रवीत् । (४०।१)
gṛhītvā carmakhaḍge ca tiṣṭha tiṣṭheti cābravīt |
तस्योपरि विचिक्षेप भ्रामयित्वा कमण्डलुम् । (४१।१)
tasyopari vicikṣepa bhrāmayitvā kamaṇḍalum |
कमण्डलोस् तीर्थजलस्पर्शमात्रात् तदा नृप ॥ (४१।२)
kamaṇḍalos tīrthajalasparśamātrāt tadā nṛpa ||
पापहानिर् अभूत् तस्य लुब्धकस्य दुरात्मनः । (४२।१)
pāpahānir abhūt tasya lubdhakasya durātmanaḥ |
दैववान् अभवत् सद्यस् त्यक्त्वा स्वाभाविकीं मतिम् ॥ (४२।२)
daivavān abhavat sadyas tyaktvā svābhāvikīṃ matim ||
निरस्य चर्मखड्गं च प्रतिजज्ञे तदा च सः । (४३।१)
nirasya carmakhaḍgaṃ ca pratijajñe tadā ca saḥ |
अद्य प्रभृति भूतानां स्वस्त्यस् त्व् अभयदो ऽस्म्य् अहम् ॥ (४३।२)
adya prabhṛti bhūtānāṃ svastyas tv abhayado 'smy aham ||
मत्तस् तव भयं मास्तु नैवाश्नामि द्विजोत्तम । (४४।१)
mattas tava bhayaṃ māstu naivāśnāmi dvijottama |
इत्य् उक्त्वा लुब्धको राजन् ननाम द्विजपादयोः ॥ (४४।२)
ity uktvā lubdhako rājan nanāma dvijapādayoḥ ||
उत्थाय प्राञ्जलिर् भूत्वा इदं वचनम् अब्रवीत् । (४५।१)
utthāya prāñjalir bhūtvā idaṃ vacanam abravīt |
पापो ऽहं पापकर्माहं माम् उद्धर नमो ऽस्तु ते ॥ (४५।२)
pāpo 'haṃ pāpakarmāhaṃ mām uddhara namo 'stu te ||
इत्य् उक्तः कौशिकस् तं वै दृष्ट्वा भयम् अपास्य च । (४६।१)
ity uktaḥ kauśikas taṃ vai dṛṣṭvā bhayam apāsya ca |
उवाच मधुरं विप्रः किम् इदं तव चेष्टितम् ॥ (४६।२)
uvāca madhuraṃ vipraḥ kim idaṃ tava ceṣṭitam ||
तच् छ्रुत्वा लुब्धकः प्राह प्रसादं कुरु भो मयि । (४७।१)
tac chrutvā lubdhakaḥ prāha prasādaṃ kuru bho mayi |
त्वां दृष्ट्वाहं हन्तुम् अगां भयात् त्वं क्षिप्तवान् अभूः । (४८।१)
tvāṃ dṛṣṭvāhaṃ hantum agāṃ bhayāt tvaṃ kṣiptavān abhūḥ |
मन्त्रपूतं जलं विप्र पापहानिर् अभूत् ततः ॥ (४८।२)
mantrapūtaṃ jalaṃ vipra pāpahānir abhūt tataḥ ||
इति तद्वचनं श्रुत्वा कौशिको ब्राह्मणो ऽब्रवीत् ॥ (४९।२)
iti tadvacanaṃ śrutvā kauśiko brāhmaṇo 'bravīt ||
यद्य् एवं निश्चितं वीर त्वयाद्य व्याधसत्तम । (५०।१)
yady evaṃ niścitaṃ vīra tvayādya vyādhasattama |
व्रतं निरशनं कृत्वा गोकर्णं याहि साम्प्रतम् ॥ (५०।२)
vrataṃ niraśanaṃ kṛtvā gokarṇaṃ yāhi sāmpratam ||
तत्राश्रमपदं कृत्वा यज विश्वेश्वरं हरम् । (५१।१)
tatrāśramapadaṃ kṛtvā yaja viśveśvaraṃ haram |
यावज् जीवं महाबाहो ह्य् अन्ते स्वर्गम् अवाप्स्यसि ॥ (५१।२)
yāvaj jīvaṃ mahābāho hy ante svargam avāpsyasi ||
व्याधस् त्यक्त्वा तु तत् सर्वं गोकर्णं प्रतिजग्मिवान् ॥ (५२।२)
vyādhas tyaktvā tu tat sarvaṃ gokarṇaṃ pratijagmivān ||
वृक्षमूलम् उपाश्रित्य निराहारो ऽचरत् तपः । (५३।१)
vṛkṣamūlam upāśritya nirāhāro 'carat tapaḥ |
