गोकर्णपुराणसारःGokarṇapurāṇasāraḥ

GokPurS, 9

9 of 12 · 192 verses

Select a line for its word-by-word analysis.

1.1१.१

योगेश्वर-लिङ्गसूत उवाच । (१।१)

Yogeśvara-Liṅgasūta uvāca

1.2१.२

सनत्कुमारो भगवान् गोकर्णात् क्रोशमात्रतः । (१।२)

sanatkumāro bhagavān gokarṇāt krośamātrataḥ |

1.3१.३

कृत्वाश्रमपदं तत्र तपस् तेपे सुदुश्चरं ॥ (१।३)

kṛtvāśramapadaṃ tatra tapas tepe suduścaraṃ ||

2.1२.१

ततस् तस्यापि भगवान् आविरासीत् सदाशिवः । (२।१)

tatas tasyāpi bhagavān āvirāsīt sadāśivaḥ |

2.2२.२

सनत्कुमारं भगवांस् तुष्टो ऽस्मीत्य् आह तं नृप ॥ (२।२)

sanatkumāraṃ bhagavāṃs tuṣṭo 'smīty āha taṃ nṛpa ||

3.1३.१

सनत्कुमार उवाच । (३।१)

sanatkumāra uvāca

3.2३.२

लिङ्गम् एतन् नराः स्पृष्ट्वा स्वर्गं गच्छन्त्य् अवारिताः । (३।२)

liṅgam etan narāḥ spṛṣṭvā svargaṃ gacchanty avāritāḥ |

3.3३.३

योगेश्वराभिधानेन त्रैलोक्ये विश्रुतं भवेत् ॥ (३।३)

yogeśvarābhidhānena trailokye viśrutaṃ bhavet ||

4.1४.१

तथास्त्व् इति हरेणोक्त्वा लिङ्गे तस्मिन् व्यलीयत । (४।१)

tathāstv iti hareṇoktvā liṅge tasmin vyalīyata |

4.2४.२

सनत्कुमारो नृपते यथाकामं जगाम ह ॥ (४।२)

sanatkumāro nṛpate yathākāmaṃ jagāma ha ||

5.1५.१

ज़ेर्त्रेन्नुन्ग् देस् योगेश्वरस्, एन्त्स्तेहुन्ग् चक्र- उ। चक्रखण्ड-तीर्थतत् स्पृष्ट्वा सर्वभूतानि स्वर्गं गच्छन्त्य् अहर्निशम् । (५।१)

Zertrennung des Yogeśvaras, Entstehung Cakra- u. Cakrakhaṇḍa-Tīrthatat spṛṣṭvā sarvabhūtāni svargaṃ gacchanty aharniśam |

5.2५.२

महापातकयुक्ताश् च ह्य् उपपातकिनस् तथा ॥ (५।२)

mahāpātakayuktāś ca hy upapātakinas tathā ||

6.1६.१

तिर्यग्योनिगताश् चापि सर्वे ऽपि नृपसत्तम । (६।१)

tiryagyonigatāś cāpi sarve 'pi nṛpasattama |

6.2६.२

पूर्ण आसीन् नाकलोको नावकाशो ह्य् अभून् नृप ॥ (६।२)

pūrṇa āsīn nākaloko nāvakāśo hy abhūn nṛpa ||

7.1७.१

ततो ब्रह्मा समागम्य देवैश् च ऋषिभिः सह । (७।१)

tato brahmā samāgamya devaiś ca ṛṣibhiḥ saha |

7.2७.२

प्रत्यक्षीकृत्य लक्ष्मीशम् इदं वचनम् अब्रवीत् ॥ (७।२)

pratyakṣīkṛtya lakṣmīśam idaṃ vacanam abravīt ||

8.1८.१

सनत्कुमारेण विभो गोकर्णे स्थापितं शुभम् । (८।१)

sanatkumāreṇa vibho gokarṇe sthāpitaṃ śubham |

8.2८.२

योगेश्वराभिधं लिङ्गं तत् स्पृष्ट्वा प्राणिनो ध्रुवम् ॥ (८।२)

yogeśvarābhidhaṃ liṅgaṃ tat spṛṣṭvā prāṇino dhruvam ||

9.1९.१

सशरीरा दिवं प्राप्तास् तैर् वयं बाधिता भृशम् । (९।१)

saśarīrā divaṃ prāptās tair vayaṃ bādhitā bhṛśam |

9.2९.२

तच् छ्रुत्वा भगवान् विष्णुश् चक्रं संगृह्य पाणिना ॥ (९।२)

tac chrutvā bhagavān viṣṇuś cakraṃ saṃgṛhya pāṇinā ||

10.1१०.१

देवैर् ब्रह्मादिभिः साकम् एत्य तल् लिङ्गम् आच्छिनत् । (१०।१)

devair brahmādibhiḥ sākam etya tal liṅgam ācchinat |

10.2१०.२

अधोभागः स्थितो भूमौ चक्रोपरि तथा परः ॥ (१०।२)

adhobhāgaḥ sthito bhūmau cakropari tathā paraḥ ||

11.1११.१

मग्नम् आसीत् तदा चक्रं भारेण महता नृप । (११।१)

magnam āsīt tadā cakraṃ bhāreṇa mahatā nṛpa |

11.2११.२

ततस् तु विष्णुना सार्धं देवा गोकर्णसंस्थितम् ॥ (११।२)

tatas tu viṣṇunā sārdhaṃ devā gokarṇasaṃsthitam ||

12.1१२.१

रुद्रम् आराधयामासुः चक्रार्थं ते दिवौकसः । (१२।१)

rudram ārādhayāmāsuḥ cakrārthaṃ te divaukasaḥ |

12.2१२.२

शिवो ऽवतारयामास पाताले तच्छिरो महत् ॥ (१२।२)

śivo 'vatārayāmāsa pātāle tacchiro mahat ||

13.1१३.१

ततस् तस्मात् पुनश् चक्रम् उत्ततार द्विजोत्तम । (१३।१)

tatas tasmāt punaś cakram uttatāra dvijottama |

13.2१३.२

तच् चक्रतीर्थं विख्यातं सर्वपापप्रणाशनम् ॥ (१३।२)

tac cakratīrthaṃ vikhyātaṃ sarvapāpapraṇāśanam ||

14.1१४.१

चक्रेण खण्डितत्वाच् च चक्रखण्डेश्वरो ह्य् अभूत् । (१४।१)

cakreṇa khaṇḍitatvāc ca cakrakhaṇḍeśvaro hy abhūt |

14.2१४.२

पूजयित्वा तु तल् लिङ्गं देहान्ते स्वर्गम् आप्नुयात् ॥ (१४।२)

pūjayitvā tu tal liṅgaṃ dehānte svargam āpnuyāt ||

15.1१५.१

सोन्नेन्ड़िन्स्तेर्निस्सूत उवाच । (१५।१)

Sonnenfinsternissūta uvāca

15.2१५.२

पुरा कृतयुगे राजन् ग्रहणे भास्करस्य च । (१५।२)

purā kṛtayuge rājan grahaṇe bhāskarasya ca |

15.3१५.३

पुष्यमासे तदा लोकाः सर्वे गोकर्णम् आययुः ॥ (१५।३)

puṣyamāse tadā lokāḥ sarve gokarṇam āyayuḥ ||

16.1१६.१

तां दृष्ट्वा समितिं गौरी खे स्थिता शङ्करं जगौ । (१६।१)

tāṃ dṛṣṭvā samitiṃ gaurī khe sthitā śaṅkaraṃ jagau |

16.2१६.२

किमर्थं तु महादेव अत्रागच्छन्ति वै प्रजाः ॥ (१६।२)

kimarthaṃ tu mahādeva atrāgacchanti vai prajāḥ ||

17.1१७.१

शिव उवाच । (१७।१)

śiva uvāca

17.2१७.२

अद्यापराह्णे ग्रहणं भविष्यति वरानने । (१७।२)

adyāparāhṇe grahaṇaṃ bhaviṣyati varānane |

17.3१७.३

तदा संपूज्य मां भक्त्या सर्वे यान्ति त्रिविष्टपम् ॥ (१७।३)

tadā saṃpūjya māṃ bhaktyā sarve yānti triviṣṭapam ||

18.1१८.१

देव्य् उवाच । (१८।१)

devy uvāca

18.2१८.२

सर्वे यदि दिवं यान्ति नावकाशो भवेद् दिवि । (१८।२)

sarve yadi divaṃ yānti nāvakāśo bhaved divi |

18.3१८.३

ततः प्रहस्य भगवान् शङ्करस् ताम् उवाच ह ॥ (१८।३)

tataḥ prahasya bhagavān śaṅkaras tām uvāca ha ||

19.1१९.१

शिव उवाच । (१९।१)

śiva uvāca

19.2१९.२

एषां मध्ये गमिष्यन्ति त्रयो निर्वाणम् एव हि । (१९।२)

eṣāṃ madhye gamiṣyanti trayo nirvāṇam eva hi |

19.3१९.३

क्रियते यादृशं कर्म फलं भवति तादृशम् ॥ (१९।३)

kriyate yādṛśaṃ karma phalaṃ bhavati tādṛśam ||

20.1२०.१

दर्शयिष्ये तव शिवे किंचिद् अत्र निदर्शनम् । (२०।१)

darśayiṣye tava śive kiṃcid atra nidarśanam |

20.2२०.२

रिन्देर्-पअर् उ। कपिल-तीर्थसूत उवाच । (२०।२)

Rinder-Paar u. Kapila-Tīrthasūta uvāca |

20.3२०.३

ततः शिवो भवानी च धृत्वा गोरूपम् अञ्जसा ॥ (२०।३)

tataḥ śivo bhavānī ca dhṛtvā gorūpam añjasā ||

21.1२१.१

यात्रिकाणां दृष्टिपथे पङ्कमग्नौ स्थितौ नृप । (२१।१)

yātrikāṇāṃ dṛṣṭipathe paṅkamagnau sthitau nṛpa |

21.2२१.२

दृष्ट्वा दृष्ट्वा गताः सर्वे पुरुकुत्सो द्विजोत्तमः ॥ (२१।२)

dṛṣṭvā dṛṣṭvā gatāḥ sarve purukutso dvijottamaḥ ||

22.1२२.१

तद् गोयुग्मं समुद्धर्तुं प्रयत्नं कृतवान् बहु । (२२।१)

tad goyugmaṃ samuddhartuṃ prayatnaṃ kṛtavān bahu |

22.2२२.२

आत्रेयो नाम विप्रो ऽपि तत्सहाय उपागमत् ॥ (२२।२)

