गोकर्णपुराणसारःGokarṇapurāṇasāraḥ
GokPurS, 10
Select a line for its word-by-word analysis.
स्त्रेइत् ज़्wइस्छेन् ब्रह्मा उन्द् विष्णुसूत उवाच । (१।१)
Streit zwischen Brahmā und Viṣṇusūta uvāca |
पुरा विवादो ह्य् अभवद् ब्रह्मविष्ण्वोर् नृपोत्तम । (१।२)
purā vivādo hy abhavad brahmaviṣṇvor nṛpottama |
अहं श्रेष्ठश् चाहम् इति तयोर् युद्धम् अभूत् तदा ॥ (१।३)
ahaṃ śreṣṭhaś cāham iti tayor yuddham abhūt tadā ||
तत्र ह्य् आविरभूल् लिङ्गम् ईश्वरश् चाययौ नृप । (२।१)
tatra hy āvirabhūl liṅgam īśvaraś cāyayau nṛpa |
शिवो ऽप्य् उवाच तौ देवौ माभूद् वां कलहो मिथः ॥ (२।२)
śivo 'py uvāca tau devau mābhūd vāṃ kalaho mithaḥ ||
अस्य लिङ्गस्य मूर्धानं मूलं वा यो ऽभिपश्यति । (३।१)
asya liṅgasya mūrdhānaṃ mūlaṃ vā yo 'bhipaśyati |
स श्रेष्ठ इति मन्ये ऽहं गच्छतं शीघ्रम् एव हि ॥ (३।२)
sa śreṣṭha iti manye 'haṃ gacchataṃ śīghram eva hi ||
इत्य् उक्ते हंसरूपेण ब्रह्मा द्रष्टुं शिरो ययौ । (४।१)
ity ukte haṃsarūpeṇa brahmā draṣṭuṃ śiro yayau |
विष्णुर् वराहरूपो ऽधः मूलं द्रष्टुम् अगान् नृप ॥ (४।२)
viṣṇur varāharūpo 'dhaḥ mūlaṃ draṣṭum agān nṛpa ||
धावन्न् ऊर्ध्वमुखो ब्रह्मा मध्ये दृष्ट्वा तु केतकीं । (५।१)
dhāvann ūrdhvamukho brahmā madhye dṛṣṭvā tu ketakīṃ |
लिङ्गात् तुङ्गाद् विगलितां तां कृत्वा साक्षिणीं विधिः ॥ (५।२)
liṅgāt tuṅgād vigalitāṃ tāṃ kṛtvā sākṣiṇīṃ vidhiḥ ||
शिवस्य सन्निधिं प्राप विष्णुः कूर्मावधिं गतः । (६।१)
śivasya sannidhiṃ prāpa viṣṇuḥ kūrmāvadhiṃ gataḥ |
ततः शिवेन पृष्टस् तु ब्रह्मा प्रोवाच शङ्करम् । (७।१)
tataḥ śivena pṛṣṭas tu brahmā provāca śaṅkaram |
केतक्य् अपि तथेत्य् आह विष्णुं पप्रच्छ शङ्करः । (८।१)
ketaky api tathety āha viṣṇuṃ papraccha śaṅkaraḥ |
ब्रह्माणं चाशपद् रुद्रो ह्य् अपूज्यो भव विष्टपे । (१०।१)
brahmāṇaṃ cāśapad rudro hy apūjyo bhava viṣṭape |
तेन प्रीतो हरिं प्राह भव त्वं लोकपूजितः ॥ (१०।२)
tena prīto hariṃ prāha bhava tvaṃ lokapūjitaḥ ||
उवाच भैरवं शम्भुः स्रष्टुर् ऊर्ध्वं शिरो हर ॥ (११।२)
uvāca bhairavaṃ śambhuḥ sraṣṭur ūrdhvaṃ śiro hara ||
तच् छ्रुत्वा भैरवः शीघ्रं स्रष्टुर् ऊर्ध्वं शिरो ऽहनत् । (१२।१)
tac chrutvā bhairavaḥ śīghraṃ sraṣṭur ūrdhvaṃ śiro 'hanat |
स ब्रह्महत्याग्रस्तः सन् बभ्राम जगतीतलम् ॥ (१२।२)
sa brahmahatyāgrastaḥ san babhrāma jagatītalam ||
ततो ब्रह्मा चिन्तयित्वा गोकर्णं प्राप्य तत्र हि । (१३।१)
tato brahmā cintayitvā gokarṇaṃ prāpya tatra hi |
शतशृङ्गगिरौ लिङ्गं तीर्थं कृत्वा गिरेर् अधः ॥ (१३।२)
śataśṛṅgagirau liṅgaṃ tīrthaṃ kṛtvā girer adhaḥ ||
तपः कृत्वा च सुचिरं प्रत्यक्षीकृत्य शङ्करम् । (१४।१)
tapaḥ kṛtvā ca suciraṃ pratyakṣīkṛtya śaṅkaram |
यज्ञे पूजाम् अवाप्य स्वां मूर्तिं संस्थाप्य तत्र तु ॥ (१४।२)
yajñe pūjām avāpya svāṃ mūrtiṃ saṃsthāpya tatra tu ||
सत्यलोकं ययौ ब्रह्मा यथाकामं कुरूद्वह । (१५।१)
satyalokaṃ yayau brahmā yathākāmaṃ kurūdvaha |
ब्रह्मकुण्डे नरः स्नात्वा ब्रह्मेशं परिपूज्य च ॥ (१५।२)
brahmakuṇḍe naraḥ snātvā brahmeśaṃ paripūjya ca ||
तन्मूर्तिं पूजयेद् राजन् दीर्घायुष्मान् भवेत् ध्रुवम् । (१६।१)
tanmūrtiṃ pūjayed rājan dīrghāyuṣmān bhavet dhruvam |
केतक्य् अप्य् आश्रमं कृत्वा तीर्थं कृत्वा तु निर्मलम् ॥ (१६।३)
ketaky apy āśramaṃ kṛtvā tīrthaṃ kṛtvā tu nirmalam ||
हरं संतोष्य तपसा भक्त्या चानन्यपूर्वया । (१७।१)
haraṃ saṃtoṣya tapasā bhaktyā cānanyapūrvayā |
तद्दिने तां समादाय भक्त्या यश् चार्चयेच् छिवम् । (१८।१)
taddine tāṃ samādāya bhaktyā yaś cārcayec chivam |
सर्वक्रतुफलं तस्य भवत्य् एव न संशयः ॥ (१८।२)
sarvakratuphalaṃ tasya bhavaty eva na saṃśayaḥ ||
कूटसाक्ष्यभवं पापं तत्र स्नानाद् विनश्यति । (१९।१)
kūṭasākṣyabhavaṃ pāpaṃ tatra snānād vinaśyati |
भैरवो ऽपि ततः प्राप्य गोकर्णं क्षत्रम् उत्तमम् ॥ (१९।३)
bhairavo 'pi tataḥ prāpya gokarṇaṃ kṣatram uttamam ||
ततस् तत्तपसा शम्भुस् तुष्ट आगत्य चाब्रवीत् । (२१।१)
tatas tattapasā śambhus tuṣṭa āgatya cābravīt |
कालभैरव तुष्टो ऽस्मि वरं वरय काङ्क्षितम् ॥ (२१।२)
kālabhairava tuṣṭo 'smi varaṃ varaya kāṅkṣitam ||
ब्रह्महत्या त्व् इयं देव बाधते मां दिवानिशम् ॥ (२२।२)
brahmahatyā tv iyaṃ deva bādhate māṃ divāniśam ||
तन्मोक्षं मे कुरु विभो यदि तुष्टो ऽसि शङ्कर । (२३।०)
tanmokṣaṃ me kuru vibho yadi tuṣṭo 'si śaṅkara |
मत्प्रसादाद् भैरवाद्य ब्रह्महत्या विनाशिता । (२३।२)
matprasādād bhairavādya brahmahatyā vināśitā |
पाता सुकृतिनां त्वं हि शास्ता दुष्कृतिनां भव ॥ (२३।३)
pātā sukṛtināṃ tvaṃ hi śāstā duṣkṛtināṃ bhava ||
गच्छ शीघ्रं कुरुक्षेत्रं विष्णुर् मोक्ष्यति तत्र तु । (२४।१)
gaccha śīghraṃ kurukṣetraṃ viṣṇur mokṣyati tatra tu |
घण्टाकर्णो ऽपि सम्प्राप्य क्षेत्रपालत्वम् अञ्जसा ॥ (२४।२)
ghaṇṭākarṇo 'pi samprāpya kṣetrapālatvam añjasā ||
तत्रोवास यथाकामं तत्रैवान्तर्दधे शिवः । (२५।१)