तेन पुण्येन महता व्याधः कैलासम् आप्तवान् ॥ (५४।२)
tena puṇyena mahatā vyādhaḥ kailāsam āptavān ||
व्याधाश्रमः पुण्यतमः पवित्रः पापनाशनः । (५५।१)
vyādhāśramaḥ puṇyatamaḥ pavitraḥ pāpanāśanaḥ |
दिव्यं विमानम् आरुह्य दिव्यस्त्रीगणसेवितः ॥ (५५।२)
divyaṃ vimānam āruhya divyastrīgaṇasevitaḥ ||
व्याधः कैलासम् अगमत् किं ततो ऽधिकम् उच्यते । (५६।१)
vyādhaḥ kailāsam agamat kiṃ tato 'dhikam ucyate |
स्वर्गमोक्षप्रदं राजन् गोकर्णं नात्र संशयः ॥ (५६।२)
svargamokṣapradaṃ rājan gokarṇaṃ nātra saṃśayaḥ ||
तद् आश्रित्य पुरा सर्वे सिद्धाः सिद्धिम् उपागताः । (५७।१)
tad āśritya purā sarve siddhāḥ siddhim upāgatāḥ |
न तस्य महिमा शक्यो वक्तुं वर्षशतैर् अपि ॥ (५७।२)
na tasya mahimā śakyo vaktuṃ varṣaśatair api ||
शिलां गृहीत्वा तत्र स्थां ये यजन्ति कुरूद्वह । (५८।१)
śilāṃ gṛhītvā tatra sthāṃ ye yajanti kurūdvaha |
ते रुद्रलोकं गच्छन्ति किमु लिङ्गार्चनान् नृप ॥ (५८।२)
te rudralokaṃ gacchanti kimu liṅgārcanān nṛpa ||
संवर्तकः अपि विप्रेन्द्रो नारदान् मुनिपुङ्गवात् । (५९।२)
saṃvartakaḥ api viprendro nāradān munipuṅgavāt |
श्रुत्वा गोकर्णमाहात्म्यं तीर्थे स्नात्वा स्वनिर्मिते ॥ (५९।३)
śrutvā gokarṇamāhātmyaṃ tīrthe snātvā svanirmite ||
तल्लिङ्गं पूजयित्वा तु नारदात् सिद्धिम् आप्तवान् । (६०।१)
talliṅgaṃ pūjayitvā tu nāradāt siddhim āptavān |
तपस् तप्त्वा तु सुचिरं यथाकामम् उवास ह ॥ (६०।२)
tapas taptvā tu suciraṃ yathākāmam uvāsa ha ||
मथुरायां द्विजवरो ह्य् अत्रिगोत्रसमुद्भवः ॥ (६१।३)
mathurāyāṃ dvijavaro hy atrigotrasamudbhavaḥ ||
अलिजङ्घ इति ख्यातो ह्य् आसीद् देवविवर्जितः । (६२।१)
alijaṅgha iti khyāto hy āsīd devavivarjitaḥ |
तस्यासीज् जारिणी भार्या सदा निष्ठुरभाषिणी ॥ (६२।२)
tasyāsīj jāriṇī bhāryā sadā niṣṭhurabhāṣiṇī ||
अलिजङ्घो ऽपि दुर्मेधा नित्यं दुर्जनसङ्गतः ॥ (६३।२)
alijaṅgho 'pi durmedhā nityaṃ durjanasaṅgataḥ ||
एवं दिनेषु गच्छत्सु केषुचिद् द्विजदम्पती ॥ (६६।२)
evaṃ dineṣu gacchatsu keṣucid dvijadampatī ||
जग्मतुः कर्मवशतः श्रीरङ्गं क्षेत्रम् उत्तमम् । (६७।१)
jagmatuḥ karmavaśataḥ śrīraṅgaṃ kṣetram uttamam |
तुलासंस्थे दिनकरे कार्तिके मासि पुण्यदे ॥ (६७।२)
tulāsaṃsthe dinakare kārtike māsi puṇyade ||
बहवस् तत्र गच्छन्ति यात्रार्थं भरतर्षभ । (६८।१)
bahavas tatra gacchanti yātrārthaṃ bharatarṣabha |
यात्राव्याजेन तौ चापि तैः साकं चागतौ नृप ॥ (६८।२)
yātrāvyājena tau cāpi taiḥ sākaṃ cāgatau nṛpa ||
तत्र स्नात्वा च कावेर्याम् उषःकाले समाहितौ । (६९।१)
tatra snātvā ca kāveryām uṣaḥkāle samāhitau |
तत्र स्थित्वा मासम् एकं छद्मना धनकाङ्क्षया ॥ (६९।२)