ātreyo nāma vipro 'pi tatsahāya upāgamat ||

23.1२३.१

उभाव् अपि न शक्तौ तौ सुहोत्रस् तत्र चागमत् । (२३।१)

ubhāv api na śaktau tau suhotras tatra cāgamat |

23.2२३.२

ते च गोमिथुनं यत्नाद् उद्धृत्याथ सिषेविरे ॥ (२३।२)

te ca gomithunaṃ yatnād uddhṛtyātha siṣevire ||

24.1२४.१

जलैर् बालतृणैर् अङ्गमर्दनैर् विविधैर् नृप । (२४।१)

jalair bālatṛṇair aṅgamardanair vividhair nṛpa |

24.2२४.२

ततस् तद्भक्तिसंतुष्टः प्रत्यक्षीभूय शङ्करः ॥ (२४।२)

tatas tadbhaktisaṃtuṣṭaḥ pratyakṣībhūya śaṅkaraḥ ||

25.1२५.१

उद्दधार भवाम्भोधिपङ्कमग्नान् द्विजोत्तमान् । (२५।१)

uddadhāra bhavāmbhodhipaṅkamagnān dvijottamān |

25.2२५.२

अहो यल् लभ्यते भक्त्या न तत् कर्मशतैर् अपि ॥ (२५।२)

aho yal labhyate bhaktyā na tat karmaśatair api ||

26.1२६.१

सूत उवाच । (२६।१)

sūta uvāca

26.2२६.२

यत्र गोमिथुनं मग्नं तीर्थं तत् कपिलं विदुः । (२६।२)

yatra gomithunaṃ magnaṃ tīrthaṃ tat kapilaṃ viduḥ |

26.3२६.३

मासि भाद्रपदे कृष्णषष्ठी भौमार्कसंयुता ॥ (२६।३)

māsi bhādrapade kṛṣṇaṣaṣṭhī bhaumārkasaṃyutā ||

27.1२७.१

रोहिणीपातयुक्ता चेत् सा षष्ठी कपिला स्मृता । (२७।१)

rohiṇīpātayuktā cet sā ṣaṣṭhī kapilā smṛtā |

27.2२७.२

तदा तत्र तु ये स्नान्ति भवाब्धिं ते तरन्ति वै ॥ (२७।२)

tadā tatra tu ye snānti bhavābdhiṃ te taranti vai ||

28.1२८.१

अरण्य तीर्थसूत उवाच । (२८।१)

Araṇya Tīrthasūta uvāca

28.2२८.२

अरण्यो नाम राजा तु राज्यं त्यक्त्वा विरक्तिमान् । (२८।२)

araṇyo nāma rājā tu rājyaṃ tyaktvā viraktimān |

28.3२८.३

पुत्रे राज्यधुरं न्यस्य गोकर्णक्षेत्रम् आगमत् ॥ (२८।३)

putre rājyadhuraṃ nyasya gokarṇakṣetram āgamat ||

29.1२९.१

तीर्थं कृत्वा विधानेन तपस् तेपे निरामयम् । (२९।१)

tīrthaṃ kṛtvā vidhānena tapas tepe nirāmayam |

29.2२९.२

प्रसन्नीकृत्य देवेशं सिद्धिं प्राप्य महेश्वरात् ॥ (२९।२)

prasannīkṛtya deveśaṃ siddhiṃ prāpya maheśvarāt ||

30.1३०.१

तत्रोवास यथाकामं गोकर्णे क्षेत्रसत्तमे । (३०।१)

tatrovāsa yathākāmaṃ gokarṇe kṣetrasattame |

30.2३०.२

तत्तीर्थस्नानमात्रेण राजसूयफलं लभेत् ॥ (३०।२)

tattīrthasnānamātreṇa rājasūyaphalaṃ labhet ||

31.1३१.१

नाद-तीर्थसूत उवाच । (३१।१)

Nāda-Tīrthasūta uvāca

31.2३१.२

सुनादो नाम विप्रेन्द्रः पातालतलम् आगमत् । (३१।२)

sunādo nāma viprendraḥ pātālatalam āgamat |

31.3३१.३

मणिनागान् नागराजाद् गृहीत्वा लिङ्गम् उत्तमम् ॥ (३१।३)

maṇināgān nāgarājād gṛhītvā liṅgam uttamam ||

32.1३२.१

गोकर्णं क्षेत्रम् आसाद्यास्थाप्य लिङ्गं मनोरमम् । (३२।१)

gokarṇaṃ kṣetram āsādyāsthāpya liṅgaṃ manoramam |

32.2३२.२

तदर्चनप्रभावेण सायुज्यम् अगमद् ऋषिः ॥ (३२।२)

tadarcanaprabhāveṇa sāyujyam agamad ṛṣiḥ ||

33.1३३.१

नादेश्वरम् इति ख्यातं तल्लिङ्गं भरतर्षभ । (३३।१)

nādeśvaram iti khyātaṃ talliṅgaṃ bharatarṣabha |

33.2३३.२

अधस्ताद् अवने राजन्न् इदानीं तत्र वर्तते ॥ (३३।२)

adhastād avane rājann idānīṃ tatra vartate ||

34.1३४.१

ताड्यमाने पदा तत्र नादयत्य् अवनीतलम् । (३४।१)

tāḍyamāne padā tatra nādayaty avanītalam |

34.2३४.२

तीर्थं तत्र तु तस्यैव नादतीर्थम् इति श्रुतम् ॥ (३४।२)

tīrthaṃ tatra tu tasyaiva nādatīrtham iti śrutam ||

35.1३५.१

दृष्टमात्रे तु तल्लिङ्गे स्वर्गं गच्छन्ति देहिनः । (३५।१)

dṛṣṭamātre tu talliṅge svargaṃ gacchanti dehinaḥ |

35.2३५.२

अशोकपञ्चक-तीर्थसूत उवाच । (३५।२)

Aśokapañcaka-Tīrthasūta uvāca

35.3३५.३

अशोको नाम राजासीत् प्लक्षद्वीपाधिपः पुरा ॥ (३५।३)

aśoko nāma rājāsīt plakṣadvīpādhipaḥ purā ||

36.1३६.१

तस्य चासीत् पुत्रशतं तथा पौत्रादिसन्ततिः । (३६।१)

tasya cāsīt putraśataṃ tathā pautrādisantatiḥ |

36.2३६.२

कन्याशतं च तस्यासीत् स्वं राज्यं पर्यपालयत् ॥ (३६।२)

kanyāśataṃ ca tasyāsīt svaṃ rājyaṃ paryapālayat ||

37.1३७.१

ततः शत्रुर् अभूत् तस्य सुमतिर् नाम पार्थिवः । (३७।१)

tataḥ śatrur abhūt tasya sumatir nāma pārthivaḥ |

37.2३७.२

अशोकस्य पुरीं रुद्ध्वा युद्धं कृत्वा सुदारुणम् ॥ (३७।२)

aśokasya purīṃ ruddhvā yuddhaṃ kṛtvā sudāruṇam ||

38.1३८.१

अशोकं नृपतिं जित्वा पुत्रादीन् अवधीत् ततः । (३८।१)

aśokaṃ nṛpatiṃ jitvā putrādīn avadhīt tataḥ |

38.2३८.२

ततः स राजा सप्ताङ्गं हित्वा वह्नेः प्रसादतः ॥ (३८।२)

tataḥ sa rājā saptāṅgaṃ hitvā vahneḥ prasādataḥ ||

39.1३९.१

लब्धं तुरगम् आरुह्य जम्बुद्वीपं ययौ क्षणात् । (३९।१)

labdhaṃ turagam āruhya jambudvīpaṃ yayau kṣaṇāt |

39.2३९.२

गोकर्णे शतशृङ्गाद्रौ दृष्ट्वा स्वस्य पितामहान् ॥ (३९।२)

gokarṇe śataśṛṅgādrau dṛṣṭvā svasya pitāmahān ||

40.1४०.१

अग्निद्युतिं चाग्निबाहुं मेधाश्वं पुरुम् एव च । (४०।१)

agnidyutiṃ cāgnibāhuṃ medhāśvaṃ purum eva ca |

40.2४०.२

तेषां चैवोपदेशेन तैः साकं तप आचरत् ॥ (४०।२)

teṣāṃ caivopadeśena taiḥ sākaṃ tapa ācarat ||

41.1४१.१

आविर्बभूव पुरतस् तुष्टो ऽस्मीत्य् आह तान् शिवः । (४१।१)

āvirbabhūva puratas tuṣṭo 'smīty āha tān śivaḥ |

41.2४१.२

अशोक उवाच । (४१।२)

aśoka uvāca

41.3४१.३

शत्रुणापहृतं राज्यं पुत्रपौत्रादि यद् धनम् ॥ (४१।३)

śatruṇāpahṛtaṃ rājyaṃ putrapautrādi yad dhanam ||

42.1४२.१

तत्सर्वं त्वत्प्रसादेन लभेय करुणानिधे । (४२।१)

tatsarvaṃ tvatprasādena labheya karuṇānidhe |

42.2४२.२

शिव उवाच । (४२।२)