tatrovāsa yathākāmaṃ tatraivāntardadhe śivaḥ |
कुरुक्षेत्रं समासाद्य तत्र दृष्ट्वा जनार्दनम् । (२६।१)
kurukṣetraṃ samāsādya tatra dṛṣṭvā janārdanam |
तत्र क्षिप्त्वा कपालं तु गोकर्णं पुनर् आगमत् ॥ (२६।२)
tatra kṣiptvā kapālaṃ tu gokarṇaṃ punar āgamat ||
तत्रैव वसतिं चक्रे घण्टाकर्णेन संयुतः । (२७।१)
tatraiva vasatiṃ cakre ghaṇṭākarṇena saṃyutaḥ |
शिक्षकः पापिनां नित्यं रक्षन्त् सुकृतिशालिनाम् ॥ (२७।२)
śikṣakaḥ pāpināṃ nityaṃ rakṣant sukṛtiśālinām ||
पार्वती वेर्ड़्लुछ्त् विनायक (गणेश)सूत उवाच । (२८।१)
Pārvatī verflucht Vināyaka (Gaṇeśa)sūta uvāca |
शिवस्य निकटं गत्वा कामं देहीति चाब्रुवन् ॥ (२८।३)
śivasya nikaṭaṃ gatvā kāmaṃ dehīti cābruvan ||
इतः परं न तस्याङ्गं चित्तजन्मा भविष्यति । (२९।२)
itaḥ paraṃ na tasyāṅgaṃ cittajanmā bhaviṣyati |
वैवस्वते ऽन्तरे विप्राः कृष्णे पुत्रत्वम् आप्नुयात् ॥ (२९।३)
vaivasvate 'ntare viprāḥ kṛṣṇe putratvam āpnuyāt ||
इत्य् उक्ते शम्भुना कामः शिवचेतस्य् अभूत् ततः । (३०।१)
ity ukte śambhunā kāmaḥ śivacetasy abhūt tataḥ |
ऐक्षिष्ट पार्वतीं शम्भुर् ललाटात् तेज आपतत् ॥ (३०।२)
aikṣiṣṭa pārvatīṃ śambhur lalāṭāt teja āpatat ||
स्वस्याकृतिः कुमारो ऽभूद् गौर्यै तं प्रददौ शिवः । (३१।१)
svasyākṛtiḥ kumāro 'bhūd gauryai taṃ pradadau śivaḥ |
विनायकाख्यां गमितः कदाचित् पार्वती नृप ॥ (३१।२)
vināyakākhyāṃ gamitaḥ kadācit pārvatī nṛpa ||
तं दृष्ट्वा तनयं देवी तं भर्तारम् अमन्यत । (३२।१)
taṃ dṛṣṭvā tanayaṃ devī taṃ bhartāram amanyata |
ततो ज्ञात्वात्मजं क्रोधाद् अशपद् विकृतो भव ॥ (३२।२)
tato jñātvātmajaṃ krodhād aśapad vikṛto bhava ||
लम्बोदरः शूर्पकर्णः सो ऽभून् मातुश् च शापतः ॥ (३३।२)
lambodaraḥ śūrpakarṇaḥ so 'bhūn mātuś ca śāpataḥ ||
शङ्करः स्थात्मजं दृष्ट्वा पृष्टः क इति पार्वतीम् । (३४।१)
śaṅkaraḥ sthātmajaṃ dṛṣṭvā pṛṣṭaḥ ka iti pārvatīm |
शिवः स्वपुत्रम् आदाय इदं वचनम् अब्रवीत् । (३५।१)
śivaḥ svaputram ādāya idaṃ vacanam abravīt |
मातृशापात् तु वैरूप्यं तव प्राप्तं गजानन ॥ (३५।२)
mātṛśāpāt tu vairūpyaṃ tava prāptaṃ gajānana ||
इदम् एव यथा भूयात् पुनः सौरूप्यम् आत्मनः । (३६।१)
idam eva yathā bhūyāt punaḥ saurūpyam ātmanaḥ |
सो ऽपि गोकर्णम् आसाद्य तीर्थं कृत्वा सुनिर्मलम् । (३७।१)
so 'pi gokarṇam āsādya tīrthaṃ kṛtvā sunirmalam |
तपश् चचार सुचिरं प्रसन्नो ऽभून् महेश्वरः ॥ (३७।२)
tapaś cacāra suciraṃ prasanno 'bhūn maheśvaraḥ ||