tatra sthitvā māsam ekaṃ chadmanā dhanakāṅkṣayā ||
रङ्गनाथं च सम्पूज्य श्रुत्वा हरिकथां निशि । (७०।१)
raṅganāthaṃ ca sampūjya śrutvā harikathāṃ niśi |
मासान्ते देवताद्रव्यं मुषित्वा प्रययौ द्विजः ॥ (७०।२)
māsānte devatādravyaṃ muṣitvā prayayau dvijaḥ ||
पत्न्या सहैव शनकैर् मार्गमध्ये गतो द्विजः । (७१।१)
patnyā sahaiva śanakair mārgamadhye gato dvijaḥ |
चारा मार्गयितुं जग्मू रङ्गक्षेत्राद् द्रुतं भटाः ॥ (७१।२)
cārā mārgayituṃ jagmū raṅgakṣetrād drutaṃ bhaṭāḥ ||
ददृशुर् मार्गमध्ये तं सदेवद्रव्यकं द्विजम् । (७२।१)
dadṛśur mārgamadhye taṃ sadevadravyakaṃ dvijam |
बद्ध्वा राजान्तिकं दूता निन्युस् तं वै द्विजाधमम् ॥ (७२।२)
baddhvā rājāntikaṃ dūtā ninyus taṃ vai dvijādhamam ||
राजानम् ऊचुस् ते दूताश् चोरो ऽयं ब्राह्मणाधमः । (७३।१)
rājānam ūcus te dūtāś coro 'yaṃ brāhmaṇādhamaḥ |
दृष्ट्वा तौ दम्पती राजा तयोः शिक्षाम् अकारयत् ॥ (७३।२)
dṛṣṭvā tau dampatī rājā tayoḥ śikṣām akārayat ||
किंचित् कालान्तरे राजंस् तत्रैव मरणं गतौ ॥ (७४।२)
kiṃcit kālāntare rājaṃs tatraiva maraṇaṃ gatau ||
ततो यमभटा बद्ध्वा निन्युर् वैवस्वतं पुरम् । (७५।१)
tato yamabhaṭā baddhvā ninyur vaivasvataṃ puram |
यमस् तयोर् विचार्याथ कृतं कर्म शुभाशुभम् ॥ (७५।२)
yamas tayor vicāryātha kṛtaṃ karma śubhāśubham ||
दूतान् आज्ञापयामास पात्येतां नरके त्व् इमौ । (७६।१)
dūtān ājñāpayāmāsa pātyetāṃ narake tv imau |
ततो यमाज्ञया दूताः पेचुस् तौ नरकाग्निषु ॥ (७६।२)
tato yamājñayā dūtāḥ pecus tau narakāgniṣu ||
पश्चात् सानङ्गलेखा तु बभूव नकुली द्विज । (७७।१)
paścāt sānaṅgalekhā tu babhūva nakulī dvija |
व्याजेनापि च कावेरीस्नानाद् ऊर्जव्रतादिकात् । (७८।१)
vyājenāpi ca kāverīsnānād ūrjavratādikāt |
जातिस्मरत्वं सम्प्राप्य गोकर्णे सुचिरं स्थितौ ॥ (७८।२)
jātismaratvaṃ samprāpya gokarṇe suciraṃ sthitau ||
गोकर्णक्षेत्रमाहात्म्यं नारदेन प्रभाषितम् ॥ (७९।२)
gokarṇakṣetramāhātmyaṃ nāradena prabhāṣitam ||
संवर्तकाय राजेन्द्र सर्वं ताभ्यां श्रुतं ह्य् अभूत् । (८०।१)
saṃvartakāya rājendra sarvaṃ tābhyāṃ śrutaṃ hy abhūt |
ततो वियोनिजाद् दुःखाद् विमुक्तौ तौ बभूवतुः ॥ (८०।२)
tato viyonijād duḥkhād vimuktau tau babhūvatuḥ ||
ताभ्यां दत्वा कुरुश्रेष्ठ दिव्यं देहं विभास्वरम् । (८२।१)
tābhyāṃ datvā kuruśreṣṭha divyaṃ dehaṃ vibhāsvaram |
विमानवरम् आरोप्य गोकर्णान् निर्ययुर् दिवम् ॥ (८२।२)
vimānavaram āropya gokarṇān niryayur divam ||
देवैः साकं देवपुरे भुक्त्वा भोगान् अनेकशः । (८३।१)
devaiḥ sākaṃ devapure bhuktvā bhogān anekaśaḥ |
उवास सुचिरं कालं पत्न्या साकं द्विजोत्तमः ॥ (८३।२)
uvāsa suciraṃ kālaṃ patnyā sākaṃ dvijottamaḥ ||
तत्पत्नी चापि सञ्जाता गोराष्ट्राधिपतेः सुता । (८५।१)
tatpatnī cāpi sañjātā gorāṣṭrādhipateḥ sutā |
नाम्ना कलावती राजंस् तम् एव कनकाङ्गदम् ॥ (८५।२)
nāmnā kalāvatī rājaṃs tam eva kanakāṅgadam ||
कनकाङ्गदभूपालः प्राप्य पत्नीं कलावतीम् ॥ (८६।२)
kanakāṅgadabhūpālaḥ prāpya patnīṃ kalāvatīm ||
राज्यं चकार सुचिरं प्रजा धर्मेण पालयन् । (८७।१)
rājyaṃ cakāra suciraṃ prajā dharmeṇa pālayan |
पुत्रान् उत्पादयामास त्रीन् देवसदृशान् नृप ॥ (८७।२)
putrān utpādayāmāsa trīn devasadṛśān nṛpa ||
विवृद्धिम् अगमन् सर्वे ते बालाः पितुरन्तिके । (८८।१)
vivṛddhim agaman sarve te bālāḥ piturantike |
अश्वमेधादिभिर् यागैर् बहुभिर् दक्षिणायुतैः ॥ (८८।२)
aśvamedhādibhir yāgair bahubhir dakṣiṇāyutaiḥ ||
कृत्वा व्रतानि सर्वाणि दत्वा दानानि सर्वशः । (८९।१)
kṛtvā vratāni sarvāṇi datvā dānāni sarvaśaḥ |
भुक्त्वा भोगान् यथाकामं पुत्रपौत्रादिभिर् युतः ॥ (८९।२)
bhuktvā bhogān yathākāmaṃ putrapautrādibhir yutaḥ ||
ततो वैराग्यम् आपन्नो राज्यभोगेषु भूमिपः । (९०।१)
tato vairāgyam āpanno rājyabhogeṣu bhūmipaḥ |
तीर्थयात्राप्रसङ्गेन प्रययौ भार्यया सह ॥ (९०।२)
tīrthayātrāprasaṅgena prayayau bhāryayā saha ||
गोकर्णं क्षेत्रम् आसाद्य पत्न्या सह कुरूद्वह । (९१।१)
gokarṇaṃ kṣetram āsādya patnyā saha kurūdvaha |
तत्र स्थितेषु तीर्थेषु स्नात्वा राजा यथाक्रमम् ॥ (९१।२)
tatra sthiteṣu tīrtheṣu snātvā rājā yathākramam ||
महाबलं च सम्पूज्य तत्र स्थित्वाचरत् तपः । (९२।१)
mahābalaṃ ca sampūjya tatra sthitvācarat tapaḥ |
सुचिरं राजशार्दूल ह्य् अन्ते निर्वाणम् आप्तवान् ॥ (९२।२)
suciraṃ rājaśārdūla hy ante nirvāṇam āptavān ||
सकृच् छ्रुत्वा चालिजङ्घो द्विजेन्द्राः सन् माहात्म्यं गोश्रुतेः स्त्रीसमेतः । (९३।२)
sakṛc chrutvā cālijaṅgho dvijendrāḥ san māhātmyaṃ gośruteḥ strīsametaḥ |
दुर्योनित्वान् मुक्तिम् आसाद्य भूयो गत्वा पुण्यं देवलोकं यथेष्टम् ॥ (९३।३)
duryonitvān muktim āsādya bhūyo gatvā puṇyaṃ devalokaṃ yatheṣṭam ||
भोगान् भुक्त्वा देववत् तत्र लभ्यान् क्षीणे पुण्ये मर्त्यलोकं प्रपद्य । (९४।१)
bhogān bhuktvā devavat tatra labhyān kṣīṇe puṇye martyalokaṃ prapadya |
राजा भूत्वा ह्य् अङ्गदेशे द्विजेन्द्राः पत्न्या सार्धं भूतले भूरि भोगान् ॥ (९४।२)
rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān ||
भुक्त्वा पुत्रे राज्यभारं समर्प्य कृत्वा यागान् अश्वमेधादिकांश् च । (९५।१)
bhuktvā putre rājyabhāraṃ samarpya kṛtvā yāgān aśvamedhādikāṃś ca |
कृत्वा दानं ब्राह्मणेभ्यश् च सर्वं व्रतं तद्वद् विविधं चैव कृत्वा ॥ (९५।२)
kṛtvā dānaṃ brāhmaṇebhyaś ca sarvaṃ vrataṃ tadvad vividhaṃ caiva kṛtvā ||
पश्चात् सर्वक्षेत्रयात्रां समाप्य पत्न्या सार्धं गोश्रुतिक्षेत्रवर्यम् । (९६।१)
paścāt sarvakṣetrayātrāṃ samāpya patnyā sārdhaṃ gośrutikṣetravaryam |
गत्वा तत्र क्षेत्रयात्रां च कृत्वा तपस् तप्त्वा ह्य् अचिरात् सिद्धिम् आप ॥ (९६।२)
gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa ||
Wअस् मन् इन् गोकर्ण सो अल्लेस् बेकोम्म्तिदं यः क्षेत्रमाहात्म्यं शृणोति पठति द्विज । (९७।१)
Was man in Gokarṇa so alles bekommtidaṃ yaḥ kṣetramāhātmyaṃ śṛṇoti paṭhati dvija |
एकवारं द्विवारं वा त्रिवारम् अथ वा नरः ॥ (९७।२)
ekavāraṃ dvivāraṃ vā trivāram atha vā naraḥ ||
तस्य पुण्यफलं वक्तुं नालं वर्षशतैर् अपि । (९८।१)
tasya puṇyaphalaṃ vaktuṃ nālaṃ varṣaśatair api |
यं यं कामयते कामं तं तं प्राप्नोत्य् असंशयम् ॥ (९८।२)
yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoty asaṃśayam ||
सर्वतीर्थेषु यत् पुण्यं सर्वयज्ञेषु यत् फलम् । (९९।१)
sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam |
सर्वव्रतेषु यत् पुण्यं तत् सर्वं लभते ध्रुवम् ॥ (९९।२)
sarvavrateṣu yat puṇyaṃ tat sarvaṃ labhate dhruvam ||
सर्वामयविनाशः स्यात् सर्वभूतादिनाशनम् । (१००।१)
sarvāmayavināśaḥ syāt sarvabhūtādināśanam |
पुत्रकामो लभेत् पुत्रं कीर्तिकामो लभेद् यशः ॥ (१००।२)
putrakāmo labhet putraṃ kīrtikāmo labhed yaśaḥ ||
राज्यकामो लभेद् राज्यं धनकामो लभेद् धनम् । (१०१।१)
rājyakāmo labhed rājyaṃ dhanakāmo labhed dhanam |
विद्याकामो लभेद् विद्यां बद्धो मुच्येत बन्धनात् ॥ (१०१।२)
vidyākāmo labhed vidyāṃ baddho mucyeta bandhanāt ||
आयुष्कामो लभेद् आयुः स्त्रीकामः स्त्रीम् अवाप्नुयात् । (१०२।१)
āyuṣkāmo labhed āyuḥ strīkāmaḥ strīm avāpnuyāt |
स्वर्गकामो लभेत् स्वर्गं मोक्षार्थी मोक्षम् आप्नुयात् ॥ (१०२।२)
svargakāmo labhet svargaṃ mokṣārthī mokṣam āpnuyāt ||
इदं रहस्यम् अत्यन्तं नाभक्ताय वदेत् क्वचित् । (१०३।१)
idaṃ rahasyam atyantaṃ nābhaktāya vadet kvacit |
सत्यं सत्यं पुनः सत्यम् उद्धृत्य भुजम् उच्यते ॥ (१०३।२)
satyaṃ satyaṃ punaḥ satyam uddhṛtya bhujam ucyate ||
गोकर्णक्षेत्रनिलयः सिद्धिदो द्विभुजान्वितः । (१०४।१)
gokarṇakṣetranilayaḥ siddhido dvibhujānvitaḥ |
भक्तानाम् इष्टदो नित्यं पातु वो गणनायकः ॥ (१०४।२)
bhaktānām iṣṭado nityaṃ pātu vo gaṇanāyakaḥ ||
इति श्रीस्कान्दे गोकर्णखण्डे श्रीगोकर्णमाहात्म्ये सारोद्धारे द्वादशो ऽध्यायः ॥ (१०६।१)
iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre dvādaśo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.