śiva uvāca

42.3४२.३

न शोकस् ते भवेद् भूयः सर्वं प्राप्स्यसि चिन्तितम् ॥ (४२।३)

na śokas te bhaved bhūyaḥ sarvaṃ prāpsyasi cintitam ||

43.1४३.१

इति दत्वा वरं शम्भुस् तत्रैवान्तरधीयत । (४३।१)

iti datvā varaṃ śambhus tatraivāntaradhīyata |

43.2४३.२

अशोकः स्वां पुरीं प्राप्य यथापूर्वम् अतिष्ठत ॥ (४३।२)

aśokaḥ svāṃ purīṃ prāpya yathāpūrvam atiṣṭhata ||

44.1४४.१

अशोकपञ्चकम् इति तीर्थानां पञ्चकं विदुः । (४४।१)

aśokapañcakam iti tīrthānāṃ pañcakaṃ viduḥ |

44.2४४.२

स्नात्वा वैशाखपूर्णायां दुष्टसङ्गाद् विमुच्यते ॥ (४४।२)

snātvā vaiśākhapūrṇāyāṃ duṣṭasaṅgād vimucyate ||

45.1४५.१

ड़्लुस्स् कामाघनाशिनी उन्द् कामेश्वरकामाघनाशिनी नद्याश् चोत्पत्तिं कथयामि ते । (४५।१)

Fluss Kāmāghanāśinī und Kāmeśvarakāmāghanāśinī nadyāś cotpattiṃ kathayāmi te |

45.2४५.२

हरभालाग्निना दग्धः पूर्वं कामः शुचान्वितः ॥ (४५।२)

harabhālāgninā dagdhaḥ pūrvaṃ kāmaḥ śucānvitaḥ ||

46.1४६.१

शिवे कृतस्वाघशान्त्यै त्रिः परीत्य धराम् इमाम् । (४६।१)

śive kṛtasvāghaśāntyai triḥ parītya dharām imām |

46.2४६.२

अनर्हो ऽपि प्रवेष्टुं स गोकर्णं क्षेत्रम् उत्तमम् ॥ (४६।२)

anarho 'pi praveṣṭuṃ sa gokarṇaṃ kṣetram uttamam ||

47.1४७.१

तस्मात् क्षेत्राद् बहिः स्थित्वा तपस् तीव्रम् अतप्यत । (४७।१)

tasmāt kṣetrād bahiḥ sthitvā tapas tīvram atapyata |

47.2४७.२

दिव्यवर्षसहस्रं तु लिङ्गं संस्थाप्य शाङ्करम् ॥ (४७।२)

divyavarṣasahasraṃ tu liṅgaṃ saṃsthāpya śāṅkaram ||

48.1४८.१

ततस् तुष्टो महादेवो वरयेत्य् आह तं नृप । (४८।१)

tatas tuṣṭo mahādevo varayety āha taṃ nṛpa |

48.2४८.२

स्तुत्वा तं मन्मथो वव्रे वरान् अभिमतांस् तदा ॥ (४८।२)

stutvā taṃ manmatho vavre varān abhimatāṃs tadā ||

49.1४९.१

मन्मथ उवाच । (४९।१)

manmatha uvāca

49.2४९.२

देवानां वचनात् पूर्वं त्वयि द्रोहम् अकारिषम् । (४९।२)

devānāṃ vacanāt pūrvaṃ tvayi droham akāriṣam |

49.3४९.३

तद्दोषशान्तिर् मे भूयाच् छरीरं च वृणे प्रभो ॥ (४९।३)

taddoṣaśāntir me bhūyāc charīraṃ ca vṛṇe prabho ||

50.1५०.१

क्षेत्रस्यान्तः प्रवेशश् च त्वयि भक्तिं च शाश्वतीम् । (५०।१)

kṣetrasyāntaḥ praveśaś ca tvayi bhaktiṃ ca śāśvatīm |

50.2५०.२

शिव उवाच । (५०।२)

śiva uvāca

50.3५०.३

वसुदेवगृहे साक्षाद् भगवान् कमलापतिः ॥ (५०।३)

vasudevagṛhe sākṣād bhagavān kamalāpatiḥ ||

51.1५१.१

यदावतरणं कुर्यात् तस्य पुत्रत्वम् आप्नुहि । (५१।१)

yadāvataraṇaṃ kuryāt tasya putratvam āpnuhi |

51.2५१.२

गोकर्णे त्वत्प्रवेशार्थं प्रायश्चित्तं करोम्य् अहम् ॥ (५१।२)

gokarṇe tvatpraveśārthaṃ prāyaścittaṃ karomy aham ||

52.1५२.१

इत्य् उक्त्वा भगवान् शम्भुस् त्रिशूलेन तदा नृप । (५२।१)

ity uktvā bhagavān śambhus triśūlena tadā nṛpa |

52.2५२.२

चखान भूतलं गङ्गा पातालाद् ऊर्ध्वम् आगता ॥ (५२।२)

cakhāna bhūtalaṃ gaṅgā pātālād ūrdhvam āgatā ||

53.1५३.१

अनुज्ञातस् त्व् ईश्वरेण स्नानं तत्र यथाविधि । (५३।१)

anujñātas tv īśvareṇa snānaṃ tatra yathāvidhi |

53.2५३.२

कृत्वा कामो विशुद्धात्मा वरं वव्रे कृपानिधिम् ॥ (५३।२)

kṛtvā kāmo viśuddhātmā varaṃ vavre kṛpānidhim ||

54.1५४.१

काम उवाच । (५४।१)

kāma uvāca

54.2५४.२

लिङ्गम् एतत् पूजकानां कामदं स्यात् सदाशिव । (५४।२)

liṅgam etat pūjakānāṃ kāmadaṃ syāt sadāśiva |

54.3५४.३

अघनाशननाम्नीयं नदीनां प्रवरा भवेत् ॥ (५४।३)

aghanāśananāmnīyaṃ nadīnāṃ pravarā bhavet ||

55.1५५.१

शङ्कर उवाच । (५५।१)

śaṅkara uvāca

55.2५५.२

यद् उक्तं तु त्वया काम तत् सर्वं भवति ध्रुवम् । (५५।२)

yad uktaṃ tu tvayā kāma tat sarvaṃ bhavati dhruvam |

55.3५५.३

ब्रह्महा गुरुतल्पी वा स्वर्णस्तेयी च मानवः ॥ (५५।३)

brahmahā gurutalpī vā svarṇasteyī ca mānavaḥ ||

56.1५६.१

सुरापानरतो वापि संयुक्तो ह्य् उपपातकैः । (५६।१)

surāpānarato vāpi saṃyukto hy upapātakaiḥ |

56.2५६.२

स्नात्वा सम्पूज्य कामेशं सर्वपापैः प्रमुच्यते ॥ (५६।२)

snātvā sampūjya kāmeśaṃ sarvapāpaiḥ pramucyate ||

57.1५७.१

इत्य् उक्त्वा भगवाञ्छम्भुस् तत्रैवान्तरधीयत । (५७।१)

ity uktvā bhagavāñchambhus tatraivāntaradhīyata |

57.2५७.२

कामो गोकर्णम् आसाद्य कोटितीर्थस्य पूर्वतः ॥ (५७।२)

kāmo gokarṇam āsādya koṭitīrthasya pūrvataḥ ||

58.1५८.१

लिङ्गं संस्थाप्य विधिना पूजयित्वा च भक्तितः । (५८।१)

liṅgaṃ saṃsthāpya vidhinā pūjayitvā ca bhaktitaḥ |

58.2५८.२

कृतकृत्यत्वम् आपन्नो यथाकामम् उवास ह ॥ (५८।२)

kṛtakṛtyatvam āpanno yathākāmam uvāsa ha ||

59.1५९.१

कामाघनाशिनी हिल्ड़्त् बेइ इन्ज़ेस्त्शृणु राजन् प्रवक्ष्यामि इतिहासं पुरातनम् । (५९।१)

Kāmāghanāśinī hilft bei Inzestśṛṇu rājan pravakṣyāmi itihāsaṃ purātanam |

59.2५९.२

पुरा कलिङ्गदेशीयो ब्राह्मणः शम्भुनामकः ॥ (५९।२)

purā kaliṅgadeśīyo brāhmaṇaḥ śambhunāmakaḥ ||

60.1६०.१

सदा दुर्जनसंयुक्तः कामचारी द्विजाधमः । (६०।१)

sadā durjanasaṃyuktaḥ kāmacārī dvijādhamaḥ |

60.2६०.२

विमार्गनिरतो नित्यं द्यूतचौर्यविशारदः ॥ (६०।२)

vimārganirato nityaṃ dyūtacauryaviśāradaḥ ||

61.1६१.१

स्वकर्मणः परित्यागी शूद्रवृत्तिरतः सदा । (६१।१)

svakarmaṇaḥ parityāgī śūdravṛttirataḥ sadā |

61.2६१.२

कदाचिद् अर्धरात्रौ तु मातृसङ्गम् अथाकरोत् ॥ (६१।२)

kadācid ardharātrau tu mātṛsaṅgam athākarot ||

62.1६२.१

तेन पापेन महता लोकदूष्यो ऽभवन् नृप । (६२।१)

tena pāpena mahatā lokadūṣyo 'bhavan nṛpa |

62.2६२.२

पश्चात् तापाभिभूतः सन् बभ्राम जगतीतले ॥ (६२।२)

paścāt tāpābhibhūtaḥ san babhrāma jagatītale ||

63.1६३.१

तिरस्कृतः स सर्वैश् च मुनिभिर् भावितात्मभिः । (६३।१)

tiraskṛtaḥ sa sarvaiś ca munibhir bhāvitātmabhiḥ |

63.2६३.२

ततो दुर्वाससं दृष्ट्वा प्रणम्य प्राञ्जलिर् नृप ॥ (६३।२)

tato durvāsasaṃ dṛṣṭvā praṇamya prāñjalir nṛpa ||

64.1६४.१

प्रसाद्योवाच विप्रः सः दुर्वासास् तु तपोनिधिः । (६४।१)

prasādyovāca vipraḥ saḥ durvāsās tu taponidhiḥ |

64.2६४.२

प्राह त्वत्कृतपापस्य निष्कृतिर् नास्ति कुत्रचित् ॥ (६४।२)

prāha tvatkṛtapāpasya niṣkṛtir nāsti kutracit ||

65.1६५.१

तथापि वक्ष्ये पापस्य निष्कृतिं शृणु भो द्विज । (६५।१)

tathāpi vakṣye pāpasya niṣkṛtiṃ śṛṇu bho dvija |

65.2६५.२

गोकर्णाख्यं महाक्षेत्रम् अस्ति पापविनाशनम् ॥ (६५।२)

gokarṇākhyaṃ mahākṣetram asti pāpavināśanam ||

66.1६६.१

तत्रास्ति सर्वपापघ्नी नदी कामाघनाशिनी । (६६।१)

tatrāsti sarvapāpaghnī nadī kāmāghanāśinī |

66.2६६.२

शिवत्रिशूलजनिता मन्मथस्याघशान्तये ॥ (६६।२)

śivatriśūlajanitā manmathasyāghaśāntaye ||

67.1६७.१

मात्रा सहैव त्वं गच्छ तत्र स्थित्वा विधानतः । (६७।१)

mātrā sahaiva tvaṃ gaccha tatra sthitvā vidhānataḥ |

67.2६७.२

स्नात्वा कामाघनाशिन्यां जपन् पञ्चाक्षरीं मनुम् ॥ (६७।२)

snātvā kāmāghanāśinyāṃ japan pañcākṣarīṃ manum ||

68.1६८.१

तत्र कामेश्वरं लिङ्गं पूजयस्व विधानतः । (६८।१)

tatra kāmeśvaraṃ liṅgaṃ pūjayasva vidhānataḥ |

68.2६८.२

इति दुर्वाससो वाक्यं श्रुत्वा तं प्रणिपत्य च ॥ (६८।२)

iti durvāsaso vākyaṃ śrutvā taṃ praṇipatya ca ||

69.1६९.१

कामाघनाशिनीं प्राप्य तत्रोवास चिरं द्विजः । (६९।१)

kāmāghanāśinīṃ prāpya tatrovāsa ciraṃ dvijaḥ |

69.2६९.२

स्नात्वा कामाघनाशिन्यां कामेशं परिपूजयन् ॥ (६९।२)

snātvā kāmāghanāśinyāṃ kāmeśaṃ paripūjayan ||

70.1७०.१

जपन् पञ्चाक्षरीं विद्यां द्वादशाब्दम् उवास ह । (७०।१)

japan pañcākṣarīṃ vidyāṃ dvādaśābdam uvāsa ha |

70.2७०.२

ततो गोकर्णम् आसाद्य कोटितीर्थादिषु क्रमात् ॥ (७०।२)

tato gokarṇam āsādya koṭitīrthādiṣu kramāt ||

71.1७१.१

स्नात्वा सर्वेषु तीर्थेषु तल्लिङ्गं परिपूज्य च । (७१।१)

snātvā sarveṣu tīrtheṣu talliṅgaṃ paripūjya ca |

71.2७१.२

कृतकृत्यस् ततो भूत्वा ययौ स्वभवनं द्विजः ॥ (७१।२)

kṛtakṛtyas tato bhūtvā yayau svabhavanaṃ dvijaḥ ||

72.1७२.१

स्वाचारनिरतः शान्तो बभूव द्विजसत्तमः । (७२।१)

svācāranirataḥ śānto babhūva dvijasattamaḥ |

72.2७२.२

महापातकयुक्तो वा संयुक्तो ह्य् उपपातकैः ॥ (७२।२)

mahāpātakayukto vā saṃyukto hy upapātakaiḥ ||

73.1७३.१

स्नात्वा कामाघनाशिन्यां नरो मुच्येत पातकैः । (७३।१)

snātvā kāmāghanāśinyāṃ naro mucyeta pātakaiḥ |

73.2७३.२

रावन, कुम्भकर्न, विभीषण उ वैश्रवण (कुबेर)सूत उवाच । (७३।२)

Rāvana, Kumbhakarna, Vibhīṣaṇa u Vaiśravaṇa (Kubera)sūta uvāca |

73.3७३.३

पौलस्त्यपुत्रा राजेन्द्र बहवः सिद्धिम् आगताः ॥ (७३।३)

paulastyaputrā rājendra bahavaḥ siddhim āgatāḥ ||

74.1७४.१

गोकर्णे रावणश् चैव कुम्भकर्णो विभीषणः । (७४।१)

gokarṇe rāvaṇaś caiva kumbhakarṇo vibhīṣaṇaḥ |

74.2७४.२

तपस् तेपुर् निराहारा ब्रह्मध्यानपरायणाः ॥ (७४।२)

tapas tepur nirāhārā brahmadhyānaparāyaṇāḥ ||

75.1७५.१

शिरांसि स्वानि संछिद्य जुहाव दशकन्धरः । (७५।१)

śirāṃsi svāni saṃchidya juhāva daśakandharaḥ |

75.2७५.२

ददौ तेषां वरं ब्रह्मा यथाभिलषितं नृप ॥ (७५।२)

dadau teṣāṃ varaṃ brahmā yathābhilaṣitaṃ nṛpa ||

76.1७६.१

अणिमादिमहासिद्धिम् आयुर्योगं च रावणः । (७६।१)

aṇimādimahāsiddhim āyuryogaṃ ca rāvaṇaḥ |

76.2७६.२

अवध्यत्वं सर्वभूतैः ऋते मानुषमात्रतः ॥ (७६।२)

avadhyatvaṃ sarvabhūtaiḥ ṛte mānuṣamātrataḥ ||

77.1७७.१

कुम्भकर्णो महानिद्रां कनीयांस् तु विभीषणः । (७७।१)

kumbhakarṇo mahānidrāṃ kanīyāṃs tu vibhīṣaṇaḥ |

77.2७७.२

धर्मे रतिं विष्णुभक्तिम् अमरत्वं च लब्धवान् ॥ (७७।२)

dharme ratiṃ viṣṇubhaktim amaratvaṃ ca labdhavān ||

78.1७८.१

रावणेनार्चितं लिङ्गं कुम्भकर्णेन पूजितम् । (७८।१)

rāvaṇenārcitaṃ liṅgaṃ kumbhakarṇena pūjitam |

78.2७८.२

विभीषणेश्वरं लिङ्गं पूजयन्ति नरा भुवि ॥ (७८।२)

vibhīṣaṇeśvaraṃ liṅgaṃ pūjayanti narā bhuvi ||

79.1७९.१

दीर्घायुषो भवन्त्य् अद्धा गोकर्णे तद्वने नृप । (७९।१)

dīrghāyuṣo bhavanty addhā gokarṇe tadvane nṛpa |

79.2७९.२

श्लेष्मातकम् इति श्रेष्ठं सर्वसिद्धनिषेवितम् ॥ (७९।२)

śleṣmātakam iti śreṣṭhaṃ sarvasiddhaniṣevitam ||

80.1८०.१

हेतिर् नाम प्रहेतिश् च विश्वचित्तिर् विदूरथः । (८०।१)

hetir nāma prahetiś ca viśvacittir vidūrathaḥ |

80.2८०.२

एते चान्ये च बहवस् तत्र सिद्धिम् उपागताः ॥ (८०।२)

ete cānye ca bahavas tatra siddhim upāgatāḥ ||

81.1८१.१

रावणाद्या वरं लब्ध्वा ऐश्वर्यबलदर्पिताः । (८१।१)

rāvaṇādyā varaṃ labdhvā aiśvaryabaladarpitāḥ |

81.2८१.२

मातृवाक्यात् तदा युद्धे जित्वा वैश्रवणं नृप ॥ (८१।२)

mātṛvākyāt tadā yuddhe jitvā vaiśravaṇaṃ nṛpa ||

82.1८२.१

अपहृत्य पुरीं लङ्कां विमानम् अपि पुष्पकम् । (८२।१)

apahṛtya purīṃ laṅkāṃ vimānam api puṣpakam |

82.2८२.२

चक्रे लङ्कां राजधानीं राक्षसैः सह रावणः ॥ (८२।२)

cakre laṅkāṃ rājadhānīṃ rākṣasaiḥ saha rāvaṇaḥ ||

83.1८३.१

कुबेरस् तु पितुर् वाक्यात् तपस् तप्तुं सुदुश्चरम् । (८३।१)

kuberas tu pitur vākyāt tapas taptuṃ suduścaram |

83.2८३.२

गोकर्णं क्षेत्रम् आसाद्य श्लेष्मातकवने शुभे ॥ (८३।२)

gokarṇaṃ kṣetram āsādya śleṣmātakavane śubhe ||

84.1८४.१

लिङ्गं तत्र प्रतिष्ठाप्य तीर्थं कृत्वा तु भक्तितः । (८४।१)

liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā tu bhaktitaḥ |

84.2८४.२

तपस् तप्त्वा विधानेन प्रत्यक्षीकृत्य शङ्करम् ॥ (८४।२)

tapas taptvā vidhānena pratyakṣīkṛtya śaṅkaram ||

85.1८५.१

अलकाख्यां पुरीं रम्यां निधीन् अष्टौ श्रियं तथा । (८५।१)

alakākhyāṃ purīṃ ramyāṃ nidhīn aṣṭau śriyaṃ tathā |

85.2८५.२

उदग्दिगाधिपत्यं च हरमैत्रीं तथा नृप ॥ (८५।२)

udagdigādhipatyaṃ ca haramaitrīṃ tathā nṛpa ||

86.1८६.१

लब्ध्वा वैश्रवणः पश्चाद् अध्युवासालकां पुरीं । (८६।१)

labdhvā vaiśravaṇaḥ paścād adhyuvāsālakāṃ purīṃ |

86.2८६.२

स्नात्वा वैश्रवणे तीर्थे कुबेरेश्वरम् अर्चयेत् ॥ (८६।२)

snātvā vaiśravaṇe tīrthe kubereśvaram arcayet ||

87.1८७.१

कार्तिके तु त्रयोदश्यां तस्य लक्ष्मीः स्थिरा भवेत् ॥ (८७।१)

kārtike tu trayodaśyāṃ tasya lakṣmīḥ sthirā bhavet ||

88.1८८.१

इति श्रीस्कान्दे गोकर्णखण्डे श्रीगोकर्णमाहात्म्ये नवमो ऽध्यायः । ॥ (८८।१)

iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye navamo 'dhyāyaḥ | ||

Data courtesy of The Digital Corpus of Sanskrit.

GokPurS, 9

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit