मनुस्मृतिManusmṛti

ManuS, 10

10 of 12 · 262 verses

Select a line for its word-by-word analysis.

1.1१.१

अधीयीरंस् त्रयो वर्णाः स्वकर्मस्था द्विजातयः । (१।१)

adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ |

1.2१.२

प्रब्रूयाद् ब्राह्मणस् त्व् एषां नेतराव् इति निश्चयः ॥ (१।२)

prabrūyād brāhmaṇas tv eṣāṃ netarāv iti niścayaḥ ||

2.1२.१

सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि । (२।१)

sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi |

2.2२.२

प्रब्रूयाद् इतरेभ्यश् च स्वयं चैव तथा भवेत् ॥ (२।२)

prabrūyād itarebhyaś ca svayaṃ caiva tathā bhavet ||

3.1३.१

वैशेष्यात् प्रकृतिश्रैष्ठ्यान् नियमस्य च धारणात् । (३।१)

vaiśeṣyāt prakṛtiśraiṣṭhyān niyamasya ca dhāraṇāt |

3.2३.२

संस्कारस्य विशेषाच् च वर्णानां ब्राह्मणः प्रभुः ॥ (३।२)

saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ ||

4.1४.१

ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः । (४।१)

brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ |

4.2४.२

चतुर्थ एकजातिस् तु शूद्रो नास्ति तु पञ्चमः ॥ (४।२)

caturtha ekajātis tu śūdro nāsti tu pañcamaḥ ||

5.1५.१

सर्ववर्णेषु तुल्यासु पत्नीष्व् अक्षतयोनिषु । (५।१)

sarvavarṇeṣu tulyāsu patnīṣv akṣatayoniṣu |

5.2५.२

आनुलोम्येन सम्भूता जात्या ज्ञेयास् त एव ते ॥ (५।२)

ānulomyena sambhūtā jātyā jñeyās ta eva te ||

6.1६.१

स्त्रीष्व् अनन्तरजातासु द्विजैर् उत्पादितान् सुतान् । (६।१)

strīṣv anantarajātāsu dvijair utpāditān sutān |

6.2६.२

सदृशान् एव तान् आहुर् मातृदोषविगर्हितान् ॥ (६।२)

sadṛśān eva tān āhur mātṛdoṣavigarhitān ||

7.1७.१

अनन्तरासु जातानां विधिर् एष सनातनः । (७।१)

anantarāsu jātānāṃ vidhir eṣa sanātanaḥ |

7.2७.२

द्व्येकान्तरासु जातानां धर्म्यं विद्याद् इमं विधिम् ॥ (७।२)

dvyekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim ||

8.1८.१

ब्राह्मणाद् वैश्यकन्यायाम् अम्बष्ठो नाम जायते । (८।१)

brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate |

8.2८.२

निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ (८।२)

niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate ||

9.1९.१

क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान् । (९।१)

kṣatriyācchūdrakanyāyāṃ krūrācāravihāravān |

9.2९.२

क्षत्रशूद्रवपुर् जन्तुर् उग्रो नाम प्रजायते ॥ (९।२)

kṣatraśūdravapur jantur ugro nāma prajāyate ||

10.1१०.१

विप्रस्य त्रिषु वर्णेषु नृपतेर् वर्णयोर् द्वयोः । (१०।१)

viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ |

10.2१०.२

वैश्यस्य वर्णे चैकस्मिन् षड् एते ऽपसदाः स्मृताः ॥ (१०।२)

vaiśyasya varṇe caikasmin ṣaḍ ete 'pasadāḥ smṛtāḥ ||

11.1११.१

क्षत्रियाद् विप्रकन्यायां सूतो भवति जातितः । (११।१)

kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ |

11.2११.२

वैश्यान् मागधवैदेहौ राजविप्राङ्गनासुतौ ॥ (११।२)

vaiśyān māgadhavaidehau rājaviprāṅganāsutau ||

12.1१२.१

शूद्राद् आयोगवः क्षत्ता चण्डालश् चाधमो नृणाम् । (१२।१)

śūdrād āyogavaḥ kṣattā caṇḍālaś cādhamo nṛṇām |

12.2१२.२

वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः ॥ (१२।२)

vaiśyarājanyaviprāsu jāyante varṇasaṃkarāḥ ||

13.1१३.१

एकान्तरे त्व् आनुलोम्याद् अम्बष्ठोग्रौ यथा स्मृतौ । (१३।१)

ekāntare tv ānulomyād ambaṣṭhograu yathā smṛtau |

13.2१३.२

क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्ये ऽपि जन्मनि ॥ (१३।२)

kṣattṛvaidehakau tadvat prātilomye 'pi janmani ||

14.1१४.१

पुत्रा ये ऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । (१४।१)

putrā ye 'nantarastrījāḥ krameṇoktā dvijanmanām |

14.2१४.२

तान् अनन्तरनाम्नस् तु मातृदोषात् प्रचक्षते ॥ (१४।२)

tān anantaranāmnas tu mātṛdoṣāt pracakṣate ||

15.1१५.१

ब्राह्मणाद् उग्रकन्यायाम् आवृतो नाम जायते । (१५।१)

brāhmaṇād ugrakanyāyām āvṛto nāma jāyate |

15.2१५.२

आभीरो ऽम्बष्ठकन्यायाम् आयोगव्यां तु धिग्वणः ॥ (१५।२)

ābhīro 'mbaṣṭhakanyāyām āyogavyāṃ tu dhigvaṇaḥ ||

16.1१६.१

आयोगवश् च क्षत्ता च चण्डालश् चाधमो नृणाम् । (१६।१)

āyogavaś ca kṣattā ca caṇḍālaś cādhamo nṛṇām |

16.2१६.२

प्रातिलोम्येन जायन्ते शूद्राद् अपसदास् त्रयः ॥ (१६।२)

prātilomyena jāyante śūdrād apasadās trayaḥ ||

17.1१७.१

वैश्यान् मागधवैदेहौ क्षत्रियात् सूत एव तु । (१७।१)

vaiśyān māgadhavaidehau kṣatriyāt sūta eva tu |

17.2१७.२

प्रतीपम् एते जायन्ते परे ऽप्य् अपसदास् त्रयः ॥ (१७।२)

pratīpam ete jāyante pare 'py apasadās trayaḥ ||

18.1१८.१

जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः । (१८।१)

jāto niṣādācchūdrāyāṃ jātyā bhavati pukkasaḥ |

18.2१८.२

शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥ (१८।२)

śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ ||

19.1१९.१

क्षत्तुर् जातस् तथोग्रायां श्वपाक इति कीर्त्यते । (१९।१)

kṣattur jātas tathogrāyāṃ śvapāka iti kīrtyate |

19.2१९.२

वैदेहकेन त्व् अम्बष्ठ्याम् उत्पन्नो वेण उच्यते ॥ (१९।२)

vaidehakena tv ambaṣṭhyām utpanno veṇa ucyate ||

20.1२०.१

द्विजातयः सवर्णासु जनयन्त्य् अव्रतांस् तु यान् । (२०।१)

dvijātayaḥ savarṇāsu janayanty avratāṃs tu yān |

20.2२०.२

तान् सावित्रीपरिभ्रष्टान् व्रात्यान् इति विनिर्दिशेत् ॥ (२०।२)

tān sāvitrīparibhraṣṭān vrātyān iti vinirdiśet ||

21.1२१.१

व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः । (२१।१)

vrātyāt tu jāyate viprāt pāpātmā bhūrjakaṇṭakaḥ |

21.2२१.२

आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ (२१।२)

āvantyavāṭadhānau ca puṣpadhaḥ śaikha eva ca ||

22.1२२.१

झल्लो मल्लश् च राजन्याद् व्रात्यान् निच्छिविर् एव च । (२२।१)

jhallo mallaś ca rājanyād vrātyān nicchivir eva ca |

22.2२२.२

नटश् च करणश् चैव खसो द्रविड एव च ॥ (२२।२)

naṭaś ca karaṇaś caiva khaso draviḍa eva ca ||

23.1२३.१

वैश्यात् तु जायते व्रात्यात् सुधन्वाचार्य एव च । (२३।१)

vaiśyāt tu jāyate vrātyāt sudhanvācārya eva ca |

23.2२३.२

कारुषश् च विजन्मा च मैत्रः सात्वत एव च ॥ (२३।२)

kāruṣaś ca vijanmā ca maitraḥ sātvata eva ca ||

24.1२४.१

व्यभिचारेण वर्णानाम् अवेद्यावेदनेन च । (२४।१)

vyabhicāreṇa varṇānām avedyāvedanena ca |

24.2२४.२

स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः ॥ (२४।२)

svakarmaṇāṃ ca tyāgena jāyante varṇasaṃkarāḥ ||

25.1२५.१

संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः । (२५।१)

saṃkīrṇayonayo ye tu pratilomānulomajāḥ |

25.2२५.२

अन्योन्यव्यतिषक्ताश् च तान् प्रवक्ष्याम्य् अशेषतः ॥ (२५।२)

anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ ||

26.1२६.१

सूतो वैदेहकश् चैव चण्डालश् च नराधमः । (२६।१)

sūto vaidehakaś caiva caṇḍālaś ca narādhamaḥ |

26.2२६.२

मागधः तथायोगव एव च क्षत्रजातिश् च ॥ (२६।२)

māgadhaḥ tathāyogava eva ca kṣatrajātiś ca ||

27.1२७.१

एते षट् सदृशान् वर्णाञ् जनयन्ति स्वयोनिषु । (२७।१)

ete ṣaṭ sadṛśān varṇāñ janayanti svayoniṣu |

27.2२७.२

मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु ॥ (२७।२)

mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu ||

28.1२८.१

यथा त्रयाणां वर्णानां द्वयोर् आत्मास्य जायते । (२८।१)

yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate |

28.2२८.२

आनन्तर्यात् स्वयोन्यां तु तथा बाह्येष्व् अपि क्रमात् ॥ (२८।२)

ānantaryāt svayonyāṃ tu tathā bāhyeṣv api kramāt ||

29.1२९.१

ते चापि बाह्यान् सुबहूंस् ततो ऽप्य् अधिकदूषितान् । (२९।१)

te cāpi bāhyān subahūṃs tato 'py adhikadūṣitān |

29.2२९.२

परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ (२९।२)

parasparasya dāreṣu janayanti vigarhitān ||

30.1३०.१

यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते । (३०।१)

yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate |

30.2३०.२

तथा बाह्यतरं बाह्यश् चातुर्वर्ण्ये प्रसूयते ॥ (३०।२)

tathā bāhyataraṃ bāhyaś cāturvarṇye prasūyate ||

31.1३१.१

प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः । (३१।१)

pratikūlaṃ vartamānā bāhyā bāhyatarān punaḥ |

31.2३१.२

हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥ (३१।२)

hīnā hīnān prasūyante varṇān pañcadaśaiva tu ||

32.1३२.१

प्रसाधनोपचारज्ञम् अदासं दासजीवनम् । (३२।१)

prasādhanopacārajñam adāsaṃ dāsajīvanam |

32.2३२.२

सैरिन्ध्रं वागुरावृत्तिं सूते दस्युर् अयोगवे ॥ (३२।२)

sairindhraṃ vāgurāvṛttiṃ sūte dasyur ayogave ||

33.1३३.१

मैत्रेयकं तु वैदेहो माधूकं सम्प्रसूयते । (३३।१)

maitreyakaṃ tu vaideho mādhūkaṃ samprasūyate |

33.2३३.२

नॄन् प्रशंसत्य् अजस्रं यो घण्टाताडो ऽरुणोदये ॥ (३३।२)

nṝn praśaṃsaty ajasraṃ yo ghaṇṭātāḍo 'ruṇodaye ||

34.1३४.१

निषादो मार्गवं सूते दासं नौकर्मजीविनम् । (३४।१)

niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam |

34.2३४.२

कैवर्तम् इति यं प्राहुर् आर्यावर्तनिवासिनः ॥ (३४।२)

kaivartam iti yaṃ prāhur āryāvartanivāsinaḥ ||

35.1३५.१

मृतवस्त्रभृत्स्व् नारीषु गर्हितान्नाशनासु च । (३५।१)

mṛtavastrabhṛtsv nārīṣu garhitānnāśanāsu ca |

35.2३५.२

भवन्त्य् आयोगवीष्व् एते जातिहीनाः पृथक् त्रयः ॥ (३५।२)

bhavanty āyogavīṣv ete jātihīnāḥ pṛthak trayaḥ ||

36.1३६.१

कारावरो निषादात् तु चर्मकारः प्रसूयते । (३६।१)

kārāvaro niṣādāt tu carmakāraḥ prasūyate |

36.2३६.२

वैदेहिकाद् अन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥ (३६।२)

vaidehikād andhramedau bahirgrāmapratiśrayau ||

37.1३७.१

चण्डालात् पाण्डुसोपाकस् त्वक्सारव्यवहारवान् । (३७।१)

caṇḍālāt pāṇḍusopākas tvaksāravyavahāravān |

37.2३७.२

आहिण्डिको निषादेन वैदेह्याम् एव जायते ॥ (३७।२)

āhiṇḍiko niṣādena vaidehyām eva jāyate ||

38.1३८.१

चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् । (३८।१)

caṇḍālena tu sopāko mūlavyasanavṛttimān |

38.2३८.२

पुक्कस्यां जायते पापः सदा सज्जनगर्हितः ॥ (३८।२)

pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ ||

39.1३९.१

निषादस्त्री तु चण्डालात् पुत्रम् अन्त्यावसायिनम् । (३९।१)

niṣādastrī tu caṇḍālāt putram antyāvasāyinam |

39.2३९.२

श्मशानगोचरं सूते बाह्यानाम् अपि गर्हितम् ॥ (३९।२)

śmaśānagocaraṃ sūte bāhyānām api garhitam ||

40.1४०.१

संकरे जातयस् त्व् एताः पितृमातृप्रदर्शिताः । (४०।१)

saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ |

40.2४०.२

प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ (४०।२)

pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ ||

41.1४१.१

स्वजातिजानन्तरजाः षट् सुता द्विजधर्मिणः । (४१।१)

svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ |

41.2४१.२

शूद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः ॥ (४१।२)

śūdrāṇāṃ tu sadharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ ||

42.1४२.१

तपोबीजप्रभावैस् तु ते गच्छन्ति युगे युगे । (४२।१)

tapobījaprabhāvais tu te gacchanti yuge yuge |

42.2४२.२

उत्कर्षं चापकर्षं च मनुष्येष्व् इह जन्मतः ॥ (४२।२)

utkarṣaṃ cāpakarṣaṃ ca manuṣyeṣv iha janmataḥ ||

43.1४३.१

शनकैस् तु क्रियालोपाद् इमाः क्षत्रियजातयः । (४३।१)

śanakais tu kriyālopād imāḥ kṣatriyajātayaḥ |

43.2४३.२

वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ (४३।२)

vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca ||

44.1४४.१

पौण्ड्रकाश् चौड्रद्रविडाः काम्बोजा यवनाः शकाः । (४४।१)

pauṇḍrakāś cauḍradraviḍāḥ kāmbojā yavanāḥ śakāḥ |

44.2४४.२

पारदपह्लवाश् चीनाः किराता दरदाः खसाः ॥ (४४।२)

pāradapahlavāś cīnāḥ kirātā daradāḥ khasāḥ ||

45.1४५.१

मुखबाहूरुपज्जानां या लोके जातयो बहिः । (४५।१)

mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ |

45.2४५.२

म्लेच्छवाचश् चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥ (४५।२)

mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ ||

46.1४६.१

ये द्विजानाम् अपसदा ये चापध्वंसजाः स्मृताः । (४६।१)

ye dvijānām apasadā ye cāpadhvaṃsajāḥ smṛtāḥ |

46.2४६.२

ते निन्दितैर् वर्तयेयुर् द्विजानाम् एव कर्मभिः ॥ (४६।२)

te ninditair vartayeyur dvijānām eva karmabhiḥ ||

47.1४७.१

सूतानाम् अश्वसारथ्यम् अम्बष्ठानां चिकित्सनम् । (४७।१)

sūtānām aśvasārathyam ambaṣṭhānāṃ cikitsanam |

47.2४७.२

वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥ (४७।२)

vaidehakānāṃ strīkāryaṃ māgadhānāṃ vaṇikpathaḥ ||

48.1४८.१

मत्स्यघातो निषादानां त्वष्टिस् त्व् आयोगवस्य च । (४८।१)

matsyaghāto niṣādānāṃ tvaṣṭis tv āyogavasya ca |

48.2४८.२

मेदान्ध्रचुञ्चुमद्गूनाम् आरण्यपशुहिंसनम् ॥ (४८।२)

medāndhracuñcumadgūnām āraṇyapaśuhiṃsanam ||

49.1४९.१

क्षत्त्रुग्रपुक्कसानां तु बिलौकोवधबन्धनम् । (४९।१)

kṣattrugrapukkasānāṃ tu bilaukovadhabandhanam |

49.2४९.२

धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥ (४९।२)

dhigvaṇānāṃ carmakāryaṃ veṇānāṃ bhāṇḍavādanam ||

50.1५०.१

चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च । (५०।१)

caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca |

50.2५०.२

वसेयुर् एते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥ (५०।२)

vaseyur ete vijñātā vartayantaḥ svakarmabhiḥ ||

51.1५१.१

चण्डालश्वपचानां तु बहिर् ग्रामात् प्रतिश्रयः । (५१।१)

caṇḍālaśvapacānāṃ tu bahir grāmāt pratiśrayaḥ |

51.2५१.२

अपपात्राश् च कर्तव्या धनम् एषां श्वगर्दभम् ॥ (५१।२)

apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham ||

52.1५२.१

वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् । (५२।१)

vāsāṃsi mṛtacailāni bhinnabhāṇḍeṣu bhojanam |

52.2५२.२

कार्ष्णायसम् अलंकारः परिव्रज्या च नित्यशः ॥ (५२।२)

kārṣṇāyasam alaṃkāraḥ parivrajyā ca nityaśaḥ ||

53.1५३.१

न तैः समयम् अन्विच्छेत् पुरुषो धर्मम् आचरन् । (५३।१)

na taiḥ samayam anvicchet puruṣo dharmam ācaran |

53.2५३.२

व्यवहारो मिथस् तेषां विवाहः सदृशैः सह ॥ (५३।२)

vyavahāro mithas teṣāṃ vivāhaḥ sadṛśaiḥ saha ||

54.1५४.१

अन्नम् एषां पराधीनं देयं स्याद् भिन्नभाजने । (५४।१)

annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane |

54.2५४.२

रात्रौ न विचरेयुस् ते ग्रामेषु नगरेषु च ॥ (५४।२)

rātrau na vicareyus te grāmeṣu nagareṣu ca ||

55.1५५.१

दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः । (५५।१)

divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ |

55.2५५.२

अबान्धवं शवं चैव निर्हरेयुर् इति स्थितिः ॥ (५५।२)

abāndhavaṃ śavaṃ caiva nirhareyur iti sthitiḥ ||

56.1५६.१

वध्यांश् च हन्युः सततं यथाशास्त्रं नृपाज्ञया । (५६।१)

vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā |

56.2५६.२

वध्यवासांसि गृह्णीयुः शय्याश् चाभरणानि च ॥ (५६।२)

vadhyavāsāṃsi gṛhṇīyuḥ śayyāś cābharaṇāni ca ||

57.1५७.१

वर्णापेतम् अविज्ञातं नरं कलुषयोनिजम् । (५७।१)

varṇāpetam avijñātaṃ naraṃ kaluṣayonijam |

57.2५७.२

आर्यरूपम् इवानार्यं कर्मभिः स्वैर् विभावयेत् ॥ (५७।२)

āryarūpam ivānāryaṃ karmabhiḥ svair vibhāvayet ||

58.1५८.१

अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता । (५८।१)

anāryatā niṣṭhuratā krūratā niṣkriyātmatā |

58.2५८.२

पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ (५८।२)

puruṣaṃ vyañjayantīha loke kaluṣayonijam ||

59.1५९.१

पित्र्यं वा भजते शीलं मातुर् वोभयम् एव वा । (५९।१)

pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā |

59.2५९.२

न कथंचन दुर्योनिः प्रकृतिं स्वां नियच्छति ॥ (५९।२)

na kathaṃcana duryoniḥ prakṛtiṃ svāṃ niyacchati ||

60.1६०.१

कुले मुख्ये ऽपि जातस्य यस्य स्याद् योनिसंकरः । (६०।१)

kule mukhye 'pi jātasya yasya syād yonisaṃkaraḥ |

60.2६०.२

संश्रयत्य् एव तच्छीलं नरो ऽल्पम् अपि वा बहु ॥ (६०।२)

saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu ||

61.1६१.१

यत्र त्व् एते परिध्वंसाज् जायन्ते वर्णदूषकाः । (६१।१)

yatra tv ete paridhvaṃsāj jāyante varṇadūṣakāḥ |

61.2६१.२

राष्ट्रिकैः सह तद् राष्ट्रं क्षिप्रम् एव विनश्यति ॥ (६१।२)

rāṣṭrikaiḥ saha tad rāṣṭraṃ kṣipram eva vinaśyati ||

62.1६२.१

ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽनुपस्कृतः । (६२।१)

brāhmaṇārthe gavārthe vā dehatyāgo 'nupaskṛtaḥ |

62.2६२.२

स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥ (६२।२)

strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam ||

63.1६३.१

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः । (६३।१)

ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ |

63.2६३.२

एतं सामासिकं धर्मं चातुर्वर्ण्ये ऽब्रवीन् मनुः ॥ (६३।२)

etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye 'bravīn manuḥ ||

64.1६४.१

शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते । (६४।१)

śūdrāyāṃ brāhmaṇāj jātaḥ śreyasā cet prajāyate |

64.2६४.२

अश्रेयान् श्रेयसीं जातिं गच्छत्य् आ सप्तमाद् युगात् ॥ (६४।२)

aśreyān śreyasīṃ jātiṃ gacchaty ā saptamād yugāt ||

65.1६५.१

शूद्रो ब्राह्मणताम् एति ब्राह्मणश् चैति शूद्रताम् । (६५।१)

śūdro brāhmaṇatām eti brāhmaṇaś caiti śūdratām |

65.2६५.२

क्षत्रियाज् जातम् एवं तु विद्याद् वैश्यात् तथैव च ॥ (६५।२)

kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathaiva ca ||

66.1६६.१

अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया । (६६।१)

anāryāyāṃ samutpanno brāhmaṇāt tu yadṛcchayā |

66.2६६.२

ब्राह्मण्याम् अप्य् अनार्यात् तु श्रेयस्त्वं क्वैति चेद् भवेत् ॥ (६६।२)

brāhmaṇyām apy anāryāt tu śreyastvaṃ kvaiti ced bhavet ||

67.1६७.१

जातो नार्याम् अनार्यायाम् आर्याद् आर्यो भवेद् गुणैः । (६७।१)

jāto nāryām anāryāyām āryād āryo bhaved guṇaiḥ |

67.2६७.२

जातो ऽप्य् अनार्याद् आर्यायाम् अनार्य इति निश्चयः ॥ (६७।२)

jāto 'py anāryād āryāyām anārya iti niścayaḥ ||

68.1६८.१

ताव् उभाव् अप्य् असंस्कार्याव् इति धर्मो व्यवस्थितः । (६८।१)

tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ |

68.2६८.२

वैगुण्याज् जन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ (६८।२)

vaiguṇyāj janmanaḥ pūrva uttaraḥ pratilomataḥ ||

69.1६९.१

सुबीजं चैव सुक्षेत्रे जातं सम्पद्यते यथा । (६९।१)

subījaṃ caiva sukṣetre jātaṃ sampadyate yathā |

69.2६९.२

तथार्याज् जात आर्यायां सर्वं संस्कारम् अर्हति ॥ (६९।२)

tathāryāj jāta āryāyāṃ sarvaṃ saṃskāram arhati ||

70.1७०.१

बीजम् एके प्रशंसन्ति क्षेत्रम् अन्ये मनीषिणः । (७०।१)

bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ |

70.2७०.२

बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥ (७०।२)

bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ ||

71.1७१.१

अक्षेत्रे बीजम् उत्सृष्टम् अन्तरैव विनश्यति । (७१।१)

akṣetre bījam utsṛṣṭam antaraiva vinaśyati |

71.2७१.२

अबीजकम् अपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ (७१।२)

abījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet ||

72.1७२.१

यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयो ऽभवन् । (७२।१)

yasmād bījaprabhāveṇa tiryagjā ṛṣayo 'bhavan |

72.2७२.२

पूजिताश् च प्रशस्ताश् च तस्माद् बीजं प्रशस्यते ॥ (७२।२)

pūjitāś ca praśastāś ca tasmād bījaṃ praśasyate ||

73.1७३.१

अनार्यम् आर्यकर्माणम् आर्यं चानार्यकर्मिणम् । (७३।१)

anāryam āryakarmāṇam āryaṃ cānāryakarmiṇam |

73.2७३.२

सम्प्रधार्याब्रवीद् धाता न समौ नासमाव् इति ॥ (७३।२)

sampradhāryābravīd dhātā na samau nāsamāv iti ||

74.1७४.१

ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्य् अवस्थिताः । (७४।१)

brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ |

74.2७४.२

ते सम्यग् उपजीवेयुः षट् कर्माणि यथाक्रमम् ॥ (७४।२)

te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam ||

75.1७५.१

अध्यापनम् अध्ययनं यजनं याजनं तथा । (७५।१)

adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā |

75.2७५.२

दानं प्रतिग्रहश् चैव षट् कर्माण्य् अग्रजन्मनः ॥ (७५।२)

dānaṃ pratigrahaś caiva ṣaṭ karmāṇy agrajanmanaḥ ||

76.1७६.१

षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका । (७६।१)

ṣaṇṇāṃ tu karmaṇām asya trīṇi karmāṇi jīvikā |

76.2७६.२

याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ॥ (७६।२)

yājanādhyāpane caiva viśuddhāc ca pratigrahaḥ ||

77.1७७.१

त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति । (७७।१)

trayo dharmā nivartante brāhmaṇāt kṣatriyaṃ prati |

77.2७७.२

अध्यापनं याजनं च तृतीयश् च प्रतिग्रहः ॥ (७७।२)

adhyāpanaṃ yājanaṃ ca tṛtīyaś ca pratigrahaḥ ||

78.1७८.१

वैश्यं प्रति तथैवैते निवर्तेरन्न् इति स्थितिः । (७८।१)

vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ |

78.2७८.२

न तौ प्रति हि तान् धर्मान् मनुर् आह प्रजापतिः ॥ (७८।२)

na tau prati hi tān dharmān manur āha prajāpatiḥ ||

79.1७९.१

शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर् विशः । (७९।१)

śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viśaḥ |

79.2७९.२

आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ॥ (७९।२)

ājīvanārthaṃ dharmas tu dānam adhyayanaṃ yajiḥ ||

80.1८०.१

वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् । (८०।१)

vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam |

80.2८०.२

वार्त्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥ (८०।२)

vārttākarmaiva vaiśyasya viśiṣṭāni svakarmasu ||

81.1८१.१

अजीवंस् तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । (८१।१)

ajīvaṃs tu yathoktena brāhmaṇaḥ svena karmaṇā |

81.2८१.२

जीवेत् क्षत्रियधर्मेण स ह्य् अस्य प्रत्य् अनन्तरः ॥ (८१।२)

jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ ||

82.1८२.१

उभाभ्याम् अप्य् अजीवंस् तु कथं स्याद् इति चेद् भवेत् । (८२।१)

ubhābhyām apy ajīvaṃs tu kathaṃ syād iti ced bhavet |

82.2८२.२

कृषिगोरक्षम् आस्थाय जीवेद् वैश्यस्य जीविकाम् ॥ (८२।२)

kṛṣigorakṣam āsthāya jīved vaiśyasya jīvikām ||

83.1८३.१

वैश्यवृत्त्यापि जीवंस् तु ब्राह्मणः क्षत्रियो ऽपि वा । (८३।१)

vaiśyavṛttyāpi jīvaṃs tu brāhmaṇaḥ kṣatriyo 'pi vā |

83.2८३.२

हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥ (८३।२)

hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet ||

84.1८४.१

कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिता । (८४।१)

kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā |

84.2८४.२

भूमिं भूमिशयांश् चैव हन्ति काष्ठम् अयोमुखम् ॥ (८४।२)

bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham ||

85.1८५.१

इदं तु वृत्तिवैकल्यात् त्यजतो धर्मनैपुण्यम् । (८५।१)

idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇyam |

85.2८५.२

विट्पण्यम् उद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥ (८५।२)

viṭpaṇyam uddhṛtoddhāraṃ vikreyaṃ vittavardhanam ||

86.1८६.१

सर्वान् रसान् अपोहेत कृतान्नं च तिलैः सह । (८६।१)

sarvān rasān apoheta kṛtānnaṃ ca tilaiḥ saha |

86.2८६.२

अश्मनो लवणं चैव पशवो ये च मानुषाः ॥ (८६।२)

aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ ||

87.1८७.१

सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च । (८७।१)

sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca |

87.2८७.२

अपि चेत् स्युर् अरक्तानि फलमूले तथौषधीः ॥ (८७।२)

api cet syur araktāni phalamūle tathauṣadhīḥ ||

88.1८८.१

अपः शस्त्रं विषं मांसं सोमं गन्धांश् च सर्वशः । (८८।१)

apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ |

88.2८८.२

क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ (८८।२)

kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān ||

89.1८९.१

आरण्यांश् च पशून् सर्वान् दंष्ट्रिणश् च वयांसि च । (८९।१)

āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca |

89.2८९.२

मद्यं नीलीं च लाक्षां च सर्वांश् चैकशफांस् तथा ॥ (८९।२)

madyaṃ nīlīṃ ca lākṣāṃ ca sarvāṃś caikaśaphāṃs tathā ||

90.1९०.१

कामम् उत्पाद्य कृष्यां तु स्वयम् एव कृषीवलः । (९०।१)

kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ |

90.2९०.२

विक्रीणीत तिलाञ्शूद्रान् धर्मार्थम् अचिरस्थितान् ॥ (९०।२)

vikrīṇīta tilāñśūdrān dharmārtham acirasthitān ||

91.1९१.१

भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः । (९१।१)

bhojanābhyañjanād dānād yad anyat kurute tilaiḥ |

91.2९१.२

कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥ (९१।२)

kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati ||

92.1९२.१

सद्यः पतति मांसेन लाक्षया लवणेन च । (९२।१)

sadyaḥ patati māṃsena lākṣayā lavaṇena ca |

92.2९२.२

त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ (९२।२)

tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt ||

93.1९३.१

इतरेषां तु पण्यानां विक्रयाद् इह कामतः । (९३।१)

itareṣāṃ tu paṇyānāṃ vikrayād iha kāmataḥ |

93.2९३.२

ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ (९३।२)

brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati ||

94.1९४.१

रसा रसैर् निमातव्या न त्व् एव लवणं रसैः । (९४।१)

rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ |

94.2९४.२

कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥ (९४।२)

kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ ||

95.1९५.१

जीवेद् एतेन राजन्यः सर्वेणाप्य् अनयं गतः । (९५।१)

jīved etena rājanyaḥ sarveṇāpy anayaṃ gataḥ |

95.2९५.२

न त्व् एव ज्यायंसीं वृत्तिम् अभिमन्येत कर्हिचित् ॥ (९५।२)

na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhicit ||

96.1९६.१

यो लोभाद् अधमो जात्या जीवेद् उत्कृष्टकर्मभिः । (९६।१)

yo lobhād adhamo jātyā jīved utkṛṣṭakarmabhiḥ |

96.2९६.२

तं राजा निर्धनं कृत्वा क्षिप्रम् एव प्रवासयेत् ॥ (९६।२)

taṃ rājā nirdhanaṃ kṛtvā kṣipram eva pravāsayet ||

97.1९७.१

वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः । (९७।१)

varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ |

97.2९७.२

परधर्मेण जीवन् हि सद्यः पतति जातितः ॥ (९७।२)

paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ ||

98.1९८.१

वैश्यो ऽजीवन् स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् । (९८।१)

vaiśyo 'jīvan svadharmeṇa śūdravṛttyāpi vartayet |

98.2९८.२

अनाचरन्न् अकार्याणि निवर्तेत च शक्तिमान् ॥ (९८।२)

anācarann akāryāṇi nivarteta ca śaktimān ||

99.1९९.१

अशक्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् । (९९।१)

aśaknuvaṃs tu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām |

99.2९९.२

पुत्रदारात्ययं प्राप्तो जीवेत् कारुककर्मभिः ॥ (९९।२)

putradārātyayaṃ prāpto jīvet kārukakarmabhiḥ ||

100.1१००.१

यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । (१००।१)

yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ |

100.2१००.२

तानि कारुककर्माणि शिल्पानि विविधानि च ॥ (१००।२)

tāni kārukakarmāṇi śilpāni vividhāni ca ||

101.1१०१.१

वैश्यवृत्तिम् अनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः । (१०१।१)

vaiśyavṛttim anātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ |

101.2१०१.२

अवृत्तिकर्षितः सीदन्न् इमं धर्मं समाचरेत् ॥ (१०१।२)

avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret ||

102.1१०२.१

सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस् त्व् अनयं गतः । (१०२।१)

sarvataḥ pratigṛhṇīyād brāhmaṇas tv anayaṃ gataḥ |

102.2१०२.२

पवित्रं दुष्यतीत्य् एतद् धर्मतो नोपपद्यते ॥ (१०२।२)

pavitraṃ duṣyatīty etad dharmato nopapadyate ||

103.1१०३.१

नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् । (१०३।१)

nādhyāpanād yājanād vā garhitād vā pratigrahāt |

103.2१०३.२

दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥ (१०३।२)

doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te ||

104.1१०४.१

जीवितात्ययम् आपन्नो यो ऽन्नम् अत्ति ततस् ततः । (१०४।१)

jīvitātyayam āpanno yo 'nnam atti tatas tataḥ |

104.2१०४.२

आकाशम् इव पङ्केन न स पापेन लिप्यते ॥ (१०४।२)

ākāśam iva paṅkena na sa pāpena lipyate ||

105.1१०५.१

अजीगर्तः सुतं हन्तुम् उपासर्पद् बुभुक्षितः । (१०५।१)

ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ |

105.2१०५.२

न चालिप्यत पापेन क्षुत्प्रतीकारम् आचरन् ॥ (१०५।२)

na cālipyata pāpena kṣutpratīkāram ācaran ||

106.1१०६.१

श्वमांसम् इच्छन् आर्तो ऽत्तुं धर्माधर्मविचक्षणः । (१०६।१)

śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ |

106.2१०६.२

प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ (१०६।२)

prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān ||

107.1१०७.१

भरद्वाजः क्षुधार्तस् तु सपुत्रो विजने वने । (१०७।१)

bharadvājaḥ kṣudhārtas tu saputro vijane vane |

107.2१०७.२

बह्वीर् गाः प्रतिजग्राह वृधोस् तक्ष्णो महातपाः ॥ (१०७।२)

bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ ||

108.1१०८.१

क्षुधार्तश् चात्तुम् अभ्यागाद् विश्वामित्रः श्वजाघनीम् । (१०८।१)

kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm |

108.2१०८.२

चण्डालहस्ताद् आदाय धर्माधर्मविचक्षणः ॥ (१०८।२)

caṇḍālahastād ādāya dharmādharmavicakṣaṇaḥ ||

109.1१०९.१

प्रतिग्रहाद् याजनाद् वा तथैवाध्यापनाद् अपि । (१०९।१)

pratigrahād yājanād vā tathaivādhyāpanād api |

109.2१०९.२

प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ (१०९।२)

pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ ||

110.1११०.१

याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् । (११०।१)

yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām |

110.2११०.२

प्रतिग्रहस् तु क्रियते शूद्राद् अप्य् अन्त्यजन्मनः ॥ (११०।२)

pratigrahas tu kriyate śūdrād apy antyajanmanaḥ ||

111.1१११.१

जपहोमैर् अपैत्य् एनो याजनाध्यापनैः कृतम् । (१११।१)

japahomair apaity eno yājanādhyāpanaiḥ kṛtam |

111.2१११.२

प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ (१११।२)

pratigrahanimittaṃ tu tyāgena tapasaiva ca ||

112.1११२.१

शिलोञ्छम् अप्य् आददीत विप्रो ऽजीवन् यतस् ततः । (११२।१)

śiloñcham apy ādadīta vipro 'jīvan yatas tataḥ |

112.2११२.२

प्रतिग्रहाच्छिलः श्रेयांस् ततो ऽप्य् उञ्छः प्रशस्यते ॥ (११२।२)

pratigrahācchilaḥ śreyāṃs tato 'py uñchaḥ praśasyate ||

113.1११३.१

सीदद्भिः कुप्यम् इच्छद्भिर् धने वा पृथिवीपतिः । (११३।१)

sīdadbhiḥ kupyam icchadbhir dhane vā pṛthivīpatiḥ |

113.2११३.२

याच्यः स्यात् स्नातकैर् विप्रैर् अदित्संस् त्यागम् अर्हति ॥ (११३।२)

yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati ||

114.1११४.१

अकृतं च कृतात् क्षेत्राद् गौर् अजाविकम् एव च । (११४।१)

akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca |

114.2११४.२

हिरण्यं धान्यम् अन्नं च पूर्वं पूर्वम् अदोषवत् ॥ (११४।२)

hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat ||

115.1११५.१

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । (११५।१)

sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ |

115.2११५.२

प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥ (११५।२)

prayogaḥ karmayogaś ca satpratigraha eva ca ||

116.1११६.१

विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । (११६।१)

vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ |

116.2११६.२

धृतिर् भैक्षं कुसीदं च दश जीवनहेतवः ॥ (११६।२)

dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ ||

117.1११७.१

ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् । (११७।१)

brāhmaṇaḥ kṣatriyo vāpi vṛddhiṃ naiva prayojayet |

117.2११७.२

कामं तु खलु धर्मार्थं दद्यात् पापीयसे ऽल्पिकाम् ॥ (११७।२)

kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām ||

118.1११८.१

चतुर्थम् आददानो ऽपि क्षत्रियो भागम् आपदि । (११८।१)

caturtham ādadāno 'pi kṣatriyo bhāgam āpadi |

118.2११८.२

प्रजा रक्षन् परं शक्त्या किल्बिषात् प्रतिमुच्यते ॥ (११८।२)

prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate ||

119.1११९.१

स्वधर्मो विजयस् तस्य नाहवे स्यात् पराङ्मुखः । (११९।१)

svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ |

119.2११९.२

शस्त्रेण वैश्यान् रक्षित्वा धर्म्यम् आहारयेद् बलिम् ॥ (११९।२)

śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim ||

120.1१२०.१

धान्ये ऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् । (१२०।१)

dhānye 'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇāvaram |

120.2१२०.२

कर्मोपकरणाः शूद्राः कारवः शिल्पिनस् तथा ॥ (१२०।२)

karmopakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā ||

121.1१२१.१

शूद्रस् तु वृत्तिम् आकाङ्क्षन् क्षत्रम् आराधयेद् यदि । (१२१।१)

śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi |

121.2१२१.२

धनिनं वाप्य् उपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥ (१२१।२)

dhaninaṃ vāpy upārādhya vaiśyaṃ śūdro jijīviṣet ||

122.1१२२.१

स्वर्गार्थम् उभयार्थं वा विप्रान् आराधयेत् तु सः । (१२२।१)

svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ |

122.2१२२.२

जातब्राह्मणशब्दस्य सा ह्य् अस्य कृतकृत्यता ॥ (१२२।२)

jātabrāhmaṇaśabdasya sā hy asya kṛtakṛtyatā ||

123.1१२३.१

विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते । (१२३।१)

viprasevaiva śūdrasya viśiṣṭaṃ karma kīrtyate |

123.2१२३.२

यद् अतो ऽन्यद्धि कुरुते तद् भवत्य् अस्य निष्फलम् ॥ (१२३।२)

yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam ||

124.1१२४.१

प्रकल्प्या तस्य तैर् वृत्तिः स्वकुटुम्बाद् यथार्हतः । (१२४।१)

prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ |

124.2१२४.२

शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥ (१२४।२)

śaktiṃ cāvekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham ||

125.1१२५.१

उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च । (१२५।१)

ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca |

125.2१२५.२

पुलाकाश् चैव धान्यानां जीर्णाश् चैव परिच्छदाः ॥ (१२५।२)

pulākāś caiva dhānyānāṃ jīrṇāś caiva paricchadāḥ ||

126.1१२६.१

न शूद्रे पातकं किंचिन् न च संस्कारम् अर्हति । (१२६।१)

na śūdre pātakaṃ kiṃcin na ca saṃskāram arhati |

126.2१२६.२

नास्याधिकारो धर्मे ऽस्ति न धर्मात् प्रतिषेधनम् ॥ (१२६।२)

nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam ||

127.1१२७.१

धर्मेप्सवस् तु धर्मज्ञाः सतां वृत्तम् अनुष्ठिताः । (१२७।१)

dharmepsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ |

127.2१२७.२

मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ (१२७।२)

mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca ||

128.1१२८.१

यथा यथा हि सद्वृत्तम् आतिष्ठत्य् अनसूयकः । (१२८।१)

yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ |

128.2१२८.२

तथा तथेमं चामुं च लोकं प्राप्नोत्य् अनिन्दितः ॥ (१२८।२)

tathā tathemaṃ cāmuṃ ca lokaṃ prāpnoty aninditaḥ ||

129.1१२९.१

शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः । (१२९।१)

śaktenāpi hi śūdreṇa na kāryo dhanasaṃcayaḥ |

129.2१२९.२

शूद्रो हि धनम् आसाद्य ब्राह्मणान् एव बाधते ॥ (१२९।२)

śūdro hi dhanam āsādya brāhmaṇān eva bādhate ||

130.1१३०.१

एते चतुर्णां वर्णानाम् आपद्धर्माः प्रकीर्तिताः । (१३०।१)

ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ |

130.2१३०.२

यान् सम्यग् अनुतिष्ठन्तो व्रजन्ति परमां गतिम् ॥ (१३०।२)

yān samyag anutiṣṭhanto vrajanti paramāṃ gatim ||

131.1१३१.१

एष धर्मविधिः कृत्स्नश् चातुर्वर्ण्यस्य कीर्तितः । (१३१।१)

eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ |

131.2१३१.२

अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥ (१३१।२)

ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham ||

Data courtesy of The Digital Corpus of Sanskrit.

ManuS, 10

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit