मनुस्मृतिManusmṛti

ManuS, 7

7 of 12 · 452 verses

Select a line for its word-by-word analysis.

1.1१.१

राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन् नृपः । (१।१)

rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ |

1.2१.२

सम्भवश् च यथा तस्य सिद्धिश् च परमा यथा ॥ (१।२)

sambhavaś ca yathā tasya siddhiś ca paramā yathā ||

2.1२.१

ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । (२।१)

brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi |

2.2२.२

सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ (२।२)

sarvasyāsya yathānyāyaṃ kartavyaṃ parirakṣaṇam ||

3.1३.१

ओरिगिन् ओड़् क्षत्रियसराजके हि लोके ऽस्मिन् सर्वतो विद्रुतो भयात् । (३।१)

origin of kṣatriyasarājake hi loke 'smin sarvato vidruto bhayāt |

3.2३.२

रक्षार्थम् अस्य सर्वस्य राजानम् असृजत् प्रभुः ॥ (३।२)

rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ ||

4.1४.१

इन्द्रानिलयमार्काणाम् अग्नेश् च वरुणस्य च । (४।१)

indrānilayamārkāṇām agneś ca varuṇasya ca |

4.2४.२

चन्द्रवित्तेशयोश् चैव मात्रा निर्हृत्य शाश्वतीः ॥ (४।२)

candravitteśayoś caiva mātrā nirhṛtya śāśvatīḥ ||

5.1५.१

यस्माद् एषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । (५।१)

yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ |

5.2५.२

तस्माद् अभिभवत्य् एष सर्वभूतानि तेजसा ॥ (५।२)

tasmād abhibhavaty eṣa sarvabhūtāni tejasā ||

6.1६.१

पोwएर् ओड़् अ किन्ग्तपत्य् आदित्यवच् चैष चक्षूंषि च मनांसि च । (६।१)

power of a kingtapaty ādityavac caiṣa cakṣūṃṣi ca manāṃsi ca |

6.2६.२

न चैनं भुवि शक्नोति कश्चिद् अप्य् अभिवीक्षितुम् ॥ (६।२)

na cainaṃ bhuvi śaknoti kaścid apy abhivīkṣitum ||

7.1७.१

सो ऽग्निर् भवति वायुश् च सो ऽर्कः सोमः स धर्मराट् । (७।१)

so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ |

7.2७.२

स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ (७।२)

sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ ||

8.1८.१

बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः । (८।१)

bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ |

8.2८.२

महती देवता ह्य् एषा नररूपेण तिष्ठति ॥ (८।२)

mahatī devatā hy eṣā nararūpeṇa tiṣṭhati ||

9.1९.१

एकम् एव दहत्य् अग्निर् नरं दुरुपसर्पिणम् । (९।१)

ekam eva dahaty agnir naraṃ durupasarpiṇam |

9.2९.२

कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥ (९।२)

kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam ||

10.1१०.१

कार्यं सो ऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः । (१०।१)

kāryaṃ so 'vekṣya śaktiṃ ca deśakālau ca tattvataḥ |

10.2१०.२

कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ (१०।२)

kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ ||

11.1११.१

यस्य प्रसादे पद्मा श्रीर् विजयश् च पराक्रमे । (११।१)

yasya prasāde padmā śrīr vijayaś ca parākrame |

11.2११.२

मृत्युश् च वसति क्रोधे सर्वतेजोमयो हि सः ॥ (११।२)

mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ ||

12.1१२.१

तं यस् तु द्वेष्टि सम्मोहात् स विनश्यत्य् असंशयम् । (१२।१)

taṃ yas tu dveṣṭi sammohāt sa vinaśyaty asaṃśayam |

12.2१२.२

तस्य ह्य् आशु विनाशाय राजा प्रकुरुते मनः ॥ (१२।२)

tasya hy āśu vināśāya rājā prakurute manaḥ ||

13.1१३.१

किन्ग् मुस्त् अच्त् इन् चोन्ड़ोर्मन्चे wइथ् लwतस्माद् धर्मं यम् इष्टेषु स व्यवस्येन् नराधिपः । (१३।१)

king must act in conformance with lawtasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ |

13.2१३.२

अनिष्टं चाप्य् अनिष्टेषु तं धर्मं न विचालयेत् ॥ (१३।२)

aniṣṭaṃ cāpy aniṣṭeṣu taṃ dharmaṃ na vicālayet ||

14.1१४.१

पोसितिओन्।इम्पोर्तन्चे ओड़् दण्डतस्यार्थे सर्वभूतानां गोप्तारं धर्मम् आत्मजम् । (१४।१)

position|importance of daṇḍatasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam |

14.2१४.२

ब्रह्मतेजोमयं दण्डम् असृजत् पूर्वम् ईश्वरः ॥ (१४।२)

brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ ||

15.1१५.१

तस्य सर्वाणि भूतानि स्थावराणि चराणि च । (१५।१)

tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca |

15.2१५.२

भयाद् भोगाय कल्पन्ते स्वधर्मान् न चलन्ति च ॥ (१५।२)

bhayād bhogāya kalpante svadharmān na calanti ca ||

16.1१६.१

तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः । (१६।१)

taṃ deśakālau śaktiṃ ca vidyāṃ cāvekṣya tattvataḥ |

16.2१६.२

यथार्हतः सम्प्रणयेन् नरेष्व् अन्यायवर्तिषु ॥ (१६।२)

yathārhataḥ sampraṇayen nareṣv anyāyavartiṣu ||

17.1१७.१

स राजा पुरुषो दण्डः स नेता शासिता च सः । (१७।१)

sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ |

17.2१७.२

चतुर्णाम् आश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ (१७।२)

caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ ||

18.1१८.१

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । (१८।१)

daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati |

18.2१८.२

दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः ॥ (१८।२)

daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ ||

19.1१९.१

समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । (१९।१)

samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ |

19.2१९.२

असमीक्ष्य प्रणीतस् तु विनाशयति सर्वतः ॥ (१९।२)

asamīkṣya praṇītas tu vināśayati sarvataḥ ||

20.1२०.१

यदि न प्रणयेद् राजा दण्डं दण्ड्येष्व् अतन्द्रितः । (२०।१)

yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ |

20.2२०.२

शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ (२०।२)

śūle matsyān ivāpakṣyan durbalān balavattarāḥ ||

21.1२१.१

अद्यात् काकः पुरोडाशं श्वा च लिह्याद्धविस् तथा । (२१।१)

adyāt kākaḥ puroḍāśaṃ śvā ca lihyāddhavis tathā |

21.2२१.२

स्वाम्यं च न स्यात् कस्मिंश्चित् प्रवर्तेताधरोत्तरम् ॥ (२१।२)

svāmyaṃ ca na syāt kasmiṃścit pravartetādharottaram ||

22.1२२.१

सर्वो दण्डजितो लोको दुर्लभो हि शुचिर् नरः । (२२।१)

sarvo daṇḍajito loko durlabho hi śucir naraḥ |

22.2२२.२

दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते ॥ (२२।२)

daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate ||

23.1२३.१

देवदानवगन्धर्वा रक्षांसि पतगोरगाः । (२३।१)

devadānavagandharvā rakṣāṃsi patagoragāḥ |

23.2२३.२

ते ऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ (२३।२)

te 'pi bhogāya kalpante daṇḍenaiva nipīḍitāḥ ||

24.1२४.१

दुष्येयुः सर्ववर्णाश् च भिद्येरन् सर्वसेतवः । (२४।१)

duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ |

24.2२४.२

सर्वलोकप्रकोपश् च भवेद् दण्डस्य विभ्रमात् ॥ (२४।२)

sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt ||

25.1२५.१

यत्र श्यामो लोहिताक्षो दण्डश् चरति पापहा । (२५।१)

yatra śyāmo lohitākṣo daṇḍaś carati pāpahā |

25.2२५.२

प्रजास् तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥ (२५।२)

prajās tatra na muhyanti netā cet sādhu paśyati ||

26.1२६.१

चोर्रेच्त् बेहविओउर् ओड़् अ किन्ग्तस्याहुः सम्प्रणेतारं राजानं सत्यवादिनम् । (२६।१)

correct behaviour of a kingtasyāhuḥ sampraṇetāraṃ rājānaṃ satyavādinam |

26.2२६.२

समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ (२६।२)

samīkṣyakāriṇaṃ prājñaṃ dharmakāmārthakovidam ||

27.1२७.१

तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्धते । (२७।१)

taṃ rājā praṇayan samyak trivargeṇābhivardhate |

27.2२७.२

कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ (२७।२)

kāmātmā viṣamaḥ kṣudro daṇḍenaiva nihanyate ||

28.1२८.१

दण्डो हि सुमहत्तेजो दुर्धरश् चाकृतात्मभिः । (२८।१)

daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ |

28.2२८.२

धर्माद् विचलितं हन्ति नृपम् एव सबान्धवम् ॥ (२८।२)

dharmād vicalitaṃ hanti nṛpam eva sabāndhavam ||

29.1२९.१

ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् । (२९।१)

tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram |

29.2२९.२

अन्तरिक्षगतांश् चैव मुनीन् देवांश् च पीडयेत् ॥ (२९।२)

antarikṣagatāṃś caiva munīn devāṃś ca pīḍayet ||

30.1३०.१

सो ऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना । (३०।१)

so 'sahāyena mūḍhena lubdhenākṛtabuddhinā |

30.2३०.२

न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ (३०।२)

na śakyo nyāyato netuṃ saktena viṣayeṣu ca ||

31.1३१.१

शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा । (३१।१)

śucinā satyasaṃdhena yathāśāstrānusāriṇā |

31.2३१.२

प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ (३१।२)

praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā ||

32.1३२.१

स्वराष्ट्रे न्यायवृत्तः स्याद् भृशदण्डश् च शत्रुषु । (३२।१)

svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu |

32.2३२.२

सुहृत्स्व् अजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ (३२।२)

suhṛtsv ajihmaḥ snigdheṣu brāhmaṇeṣu kṣamānvitaḥ ||

33.1३३.१

एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । (३३।१)

evaṃvṛttasya nṛpateḥ śiloñchenāpi jīvataḥ |

33.2३३.२

विस्तीर्यते यशो लोके तैलबिन्दुर् इवाम्भसि ॥ (३३।२)

vistīryate yaśo loke tailabindur ivāmbhasi ||

34.1३४.१

अतस् तु विपरीतस्य नृपतेर् अजितात्मनः । (३४।१)

atas tu viparītasya nṛpater ajitātmanaḥ |

34.2३४.२

संक्षिप्यते यशो लोके घृतबिन्दुर् इवाम्भसि ॥ (३४।२)

saṃkṣipyate yaśo loke ghṛtabindur ivāmbhasi ||

35.1३५.१

स्वे स्वे धर्मे निविष्टानां सर्वेषाम् अनुपूर्वशः । (३५।१)

sve sve dharme niviṣṭānāṃ sarveṣām anupūrvaśaḥ |

35.2३५.२

वर्णानाम् आश्रमाणां च राजा सृष्टो ऽभिरक्षिता ॥ (३५।२)

varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā ||

36.1३६.१

तेन यद् यत् सभृत्येन कर्तव्यं रक्षता प्रजाः । (३६।१)

tena yad yat sabhṛtyena kartavyaṃ rakṣatā prajāḥ |

36.2३६.२

तत् तद् वो ऽहं प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥ (३६।२)

tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ ||

37.1३७.१

ब्राह्मणान् पर्युपासीत प्रातर् उत्थाय पार्थिवः । (३७।१)

brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ |

37.2३७.२

त्रैविद्यवृद्धान् विदुषस् तिष्ठेत् तेषां च शासने ॥ (३७।२)

traividyavṛddhān viduṣas tiṣṭhet teṣāṃ ca śāsane ||

38.1३८.१

वृद्धांश् च नित्यं सेवेत विप्रान् वेदविदः शुचीन् । (३८।१)

vṛddhāṃś ca nityaṃ seveta viprān vedavidaḥ śucīn |

38.2३८.२

वृद्धसेवी हि सततं रक्षोभिर् अपि पूज्यते ॥ (३८।२)

vṛddhasevī hi satataṃ rakṣobhir api pūjyate ||

39.1३९.१

तेभ्यो ऽधिगच्छेद् विनयं विनीतात्मापि नित्यशः । (३९।१)

tebhyo 'dhigacched vinayaṃ vinītātmāpi nityaśaḥ |

39.2३९.२

विनीतात्मा हि नृपतिर् न विनश्यति कर्हिचित् ॥ (३९।२)

vinītātmā hi nṛpatir na vinaśyati karhicit ||

40.1४०.१

बहवो ऽविनयात् नष्टा राजानः सपरिच्छदाः । (४०।१)

bahavo 'vinayāt naṣṭā rājānaḥ saparicchadāḥ |

40.2४०.२

वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥ (४०।२)

vanasthā api rājyāni vinayāt pratipedire ||

41.1४१.१

वेनो विनष्टो ऽविनयान् नहुषश् चैव पार्थिवः । (४१।१)

veno vinaṣṭo 'vinayān nahuṣaś caiva pārthivaḥ |

41.2४१.२

सुदाः पैजवनश् चैव सुमुखो निमिर् एव च ॥ (४१।२)

sudāḥ paijavanaś caiva sumukho nimir eva ca ||

42.1४२.१

पृथुस् तु विनयाद् राज्यं प्राप्तवान् मनुर् एव च । (४२।१)

pṛthus tu vinayād rājyaṃ prāptavān manur eva ca |

42.2४२.२

कुबेरश् च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ (४२।२)

kuberaś ca dhanaiśvaryaṃ brāhmaṇyaṃ caiva gādhijaḥ ||

43.1४३.१

त्रैविद्येभ्यस् त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । (४३।१)

traividyebhyas trayīṃ vidyāṃ daṇḍanītiṃ ca śāśvatīm |

43.2४३.२

आन्वीक्षिकीं चात्मविद्यां वार्त्तारम्भांश् च लोकतः ॥ (४३।२)

ānvīkṣikīṃ cātmavidyāṃ vārttārambhāṃś ca lokataḥ ||

44.1४४.१

इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् । (४४।१)

indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam |

44.2४४.२

जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ (४४।२)

jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ ||

45.1४५.१

ड़ौल्त्स् ओड़् अ किन्ग्दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । (४५।१)

faults of a kingdaśa kāmasamutthāni tathāṣṭau krodhajāni ca |

45.2४५.२

व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ (४५।२)

vyasanāni durantāni prayatnena vivarjayet ||

46.1४६.१

कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । (४६।१)

kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ |

46.2४६.२

वियुज्यते ऽर्थधर्माभ्यां क्रोधजेष्व् आत्मनैव तु ॥ (४६।२)

viyujyate 'rthadharmābhyāṃ krodhajeṣv ātmanaiva tu ||

47.1४७.१

मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । (४७।१)

mṛgayākṣo divāsvapnaḥ parivādaḥ striyo madaḥ |

47.2४७.२

तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ (४७।२)

tauryatrikaṃ vṛthāṭyā ca kāmajo daśako gaṇaḥ ||

48.1४८.१

पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । (४८।१)

paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam |

48.2४८.२

वाग्दण्डजं च पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः ॥ (४८।२)

vāgdaṇḍajaṃ ca pāruṣyaṃ krodhajo 'pi gaṇo 'ṣṭakaḥ ||

49.1४९.१

द्वयोर् अप्य् एतयोर् मूलं यं सर्वे कवयो विदुः । (४९।१)

dvayor apy etayor mūlaṃ yaṃ sarve kavayo viduḥ |

49.2४९.२

तं यत्नेन जयेल् लोभं तज्जावेतावुभौ गणौ ॥ (४९।२)

taṃ yatnena jayel lobhaṃ tajjāvetāvubhau gaṇau ||

50.1५०.१

पानम् अक्षाः स्त्रियश् चैव मृगया च यथाक्रमम् । (५०।१)

pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam |

50.2५०.२

एतत् कष्टतमं विद्याच् चतुष्कं कामजे गणे ॥ (५०।२)

etat kaṣṭatamaṃ vidyāc catuṣkaṃ kāmaje gaṇe ||

51.1५१.१

दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । (५१।१)

daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe |

51.2५१.२

क्रोधजे ऽपि गणे विद्यात् कष्टम् एतत् त्रिकं सदा ॥ (५१।२)

krodhaje 'pi gaṇe vidyāt kaṣṭam etat trikaṃ sadā ||

52.1५२.१

सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । (५२।१)

saptakasyāsya vargasya sarvatraivānuṣaṅgiṇaḥ |

52.2५२.२

पूर्वं पूर्वं गुरुतरं विद्याद् व्यसनम् आत्मवान् ॥ (५२।२)

pūrvaṃ pūrvaṃ gurutaraṃ vidyād vyasanam ātmavān ||

53.1५३.१

व्यसनस्य च मृत्योश् च व्यसनं कष्टम् उच्यते । (५३।१)

vyasanasya ca mṛtyoś ca vyasanaṃ kaṣṭam ucyate |

53.2५३.२

व्यसन्य् अधो ऽधो व्रजति स्वर् यात्य् अव्यसनी मृतः ॥ (५३।२)

vyasany adho 'dho vrajati svar yāty avyasanī mṛtaḥ ||

54.1५४.१

मिनिस्तेर्मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्भवान् । (५४।१)

ministermaulān śāstravidaḥ śūrān labdhalakṣān kulodbhavān |

54.2५४.२

सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ॥ (५४।२)

sacivān sapta cāṣṭau vā prakurvīta parīkṣitān ||

55.1५५.१

अपि यत् सुकरं कर्म तद् अप्य् एकेन दुष्करम् । (५५।१)

api yat sukaraṃ karma tad apy ekena duṣkaram |

55.2५५.२

विशेषतो ऽसहायेन किं तु राज्यं महोदयम् ॥ (५५।२)

viśeṣato 'sahāyena kiṃ tu rājyaṃ mahodayam ||

56.1५६.१

तैः सार्धं चिन्तयेन् नित्यं सामान्यं संधिविग्रहम् । (५६।१)

taiḥ sārdhaṃ cintayen nityaṃ sāmānyaṃ saṃdhivigraham |

56.2५६.२

स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ (५६।२)

sthānaṃ samudayaṃ guptiṃ labdhapraśamanāni ca ||

57.1५७.१

तेषां स्वं स्वम् अभिप्रायम् उपलभ्य पृथक् पृथक् । (५७।१)

teṣāṃ svaṃ svam abhiprāyam upalabhya pṛthak pṛthak |

57.2५७.२

समस्तानां च कार्येषु विदध्याद्धितम् आत्मनः ॥ (५७।२)

samastānāṃ ca kāryeṣu vidadhyāddhitam ātmanaḥ ||

58.1५८.१

सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । (५८।१)

sarveṣāṃ tu viśiṣṭena brāhmaṇena vipaścitā |

58.2५८.२

मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ (५८।२)

mantrayet paramaṃ mantraṃ rājā ṣāḍguṇyasaṃyutam ||

59.1५९.१

नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् । (५९।१)

nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet |

59.2५९.२

तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ (५९।२)

tena sārdhaṃ viniścitya tataḥ karma samārabhet ||

60.1६०.१

अन्यान् अपि प्रकुर्वीत शुचीन् प्राज्ञान् अवस्थितान् । (६०।१)

anyān api prakurvīta śucīn prājñān avasthitān |

60.2६०.२

सम्यग् अर्थसमाहर्तॄन् अमात्यान् सुपरीक्षितान् ॥ (६०।२)

samyag arthasamāhartṝn amātyān suparīkṣitān ||

61.1६१.१

निर्वर्तेतास्य यावद्भिर् इतिकर्तव्यता नृभिः । (६१।१)

nirvartetāsya yāvadbhir itikartavyatā nṛbhiḥ |

61.2६१.२

तावतो ऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥ (६१।२)

tāvato 'tandritān dakṣān prakurvīta vicakṣaṇān ||

62.1६२.१

तेषाम् अर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् । (६२।१)

teṣām arthe niyuñjīta śūrān dakṣān kulodgatān |

62.2६२.२

शुचीन् आकरकर्मान्ते भीरून् अन्तर्निवेशने ॥ (६२।२)