देवैर् ब्रह्मादिभिः सार्धं वरं ब्रूहीत्य् अभाषत । (३८।१)
devair brahmādibhiḥ sārdhaṃ varaṃ brūhīty abhāṣata |
वैरूप्यं तव सौरूप्यं भवत्य् एव गजानन । (३९।२)
vairūpyaṃ tava saurūpyaṃ bhavaty eva gajānana |
गणानाम् अधिपश् चैव विघ्नानाम् अधिपो भव ॥ (३९।३)
gaṇānām adhipaś caiva vighnānām adhipo bhava ||
ततो देवाः स्वायुधानि ददुस् तस्मै मुदान्विताः । (४०।१)
tato devāḥ svāyudhāni dadus tasmai mudānvitāḥ |
विष्णुः स्वतनयां शक्तिं ददौ तस्मै नराधिप ॥ (४०।२)
viṣṇuḥ svatanayāṃ śaktiṃ dadau tasmai narādhipa ||
इति दत्त्वा वरं तस्मै रुद्राद्या देवतागणाः । (४१।१)
iti dattvā varaṃ tasmai rudrādyā devatāgaṇāḥ |
विनायकेन सहितास् तत्रैवान्तर्दधुः सुराः ॥ (४१।२)
vināyakena sahitās tatraivāntardadhuḥ surāḥ ||
तीर्थे वैनायके स्नात्वा गणानान्त्वेति मन्त्रतः । (४२।१)
tīrthe vaināyake snātvā gaṇānāntveti mantrataḥ |
पूजयेच् च गणाध्यक्षं सर्वान् कामान् अवाप्नुयात् ॥ (४२।२)
pūjayec ca gaṇādhyakṣaṃ sarvān kāmān avāpnuyāt ||
हिरण्यकशिपोः पुत्रः प्रह्लादाख्यो महासुरः । (४३।२)
hiraṇyakaśipoḥ putraḥ prahlādākhyo mahāsuraḥ |
गोकर्णं क्षेत्रम् आसाद्य कोटितीर्थस्य दक्षिणे । (४४।१)
gokarṇaṃ kṣetram āsādya koṭitīrthasya dakṣiṇe |
नृसिंहमूर्तिं संस्थाप्य तपस् तेपे यतात्मवान् ॥ (४४।२)
nṛsiṃhamūrtiṃ saṃsthāpya tapas tepe yatātmavān ||
त्वं वरं वरयेत्य् आह प्रह्लादो वाक्यम् अब्रवीत् ॥ (४५।२)
tvaṃ varaṃ varayety āha prahlādo vākyam abravīt ||
मया कृतः पितृद्रोहस् तन्मोक्षं मे प्रसादय । (४६।१)
mayā kṛtaḥ pitṛdrohas tanmokṣaṃ me prasādaya |
पितृद्रोहाद् विमुक्तस् त्वं लोकपूज्यो भवाधुना ॥ (४६।३)
pitṛdrohād vimuktas tvaṃ lokapūjyo bhavādhunā ||
वैशाखे शुक्लभूते तु मां पूजयति यो नरः । (४७।१)
vaiśākhe śuklabhūte tu māṃ pūjayati yo naraḥ |
पितृद्रोहादिकं पापं विलयं याति तत्क्षणात् ॥ (४७।२)
pitṛdrohādikaṃ pāpaṃ vilayaṃ yāti tatkṣaṇāt ||
इत्य् उक्त्वा नृहरिस् तत्र तस्यां मूर्तौ व्यलीयत । (४८।१)
ity uktvā nṛharis tatra tasyāṃ mūrtau vyalīyata |
इति लब्ध्वा वरं सो ऽपि प्रह्लादः स्वपुरं ययौ ॥ (४८।२)
iti labdhvā varaṃ so 'pi prahlādaḥ svapuraṃ yayau ||
अदृष्ट्वा स्वस्य पौत्रं तु कृष्णश् चिन्तापरो ऽभवत् ॥ (४९।३)
adṛṣṭvā svasya pautraṃ tu kṛṣṇaś cintāparo 'bhavat ||
ततो नारदवाक्येन गोकर्णं क्षेत्रम् आगमत् । (५०।१)
tato nāradavākyena gokarṇaṃ kṣetram āgamat |
स स्नात्वा कोटितीर्थे तु पूजयित्वा महाबलम् ॥ (५०।२)
sa snātvā koṭitīrthe tu pūjayitvā mahābalam ||
वार्षिकांश् चतुरो मासांश् चचार सुमहत् तपः । (५१।१)
vārṣikāṃś caturo māsāṃś cacāra sumahat tapaḥ |
शिवः प्रत्यक्षतां प्राप्त उवाच मधुसूदनम् ॥ (५१।२)
śivaḥ pratyakṣatāṃ prāpta uvāca madhusūdanam ||
कृष्णविष्णो महाबाहो मां जित्वा समरे ऽधुना । (५२।१)
kṛṣṇaviṣṇo mahābāho māṃ jitvā samare 'dhunā |
बाणस्य दर्पहननं कृत्वाप्नुहि स्वपौत्रकम् ॥ (५२।२)
bāṇasya darpahananaṃ kṛtvāpnuhi svapautrakam ||
इत्य् उक्त्वान्तर्दधे शम्भुः कृष्णो द्वारवतीं ययौ । (५३।१)
ity uktvāntardadhe śambhuḥ kṛṣṇo dvāravatīṃ yayau |
बाणासुरं विजित्वा तु स्वपौत्रं लब्धवान् नृप ॥ (५३।२)
bāṇāsuraṃ vijitvā tu svapautraṃ labdhavān nṛpa ||
तां कृष्णमूर्तिं संपूज्य नरः कामान् अवाप्नुयात् । (५४।१)
tāṃ kṛṣṇamūrtiṃ saṃpūjya naraḥ kāmān avāpnuyāt |
दुर्वासा वै मुनिश्रेष्ठो दत्तात्रेयेण संयुतः ॥ (५४।२)
durvāsā vai muniśreṣṭho dattātreyeṇa saṃyutaḥ ||
तपः कृत्वा तु गोकर्णे योगसिद्धो बभूव ह । (५५।१)
tapaḥ kṛtvā tu gokarṇe yogasiddho babhūva ha |
वेदेन् उन्द् शास्त्रस्शङ्खासुरेणापहृता वेदाः शास्त्राणि पार्थिव ॥ (५५।२)
Veden und Śāstrasśaṅkhāsureṇāpahṛtā vedāḥ śāstrāṇi pārthiva ||
गोकर्णं क्षेत्रम् आसाद्य लिङ्गं कृत्वा पृथक् पृथक् । (५६।१)
gokarṇaṃ kṣetram āsādya liṅgaṃ kṛtvā pṛthak pṛthak |
तपश् चक्रुश् च नियताः प्रसन्नो विष्णुर् अब्रवीत् ॥ (५६।२)
tapaś cakruś ca niyatāḥ prasanno viṣṇur abravīt ||
तुष्टो ऽस्मि नितरां वेदाः शास्त्राणि तपसा च वः । (५७।१)
tuṣṭo 'smi nitarāṃ vedāḥ śāstrāṇi tapasā ca vaḥ |
अस्मान् उद्धर लिङ्गानि लोके पूज्यानि सन्तु वै । (५८।१)
asmān uddhara liṅgāni loke pūjyāni santu vai |
व्यासावतारं कृत्वा तु तीर्थयात्रापदेशतः ॥ (५८।३)
vyāsāvatāraṃ kṛtvā tu tīrthayātrāpadeśataḥ ||
अत्रागत्य तपः कृत्वा ह्य् उद्धरिष्यामि वै ध्रुवम् । (५९।१)
atrāgatya tapaḥ kṛtvā hy uddhariṣyāmi vai dhruvam |
ये पूजयन्ति लिङ्गानि वेदशास्त्रयुता भुवि ॥ (५९।२)
ye pūjayanti liṅgāni vedaśāstrayutā bhuvi ||
सप्तजन्म भवेयुर् वै तदन्ते मोक्षम् आप्नुयुः । (६०।१)
saptajanma bhaveyur vai tadante mokṣam āpnuyuḥ |
इति तेभ्यो वरं दत्वा तत्रैवान्तर्दधे हरिः ॥ (६०।२)
iti tebhyo varaṃ datvā tatraivāntardadhe hariḥ ||
व्यासः पराशरसुतस् तीर्थयात्रां क्रमाच् चरन् । (६१।१)
vyāsaḥ parāśarasutas tīrthayātrāṃ kramāc caran |
गोकर्णं क्षेत्रम् आसाद्य तपस् तेपे यतात्मवान् ॥ (६१।२)
gokarṇaṃ kṣetram āsādya tapas tepe yatātmavān ||
एवं तपस्यतस् तस्य प्रसन्नो ऽभून् महेश्वरः ॥ (६२।२)
evaṃ tapasyatas tasya prasanno 'bhūn maheśvaraḥ ||
उवाच व्यासं नृपते व्यास ते ऽद्याश्रमः शुभः । (६३।१)
uvāca vyāsaṃ nṛpate vyāsa te 'dyāśramaḥ śubhaḥ |
तमो ऽसुरेण पापेन वेदाः शास्त्राणि खण्डिताः ॥ (६३।२)
tamo 'sureṇa pāpena vedāḥ śāstrāṇi khaṇḍitāḥ ||
विभाजयस्व तान्त् सर्वान् अधीयीरन् द्विजा भुवि । (६४।१)
vibhājayasva tānt sarvān adhīyīran dvijā bhuvi |
इत्य् उक्त्वान्तर्दधे शम्भुर् व्यासस् तु तदनन्तरम् ॥ (६४।२)
ity uktvāntardadhe śambhur vyāsas tu tadanantaram ||
वेदाञ्छास्त्राणि च तदा विभागं कृतवान् नृप । (६५।१)
vedāñchāstrāṇi ca tadā vibhāgaṃ kṛtavān nṛpa |
शुको ऽपि तप आस्थाय योगसिद्धिम् अवाप्तवान् ॥ (६५।२)
śuko 'pi tapa āsthāya yogasiddhim avāptavān ||
औड़्ज़्¦ह्लुन्ग् वोन् मुनिस् उस्w, दिए सिद्धि एर्हल्तेन् हबेन्सूत उवाच । (६६।१)
Aufz¦hlung von Munis usw, die Siddhi erhalten habensūta uvāca |
विश्वकर्मा तपस् तप्त्वा गोकर्णे लिङ्गम् उत्तमम् । (६६।२)
viśvakarmā tapas taptvā gokarṇe liṅgam uttamam |
पूजयित्वा विधानेन ब्रह्माणं पर्यतोषयत् ॥ (६६।३)
pūjayitvā vidhānena brahmāṇaṃ paryatoṣayat ||
प्रसादाद् ब्रह्मणो राजन् मनः शिल्पं स लब्धवान् । (६७।१)
prasādād brahmaṇo rājan manaḥ śilpaṃ sa labdhavān |
गौतमेन पुरा शक्रः शप्तो ऽभूत् कामलोलुपः ॥ (६७।३)
gautamena purā śakraḥ śapto 'bhūt kāmalolupaḥ ||
लिङ्गं संस्थाप्य गोकर्णे तप आधाय भक्तितः । (६८।१)
liṅgaṃ saṃsthāpya gokarṇe tapa ādhāya bhaktitaḥ |
परितोष्य महेशानं तपसा सिद्धिम् आप्तवान् ॥ (६८।२)
paritoṣya maheśānaṃ tapasā siddhim āptavān ||
गौतमो ऽपि मुनिश्रेष्ठस् त्यक्त्वाहल्यां ततो वने । (६९।१)
gautamo 'pi muniśreṣṭhas tyaktvāhalyāṃ tato vane |
भुवः प्रदक्षिणं कुर्वन् गोकर्णं क्षेत्रम् आगमत् ॥ (६९।२)
bhuvaḥ pradakṣiṇaṃ kurvan gokarṇaṃ kṣetram āgamat ||
लिङ्गं तत्र प्रतिष्ठाप्य तपसा सिद्धिम् आप्तवान् । (७०।१)
liṅgaṃ tatra pratiṣṭhāpya tapasā siddhim āptavān |
तृणाग्निर् अपि विप्रेन्द्रस् तपसा सिद्धिम् आप्तवान् ॥ (७०।२)
tṛṇāgnir api viprendras tapasā siddhim āptavān ||
काश्यपो ऽपि मुनिश्रेष्ठः कपोताख्यो महामुनिः । (७१।१)
kāśyapo 'pi muniśreṣṭhaḥ kapotākhyo mahāmuniḥ |
विश्वेदेवाश् च वसवो ग्रहेन्द्राश् च भृगुर् मुनिः । (७२।१)
viśvedevāś ca vasavo grahendrāś ca bhṛgur muniḥ |
जमदग्निः क्रतुश् चैव तथैवाप्सरसां गणः ॥ (७२।२)
jamadagniḥ kratuś caiva tathaivāpsarasāṃ gaṇaḥ ||
शतशृङ्गे तपः कृत्वा सिद्धिं प्राप्ताः पुरा नृप । (७३।१)
śataśṛṅge tapaḥ kṛtvā siddhiṃ prāptāḥ purā nṛpa |
अत्रेर् अङ्गिरसश् चैव तथा भौमस्य चाश्रमः ॥ (७३।२)
atrer aṅgirasaś caiva tathā bhaumasya cāśramaḥ ||
एतेषाम् आश्रमं पुण्यं तीर्थं चैव यथाक्रमम् । (७४।१)
eteṣām āśramaṃ puṇyaṃ tīrthaṃ caiva yathākramam |
नश्यन्त्य् एव न संदेहो नृणां भरतसत्तम । (७५।१)
naśyanty eva na saṃdeho nṛṇāṃ bharatasattama |
विश्वावसोस् तुम्बुरोश् च चित्रसेनस्य पार्थिव ॥ (७५।२)
viśvāvasos tumburoś ca citrasenasya pārthiva ||
गन्धर्वाणां तथान्येषां सिद्धानां मरुताम् अपि । (७६।१)
gandharvāṇāṃ tathānyeṣāṃ siddhānāṃ marutām api |
किन्नराणां च साध्यानां गुह्यकानां च रक्षसाम् ॥ (७६।२)
kinnarāṇāṃ ca sādhyānāṃ guhyakānāṃ ca rakṣasām ||
विद्याधराणां राजन् किम्पुरुषाणां तथैव च । (७७।१)
vidyādharāṇāṃ rājan kimpuruṣāṇāṃ tathaiva ca |
आश्रमाश् च बहून्य् अत्र तीर्थानि नृपसत्तम ॥ (७७।२)
āśramāś ca bahūny atra tīrthāni nṛpasattama ||
वाल्मीकिर् अपि गोकर्णे तपः कृत्वा विधानतः । (७८।१)
vālmīkir api gokarṇe tapaḥ kṛtvā vidhānataḥ |
सिद्धिं प्राप्य महादेवाद् यथाकामम् अतिष्ठत ॥ (७८।२)
siddhiṃ prāpya mahādevād yathākāmam atiṣṭhata ||
हनुमान्हनूमांस् तत्र राजेन्द्र वायुपुत्रो महाबलः । (७९।१)
Hanumānhanūmāṃs tatra rājendra vāyuputro mahābalaḥ |
तपश् चचार सुचिरं घोरम् उद्दिश्य शङ्करम् ॥ (७९।२)
tapaś cacāra suciraṃ ghoram uddiśya śaṅkaram ||
तपसा तस्य वीरस्य शिवः प्रत्यक्षतां गतः । (८०।१)
tapasā tasya vīrasya śivaḥ pratyakṣatāṃ gataḥ |
तुष्टो ऽस्मि ते हरिवर तपसा किम् अभीप्सितम् ॥ (८०।३)
tuṣṭo 'smi te harivara tapasā kim abhīpsitam ||
तथास्त्व् इति वरं दत्वा तत्रैवान्तर्दधे हरः ॥ (८१।३)
tathāstv iti varaṃ datvā tatraivāntardadhe haraḥ ||
ग्त्तिनेन्: दुर्गाकुण्ड उन्द् महाकालीह्रदसूत उवाच । (८२।२)
Gttinen: Durgākuṇḍa und Mahākālīhradasūta uvāca |
आर्या शृङ्गात् समागम्य दुर्गादेवी नृपोत्तम ॥ (८२।३)
āryā śṛṅgāt samāgamya durgādevī nṛpottama ||
दुर्गाकुण्डम् इति ख्यातं तीर्थं कृत्वा सुनिर्मलम् । (८३।१)
durgākuṇḍam iti khyātaṃ tīrthaṃ kṛtvā sunirmalam |
तपः कृत्वा तु नियता सिद्धिम् आप सुदुर्लभाम् ॥ (८३।२)
tapaḥ kṛtvā tu niyatā siddhim āpa sudurlabhām ||
शुम्भादिराक्षसान् हत्वा महाकाली नृपोत्तम । (८४।१)
śumbhādirākṣasān hatvā mahākālī nṛpottama |
स्वायुधानि च संक्षाल्य शतशृङ्गतटे शुभे ॥ (८४।२)
svāyudhāni ca saṃkṣālya śataśṛṅgataṭe śubhe ||
आयुधानि क्षालितानि यत्र तत्तीर्थम् उत्तमम् ॥ (८५।२)
āyudhāni kṣālitāni yatra tattīrtham uttamam ||
तत्कालीह्रदम् आख्यातं तं दृष्ट्वा पूजयेन् नृप । (८६।१)
tatkālīhradam ākhyātaṃ taṃ dṛṣṭvā pūjayen nṛpa |
महाकालीं समभ्यर्च्य सर्वान् कामान् अवाप्नुयात् ॥ (८६।२)
mahākālīṃ samabhyarcya sarvān kāmān avāpnuyāt ||
गोकर्णक्षेत्ररक्षार्थं नियुक्ता शम्भुना हि सा । (८७।१)
gokarṇakṣetrarakṣārthaṃ niyuktā śambhunā hi sā |
अत्रिवंशोद्भवा विप्राश् चत्वारो बिन्दुनामकाः ॥ (८७।३)
atrivaṃśodbhavā viprāś catvāro bindunāmakāḥ ||
अदृश्याः सर्वभूतानां दुर्गादेशं समाश्रिताः । (८८।१)
adṛśyāḥ sarvabhūtānāṃ durgādeśaṃ samāśritāḥ |
तपस् तप्त्वा तु नियतं काष्ठभूता वने ऽवसन् ॥ (८८।२)
tapas taptvā tu niyataṃ kāṣṭhabhūtā vane 'vasan ||
देवानां वचनाच् छम्भुस् तेषां प्रत्यक्षतां गतः । (८९।१)
devānāṃ vacanāc chambhus teṣāṃ pratyakṣatāṃ gataḥ |
काष्ठभूतान्त् समालोक्य चन्द्रो ऽमृतम् असिञ्चत ॥ (८९।२)
kāṣṭhabhūtānt samālokya candro 'mṛtam asiñcata ||
युष्माभिर् अमृतं पीतं सिद्धिं प्राप्ताः सुदुर्लभाम् । (९०।२)
yuṣmābhir amṛtaṃ pītaṃ siddhiṃ prāptāḥ sudurlabhām |
अधिगम्य परं ब्रह्म ब्रह्मभूताश् चरिष्यथ ॥ (९०।३)
adhigamya paraṃ brahma brahmabhūtāś cariṣyatha ||
आ स्वर्लोकाद् द्विजश्रेष्ठाः पातालावधि सत्तमाः ॥ (९१।२)
ā svarlokād dvijaśreṣṭhāḥ pātālāvadhi sattamāḥ ||
धाराश् चान्द्र्यस् तु नित्या वै सन्तु पापहरा भुवि । (९२।१)
dhārāś cāndryas tu nityā vai santu pāpaharā bhuvi |
इति दत्त्वा वरं शम्भुस् तत्रैवान्तरधीयत ॥ (९२।२)
iti dattvā varaṃ śambhus tatraivāntaradhīyata ||
भीमगदाधर्मराजानुजो भीमस् तीर्थयात्रापदेशतः । (९३।१)
Bhīmagadādharmarājānujo bhīmas tīrthayātrāpadeśataḥ |
मातरं स्वां समादाय गोकर्णं क्षेत्रम् आगमत् ॥ (९३।२)
mātaraṃ svāṃ samādāya gokarṇaṃ kṣetram āgamat ||
तदा तत्रत्य ऋषिभिर् बोधितो ऽगात् तदन्तिकम् । (९४।१)
tadā tatratya ṛṣibhir bodhito 'gāt tadantikam |
पाषाणेनावृतं दृष्ट्वा तीर्थं तद्देशबिन्दुकम् ॥ (९४।२)
pāṣāṇenāvṛtaṃ dṛṣṭvā tīrthaṃ taddeśabindukam ||
तदा भीमगदातीर्थम् इति ख्यातम् अभून् नृप ॥ (९५।२)
tadā bhīmagadātīrtham iti khyātam abhūn nṛpa ||
इति श्रीस्कान्दे श्रीगोकर्णमाहात्म्ये दशमो ऽध्यायः । ॥ (९६।१)
iti śrīskānde śrīgokarṇamāhātmye daśamo 'dhyāyaḥ | ||
Data courtesy of The Digital Corpus of Sanskrit.