śucīn ākarakarmānte bhīrūn antarniveśane ||

63.1६३.१

दूतदूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । (६३।१)

dūtadūtaṃ caiva prakurvīta sarvaśāstraviśāradam |

63.2६३.२

इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ (६३।२)

iṅgitākāraceṣṭajñaṃ śuciṃ dakṣaṃ kulodgatam ||

64.1६४.१

अनुरक्तः शुचिर् दक्षः स्मृतिमान् देशकालवित् । (६४।१)

anuraktaḥ śucir dakṣaḥ smṛtimān deśakālavit |

64.2६४.२

वपुष्मान् वीतभीर् वाग्मी दूतो राज्ञः प्रशस्यते ॥ (६४।२)

vapuṣmān vītabhīr vāgmī dūto rājñaḥ praśasyate ||

65.1६५.१

अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । (६५।१)

amātye daṇḍa āyatto daṇḍe vainayikī kriyā |

65.2६५.२

नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ ॥ (६५।२)

nṛpatau kośarāṣṭre ca dūte saṃdhiviparyayau ||

66.1६६.१

दूत एव हि संधत्ते भिनत्त्य् एव च संहतान् । (६६।१)

dūta eva hi saṃdhatte bhinatty eva ca saṃhatān |

66.2६६.२

दूतस् तत् कुरुते कर्म भिद्यन्ते येन मानवः ॥ (६६।२)

dūtas tat kurute karma bhidyante yena mānavaḥ ||

67.1६७.१

स विद्याद् अस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः । (६७।१)

sa vidyād asya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ |

67.2६७.२

आकारम् इङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ (६७।२)

ākāram iṅgitaṃ ceṣṭāṃ bhṛtyeṣu ca cikīrṣitam ||

68.1६८.१

बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् । (६८।१)

buddhvā ca sarvaṃ tattvena pararājacikīrṣitam |

68.2६८.२

तथा प्रयत्नम् आतिष्ठेद् यथात्मानं न पीडयेत् ॥ (६८।२)

tathā prayatnam ātiṣṭhed yathātmānaṃ na pīḍayet ||

69.1६९.१

प्लचे ओड़् अ किन्ग्दोम्जाङ्गलं सस्यसम्पन्नम् आर्यप्रायम् अनाविलम् । (६९।१)

place of a kingdomjāṅgalaṃ sasyasampannam āryaprāyam anāvilam |

69.2६९.२

रम्यम् आनतसामन्तं स्वाजीव्यं देशम् आवसेत् ॥ (६९।२)

ramyam ānatasāmantaṃ svājīvyaṃ deśam āvaset ||

70.1७०.१

ड़ोर्त्रेस्स्धन्वदुर्गं महीदुर्गम् अब्दुर्गं वार्क्षम् एव वा । (७०।१)

fortressdhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva vā |

70.2७०.२

नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥ (७०।२)

nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram ||

71.1७१.१

सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । (७१।१)

sarveṇa tu prayatnena giridurgaṃ samāśrayet |

71.2७१.२

एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ (७१।२)

eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate ||

72.1७२.१

त्रीण्य् आद्यान्य् आश्रितास् त्व् एषां मृगगर्ताश्रयाप्चराः । (७२।१)

trīṇy ādyāny āśritās tv eṣāṃ mṛgagartāśrayāpcarāḥ |

72.2७२.२

त्रीण्य् उत्तराणि क्रमशः प्लवंगमनरामराः ॥ (७२।२)

trīṇy uttarāṇi kramaśaḥ plavaṃgamanarāmarāḥ ||

73.1७३.१

यथा दुर्गाश्रितान् एतान् नोपहिंसन्ति शत्रवः । (७३।१)

yathā durgāśritān etān nopahiṃsanti śatravaḥ |

73.2७३.२

तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ (७३।२)

tathārayo na hiṃsanti nṛpaṃ durgasamāśritam ||

74.1७४.१

एकः शतं योधयति प्राकारस्थो धनुर्धरः । (७४।१)

ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ |

74.2७४.२

शतं दशसहस्राणि तस्माद् दुर्गं विधीयते ॥ (७४।२)

śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate ||

75.1७५.१

तत् स्याद् आयुधसम्पन्नं धनधान्येन वाहनैः । (७५।१)

tat syād āyudhasampannaṃ dhanadhānyena vāhanaiḥ |

75.2७५.२

ब्राह्मणैः शिल्पिभिर् यन्त्रैर् यवसेनोदकेन च ॥ (७५।२)

brāhmaṇaiḥ śilpibhir yantrair yavasenodakena ca ||

76.1७६.१

तस्य मध्ये सुपर्याप्तं कारयेद् गृहम् आत्मनः । (७६।१)

tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ |

76.2७६.२

गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम् ॥ (७६।२)

guptaṃ sarvartukaṃ śubhraṃ jalavṛkṣasamanvitam ||

77.1७७.१

तद् अध्यास्योद्वहेद् भार्यां सवर्णां लक्षणान्विताम् । (७७।१)

tad adhyāsyodvahed bhāryāṃ savarṇāṃ lakṣaṇānvitām |

77.2७७.२

कुले महति सम्भूतां हृद्यां रूपगुणान्विताम् ॥ (७७।२)

kule mahati sambhūtāṃ hṛdyāṃ rūpaguṇānvitām ||

78.1७८.१

पुरोहितं च कुर्वीत वृणुयाद् एव चर्त्विजः । (७८।१)

purohitaṃ ca kurvīta vṛṇuyād eva cartvijaḥ |

78.2७८.२

ते ऽस्य गृह्याणि कर्माणि कुर्युर् वैतानिकानि च ॥ (७८।२)

te 'sya gṛhyāṇi karmāṇi kuryur vaitānikāni ca ||

79.1७९.१

यजेत राजा क्रतुभिर् विविधैर् आप्तदक्षिणैः । (७९।१)

yajeta rājā kratubhir vividhair āptadakṣiṇaiḥ |

79.2७९.२

धर्मार्थं चैव विप्रेभ्यो दद्याद् भोगान् धनानि च ॥ (७९।२)

dharmārthaṃ caiva viprebhyo dadyād bhogān dhanāni ca ||

80.1८०.१

सांवत्सरिकम् आप्तैश् च राष्ट्राद् आहारयेद् बलिम् । (८०।१)

sāṃvatsarikam āptaiś ca rāṣṭrād āhārayed balim |

80.2८०.२

स्याच् चाम्नायपरो लोके वर्तेत पितृवन् नृषु ॥ (८०।२)

syāc cāmnāyaparo loke varteta pitṛvan nṛṣu ||

81.1८१.१

अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः । (८१।१)

adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ |

81.2८१.२

ते ऽस्य सर्वाण्य् अवेक्षेरन् नॄणां कार्याणि कुर्वताम् ॥ (८१।२)

te 'sya sarvāṇy avekṣeran nṝṇāṃ kāryāṇi kurvatām ||

82.1८२.१

आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत् । (८२।१)

āvṛttānāṃ gurukulād viprāṇāṃ pūjako bhavet |

82.2८२.२

नृपाणाम् अक्षयो ह्य् एष निधिर् ब्राह्मो ऽभिधीयते ॥ (८२।२)

nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate ||

83.1८३.१

न तं स्तेना न चामित्रा हरन्ति न च नश्यति । (८३।१)

na taṃ stenā na cāmitrā haranti na ca naśyati |

83.2८३.२

तस्माद् राज्ञा निधातव्यो ब्राह्मणेष्व् अक्षयो निधिः ॥ (८३।२)

tasmād rājñā nidhātavyo brāhmaṇeṣv akṣayo nidhiḥ ||

84.1८४.१

न स्कन्दते न व्यथते न विनश्यति कर्हिचित् । (८४।१)

na skandate na vyathate na vinaśyati karhicit |

84.2८४.२

वरिष्ठम् अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ (८४।२)

variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam ||

85.1८५.१

समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । (८५।१)

samam abrāhmaṇe dānaṃ dviguṇaṃ brāhmaṇabruve |

85.2८५.२

प्राधीते शतसाहस्रम् अनन्तं वेदपारगे ॥ (८५।२)

prādhīte śatasāhasram anantaṃ vedapārage ||

86.1८६.१

पात्रस्य हि विशेषेण श्रद्दधानतयैव च । (८६।१)

pātrasya hi viśeṣeṇa śraddadhānatayaiva ca |

86.2८६.२

अल्पं वा बहु वा प्रेत्य दानस्य फलम् अश्नुते ॥ (८६।२)

alpaṃ vā bahu vā pretya dānasya phalam aśnute ||

87.1८७.१

बत्त्लेसमोत्तमाधमै राजा त्व् आहूतः पालयन् प्रजाः । (८७।१)

battlesamottamādhamai rājā tv āhūtaḥ pālayan prajāḥ |

87.2८७.२

न निवर्तेत संग्रामात् क्षात्रं धर्मम् अनुस्मरन् ॥ (८७।२)

na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran ||

88.1८८.१

संग्रामेष्व् अनिवर्तित्वं प्रजानां चैव पालनम् । (८८।१)

saṃgrāmeṣv anivartitvaṃ prajānāṃ caiva pālanam |

88.2८८.२

शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ (८८।२)

śuśrūṣā brāhmaṇānāṃ ca rājñāṃ śreyaskaraṃ param ||

89.1८९.१

आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः । (८९।१)

āhaveṣu mitho 'nyonyaṃ jighāṃsanto mahīkṣitaḥ |

89.2८९.२

युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ (८९।२)

yudhyamānāḥ paraṃ śaktyā svargaṃ yānty aparāṅmukhāḥ ||

90.1९०.१

न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून् । (९०।१)

na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn |

90.2९०.२

न कर्णिभिर् नापि दिग्धैर् नाग्निज्वलिततेजनैः ॥ (९०।२)

na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ ||

91.1९१.१

न च हन्यात् स्थलारूढं न क्लीबं न कृताञ्जलिम् । (९१।१)

na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim |

91.2९१.२

न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ (९१।२)

na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam ||

92.1९२.१

न सुप्तं न विसंनाहं न नग्नं न निरायुधम् । (९२।१)

na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham |

92.2९२.२

नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ (९२।२)

nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam ||

93.1९३.१

नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् । (९३।१)

nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣatam |

93.2९३.२

न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ॥ (९३।२)

na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran ||

94.1९४.१

यस् तु भीतः परावृत्तः संग्रामे हन्यते परैः । (९४।१)

yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ |

94.2९४.२

भर्तुर् यद् दुष्कृतं किंचित् तत् सर्वं प्रतिपद्यते ॥ (९४।२)

bhartur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate ||

95.1९५.१

यच् चास्य सुकृतं किंचिद् अमुत्रार्थम् उपार्जितम् । (९५।१)

yac cāsya sukṛtaṃ kiṃcid amutrārtham upārjitam |

95.2९५.२

भर्ता तत् सर्वम् आदत्ते परावृत्तहतस्य तु ॥ (९५।२)

bhartā tat sarvam ādatte parāvṛttahatasya tu ||

96.1९६.१

दिस्त्रिबुतिओन् ओड़् बोओत्य्रथाश्वं हस्तिनं छत्त्रं धनं धान्यं पशून् स्त्रियः । (९६।१)

distribution of bootyrathāśvaṃ hastinaṃ chattraṃ dhanaṃ dhānyaṃ paśūn striyaḥ |

96.2९६.२

सर्वद्रव्याणि कुप्यं च यो यज् जयति तस्य तत् ॥ (९६।२)

sarvadravyāṇi kupyaṃ ca yo yaj jayati tasya tat ||

97.1९७.१

राज्ञश् च दद्युर् उद्धारम् इत्य् एषा वैदिकी श्रुतिः । (९७।१)

rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ |

97.2९७.२

राज्ञा च सर्वयोधेभ्यो दातव्यम् अपृथग्जितम् ॥ (९७।२)

rājñā ca sarvayodhebhyo dātavyam apṛthagjitam ||

98.1९८.१

एषो ऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः । (९८।१)

eṣo 'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ |

98.2९८.२

अस्माद् धर्मान् न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥ (९८।२)

asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn ||

99.1९९.१

बेहविओउर् तोwअर्द्स् थे एनेम्यलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः । (९९।१)

behaviour towards the enemyalabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ |

99.2९९.२

रक्षितं वर्धयेच् चैव वृद्धं पात्रेषु निक्षिपेत् ॥ (९९।२)

rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet ||

100.1१००.१

एतच् चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् । (१००।१)

etac caturvidhaṃ vidyāt puruṣārthaprayojanam |

100.2१००.२

अस्य नित्यम् अनुष्ठानं सम्यक् कुर्याद् अतन्द्रितः ॥ (१००।२)

asya nityam anuṣṭhānaṃ samyak kuryād atandritaḥ ||

101.1१०१.१

अलब्धम् इच्छेद् दण्डेन लब्धं रक्षेद् अवेक्षया । (१०१।१)

alabdham icched daṇḍena labdhaṃ rakṣed avekṣayā |

101.2१०१.२

रक्षितं वर्धयेद् वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ (१०१।२)

rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet ||

102.1१०२.१

नित्यम् उद्यतदण्डः स्यान् नित्यं विवृतपौरुषः । (१०२।१)

nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ |

102.2१०२.२

नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्य् अरेः ॥ (१०२।२)

nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ ||

103.1१०३.१

नित्यम् उद्यतदण्डस्य कृत्स्नम् उद्विजते जगत् । (१०३।१)

nityam udyatadaṇḍasya kṛtsnam udvijate jagat |

103.2१०३.२

तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ (१०३।२)

tasmāt sarvāṇi bhūtāni daṇḍenaiva prasādhayet ||

104.1१०४.१

अमाययैव वर्तेत न कथंचन मायया । (१०४।१)

amāyayaiva varteta na kathaṃcana māyayā |

104.2१०४.२

बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ (१०४।२)

budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ ||

105.1१०५.१

नास्य छिद्रं परो विद्याद् विद्याच् छिद्रं परस्य च । (१०५।१)

nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya ca |

105.2१०५.२

गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः ॥ (१०५।२)

gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ ||

106.1१०६.१

बकवच् चिन्तयेद् अर्थान् सिंहवच् च पराक्रमे । (१०६।१)

bakavac cintayed arthān siṃhavac ca parākrame |

106.2१०६.२

वृकवच् चावलुम्पेत शशवच् च विनिष्पतेत् ॥ (१०६।२)

vṛkavac cāvalumpeta śaśavac ca viniṣpatet ||

107.1१०७.१

४ उपायसेवम् विजयमानस्य ये ऽस्य स्युः परिपन्थिनः । (१०७।१)

4 upāyasevam vijayamānasya ye 'sya syuḥ paripanthinaḥ |

107.2१०७.२

तान् आनयेद् वशं सर्वान् सामादिभिर् उपक्रमैः ॥ (१०७।२)

tān ānayed vaśaṃ sarvān sāmādibhir upakramaiḥ ||

108.1१०८.१

यदि ते तु न तिष्ठेयुर् उपायैः प्रथमैस् त्रिभिः । (१०८।१)

yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ |

108.2१०८.२

दण्डेनैव प्रसह्यैतान्शनकैर् वशम् आनयेत् ॥ (१०८।२)

daṇḍenaiva prasahyaitānśanakair vaśam ānayet ||

109.1१०९.१

सामादीनाम् उपायानां चतुर्णाम् अपि पण्डिताः । (१०९।१)

sāmādīnām upāyānāṃ caturṇām api paṇḍitāḥ |

109.2१०९.२

सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ (१०९।२)

sāmadaṇḍau praśaṃsanti nityaṃ rāṣṭrābhivṛddhaye ||

110.1११०.१

यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति । (११०।१)

yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati |

110.2११०.२

तथा रक्षेन् नृपो राष्ट्रं हन्याच् च परिपन्थिनः ॥ (११०।२)

tathā rakṣen nṛpo rāṣṭraṃ hanyāc ca paripanthinaḥ ||

111.1१११.१

मोहाद् राजा स्वराष्ट्रं यः कर्षयत्य् अनवेक्षया । (१११।१)

mohād rājā svarāṣṭraṃ yaḥ karṣayaty anavekṣayā |

111.2१११.२

सो ऽचिराद् भ्रश्यते राज्याज् जीविताच् च सबान्धवः ॥ (१११।२)

so 'cirād bhraśyate rājyāj jīvitāc ca sabāndhavaḥ ||

112.1११२.१

शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा । (११२।१)

śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā |

112.2११२.२

तथा राज्ञाम् अपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ (११२।२)

tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt ||

113.1११३.१

ओर्गनिसतिओन्।अद्मिनिस्त्रतिओन्राष्ट्रस्य संग्रहे नित्यं विधानम् इदम् आचरेत् । (११३।१)

organisation|administrationrāṣṭrasya saṃgrahe nityaṃ vidhānam idam ācaret |

113.2११३.२

सुसंगृहीतराष्ट्रे हि पार्थिवः सुखम् एधते ॥ (११३।२)

susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate ||

114.1११४.१

द्वयोस् त्रयाणां पञ्चानां मध्ये गुल्मम् अधिष्ठितम् । (११४।१)

dvayos trayāṇāṃ pañcānāṃ madhye gulmam adhiṣṭhitam |

114.2११४.२

तथा ग्रामशतानां च कुर्याद् राष्ट्रस्य संग्रहम् ॥ (११४।२)

tathā grāmaśatānāṃ ca kuryād rāṣṭrasya saṃgraham ||

115.1११५.१

ग्रामस्याधिपतिं कुर्याद् दशग्रामपतिं तथा । (११५।१)

grāmasyādhipatiṃ kuryād daśagrāmapatiṃ tathā |

115.2११५.२

विंशतीशं शतेशं च सहस्रपतिम् एव च ॥ (११५।२)

viṃśatīśaṃ śateśaṃ ca sahasrapatim eva ca ||

116.1११६.१

ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् । (११६।१)

grāmadoṣān samutpannān grāmikaḥ śanakaiḥ svayam |

116.2११६.२

शंसेद् ग्रामदशेशाय दशेशो विंशतीशिने ॥ (११६।२)

śaṃsed grāmadaśeśāya daśeśo viṃśatīśine ||

117.1११७.१

विंशतीशस् तु तत् सर्वं शतेशाय निवेदयेत् । (११७।१)

viṃśatīśas tu tat sarvaṃ śateśāya nivedayet |

117.2११७.२

शंसेद् ग्रामशतेशस् तु सहस्रपतये स्वयम् ॥ (११७।२)

śaṃsed grāmaśateśas tu sahasrapataye svayam ||

118.1११८.१

यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । (११८।१)

yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ |

118.2११८.२

अन्नपानेन्धनादीनि ग्रामिकस् तान्य् अवाप्नुयात् ॥ (११८।२)

annapānendhanādīni grāmikas tāny avāpnuyāt ||

119.1११९.१

दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च । (११९।१)

daśī kulaṃ tu bhuñjīta viṃśī pañca kulāni ca |

119.2११९.२

ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ (११९।२)

grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram ||

120.1१२०.१

तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि । (१२०।१)

teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi caiva hi |

120.2१२०.२

राज्ञो ऽन्यः सचिवः स्निग्धस् तानि पश्येद् अतन्द्रितः ॥ (१२०।२)

rājño 'nyaḥ sacivaḥ snigdhas tāni paśyed atandritaḥ ||

121.1१२१.१

ओब्सेर्वतिओन् ओड़् थे अद्मिनिस्त्रतिओन्नगरे नगरे चैकं कुर्यात् सर्वार्थचिन्तकम् । (१२१।१)

observation of the administrationnagare nagare caikaṃ kuryāt sarvārthacintakam |

121.2१२१.२

उच्चैःस्थानं घोररूपं नक्षत्राणाम् इव ग्रहम् ॥ (१२१।२)

uccaiḥsthānaṃ ghorarūpaṃ nakṣatrāṇām iva graham ||

122.1१२२.१

स तान् अनुपरिक्रामेत् सर्वान् एव सदा स्वयम् । (१२२।१)

sa tān anuparikrāmet sarvān eva sadā svayam |

122.2१२२.२

तेषां वृत्तं परिणयेत् सम्यग् राष्ट्रेषु तच्चरैः ॥ (१२२।२)

teṣāṃ vṛttaṃ pariṇayet samyag rāṣṭreṣu taccaraiḥ ||

123.1१२३.१

राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । (१२३।१)

rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ |

123.2१२३.२

भृत्या भवन्ति प्रायेण तेभ्यो रक्षेद् इमाः प्रजाः ॥ (१२३।२)

bhṛtyā bhavanti prāyeṇa tebhyo rakṣed imāḥ prajāḥ ||

124.1१२४.१

ये कार्यिकेभ्यो ऽर्थम् एव गृह्णीयुः पापचेतसः । (१२४।१)

ye kāryikebhyo 'rtham eva gṛhṇīyuḥ pāpacetasaḥ |

124.2१२४.२

तेषां सर्वस्वम् आदाय राजा कुर्यात् प्रवासनम् ॥ (१२४।२)

teṣāṃ sarvasvam ādāya rājā kuryāt pravāsanam ||

125.1१२५.१

राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च । (१२५।१)

rājā karmasu yuktānāṃ strīṇāṃ preṣyajanasya ca |

125.2१२५.२

प्रत्यहं कल्पयेद् वृत्तिं स्थानं कर्मानुरूपतः ॥ (१२५।२)

pratyahaṃ kalpayed vṛttiṃ sthānaṃ karmānurūpataḥ ||

126.1१२६.१

पणो देयो ऽवकृष्टस्य षड् उत्कृष्टस्य वेतनम् । (१२६।१)

paṇo deyo 'vakṛṣṭasya ṣaḍ utkṛṣṭasya vetanam |

126.2१२६.२

षाण्मासिकस् तथाच्छादो धान्यद्रोणस् तु मासिकः ॥ (१२६।२)

ṣāṇmāsikas tathācchādo dhānyadroṇas tu māsikaḥ ||

127.1१२७.१

तxक्रयविक्रयम् अध्वानं भक्तं च सपरिव्ययम् । (१२७।१)

taxkrayavikrayam adhvānaṃ bhaktaṃ ca saparivyayam |

127.2१२७.२

योगक्षेमं च सम्प्रेक्ष्य वणिजो दापयेत् करान् ॥ (१२७।२)

yogakṣemaṃ ca samprekṣya vaṇijo dāpayet karān ||

128.1१२८.१

यथा फलेन युज्येत राजा कर्ता च कर्मणाम् । (१२८।१)

yathā phalena yujyeta rājā kartā ca karmaṇām |

128.2१२८.२

तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ॥ (१२८।२)

tathāvekṣya nṛpo rāṣṭre kalpayet satataṃ karān ||

129.1१२९.१

यथाल्पाल्पमदन्त्याद्यं वार्योकोवत्सषट्पदाः । (१२९।१)

yathālpālpamadantyādyaṃ vāryokovatsaṣaṭpadāḥ |

129.2१२९.२

तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ॥ (१२९।२)

tathālpālpo grahītavyo rāṣṭrād rājñābdikaḥ karaḥ ||

130.1१३०.१

पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः । (१३०।१)

pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ |

130.2१३०.२

धान्यानाम् अष्टमो भागः षष्ठो द्वादश एव वा ॥ (१३०।२)

dhānyānām aṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva vā ||

131.1१३१.१

आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् । (१३१।१)

ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām |

131.2१३१.२

गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥ (१३१।२)

gandhauṣadhirasānāṃ ca puṣpamūlaphalasya ca ||

132.1१३२.१

पत्त्रशाकतृणानां च चर्मणां वैदलस्य च । (१३२।१)

pattraśākatṛṇānāṃ ca carmaṇāṃ vaidalasya ca |

132.2१३२.२

मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ (१३२।२)

mṛnmayānāṃ ca bhāṇḍānāṃ sarvasyāśmamayasya ca ||

133.1१३३.१

म्रियमाणो ऽप्य् आददीत न राजा श्रोत्रियात् करम् । (१३३।१)

mriyamāṇo 'py ādadīta na rājā śrotriyāt karam |

133.2१३३.२

न च क्षुधास्य संसीदेत् श्रोत्रियो विषये वसन् ॥ (१३३।२)

na ca kṣudhāsya saṃsīdet śrotriyo viṣaye vasan ||

134.1१३४.१

यस्य राज्ञस् तु विषये श्रोत्रियः सीदति क्षुधा । (१३४।१)

yasya rājñas tu viṣaye śrotriyaḥ sīdati kṣudhā |

134.2१३४.२

तस्यापि तत् क्षुधा राष्ट्रम् अचिरेनैव सीदति ॥ (१३४।२)

tasyāpi tat kṣudhā rāṣṭram acirenaiva sīdati ||

135.1१३५.१

श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् । (१३५।१)

śrutavṛtte viditvāsya vṛttiṃ dharmyāṃ prakalpayet |

135.2१३५.२

संरक्षेत् सर्वतश् चैनं पिता पुत्रम् इवौरसम् ॥ (१३५।२)

saṃrakṣet sarvataś cainaṃ pitā putram ivaurasam ||

136.1१३६.१

संरक्ष्यमाणो राज्ञा यं कुरुते धर्मम् अन्वहम् । (१३६।१)

saṃrakṣyamāṇo rājñā yaṃ kurute dharmam anvaham |

136.2१३६.२

तेनायुर् वर्धते राज्ञो द्रविणं राष्ट्रम् एव च ॥ (१३६।२)

tenāyur vardhate rājño draviṇaṃ rāṣṭram eva ca ||

137.1१३७.१

यत् किंचिद् अपि वर्षस्य दापयेत् करसंज्ञितम् । (१३७।१)

yat kiṃcid api varṣasya dāpayet karasaṃjñitam |

137.2१३७.२

व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥ (१३७।२)

vyavahāreṇa jīvantaṃ rājā rāṣṭre pṛthagjanam ||

138.1१३८.१

कारुकाञ् शिल्पिनश् चैव शूद्रांश् चात्मोपजीविनः । (१३८।१)

kārukāñ śilpinaś caiva śūdrāṃś cātmopajīvinaḥ |

138.2१३८.२

एकैकं कारयेत् कर्म मासि मासि महीपतिः ॥ (१३८।२)

ekaikaṃ kārayet karma māsi māsi mahīpatiḥ ||

139.1१३९.१

नोच्छिन्द्याद् आत्मनो मूलं परेषां चातितृष्णया । (१३९।१)

nocchindyād ātmano mūlaṃ pareṣāṃ cātitṛṣṇayā |

139.2१३९.२

उच्छिन्दन् ह्य् आत्मनो मूलम् आत्मानं तांश् च पीडयेत् ॥ (१३९।२)

ucchindan hy ātmano mūlam ātmānaṃ tāṃś ca pīḍayet ||

140.1१४०.१

तीक्ष्णश् चैव मृदुश् च स्यात् कार्यं वीक्ष्य महीपतिः । (१४०।१)

tīkṣṇaś caiva mṛduś ca syāt kāryaṃ vīkṣya mahīpatiḥ |

140.2१४०.२

तीक्ष्णश् चैव मृदुश् चैव राजा भवति संमतः ॥ (१४०।२)

tīkṣṇaś caiva mṛduś caiva rājā bhavati saṃmataḥ ||

141.1१४१.१

अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् । (१४१।१)

amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam |

141.2१४१.२

स्थापयेद् आसने तस्मिन् खिन्नः कार्येक्षणे नॄणाम् ॥ (१४१।२)

sthāpayed āsane tasmin khinnaḥ kāryekṣaṇe nṝṇām ||

142.1१४२.१

एवं सर्वं विधायेदम् इतिकर्तव्यम् आत्मनः । (१४२।१)

evaṃ sarvaṃ vidhāyedam itikartavyam ātmanaḥ |

142.2१४२.२

युक्तश् चैवाप्रमत्तश् च परिरक्षेद् इमाः प्रजाः ॥ (१४२।२)

yuktaś caivāpramattaś ca parirakṣed imāḥ prajāḥ ||

143.1१४३.१

विक्रोशन्त्यो यस्य राष्ट्राद्ध्रियन्ते दस्युभिः प्रजाः । (१४३।१)

vikrośantyo yasya rāṣṭrāddhriyante dasyubhiḥ prajāḥ |

143.2१४३.२

संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥ (१४३।२)

saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati ||

144.1१४४.१

क्षत्रियस्य परो धर्मः प्रजानाम् एव पालनम् । (१४४।१)

kṣatriyasya paro dharmaḥ prajānām eva pālanam |

144.2१४४.२

निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ (१४४।२)

nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate ||

145.1१४५.१

तगेसब्लौड़् देस् क्￶निग्सुत्थाय पश्चिमे यामे कृतशौचः समाहितः । (१४५।१)

Tagesablauf des K￶nigsutthāya paścime yāme kṛtaśaucaḥ samāhitaḥ |

145.2१४५.२

हुताग्निर् ब्राह्मणांश् चार्च्य प्रविशेत् स शुभां सभाम् ॥ (१४५।२)

hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām ||

146.1१४६.१

तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् । (१४६।१)

tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet |

146.2१४६.२

विसृज्य च प्रजाः सर्वा मन्त्रयेत् सह मन्त्रिभिः ॥ (१४६।२)

visṛjya ca prajāḥ sarvā mantrayet saha mantribhiḥ ||

147.1१४७.१

गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः । (१४७।१)

giripṛṣṭhaṃ samāruhya prāsādaṃ vā rahogataḥ |

147.2१४७.२

अरण्ये निःशलाके वा मन्त्रयेद् अविभावितः ॥ (१४७।२)

araṇye niḥśalāke vā mantrayed avibhāvitaḥ ||

148.1१४८.१

यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः । (१४८।१)

yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ |

148.2१४८.२

स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनो ऽपि पार्थिवः ॥ (१४८।२)

sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ ||

149.1१४९.१

जडमूकान्धबधिरांस् तैर्यग्योनान् वयोऽतिगान् । (१४९।१)

jaḍamūkāndhabadhirāṃs tairyagyonān vayo'tigān |

149.2१४९.२

स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकाले ऽपसारयेत् ॥ (१४९।२)

strīmlecchavyādhitavyaṅgān mantrakāle 'pasārayet ||

150.1१५०.१

भिन्दन्त्य् अवमता मन्त्रं तैर्यग्योनास् तथैव च । (१५०।१)

bhindanty avamatā mantraṃ tairyagyonās tathaiva ca |

150.2१५०.२

स्त्रियश् चैव विशेषेण तस्मात् तत्रादृतो भवेत् ॥ (१५०।२)

striyaś caiva viśeṣeṇa tasmāt tatrādṛto bhavet ||

151.1१५१.१

मध्यंदिने ऽर्धरात्रे वा विश्रान्तो विगतक्लमः । (१५१।१)

madhyaṃdine 'rdharātre vā viśrānto vigataklamaḥ |

151.2१५१.२

अष्टवर्गचिन्तयेद् धर्मकामार्थान् सार्धं तैर् एक एव वा ॥ (१५१।२)

aṣṭavargacintayed dharmakāmārthān sārdhaṃ tair eka eva vā ||

152.1१५२.१

परस्परविरुद्धानां तेषां च समुपार्जनम् । (१५२।१)

parasparaviruddhānāṃ teṣāṃ ca samupārjanam |

152.2१५२.२

कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥ (१५२।२)

kanyānāṃ sampradānaṃ ca kumārāṇāṃ ca rakṣaṇam ||

153.1१५३.१

दूतसम्प्रेषणं चैव कार्यशेषं तथैव च । (१५३।१)

dūtasampreṣaṇaṃ caiva kāryaśeṣaṃ tathaiva ca |

153.2१५३.२

अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ (१५३।२)

antaḥpurapracāraṃ ca praṇidhīnāṃ ca ceṣṭitam ||

154.1१५४.१

कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः । (१५४।१)

kṛtsnaṃ cāṣṭavidhaṃ karma pañcavargaṃ ca tattvataḥ |

154.2१५४.२

अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ (१५४।२)

anurāgāparāgau ca pracāraṃ maṇḍalasya ca ||

155.1१५५.१

मध्यमस्य प्रचारं च विजिगीषोश् च चेष्टितम् । (१५५।१)

madhyamasya pracāraṃ ca vijigīṣoś ca ceṣṭitam |

155.2१५५.२

उदासीनप्रचारं च शत्रोश् चैव प्रयत्नतः ॥ (१५५।२)

udāsīnapracāraṃ ca śatroś caiva prayatnataḥ ||

156.1१५६.१

एताः प्रकृतयो मूलं मण्डलस्य समासतः । (१५६।१)

etāḥ prakṛtayo mūlaṃ maṇḍalasya samāsataḥ |

156.2१५६.२

अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ (१५६।२)

aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ ||

157.1१५७.१

अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः । (१५७।१)

amātyarāṣṭradurgārthadaṇḍākhyāḥ pañca cāparāḥ |

157.2१५७.२

प्रत्येकं कथिता ह्य् एताः संक्षेपेण द्विसप्ततिः ॥ (१५७।२)

pratyekaṃ kathitā hy etāḥ saṃkṣepeṇa dvisaptatiḥ ||

158.1१५८.१

अनन्तरम् अरिं विद्याद् अरिसेविनम् एव च । (१५८।१)

anantaram ariṃ vidyād arisevinam eva ca |

158.2१५८.२

अरेर् अनन्तरं मित्रम् उदासीनं तयोः परम् ॥ (१५८।२)

arer anantaraṃ mitram udāsīnaṃ tayoḥ param ||

159.1१५९.१

तान् सर्वान् अभिसंदध्यात् सामादिभिर् उपक्रमैः । (१५९।१)

tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ |

159.2१५९.२

व्यस्तैश् चैव समस्तैश् च पौरुषेण नयेन च ॥ (१५९।२)

vyastaiś caiva samastaiś ca pauruṣeṇa nayena ca ||

160.1१६०.१

षड्गुणसंधिं च विग्रहं चैव यानम् आसनम् एव च । (१६०।१)

ṣaḍguṇasaṃdhiṃ ca vigrahaṃ caiva yānam āsanam eva ca |

160.2१६०.२

द्वैधीभावं संश्रयं च षड्गुणांश् चिन्तयेत् सदा ॥ (१६०।२)

dvaidhībhāvaṃ saṃśrayaṃ ca ṣaḍguṇāṃś cintayet sadā ||

161.1१६१.१

आसनं चैव यानं च संधिं विग्रहम् एव च । (१६१।१)

āsanaṃ caiva yānaṃ ca saṃdhiṃ vigraham eva ca |

161.2१६१.२

कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयम् एव च ॥ (१६१।२)

kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayam eva ca ||

162.1१६२.१

संधिं तु द्विविधं विद्याद् राजा विग्रहम् एव च । (१६२।१)

saṃdhiṃ tu dvividhaṃ vidyād rājā vigraham eva ca |

162.2१६२.२

उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥ (१६२।२)

ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ ||

163.1१६३.१

समानयानकर्मा च विपरीतस् तथैव च । (१६३।१)

samānayānakarmā ca viparītas tathaiva ca |

163.2१६३.२

तदा त्व् आयतिसंयुक्तः संधिर् ज्ञेयो द्विलक्षणः ॥ (१६३।२)

tadā tv āyatisaṃyuktaḥ saṃdhir jñeyo dvilakṣaṇaḥ ||

164.1१६४.१

स्वयंकृतश् च कार्यार्थम् अकाले काल एव वा । (१६४।१)

svayaṃkṛtaś ca kāryārtham akāle kāla eva vā |

164.2१६४.२

मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ (१६४।२)

mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ ||

165.1१६५.१

एकाकिनश् चात्ययिके कार्ये प्राप्ते यदृच्छया । (१६५।१)

ekākinaś cātyayike kārye prāpte yadṛcchayā |

165.2१६५.२

संहतस्य च मित्रेण द्विविधं यानम् उच्यते ॥ (१६५।२)

saṃhatasya ca mitreṇa dvividhaṃ yānam ucyate ||

166.1१६६.१

क्षीणस्य चैव क्रमशो दैवात् पूर्वकृतेन वा । (१६६।१)

kṣīṇasya caiva kramaśo daivāt pūrvakṛtena vā |

166.2१६६.२

मित्रस्य चानुरोधेन द्विविधं स्मृतम् आसनम् ॥ (१६६।२)

mitrasya cānurodhena dvividhaṃ smṛtam āsanam ||

167.1१६७.१

बलस्य स्वामिनश् चैव स्थितिः कार्यार्थसिद्धये । (१६७।१)

balasya svāminaś caiva sthitiḥ kāryārthasiddhaye |

167.2१६७.२

द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ (१६७।२)

dvividhaṃ kīrtyate dvaidhaṃ ṣāḍguṇyaguṇavedibhiḥ ||

168.1१६८.१

अर्थसम्पादनार्थं च पीड्यमानस्य शत्रुभिः । (१६८।१)

arthasampādanārthaṃ ca pīḍyamānasya śatrubhiḥ |

168.2१६८.२

साधुषु व्यपदेशश् च द्विविधः संश्रयः स्मृतः ॥ (१६८।२)

sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ ||

169.1१६९.१

देचिसिओन् अबोउत् पेअचे अन्द् wअर्यदावगच्छेद् आयत्याम् आधिक्यं ध्रुवम् आत्मनः । (१६९।१)

decision about peace and waryadāvagacched āyatyām ādhikyaṃ dhruvam ātmanaḥ |

169.2१६९.२

तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् ॥ (१६९।२)

tadātve cālpikāṃ pīḍāṃ tadā saṃdhiṃ samāśrayet ||

170.1१७०.१

यदा प्रहृष्टा मन्येत सर्वास् तु प्रकृतीर् भृशम् । (१७०।१)

yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam |

170.2१७०.२

अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् ॥ (१७०।२)

atyucchritaṃ tathātmānaṃ tadā kurvīta vigraham ||

171.1१७१.१

यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । (१७१।१)

yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam |

171.2१७१.२

परस्य विपरीतं च तदा यायाद् रिपुं प्रति ॥ (१७१।२)

parasya viparītaṃ ca tadā yāyād ripuṃ prati ||

172.1१७२.१

यदा तु स्यात् परिक्षीणो वाहनेन बलेन च । (१७२।१)

yadā tu syāt parikṣīṇo vāhanena balena ca |

172.2१७२.२

तदासीत प्रयत्नेन शनकैः सान्त्वयन्न् अरीन् ॥ (१७२।२)

tadāsīta prayatnena śanakaiḥ sāntvayann arīn ||

173.1१७३.१

मन्येतारिं यदा राजा सर्वथा बलवत्तरम् । (१७३।१)

manyetāriṃ yadā rājā sarvathā balavattaram |

173.2१७३.२

तदा द्विधा बलं कृत्वा साधयेत् कार्यम् आत्मनः ॥ (१७३।२)

tadā dvidhā balaṃ kṛtvā sādhayet kāryam ātmanaḥ ||

174.1१७४.१

यदा परबलानां तु गमनीयतमो भवेत् । (१७४।१)

yadā parabalānāṃ tu gamanīyatamo bhavet |

174.2१७४.२

तदा तु संश्रयेत् क्षिप्रं धार्मिकं बलिनं नृपम् ॥ (१७४।२)

tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam ||

175.1१७५.१

निग्रहं प्रकृतीनां च कुर्याद् यो ऽरिबलस्य च । (१७५।१)

nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca |

175.2१७५.२

उपसेवेत तं नित्यं सर्वयत्नैर् गुरुं यथा ॥ (१७५।२)

upaseveta taṃ nityaṃ sarvayatnair guruṃ yathā ||

176.1१७६.१

यदि तत्रापि संपश्येद् दोषं संश्रयकारितम् । (१७६।१)

yadi tatrāpi saṃpaśyed doṣaṃ saṃśrayakāritam |

176.2१७६.२

सुयुद्धम् एव तत्रापि निर्विशङ्कः समाचरेत् ॥ (१७६।२)

suyuddham eva tatrāpi nirviśaṅkaḥ samācaret ||

177.1१७७.१

सर्वोपायैस् तथा कुर्यान् नीतिज्ञः पृथिवीपतिः । (१७७।१)

sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ |

177.2१७७.२

यथास्याभ्यधिका न स्युर् मित्रोदासीनशत्रवः ॥ (१७७।२)

yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ ||

178.1१७८.१

आयतिं सर्वकार्याणां तदात्वं च विचारयेत् । (१७८।१)

āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet |

178.2१७८.२

अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥ (१७८।२)

atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ ||

179.1१७९.१

आयत्यां गुणदोषज्ञस् तदात्वे क्षिप्रनिश्चयः । (१७९।१)

āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ |

179.2१७९.२

अतीते कार्यशेषज्ञः शत्रुभिर् नाभिभूयते ॥ (१७९।२)

atīte kāryaśeṣajñaḥ śatrubhir nābhibhūyate ||

180.1१८०.१

यथैनं नाभिसंदध्युर् मित्रोदासीनशत्रवः । (१८०।१)

yathainaṃ nābhisaṃdadhyur mitrodāsīnaśatravaḥ |

180.2१८०.२

तथा सर्वं संविदध्याद् एष सामासिको नयः ॥ (१८०।२)

tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ ||

181.1१८१.१

यान (चम्पैग्न्)तदा तु यानम् आतिष्ठेद् अरिराष्ट्रं प्रति प्रभुः । (१८१।१)

yāna (campaign)tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ |

181.2१८१.२

तदानेन विधानेन यायाद् अरिपुरं शनैः ॥ (१८१।२)

tadānena vidhānena yāyād aripuraṃ śanaiḥ ||

182.1१८२.१

मार्गशीर्षे शुभे मासि यायाद् यात्रां महीपतिः । (१८२।१)

mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ |

182.2१८२.२

फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥ (१८२।२)

phālgunaṃ vātha caitraṃ vā māsau prati yathābalam ||

183.1१८३.१

अन्येष्व् अपि तु कालेषु यदा पश्येद् ध्रुवं जयम् । (१८३।१)

anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam |

183.2१८३.२

तदा यायाद् विगृह्यैव व्यसने चोत्थिते रिपोः ॥ (१८३।२)

tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ ||

184.1१८४.१

कृत्वा विधानं मूले तु यात्रिकं च यथाविधि । (१८४।१)

kṛtvā vidhānaṃ mūle tu yātrikaṃ ca yathāvidhi |

184.2१८४.२

उपगृह्यास्पदं चैव चारान् सम्यग् विधाय च ॥ (१८४।२)

upagṛhyāspadaṃ caiva cārān samyag vidhāya ca ||

185.1१८५.१

संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् । (१८५।१)

saṃśodhya trividhaṃ mārgaṃ ṣaḍvidhaṃ ca balaṃ svakam |

185.2१८५.२

साम्परायिककल्पेन यायाद् अरिपुरं प्रति ॥ (१८५।२)

sāmparāyikakalpena yāyād aripuraṃ prati ||

186.1१८६.१

शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । (१८६।१)

śatrusevini mitre ca gūḍhe yuktataro bhavet |

186.2१८६.२

गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ (१८६।२)

gatapratyāgate caiva sa hi kaṣṭataro ripuḥ ||

187.1१८७.१

दण्डव्यूहेन तन् मार्गं यायात् तु शकटेन वा । (१८७।१)

daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena vā |

187.2१८७.२

वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ (१८७।२)

varāhamakarābhyāṃ vā sūcyā vā garuḍena vā ||

188.1१८८.१

यतश् च भयम् आशङ्केत् ततो विस्तारयेद् बलम् । (१८८।१)

yataś ca bhayam āśaṅket tato vistārayed balam |

188.2१८८.२

पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ (१८८।२)

padmena caiva vyūhena niviśeta sadā svayam ||

189.1१८९.१

सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । (१८९।१)

senāpatibalādhyakṣau sarvadikṣu niveśayet |

189.2१८९.२

यतश् च भयम् आशङ्केत् प्राचीं तां कल्पयेद् दिशम् ॥ (१८९।२)

yataś ca bhayam āśaṅket prācīṃ tāṃ kalpayed diśam ||

190.1१९०.१

गुल्मांश् च स्थापयेद् आप्तान् कृतसंज्ञान् समन्ततः । (१९०।१)

gulmāṃś ca sthāpayed āptān kṛtasaṃjñān samantataḥ |

190.2१९०.२

स्थाने युद्धे च कुशलान् अभीरून् अविकारिणः ॥ (१९०।२)

sthāne yuddhe ca kuśalān abhīrūn avikāriṇaḥ ||

191.1१९१.१

संहतान् योधयेद् अल्पान् कामं विस्तारयेद् बहून् । (१९१।१)

saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn |

191.2१९१.२

सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ (१९१।२)

sūcyā vajreṇa caivaitān vyūhena vyūhya yodhayet ||

192.1१९२.१

स्यन्दनाश्वैः समे युध्येद् अनूपे नौद्विपैस् तथा । (१९२।१)

syandanāśvaiḥ same yudhyed anūpe naudvipais tathā |

192.2१९२.२

वृक्षगुल्मावृते चापैर् असिचर्मायुधैः स्थले ॥ (१९२।२)

vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale ||

193.1१९३.१

कुरुक्षेत्रांश् च मत्स्यांश् च पञ्चालान् शूरसेनजान् । (१९३।१)

kurukṣetrāṃś ca matsyāṃś ca pañcālān śūrasenajān |

193.2१९३.२

दीर्घांल् लघूंश् चैव नरान् अग्रानीकेषु योजयेत् ॥ (१९३।२)

dīrghāṃl laghūṃś caiva narān agrānīkeṣu yojayet ||

194.1१९४.१

प्रहर्षयेद् बलं व्यूह्य तांश् च सम्यक् परीक्षयेत् । (१९४।१)

praharṣayed balaṃ vyūhya tāṃś ca samyak parīkṣayet |

194.2१९४.२

चेष्टाश् चैव विजानीयाद् अरीन् योधयताम् अपि ॥ (१९४।२)

ceṣṭāś caiva vijānīyād arīn yodhayatām api ||

195.1१९५.१

उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत् । (१९५।१)

uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet |

195.2१९५.२

दूषयेच् चास्य सततं यवसान्नोदकेन्धनम् ॥ (१९५।२)

dūṣayec cāsya satataṃ yavasānnodakendhanam ||

196.1१९६.१

भिन्द्याच् चैव तडागानि प्राकारपरिखास् तथा । (१९६।१)

bhindyāc caiva taḍāgāni prākāraparikhās tathā |

196.2१९६.२

समवस्कन्दयेच् चैनं रात्रौ वित्रासयेत् तथा ॥ (१९६।२)

samavaskandayec cainaṃ rātrau vitrāsayet tathā ||

197.1१९७.१

उपजप्यान् उपजपेद् बुध्येतैव च तत्कृतम् । (१९७।१)

upajapyān upajaped budhyetaiva ca tatkṛtam |

197.2१९७.२

युक्ते च दैवे युध्येत जयप्रेप्सुर् अपेतभीः ॥ (१९७।२)

yukte ca daive yudhyeta jayaprepsur apetabhīḥ ||

198.1१९८.१

साम्ना दानेन भेदेन समस्तैर् अथ वा पृथक् । (१९८।१)

sāmnā dānena bhedena samastair atha vā pṛthak |

198.2१९८.२

विजेतुं प्रयतेतारीन् न युद्धेन कदाचन ॥ (१९८।२)

vijetuṃ prayatetārīn na yuddhena kadācana ||

199.1१९९.१

अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः । (१९९।१)

anityo vijayo yasmād dṛśyate yudhyamānayoḥ |

199.2१९९.२

पराजयश् च संग्रामे तस्माद् युद्धं विवर्जयेत् ॥ (१९९।२)

parājayaś ca saṃgrāme tasmād yuddhaṃ vivarjayet ||

200.1२००.१

त्रयाणाम् अप्य् उपायानां पूर्वोक्तानाम् असंभवे । (२००।१)

trayāṇām apy upāyānāṃ pūrvoktānām asaṃbhave |

200.2२००.२

तथा युध्येत सम्पन्नो विजयेत रिपून् यथा ॥ (२००।२)

tathā yudhyeta sampanno vijayeta ripūn yathā ||

201.1२०१.१

जित्वा सम्पूजयेद् देवान् ब्राह्मणांश् चैव धार्मिकान् । (२०१।१)

jitvā sampūjayed devān brāhmaṇāṃś caiva dhārmikān |

201.2२०१.२

प्रदद्यात् परिहारार्थं ख्यापयेद् अभयानि च ॥ (२०१।२)

pradadyāt parihārārthaṃ khyāpayed abhayāni ca ||

202.1२०२.१

सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् । (२०२।१)

sarveṣāṃ tu viditvaiṣāṃ samāsena cikīrṣitam |

202.2२०२.२

स्थापयेत् तत्र तद्वंश्यं कुर्याच् च समयक्रियाम् ॥ (२०२।२)

sthāpayet tatra tadvaṃśyaṃ kuryāc ca samayakriyām ||

203.1२०३.१

प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान् । (२०३।१)

pramāṇāni ca kurvīta teṣāṃ dharmān yathoditān |

203.2२०३.२

रत्नैश् च पूजयेद् एनं प्रधानपुरुषैः सह ॥ (२०३।२)

ratnaiś ca pūjayed enaṃ pradhānapuruṣaiḥ saha ||

204.1२०४.१

आदानम् अप्रियकरं दानं च प्रियकारकम् । (२०४।१)

ādānam apriyakaraṃ dānaṃ ca priyakārakam |

204.2२०४.२

अभीप्सितानाम् अर्थानां काले युक्तं प्रशस्यते ॥ (२०४।२)

abhīpsitānām arthānāṃ kāle yuktaṃ praśasyate ||

205.1२०५.१

सर्वं कर्मेदम् आयत्तं विधाने दैवमानुषे । (२०५।१)

sarvaṃ karmedam āyattaṃ vidhāne daivamānuṣe |

205.2२०५.२

तयोर् दैवम् अचिन्त्यं तु मानुषे विद्यते क्रिया ॥ (२०५।२)

tayor daivam acintyaṃ tu mānuṣe vidyate kriyā ||

206.1२०६.१

सह वापि व्रजेद् युक्तः संधिं कृत्वा प्रयत्नतः । (२०६।१)

saha vāpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ |

206.2२०६.२

मित्रं हिरण्यं भूमिं वा संपश्यंस् त्रिविधं फलम् ॥ (२०६।२)

mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam ||

207.1२०७.१

पार्ष्णिग्राहं च सम्प्रेक्ष्य तथाक्रन्दं च मण्डले । (२०७।१)

pārṣṇigrāhaṃ ca samprekṣya tathākrandaṃ ca maṇḍale |

207.2२०७.२

मित्राद् अथाप्य् अमित्राद् वा यात्राफलम् अवाप्नुयात् ॥ (२०७।२)

mitrād athāpy amitrād vā yātrāphalam avāpnuyāt ||

208.1२०८.१

मित्रहिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते । (२०८।१)

mitrahiraṇyabhūmisamprāptyā pārthivo na tathaidhate |

208.2२०८.२

यथा मित्रं ध्रुवं लब्ध्वा कृशम् अप्य् आयतिक्षमम् ॥ (२०८।२)

yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam ||

209.1२०९.१

धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिम् एव च । (२०९।१)

dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca |

209.2२०९.२

अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ (२०९।२)

anuraktaṃ sthirārambhaṃ laghumitraṃ praśasyate ||

210.1२१०.१

प्राज्ञं कुलीनं शूरं च दक्षं दातारम् एव च । (२१०।१)

prājñaṃ kulīnaṃ śūraṃ ca dakṣaṃ dātāram eva ca |

210.2२१०.२

कृतज्ञं धृतिमन्तं च कष्टम् आहुर् अरिं बुधाः ॥ (२१०।२)

kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ ||

211.1२११.१

आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता । (२११।१)

āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā |

211.2२११.२

स्थौललक्ष्यं च सततम् उदासीनगुणोदयः ॥ (२११।२)

sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ ||

212.1२१२.१

उसे ओड़् मोनेय् (धन)क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीम् अपि । (२१२।१)

use of money (dhana)kṣemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api |

212.2२१२.२

परित्यजेन् नृपो भूमिम् आत्मार्थम् अविचारयन् ॥ (२१२।२)

parityajen nṛpo bhūmim ātmārtham avicārayan ||

213.1२१३.१

आपदर्थं धनं रक्षेद् दारान् रक्षेद् धनैर् अपि । (२१३।१)

āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api |

213.2२१३.२

आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥ (२१३।२)

ātmānaṃ satataṃ rakṣed dārair api dhanair api ||

214.1२१४.१

सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् । (२१४।१)

saha sarvāḥ samutpannāḥ prasamīkṣyāpado bhṛśam |

214.2२१४.२

संयुक्तांश् च वियुक्तांश् च सर्वोपायान् सृजेद् बुधः ॥ (२१४।२)

saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ ||

215.1२१५.१

उपेतारम् उपेयं च सर्वोपायांश् च कृत्स्नशः । (२१५।१)

upetāram upeyaṃ ca sarvopāyāṃś ca kṛtsnaśaḥ |

215.2२१५.२

एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ (२१५।२)

etat trayaṃ samāśritya prayatetārthasiddhaye ||

216.1२१६.१

रेस्त् ओड़् थे दय् (मिद्दय् => निघ्त्)एवं सर्वम् इदं राजा सह संमन्त्र्य मन्त्रिभिः । (२१६।१)

rest of the day (midday => night)evaṃ sarvam idaṃ rājā saha saṃmantrya mantribhiḥ |

216.2२१६.२

व्यायम्याप्लुत्य मध्याह्ने भोक्तुम् अन्तःपुरं विशेत् ॥ (२१६।२)

vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet ||

217.1२१७.१

मेअसुरेस् अगैन्स्त् पोइसोनिन्ग्तत्रात्मभूतैः कालज्ञैर् अहार्यैः परिचारकैः । (२१७।१)

measures against poisoningtatrātmabhūtaiḥ kālajñair ahāryaiḥ paricārakaiḥ |

217.2२१७.२

सुपरीक्षितम् अन्नाद्यम् अद्यान् मन्त्रैर् विषापहैः ॥ (२१७।२)

suparīkṣitam annādyam adyān mantrair viṣāpahaiḥ ||

218.1२१८.१

विषघ्नैर् अगदैश् चास्य सर्वद्रव्याणि योजयेत् । (२१८।१)

viṣaghnair agadaiś cāsya sarvadravyāṇi yojayet |

218.2२१८.२

विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥ (२१८।२)

viṣaghnāni ca ratnāni niyato dhārayet sadā ||

219.1२१९.१

परीक्षिताः स्त्रियश् चैनं व्यजनोदकधूपनैः । (२१९।१)

parīkṣitāḥ striyaś cainaṃ vyajanodakadhūpanaiḥ |

219.2२१९.२

वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ (२१९।२)

veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ ||

220.1२२०.१

एवं प्रयत्नं कुर्वीत यानशय्यासनाशने । (२२०।१)

evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane |

220.2२२०.२

स्नाने प्रसाधने चैव सर्वालंकारकेषु च ॥ (२२०।२)

snāne prasādhane caiva sarvālaṃkārakeṣu ca ||

221.1२२१.१

भुक्तवान् विहरेच् चैव स्त्रीभिर् अन्तःपुरे सह । (२२१।१)

bhuktavān viharec caiva strībhir antaḥpure saha |

221.2२२१.२

विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ (२२१।२)

vihṛtya tu yathākālaṃ punaḥ kāryāṇi cintayet ||

222.1२२२.१

अलंकृतश् च संपश्येद् आयुधीयं पुनर् जनम् । (२२२।१)

alaṃkṛtaś ca saṃpaśyed āyudhīyaṃ punar janam |

222.2२२२.२

वाहनानि च सर्वाणि शस्त्राण्य् आभरणानि च ॥ (२२२।२)

vāhanāni ca sarvāṇi śastrāṇy ābharaṇāni ca ||

223.1२२३.१

संध्यां चोपास्य शृणुयाद् अन्तर्वेश्मनि शस्त्रभृत् । (२२३।१)

saṃdhyāṃ copāsya śṛṇuyād antarveśmani śastrabhṛt |

223.2२२३.२

रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ (२२३।२)

rahasyākhyāyināṃ caiva praṇidhīnāṃ ca ceṣṭitam ||

224.1२२४.१

गत्वा कक्षान्तरं त्व् अन्यत् समनुज्ञाप्य तं जनम् । (२२४।१)

gatvā kakṣāntaraṃ tv anyat samanujñāpya taṃ janam |

224.2२२४.२

प्रविशेद् भोजनार्थं च स्त्रीवृतो ऽन्तःपुरं पुनः ॥ (२२४।२)

praviśed bhojanārthaṃ ca strīvṛto 'ntaḥpuraṃ punaḥ ||

225.1२२५.१

तत्र भुक्त्वा पुनः किंचित् तूर्यघोषैः प्रहर्षितः । (२२५।१)

tatra bhuktvā punaḥ kiṃcit tūryaghoṣaiḥ praharṣitaḥ |

225.2२२५.२

संविशेत् तं यथाकालम् उत्तिष्ठेच् च गतक्लमः ॥ (२२५।२)

saṃviśet taṃ yathākālam uttiṣṭhec ca gataklamaḥ ||

226.1२२६.१

एतद् विधानम् आतिष्ठेद् अरोगः पृथिवीपतिः । (२२६।१)

etad vidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ |

226.2२२६.२

अस्वस्थः सर्वम् एतत् तु भृत्येषु विनियोजयेत् ॥ (२२६।२)

asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet ||

Data courtesy of The Digital Corpus of Sanskrit.

ManuS, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit