ManuS, 4
Select a line for its word-by-word analysis.
चतुर्थम् आयुषो भागम् उषित्वाद्यं गुरौ द्विजः । (१।१)
caturtham āyuṣo bhāgam uṣitvādyaṃ gurau dvijaḥ |
या वृत्तिस् तां समास्थाय विप्रो जीवेद् अनापदि ॥ (२।२)
yā vṛttis tāṃ samāsthāya vipro jīved anāpadi ||
यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिर् अगर्हितैः । (३।१)
yātrāmātraprasiddhyarthaṃ svaiḥ karmabhir agarhitaiḥ |
सत्यानृताभ्याम् अपि वा न श्ववृत्त्या कदाचन ॥ (४।२)
satyānṛtābhyām api vā na śvavṛttyā kadācana ||
ऋतम् उञ्छशिलं ज्ञेयम् अमृतं स्याद् अयाचितम् । (५।१)
ṛtam uñchaśilaṃ jñeyam amṛtaṃ syād ayācitam |
मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ (५।२)
mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam ||
सेवा श्ववृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् ॥ (६।२)
sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet ||
कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । (७।१)
kusūladhānyako vā syāt kumbhīdhānyaka eva vā |
चतुर्णाम् अपि चैतेषां द्विजानां गृहमेधिनाम् । (८।१)
caturṇām api caiteṣāṃ dvijānāṃ gṛhamedhinām |
ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ (८।२)
jyāyān paraḥ paro jñeyo dharmato lokajittamaḥ ||
सकर्मैको भवत्य् एषां त्रिभिर् अन्यः प्रवर्तते । (९।१)
sakarmaiko bhavaty eṣāṃ tribhir anyaḥ pravartate |
द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्त्रेण जीवति ॥ (९।२)
dvābhyām ekaś caturthas tu brahmasattreṇa jīvati ||
वर्तयंश् च शिलोञ्छाभ्याम् अग्निहोत्रपरायणः । (१०।१)
vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ |
इषीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ॥ (१०।२)
iṣīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā ||
अजिह्माम् अशठां शुद्धाम् जीवेद् ब्राह्मणजीविकाम् ॥ (११।२)
ajihmām aśaṭhāṃ śuddhām jīved brāhmaṇajīvikām ||
संतोषं परम् आस्थाय सुखार्थी संयतो भवेत् । (१२।१)
saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet |
संतोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥ (१२।२)
saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ ||
अतो ऽन्यतमया वृत्त्या जीवंस् तु स्नातको द्विजः । (१३।१)
ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ |
स्वर्गायुष्ययशस्यानि व्रताणीमानि धारयेत् ॥ (१३।२)
svargāyuṣyayaśasyāni vratāṇīmāni dhārayet ||
वेदोदितं स्वकं कर्म नित्यं कुर्याद् अतन्द्रितः । (१४।१)
vedoditaṃ svakaṃ karma nityaṃ kuryād atandritaḥ |
तद्धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥ (१४।२)
taddhi kurvan yathāśakti prāpnoti paramāṃ gatim ||
नेहेतार्थान् प्रसङ्गेन न विरुद्धेन कर्मणा । (१५।१)
nehetārthān prasaṅgena na viruddhena karmaṇā |
न विद्यमानेष्व् अर्थेषु नार्त्याम् अपि यतस् ततः ॥ (१५।२)
na vidyamāneṣv artheṣu nārtyām api yatas tataḥ ||
इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । (१६।१)
indriyārtheṣu sarveṣu na prasajyeta kāmataḥ |
अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ (१६।२)
atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet ||
सर्वान् परित्यजेद् अर्थान् स्वाध्यायस्य विरोधिनः । (१७।१)
sarvān parityajed arthān svādhyāyasya virodhinaḥ |
यथा तथाध्यापयंस् तु सा ह्य् अस्य कृतकृत्यता ॥ (१७।२)
yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā ||
वयसः कर्मणो ऽर्थस्य श्रुतस्याभिजनस्य च । (१८।१)
vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca |
बुद्धिवृद्धिकराण्य् आशु धन्यानि च हितानि च । (१९।१)
buddhivṛddhikarāṇy āśu dhanyāni ca hitāni ca |
नित्यं शास्त्राण्य् अवेक्षेत निगमांश् चैव वैदिकान् ॥ (१९।२)
nityaṃ śāstrāṇy avekṣeta nigamāṃś caiva vaidikān ||
यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । (२०।१)
yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati |
नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ (२१।२)
nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet ||
एतान् एके महायज्ञान् यज्ञशास्त्रविदो जनाः । (२२।१)
etān eke mahāyajñān yajñaśāstravido janāḥ |
अनीहमानाः सततम् इन्द्रियेष्व् एव जुह्वति ॥ (२२।२)
anīhamānāḥ satatam indriyeṣv eva juhvati ||
वाच्य् एके जुह्वति प्राणं प्राणे वाचं च सर्वदा । (२३।१)
vācy eke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā |
वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिम् अक्षयाम् ॥ (२३।२)
vāci prāṇe ca paśyanto yajñanirvṛttim akṣayām ||
ज्ञानेनैवापरे विप्रा यजन्त्य् एतैर् मखैः सदा । (२४।१)
jñānenaivāpare viprā yajanty etair makhaiḥ sadā |
ज्ञानमूलाम् क्रियाम् एषां पश्यन्तो ज्ञानचक्षुषा ॥ (२४।२)
jñānamūlām kriyām eṣāṃ paśyanto jñānacakṣuṣā ||
अग्निहोत्रं च जुहुयाद् आद्यन्ते द्युनिशोः सदा । (२५।१)
agnihotraṃ ca juhuyād ādyante dyuniśoḥ sadā |
दर्शेन चार्धमासान्ते पौर्णमासेन चैव हि ॥ (२५।२)
darśena cārdhamāsānte paurṇamāsena caiva hi ||
सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजो ऽध्वरैः । (२६।१)
sasyānte navasasyeṣṭyā tathartvante dvijo 'dhvaraiḥ |
पशुना त्व् अयनस्यादौ समान्ते सौमिकैर् मखैः ॥ (२६।२)
paśunā tv ayanasyādau samānte saumikair makhaiḥ ||
नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः । (२७।१)
nāniṣṭvā navasasyeṣṭyā paśunā cāgnimān dvijaḥ |
नवान्नम् अद्यान् मांसं वा दीर्घम् आयुर् जिजीविषुः ॥ (२७।२)
navānnam adyān māṃsaṃ vā dīrgham āyur jijīviṣuḥ ||
नवेनानर्चिता ह्य् अस्य पशुहव्येन चाग्नयः । (२८।१)
navenānarcitā hy asya paśuhavyena cāgnayaḥ |
प्राणान् एवात्तुम् इच्छन्ति नवान्नामिषगर्धिनः ॥ (२८।२)
prāṇān evāttum icchanti navānnāmiṣagardhinaḥ ||
नास्य कश्चिद् वसेद् गेहे शक्तितो ऽनर्चितो ऽतिथिः ॥ (२९।२)
nāsya kaścid vased gehe śaktito 'narcito 'tithiḥ ||
पाषाण्डिनो विकर्मस्थान् बैडालव्रतिकान् शठान् । (३०।१)
pāṣāṇḍino vikarmasthān baiḍālavratikān śaṭhān |
हैतुकान् बकवृत्तींश् च वाङ्मात्रेणापि नार्चयेत् ॥ (३०।२)
haitukān bakavṛttīṃś ca vāṅmātreṇāpi nārcayet ||
वेदविद्याव्रतस्नातान् श्रोत्रियान् गृहमेधिनः । (३१।१)
vedavidyāvratasnātān śrotriyān gṛhamedhinaḥ |
पूजयेद्धव्यकव्येन विपरीतांश् च वर्जयेत् ॥ (३१।२)
pūjayeddhavyakavyena viparītāṃś ca varjayet ||
संविभागश् च भूतेभ्यः कर्तव्यो ऽनुपरोधतः ॥ (३२।२)
saṃvibhāgaś ca bhūtebhyaḥ kartavyo 'nuparodhataḥ ||
राजतो धनम् अन्विच्छेत् संसीदन् स्नातकः क्षुधा । (३३।१)
rājato dhanam anvicchet saṃsīdan snātakaḥ kṣudhā |
याज्यान्तेवासिनोर् वापि न त्व् अन्यत इति स्थितिः ॥ (३३।२)
yājyāntevāsinor vāpi na tv anyata iti sthitiḥ ||
न सीदेत् स्नातको विप्रः क्षुधा शक्तः कथंचन । (३४।१)
na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃcana |
कॢप्तकेशनखश्मश्रुर् दान्तः शुक्लाम्बरः शुचिः । (३५।१)
kḷptakeśanakhaśmaśrur dāntaḥ śuklāmbaraḥ śuciḥ |
स्वाध्याये चैव युक्तः स्यान् नित्यम् आत्महितेषु च ॥ (३५।२)
svādhyāye caiva yuktaḥ syān nityam ātmahiteṣu ca ||
वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् । (३६।१)
vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum |
यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले ॥ (३६।२)
yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale ||
नेक्षेतोद्यन्तम् आदित्यं नास्तं यान्तं कदाचन । (३७।१)
nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadācana |
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ (३७।२)
nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam ||
न लङ्घयेद् वत्सतन्त्रीं न प्रधावेच् च वर्षति । (३८।१)
na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati |
मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् । (३९।१)
mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham |
प्रदक्षिणानि कुर्वीत प्रज्ञातांश् च वनस्पतीन् ॥ (३९।२)
pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn ||
नोपगच्छेत् प्रमत्तो ऽपि स्त्रियम् आर्तवदर्शने । (४०।१)
nopagacchet pramatto 'pi striyam ārtavadarśane |
रजसाभिप्लुतां नारीं नरस्य ह्य् उपगच्छतः । (४१।१)
rajasābhiplutāṃ nārīṃ narasya hy upagacchataḥ |
प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रहीयते ॥ (४१।२)
prajñā tejo balaṃ cakṣur āyuś caiva prahīyate ||
प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रवर्धते ॥ (४२।२)
prajñā tejo balaṃ cakṣur āyuś caiva pravardhate ||
नाश्नीयाद् भार्यया सार्धं नैनाम् ईक्षेत चाश्नतीम् । (४३।१)
nāśnīyād bhāryayā sārdhaṃ nainām īkṣeta cāśnatīm |
क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥ (४३।२)
kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham ||
नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्ताम् अनावृताम् । (४४।१)
nāñjayantīṃ svake netre na cābhyaktām anāvṛtām |
न पश्येत् प्रसवन्तीं च तेजस्कामो द्विजोत्तमः ॥ (४४।२)
na paśyet prasavantīṃ ca tejaskāmo dvijottamaḥ ||
नान्नम् अद्याद् एकवासा न नग्नः स्नानम् आचरेत् । (४५।१)
nānnam adyād ekavāsā na nagnaḥ snānam ācaret |
न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ॥ (४५।२)
na mūtraṃ pathi kurvīta na bhasmani na govraje ||
न फालकृष्टे न जले न चित्यां न च पर्वते । (४६।१)
na phālakṛṣṭe na jale na cityāṃ na ca parvate |
न ससत्त्वेषु गर्तेषु न गच्छन्न् अपि न स्थितः । (४७।१)
na sasattveṣu garteṣu na gacchann api na sthitaḥ |
वाय्वग्निविप्रम् आदित्यम् अपः पश्यंस् तथैव गाः । (४८।१)
vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ |
न कदाचन कुर्वीत विङ्मूत्रस्य विसर्जनम् ॥ (४८।२)
na kadācana kurvīta viṅmūtrasya visarjanam ||
तिरस्कृत्योच्चरेत् काष्ठलोष्टपत्त्रतृणादिना । (४९।१)
tiraskṛtyoccaret kāṣṭhaloṣṭapattratṛṇādinā |
नियम्य प्रयतो वाचं संवीताङ्गो ऽवगुण्ठितः ॥ (४९।२)
niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ ||
मूत्रोच्चारसमुत्सर्गं दिवा कुर्याद् उदङ्मुखः । (५०।१)
mūtroccārasamutsargaṃ divā kuryād udaṅmukhaḥ |
दक्षिणाभिमुखो रात्रौ संध्ययोश् च यथा दिवा ॥ (५०।२)
dakṣiṇābhimukho rātrau saṃdhyayoś ca yathā divā ||
छायायाम् अन्धकारे वा रात्राव् अहनि वा द्विजः । (५१।१)
chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ |
प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम् । (५२।१)
pratyagniṃ pratisūryaṃ ca pratisomodakadvijam |
प्रतिगु प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥ (५२।२)
pratigu prativātaṃ ca prajñā naśyati mehataḥ ||
नाग्निं मुखेनोपधमेन् नग्नां नेक्षेत च स्त्रियम् । (५३।१)
nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam |
नामेध्यं प्रक्षिपेद् अग्नौ न च पादौ प्रतापयेत् ॥ (५३।२)
nāmedhyaṃ prakṣiped agnau na ca pādau pratāpayet ||
अधस्तान् नोपदध्याच् च न चैनम् अभिलङ्घयेत् । (५४।१)
adhastān nopadadhyāc ca na cainam abhilaṅghayet |
न चैनं पादतः कुर्यान् न प्राणाबाधम् आचरेत् ॥ (५४।२)
na cainaṃ pādataḥ kuryān na prāṇābādham ācaret ||
नाश्नीयात् संधिवेलायां न गच्छेन् नापि संविशेत् । (५५।१)
nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet |
न चैव प्रलिखेद् भूमिं नात्मनो ऽपहरेत् स्रजम् ॥ (५५।२)
na caiva pralikhed bhūmiṃ nātmano 'paharet srajam ||
नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् । (५६।१)
nāpsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ vā samutsṛjet |
अमेध्यलिप्तम् अन्यद् वा लोहितं वा विषाणि वा ॥ (५६।२)
amedhyaliptam anyad vā lohitaṃ vā viṣāṇi vā ||
नैकः सुप्याच्छून्यगेहे न श्रेयांसं प्रबोधयेत् । (५७।१)
naikaḥ supyācchūnyagehe na śreyāṃsaṃ prabodhayet |
नोदक्ययाभिभाषेत यज्ञं गच्छेन् न चावृतः ॥ (५७।२)
nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ ||
अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ । (५८।१)
agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau |
स्वाध्याये भोजने चैव दक्षिणं पाणिम् उद्धरेत् ॥ (५८।२)
svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet ||
न वारयेद् गां धयन्तीं न चाचक्षीत कस्यचित् । (५९।१)
na vārayed gāṃ dhayantīṃ na cācakṣīta kasyacit |
न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद् दर्शयेद् बुधः ॥ (५९।२)
na divīndrāyudhaṃ dṛṣṭvā kasyacid darśayed budhaḥ ||
नाधर्मिके वसेद् ग्रामे न व्याधिबहुले भृशम् । (६०।१)
nādharmike vased grāme na vyādhibahule bhṛśam |
नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥ (६०।२)
naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset ||
न पाषण्डिगणाक्रान्ते नोपसृष्टे ऽन्त्यजैर् नृभिः ॥ (६१।२)
na pāṣaṇḍigaṇākrānte nopasṛṣṭe 'ntyajair nṛbhiḥ ||
न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यम् आचरेत् । (६२।१)
na bhuñjītoddhṛtasnehaṃ nātisauhityam ācaret |
न कुर्वीत वृथाचेष्टां न वार्य् अञ्जलिना पिबेत् । (६३।१)
na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet |
नोत्सङ्गे भक्षयेद् भक्ष्यान् न जातु स्यात् कुतूहली ॥ (६३।२)
notsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī ||
न नृत्येद् अथ वा गायेन् न वादित्राणि वादयेत् । (६४।१)
na nṛtyed atha vā gāyen na vāditrāṇi vādayet |
नास्फोटयेन् न च क्ष्वेडेन् न च रक्तो विरावयेत् ॥ (६४।२)
nāsphoṭayen na ca kṣveḍen na ca rakto virāvayet ||
न पादौ धावयेत् कांस्ये कदाचिद् अपि भाजने । (६५।१)
na pādau dhāvayet kāṃsye kadācid api bhājane |
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥ (६५।२)
na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite ||
उपानहौ च वासश् च धृतम् अन्यैर् न धारयेत् । (६६।१)
upānahau ca vāsaś ca dhṛtam anyair na dhārayet |
नाविनीतैर् भजेद् धुर्यैर् न च क्षुद्व्याधिपीडितैः । (६७।१)
nāvinītair bhajed dhuryair na ca kṣudvyādhipīḍitaiḥ |
न भिन्नशृङ्गाक्षिखुरैर् न वालधिविरूपितैः ॥ (६७।२)
na bhinnaśṛṅgākṣikhurair na vāladhivirūpitaiḥ ||
विनीतैस् तु व्रजेन् नित्यम् आशुगैर् लक्षणान्वितैः । (६८।१)
vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ |
वर्णरूपोपसंपन्नैः प्रतोदेनातुदन् भृशम् ॥ (६८।२)
varṇarūpopasaṃpannaiḥ pratodenātudan bhṛśam ||
बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम् । (६९।१)
bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathāsanam |
न छिन्द्यान् नखरोमाणि दन्तैर् नोत्पाटयेन् नखान् ॥ (६९।२)
na chindyān nakharomāṇi dantair notpāṭayen nakhān ||
न मृल्लोष्टं च मृद्नीयान् न छिन्द्यात् करजैस् तृणम् । (७०।१)
na mṛlloṣṭaṃ ca mṛdnīyān na chindyāt karajais tṛṇam |
न कर्म निष्फलं कुर्यान् नायत्याम् असुखोदयम् ॥ (७०।२)
na karma niṣphalaṃ kuryān nāyatyām asukhodayam ||
न विगर्ह्य कथां कुर्याद् बहिर् माल्यं न धारयेत् । (७२।१)
na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet |
गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ (७२।२)
gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam ||
अद्वारेण च नातीयाद् ग्रामं वा वेश्म वावृतम् । (७३।१)
advāreṇa ca nātīyād grāmaṃ vā veśma vāvṛtam |
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ (७३।२)
rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet ||
नाक्षैर् दीव्येत् कदाचित् तु स्वयं नोपानहौ हरेत् । (७४।१)
nākṣair dīvyet kadācit tu svayaṃ nopānahau haret |
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ (७४।२)
śayanastho na bhuñjīta na pāṇisthaṃ na cāsane ||
सर्वं च तिलसम्बद्धं नाद्याद् अस्तम् इते रवौ । (७५।१)
sarvaṃ ca tilasambaddhaṃ nādyād astam ite ravau |
न च नग्नः शयीतेह न चोच्छिष्टः क्वचिद् व्रजेत् ॥ (७५।२)
na ca nagnaḥ śayīteha na cocchiṣṭaḥ kvacid vrajet ||
आर्द्रपादस् तु भुञ्जीत नार्द्रपादस् तु संविशेत् । (७६।१)
ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet |
आर्द्रपादस् तु भुञ्जानो दीर्घम् आयुर् अवाप्नुयात् ॥ (७६।२)
ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt ||
अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हिचित् । (७७।१)
acakṣurviṣayaṃ durgaṃ na prapadyeta karhicit |
न विण्मूत्रम् उदीक्षेत न बाहुभ्यां नदीं तरेत् ॥ (७७।२)
na viṇmūtram udīkṣeta na bāhubhyāṃ nadīṃ taret ||
अधितिष्ठेन् न केशांस् तु न भस्मास्थिकपालिकाः । (७८।१)
adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ |
न कार्पासास्थि न तुषान् दीर्घम् आयुर् जिजीविषुः ॥ (७८।२)
na kārpāsāsthi na tuṣān dīrgham āyur jijīviṣuḥ ||
न संवसेच् च पतितैर् न चाण्डालैर् न पुल्कसैः । (७९।१)
na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ |
न मूर्खैर् नावलिप्तैश् च नान्त्यैर् नान्त्यावसायिभिः ॥ (७९।२)
na mūrkhair nāvaliptaiś ca nāntyair nāntyāvasāyibhiḥ ||
न शूद्राय मतिं दद्यान् नोच्छिष्टं न हविष्कृतम् । (८०।१)
na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam |
न चास्योपदिशेद् धर्मं न चास्य व्रतम् आदिशेत् ॥ (८०।२)
na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet ||
यो ह्य् अस्य धर्मम् आचष्टे यश् चैवादिशति व्रतम् । (८१।१)
yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam |
न संहताभ्यां पाणिभ्यां कण्डूयेद् आत्मनः शिरः । (८२।१)
na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyed ātmanaḥ śiraḥ |
न स्पृशेच् चैतद् उच्छिष्टो न च स्नायाद् विना ततः ॥ (८२।२)
na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ ||
केशग्रहान् प्रहारांश् च शिरस्य् एतान् विवर्जयेत् । (८३।१)
keśagrahān prahārāṃś ca śirasy etān vivarjayet |
शिरःस्नातश् च तैलेन नाङ्गं किंचिद् अपि स्पृशेत् ॥ (८३।२)
śiraḥsnātaś ca tailena nāṅgaṃ kiṃcid api spṛśet ||
न राज्ञः प्रतिगृह्णीयाद् अराजन्यप्रसूतितः । (८४।१)
na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ |
तेन तुल्यः स्मृतो राजा घोरस् तस्य प्रतिग्रहः ॥ (८६।२)
tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ ||
यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः । (८७।१)
yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ |
संहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम् ॥ (८९।२)
saṃhātaṃ ca sakākolaṃ kuḍmalaṃ pratimūrtikam ||
लोहशङ्कुम् ऋजीषं च पन्थानं शाल्मलीं नदीम् । (९०।१)
lohaśaṅkum ṛjīṣaṃ ca panthānaṃ śālmalīṃ nadīm |
एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । (९१।१)
etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ |
न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयो ऽभिकाङ्क्षिणः ॥ (९१।२)
na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ ||
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । (९२।१)
brāhme muhūrte budhyeta dharmārthau cānucintayet |
कायक्लेशांश् च तन्मूलान् वेदतत्त्वार्थम् एव च ॥ (९२।२)
kāyakleśāṃś ca tanmūlān vedatattvārtham eva ca ||
पूर्वां संध्यां जपंस् तिष्ठेत् स्वकाले चापरां चिरम् ॥ (९३।२)
pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet svakāle cāparāṃ ciram ||
ऋषयो दीर्घसंध्यत्वाद् दीर्घम् आयुर् अवाप्नुयुः । (९४।१)
ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ |
प्रज्ञां यशश् च कीर्तिं च ब्रह्मवर्चसम् एव च ॥ (९४।२)
prajñāṃ yaśaś ca kīrtiṃ ca brahmavarcasam eva ca ||
श्रावण्यां प्रौष्ठपद्यां वाप्य् उपाकृत्य यथाविधि । (९५।१)
śrāvaṇyāṃ prauṣṭhapadyāṃ vāpy upākṛtya yathāvidhi |
युक्तश् छन्दांस्य् अधीयीत मासान् विप्रो ऽर्धपञ्चमान् ॥ (९५।२)
yuktaś chandāṃsy adhīyīta māsān vipro 'rdhapañcamān ||
पुष्ये तु छन्दसां कुर्याद् बहिर् उत्सर्जनं द्विजः । (९६।१)
puṣye tu chandasāṃ kuryād bahir utsarjanaṃ dvijaḥ |
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ऽहनि ॥ (९६।२)
māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani ||
यथाशास्त्रं तु कृत्वैवम् उत्सर्गं छन्दसां बहिः । (९७।१)
yathāśāstraṃ tu kṛtvaivam utsargaṃ chandasāṃ bahiḥ |
विरमेत् पक्षिणीं रात्रिं तद् एवैकम् अहर्निशम् ॥ (९७।२)
viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam ||
अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । (९८।१)
ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet |
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ (९८।२)
vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu saṃpaṭhet ||
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ (९९।२)
na niśānte pariśrānto brahmādhītya punaḥ svapet ||
यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् । (१००।१)
yathoditena vidhinā nityaṃ chandaskṛtaṃ paṭhet |
ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्य् अनापदि ॥ (१००।२)
brahma chandaskṛtaṃ caiva dvijo yukto hy anāpadi ||
इमान् नित्यम् अनध्यायान् अधीयानो विवर्जयेत् । (१०१।१)
imān nityam anadhyāyān adhīyāno vivarjayet |
अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥ (१०१।२)
adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam ||
कर्णश्रवे ऽनिले रात्रौ दिवा पांसुसमूहने । (१०२।१)
karṇaśrave 'nile rātrau divā pāṃsusamūhane |
एतौ वर्षास्व् अनध्यायाव् अध्यायज्ञाः प्रचक्षते ॥ (१०२।२)
etau varṣāsv anadhyāyāv adhyāyajñāḥ pracakṣate ||
विद्युत्स्तनितवर्षेषु महोल्कानां च सम्प्लवे । (१०३।१)
vidyutstanitavarṣeṣu maholkānāṃ ca samplave |
आकालिकम् अनध्यायम् एतेषु मनुर् अब्रवीत् ॥ (१०३।२)
ākālikam anadhyāyam eteṣu manur abravīt ||
एतांस् त्व् अभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु । (१०४।१)
etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu |
तदा विद्याद् अनध्यायम् अनृतौ चाभ्रदर्शने ॥ (१०४।२)
tadā vidyād anadhyāyam anṛtau cābhradarśane ||
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । (१०५।१)
nirghāte bhūmicalane jyotiṣāṃ copasarjane |
एतान् आकालिकान् विद्याद् अनध्यायान् ऋताव् अपि ॥ (१०५।२)
etān ākālikān vidyād anadhyāyān ṛtāv api ||
प्रादुष्कृतेष्व् अग्निषु तु विद्युत्स्तनितनिःस्वने । (१०६।१)
prāduṣkṛteṣv agniṣu tu vidyutstanitaniḥsvane |
सज्योतिः स्याद् अनध्यायः शेषे रात्रौ यथा दिवा ॥ (१०६।२)
sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā ||
नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च । (१०७।१)
nityānadhyāya eva syād grāmeṣu nagareṣu ca |
धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा ॥ (१०७।२)
dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā ||
उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने । (१०९।१)
udake madhyarātre ca viṇmūtrasya visarjane |
उच्छिष्टः श्राद्धभुक् चैव मनसापि न चिन्तयेत् ॥ (१०९।२)
ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet ||
प्रतिगृह्य द्विजो विद्वान् एकोद्दिष्टस्य केतनम् । (११०।१)
pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam |
त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश् च सूतके ॥ (११०।२)
tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake ||
यावद् एकानुदिष्टस्य गन्धो लेपश् च तिष्ठति । (१११।१)
yāvad ekānudiṣṭasya gandho lepaś ca tiṣṭhati |
विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ॥ (१११।२)
viprasya viduṣo dehe tāvad brahma na kīrtayet ||
शयानः प्रौढपादश् च कृत्वा चैवावसक्थिकाम् । (११२।१)
śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām |
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यम् एव च ॥ (११२।२)
nādhīyītāmiṣaṃ jagdhvā sūtakānnādyam eva ca ||
नीहारे बाणशब्दे च संध्ययोर् एव चोभयोः । (११३।१)
nīhāre bāṇaśabde ca saṃdhyayor eva cobhayoḥ |
अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ॥ (११३।२)
amāvāsyācaturdaśyoḥ paurṇamāsyaṣṭakāsu ca ||
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी । (११४।१)
amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī |
ब्रह्माष्टकापौर्णमास्यौ तस्मात् ताः परिवर्जयेत् ॥ (११४।२)
brahmāṣṭakāpaurṇamāsyau tasmāt tāḥ parivarjayet ||
पांसुवर्षे दिशां दाहे गोमायुविरुते तथा । (११५।१)
pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā |
श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद् द्विजः ॥ (११५।२)
śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ ||
नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजे ऽपि वा । (११६।१)
nādhīyīta śmaśānānte grāmānte govraje 'pi vā |
वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥ (११६।२)
vasitvā maithunaṃ vāsaḥ śrāddhikaṃ pratigṛhya ca ||
प्राणि वा यदि वाप्राणि यत् किंचिच्छ्राद्धिकं भवेत् । (११७।१)
prāṇi vā yadi vāprāṇi yat kiṃcicchrāddhikaṃ bhavet |
तद् आलभ्याप्य् अनध्यायः पाण्यास्यो हि द्विजः स्मृतः ॥ (११७।२)
tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ ||
चोरैर् उपद्रुते ग्रामे सम्भ्रमे चाग्निकारिते । (११८।१)
corair upadrute grāme sambhrame cāgnikārite |
आकालिकम् अनध्यायं विद्यात् सर्वाद्भुतेषु च ॥ (११८।२)
ākālikam anadhyāyaṃ vidyāt sarvādbhuteṣu ca ||
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् । (११९।१)
upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam |
अष्टकासु त्व् अहोरात्रम् ऋत्वन्तासु च रात्रिषु ॥ (११९।२)
aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu ||
नाधीयीताश्वम् आरूढो न वृक्षं न च हस्तिनम् । (१२०।१)
nādhīyītāśvam ārūḍho na vṛkṣaṃ na ca hastinam |
न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः ॥ (१२०।२)
na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ ||
न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ॥ (१२१।२)
na bhuktamātre nājīrṇe na vamitvā na śuktake ||
अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् । (१२२।१)
atithiṃ cānanujñāpya mārute vāti vā bhṛśam |
रुधिरे च स्रुते गात्रात् शस्त्रेण च परिक्षते ॥ (१२२।२)
rudhire ca srute gātrāt śastreṇa ca parikṣate ||
वेदस्याधीत्य वाप्य् अन्तम् आरण्यकम् अधीत्य च ॥ (१२३।२)
vedasyādhītya vāpy antam āraṇyakam adhītya ca ||
ऋग्वेदो देवदैवत्यो यजुर्वेदस् तु मानुषः । (१२४।१)
ṛgvedo devadaivatyo yajurvedas tu mānuṣaḥ |
सामवेदः स्मृतः पित्र्यस् तस्मात् तस्याशुचिर् ध्वनिः ॥ (१२४।२)
sāmavedaḥ smṛtaḥ pitryas tasmāt tasyāśucir dhvaniḥ ||
एतद् विदन्तो विद्वांसस् त्रयीनिष्कर्षम् अन्वहम् । (१२५।१)
etad vidanto vidvāṃsas trayīniṣkarṣam anvaham |
क्रमतः पूर्वम् अभ्यस्य पश्चाद् वेदम् अधीयते ॥ (१२५।२)
kramataḥ pūrvam abhyasya paścād vedam adhīyate ||
अन्तरागमने विद्याद् अनध्यायम् अहर्निशम् ॥ (१२६।२)
antarāgamane vidyād anadhyāyam aharniśam ||
द्वाव् एव वर्जयेन् नित्यम् अनध्यायौ प्रयत्नतः । (१२७।१)
dvāv eva varjayen nityam anadhyāyau prayatnataḥ |
स्वाध्यायभूमिं चाशुद्धाम् आत्मानं चाशुचिं द्विजः ॥ (१२७।२)
svādhyāyabhūmiṃ cāśuddhām ātmānaṃ cāśuciṃ dvijaḥ ||
स्नानअमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् । (१२८।१)
snānaamāvāsyām aṣṭamīṃ ca paurṇamāsīṃ caturdaśīm |
ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥ (१२८।२)
brahmacārī bhaven nityam apy ṛtau snātako dvijaḥ ||
न स्नानम् आचरेद् भुक्त्वा नातुरो न महानिशि । (१२९।१)
na snānam ācared bhuktvā nāturo na mahāniśi |
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ (१२९।२)
na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye ||
देवतानां गुरो राज्ञः स्नातकाचार्ययोस् तथा । (१३०।१)
devatānāṃ guro rājñaḥ snātakācāryayos tathā |
नाक्रामेत् कामतश् छायां बभ्रुणो दीक्षितस्य च ॥ (१३०।२)
nākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca ||
मध्यंदिने ऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् । (१३१।१)
madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam |
संध्ययोर् उभयोश् चैव न सेवेत चतुष्पथम् ॥ (१३१।२)
saṃdhyayor ubhayoś caiva na seveta catuṣpatham ||
उद्वर्तनम् अपस्नानं विण्मूत्रे रक्तम् एव च । (१३२।१)
udvartanam apasnānaṃ viṇmūtre raktam eva ca |
श्लेष्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत् तु कामतः ॥ (१३२।२)
śleṣmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ ||
अधार्मिकं तस्करं च परस्यैव च योषितम् ॥ (१३३।२)
adhārmikaṃ taskaraṃ ca parasyaiva ca yoṣitam ||
न हीदृशम् अनायुष्यं लोके किंचन विद्यते । (१३४।१)
na hīdṛśam anāyuṣyaṃ loke kiṃcana vidyate |
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् । (१३५।१)
kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam |
नावमन्येत वै भूष्णुः कृशान् अपि कदाचन ॥ (१३५।२)
nāvamanyeta vai bhūṣṇuḥ kṛśān api kadācana ||
एतत् त्रयं हि पुरुषं निर्दहेद् अवमानितम् । (१३६।१)
etat trayaṃ hi puruṣaṃ nirdahed avamānitam |
तस्माद् एतत् त्रयं नित्यं नावमन्येत बुद्धिमान् ॥ (१३६।२)
tasmād etat trayaṃ nityaṃ nāvamanyeta buddhimān ||
नात्मानम् अवमन्येत पूर्वाभिर् असमृद्धिभिः । (१३७।१)
nātmānam avamanyeta pūrvābhir asamṛddhibhiḥ |
आ मृत्योः श्रियम् अन्विच्छेन् नैनां मन्येत दुर्लभाम् ॥ (१३७।२)
ā mṛtyoḥ śriyam anvicchen naināṃ manyeta durlabhām ||
सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियम् । (१३८।१)
satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam |
प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥ (१३८।२)
priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ ||
भद्रं भद्रम् इति ब्रूयाद् भद्रम् इत्य् एव वा वदेत् । (१३९।१)
bhadraṃ bhadram iti brūyād bhadram ity eva vā vadet |
शुष्कवैरं विवादं च न कुर्यात् केनचित् सह ॥ (१३९।२)
śuṣkavairaṃ vivādaṃ ca na kuryāt kenacit saha ||
नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते । (१४०।१)
nātikalyaṃ nātisāyaṃ nātimadhyaṃdine sthite |
नाज्ञातेन समं गच्छेन् नैको न वृषलैः सह ॥ (१४०।२)
nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha ||
हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् । (१४१।१)
hīnāṅgān atiriktāṅgān vidyāhīnān vayo'dhikān |
रूपद्रविणहीनांश् च जातिहीनांश् च नाक्षिपेत् ॥ (१४१।२)
rūpadraviṇahīnāṃś ca jātihīnāṃś ca nākṣipet ||
न स्पृशेत् पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् । (१४२।१)
na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān |
न चापि पश्येद् अशुचिः सुस्थो ज्योतिर्गणान् दिवा ॥ (१४२।२)
na cāpi paśyed aśuciḥ sustho jyotirgaṇān divā ||
स्पृष्ट्वैतान् अशुचिर् नित्यम् अद्भिः प्राणान् उपस्पृशेत् । (१४३।१)
spṛṣṭvaitān aśucir nityam adbhiḥ prāṇān upaspṛśet |
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ (१४३।२)
gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu ||
अनातुरः स्वानि खानि न स्पृशेद् अनिमित्ततः । (१४४।१)
anāturaḥ svāni khāni na spṛśed animittataḥ |
रोमाणि च रहस्यानि सर्वाण्य् एव विवर्जयेत् ॥ (१४४।२)
romāṇi ca rahasyāni sarvāṇy eva vivarjayet ||
मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः । (१४५।१)
maṅgalācārayuktaḥ syāt prayatātmā jitendriyaḥ |
जपेच् च जुहुयाच् चैव नित्यम् अग्निम् अतन्द्रितः ॥ (१४५।२)
japec ca juhuyāc caiva nityam agnim atandritaḥ ||
मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । (१४६।१)
maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām |
जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ (१४६।२)
japatāṃ juhvatāṃ caiva vinipāto na vidyate ||
वेदम् एवाभ्यसेन् नित्यं यथाकालम् अतन्द्रितः । (१४७।१)
vedam evābhyasen nityaṃ yathākālam atandritaḥ |
तं ह्य् अस्याहुः परं धर्मम् उपधर्मो ऽन्य उच्यते ॥ (१४७।२)
taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate ||
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ (१४८।२)
adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm ||
पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते पुनः । (१४९।१)
paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ |
ब्रह्माभ्यासेन चाजस्रम् अनन्तं सुखम् अश्नुते ॥ (१४९।२)
brahmābhyāsena cājasram anantaṃ sukham aśnute ||
सावित्रान् शान्तिहोमांश् च कुर्यात् पर्वसु नित्यशः । (१५०।१)
sāvitrān śāntihomāṃś ca kuryāt parvasu nityaśaḥ |
पितॄंश् चैवाष्टकास्व् अर्चेन् नित्यम् अन्वष्टकासु च ॥ (१५०।२)
pitṝṃś caivāṣṭakāsv arcen nityam anvaṣṭakāsu ca ||
दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् । (१५१।१)
dūrād āvasathān mūtraṃ dūrāt pādāvasecanam |
उच्छिष्टान्ननिषेकं च दूराद् एव समाचरेत् ॥ (१५१।२)
ucchiṣṭānnaniṣekaṃ ca dūrād eva samācaret ||
मैत्रं प्रसाधनं स्नानं दन्तधावनम् अञ्जनम् । (१५२।१)
maitraṃ prasādhanaṃ snānaṃ dantadhāvanam añjanam |
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ (१५२।२)
pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam ||
दैवतान्य् अभिगच्छेत् तु धार्मिकांश् च द्विजोत्तमान् । (१५३।१)
daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān |
ईश्वरं चैव रक्षार्थं गुरून् एव च पर्वसु ॥ (१५३।२)
īśvaraṃ caiva rakṣārthaṃ gurūn eva ca parvasu ||
अभिवादयेद् वृद्धांश् च दद्याच् चैवासनं स्वकम् । (१५४।१)
abhivādayed vṛddhāṃś ca dadyāc caivāsanaṃ svakam |
कृताञ्जलिर् उपासीत गच्छतः पृष्ठतो ऽन्वियात् ॥ (१५४।२)
kṛtāñjalir upāsīta gacchataḥ pṛṣṭhato 'nviyāt ||
श्रुतिस्मृत्युदितं सम्यङ् निबद्धं स्वेषु कर्मसु । (१५५।१)
śrutismṛtyuditaṃ samyaṅ nibaddhaṃ sveṣu karmasu |
धर्ममूलं निषेवेत सदाचारम् अतन्द्रितः ॥ (१५५।२)
dharmamūlaṃ niṣeveta sadācāram atandritaḥ ||
आचाराल्लभते ह्य् आयुर् आचाराद् ईप्सिताः प्रजाः । (१५६।१)
ācārāllabhate hy āyur ācārād īpsitāḥ prajāḥ |
आचाराद् धनम् अक्षय्यम् आचारो हन्त्य् अलक्षणम् ॥ (१५६।२)
ācārād dhanam akṣayyam ācāro hanty alakṣaṇam ||
दुःखभागी च सततं व्याधितो ऽल्पायुर् एव च ॥ (१५७।२)
duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca ||
श्रद्दधानो ऽनसूयश् च शतं वर्षाणि जीवति ॥ (१५८।२)
śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati ||
यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् । (१५९।१)
yad yat paravaśaṃ karma tat tad yatnena varjayet |
यद् यद् आत्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ॥ (१५९।२)
yad yad ātmavaśaṃ tu syāt tat tat seveta yatnataḥ ||
सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् । (१६०।१)
sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham |
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥ (१६०।२)
etad vidyāt samāsena lakṣaṇaṃ sukhaduḥkhayoḥ ||
यत् कर्म कुर्वतो ऽस्य स्यात् परितोषो ऽन्तरात्मनः । (१६१।१)
yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ |
तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ (१६१।२)
tat prayatnena kurvīta viparītaṃ tu varjayet ||
आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् । (१६२।१)
ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum |
न हिंस्याद् ब्राह्मणान् गाश् च सर्वांश् चैव तपस्विनः ॥ (१६२।२)
na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ ||
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । (१६३।१)
nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam |
द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥ (१६३।२)
dveṣaṃ dambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet ||
परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत् । (१६४।१)
parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet |
अन्यत्र पुत्राच्छिष्याद् वा शिष्ट्यर्थं ताडयेत् तु तौ ॥ (१६४।२)
anyatra putrācchiṣyād vā śiṣṭyarthaṃ tāḍayet tu tau ||
ब्राह्मणायावगुर्यैव द्विजातिर् वधकाम्यया । (१६५।१)
brāhmaṇāyāvaguryaiva dvijātir vadhakāmyayā |
ताडयित्वा तृणेनापि संरम्भान् मतिपूर्वकम् । (१६६।१)
tāḍayitvā tṛṇenāpi saṃrambhān matipūrvakam |
अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृग् अङ्गतः । (१६७।१)
ayudhyamānasyotpādya brāhmaṇasyāsṛg aṅgataḥ |
दुःखं सुमहद् आप्नोति प्रेत्याप्राज्ञतया नरः ॥ (१६७।२)
duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ ||
शोणितं यावतः पांसून् संगृह्णाति महीतलात् । (१६८।१)
śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇāti mahītalāt |
तावतो ऽब्दान् अमुत्रान्यैः शोणितोत्पादको ऽद्यते ॥ (१६८।२)
tāvato 'bdān amutrānyaiḥ śoṇitotpādako 'dyate ||
न कदाचिद् द्विजे तस्माद् विद्वान् अवगुरेद् अपि । (१६९।१)
na kadācid dvije tasmād vidvān avagured api |
न ताडयेत् तृणेनापि न गात्रात् स्रावयेद् असृक् ॥ (१६९।२)
na tāḍayet tṛṇenāpi na gātrāt srāvayed asṛk ||
अधार्मिको नरो यो हि यस्य चाप्य् अनृतं धनम् । (१७०।१)
adhārmiko naro yo hi yasya cāpy anṛtaṃ dhanam |
हिंसारतश् च यो नित्यं नेहासौ सुखम् एधते ॥ (१७०।२)
hiṃsārataś ca yo nityaṃ nehāsau sukham edhate ||
न सीदन्न् अपि धर्मेण मनो ऽधर्मे निवेशयेत् । (१७१।१)
na sīdann api dharmeṇa mano 'dharme niveśayet |
अधार्मिकानां पापानाम् आशु पश्यन् विपर्ययम् ॥ (१७१।२)
adhārmikānāṃ pāpānām āśu paśyan viparyayam ||
नाधर्मश् चरितो लोके सद्यः फलति गौर् इव । (१७२।१)
nādharmaś carito loke sadyaḥ phalati gaur iva |
शनैर् आवर्त्यमानस् तु कर्तुर् मूलानि कृन्तति ॥ (१७२।२)
śanair āvartyamānas tu kartur mūlāni kṛntati ||
यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु । (१७३।१)
yadi nātmani putreṣu na cet putreṣu naptṛṣu |
न त्व् एव तु कृतो ऽधर्मः कर्तुर् भवति निष्फलः ॥ (१७३।२)
na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ ||
अधर्मेणैधते तावत् ततो भद्राणि पश्यति । (१७४।१)
adharmeṇaidhate tāvat tato bhadrāṇi paśyati |
ततः सपत्नान् जयति समूलस् तु विनश्यति ॥ (१७४।२)
tataḥ sapatnān jayati samūlas tu vinaśyati ||
सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत् सदा । (१७५।१)
satyadharmāryavṛtteṣu śauce caivāramet sadā |
शिष्यांश् च शिष्याद् धर्मेण वाग्बाहूदरसंयतः ॥ (१७५।२)
śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ ||
परित्यजेद् अर्थकामौ यौ स्यातां धर्मवर्जितौ । (१७६।१)
parityajed arthakāmau yau syātāṃ dharmavarjitau |
धर्मं चाप्य् असुखोदर्कं लोकसंक्रुष्टम् एव च ॥ (१७६।२)
dharmaṃ cāpy asukhodarkaṃ lokasaṃkruṣṭam eva ca ||
न स्याद् वाक्चपलश् चैव न परद्रोहकर्मधीः ॥ (१७७।२)
na syād vākcapalaś caiva na paradrohakarmadhīḥ ||
तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ॥ (१७८।२)
tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati ||
ऋत्विक्पुरोहिताचार्यैर् मातुलातिथिसंश्रितैः । (१७९।१)
ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ |
बालवृद्धातुरैर् वैद्यैर् ज्ञातिसम्बन्धिबान्धवैः ॥ (१७९।२)
bālavṛddhāturair vaidyair jñātisambandhibāndhavaiḥ ||
मातापितृभ्यां जामीभिर् भ्रात्रा पुत्रेण भार्यया । (१८०।१)
mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā |
एतैर् विवादान् संत्यज्य सर्वपापैः प्रमुच्यते । (१८१।१)
etair vivādān saṃtyajya sarvapāpaiḥ pramucyate |
एतैर् जितैश् च जयति सर्वान् लोकान् इमान् गृही ॥ (१८१।२)
etair jitaiś ca jayati sarvān lokān imān gṛhī ||
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः । (१८२।१)
ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ |
अतिथिस् त्व् इन्द्रलोकेशो देवलोकस्य चऋत्विजः ॥ (१८२।२)
atithis tv indralokeśo devalokasya caṛtvijaḥ ||
जामयो ऽप्सरसाम् लोके वैश्वदेवस्य बान्धवाः । (१८३।१)
jāmayo 'psarasām loke vaiśvadevasya bāndhavāḥ |
सम्बन्धिनो ह्य् अपां लोके पृथिव्यां मातृमातुलौ ॥ (१८३।२)
sambandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau ||
आकाशेशास् तु विज्ञेया बालवृद्धकृशातुराः । (१८४।१)
ākāśeśās tu vijñeyā bālavṛddhakṛśāturāḥ |
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥ (१८४।२)
bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ ||
छाया स्वो दासवर्गश् च दुहिता कृपणं परम् । (१८५।१)
chāyā svo dāsavargaś ca duhitā kṛpaṇaṃ param |
तस्माद् एतैर् अधिक्षिप्तः सहेतासंज्वरः सदा ॥ (१८५।२)
tasmād etair adhikṣiptaḥ sahetāsaṃjvaraḥ sadā ||
प्रतिग्रहसमर्थो ऽपि प्रसङ्गं तत्र वर्जयेत् । (१८६।१)
pratigrahasamartho 'pi prasaṅgaṃ tatra varjayet |
प्रतिग्रहेण ह्य् अस्याशु ब्राह्मं तेजः प्रशाम्यति ॥ (१८६।२)
pratigraheṇa hy asyāśu brāhmaṃ tejaḥ praśāmyati ||
न द्रव्याणाम् अविज्ञाय विधिं धर्म्यं प्रतिग्रहे । (१८७।१)
na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe |
प्राज्ञः प्रतिग्रहं कुर्याद् अवसीदन्न् अपि क्षुधा ॥ (१८७।२)
prājñaḥ pratigrahaṃ kuryād avasīdann api kṣudhā ||
हिरण्यं भूमिम् अश्वं गाम् अन्नं वासस् तिलान् घृतम् । (१८८।१)
hiraṇyaṃ bhūmim aśvaṃ gām annaṃ vāsas tilān ghṛtam |
प्रतिगृह्णन्न् अविद्वांस् तु भस्मीभवति दारुवत् ॥ (१८८।२)
pratigṛhṇann avidvāṃs tu bhasmībhavati dāruvat ||
हिरण्यम् आयुर् अन्नं च भूर् गौश् चाप्य् ओषतस् तनुम् । (१८९।१)
hiraṇyam āyur annaṃ ca bhūr gauś cāpy oṣatas tanum |
अश्वश् चक्षुस् त्वचं वासो घृतं तेजस् तिलाः प्रजाः ॥ (१८९।२)
aśvaś cakṣus tvacaṃ vāso ghṛtaṃ tejas tilāḥ prajāḥ ||
अतपास् त्व् अनधीयानः प्रतिग्रहरुचिर् द्विजः । (१९०।१)
atapās tv anadhīyānaḥ pratigraharucir dvijaḥ |
अम्भस्य् अश्मप्लवेनैव सह तेनैव मज्जति ॥ (१९०।२)
ambhasy aśmaplavenaiva saha tenaiva majjati ||
तस्माद् अविद्वान् बिभियाद् यस्मात् तस्मात् प्रतिग्रहात् । (१९१।१)
tasmād avidvān bibhiyād yasmāt tasmāt pratigrahāt |
स्वल्पकेनाप्य् अविद्वान् हि पङ्के गौर् इव सीदति ॥ (१९१।२)
svalpakenāpy avidvān hi paṅke gaur iva sīdati ||
न वार्य् अपि प्रयच्छेत् तु बैडालव्रतिके द्विजे । (१९२।१)
na vāry api prayacchet tu baiḍālavratike dvije |
त्रिष्व् अप्य् एतेषु दत्तं हि विधिनाप्य् अर्जितं धनम् । (१९३।१)
triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam |
दातुर् भवत्य् अनर्थाय परत्रादातुर् एव च ॥ (१९३।२)
dātur bhavaty anarthāya paratrādātur eva ca ||
तथा निमज्जतो ऽधस्ताद् अज्ञौ दातृप्रतीच्छकौ ॥ (१९४।२)
tathā nimajjato 'dhastād ajñau dātṛpratīcchakau ||
धर्मध्वजी सदा लुब्धश् छाद्मिको लोकदम्भकः । (१९५।१)
dharmadhvajī sadā lubdhaś chādmiko lokadambhakaḥ |
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ (१९५।२)
baiḍālavratiko jñeyo hiṃsraḥ sarvābhisaṃdhakaḥ ||
अधोदृष्टिर् नैष्कृतिकः स्वार्थसाधनतत्परः । (१९६।१)
adhodṛṣṭir naiṣkṛtikaḥ svārthasādhanatatparaḥ |
शठो मिथ्याविनीतश् च बकव्रतचरो द्विजः ॥ (१९६।२)
śaṭho mithyāvinītaś ca bakavratacaro dvijaḥ ||
ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः । (१९७।१)
ye bakavratino viprā ye ca mārjāraliṅginaḥ |
ते पतन्त्य् अन्धतामिस्रे तेन पापेन कर्मणा ॥ (१९७।२)
te patanty andhatāmisre tena pāpena karmaṇā ||
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । (१९८।१)
na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret |
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ (१९८।२)
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam ||
प्रेत्येह चईदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः । (१९९।१)
pretyeha caīdṛśā viprā garhyante brahmavādibhiḥ |
छद्मना चरितं यच् च व्रतं रक्षांसि गच्छति ॥ (१९९।२)
chadmanā caritaṃ yac ca vrataṃ rakṣāṃsi gacchati ||
स लिङ्गिनां हरत्य् एनस् तिर्यग्योनौ च जायते ॥ (२००।२)
sa liṅgināṃ haraty enas tiryagyonau ca jāyate ||
निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ (२०१।२)
nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate ||
अदत्तान्य् उपयुञ्जान एनसः स्यात् तुरीयभाक् ॥ (२०२।२)
adattāny upayuñjāna enasaḥ syāt turīyabhāk ||
स्नानं समाचरेन् नित्यं गर्तप्रस्रवणेषु च ॥ (२०३।२)
snānaṃ samācaren nityaṃ gartaprasravaṇeṣu ca ||
यमान् सेवेत सततं न नित्यं नियमान् बुधः । (२०४।१)
yamān seveta satataṃ na nityaṃ niyamān budhaḥ |
यमान् पतत्य् अकुर्वाणो नियमान् केवलान् भजन् ॥ (२०४।२)
yamān pataty akurvāṇo niyamān kevalān bhajan ||
नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा । (२०५।१)
nāśrotriyatate yajñe grāmayājikṛte tathā |
स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥ (२०५।२)
striyā klībena ca hute bhuñjīta brāhmaṇaḥ kvacit ||
अश्लीकम् एतत् साधूनां यत्र जुह्वत्य् अमी हविः । (२०६।१)
aślīkam etat sādhūnāṃ yatra juhvaty amī haviḥ |
प्रतीपम् एतद् देवानां तस्मात् तत् परिवर्जयेत् ॥ (२०६।२)
pratīpam etad devānāṃ tasmāt tat parivarjayet ||
मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन । (२०७।१)
mattakruddhāturāṇāṃ ca na bhuñjīta kadācana |
केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥ (२०७।२)
keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ ||
भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्य् उदक्यया । (२०८।१)
bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpy udakyayā |
पतत्रिणावलीढं च शुना संस्पृष्टम् एव च ॥ (२०८।२)
patatriṇāvalīḍhaṃ ca śunā saṃspṛṣṭam eva ca ||
गवा चान्नम् उपघ्रातं घुष्टान्नं च विशेषतः । (२०९।१)
gavā cānnam upaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ |
गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥ (२०९।२)
gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam ||
स्तेनगायनयोश् चान्नं तक्ष्णो वार्द्धुषिकस्य च । (२१०।१)
stenagāyanayoś cānnaṃ takṣṇo vārddhuṣikasya ca |
दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ (२१०।२)
dīkṣitasya kadaryasya baddhasya nigaḍasya ca ||
अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च । (२११।१)
abhiśastasya ṣaṇḍhasya puṃścalyā dāmbhikasya ca |
शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टम् एव च ॥ (२११।२)
śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭam eva ca ||
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः । (२१२।१)
cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ |
उग्रान्नं सूतिकान्नं च पर्याचान्तम् अनिर्दशम् ॥ (२१२।२)
ugrānnaṃ sūtikānnaṃ ca paryācāntam anirdaśam ||
अनर्चितं वृथामांसम् अवीरायाश् च योषितः । (२१३।१)
anarcitaṃ vṛthāmāṃsam avīrāyāś ca yoṣitaḥ |
द्विषदन्नं नगर्यन्नं पतितान्नम् अवक्षुतम् ॥ (२१३।२)
dviṣadannaṃ nagaryannaṃ patitānnam avakṣutam ||
पिशुनानृतिनोश् चान्नं क्रतुविक्रयिणस् तथा । (२१४।१)
piśunānṛtinoś cānnaṃ kratuvikrayiṇas tathā |
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नम् एव च ॥ (२१४।२)
śailūṣatunnavāyānnaṃ kṛtaghnasyānnam eva ca ||
सुवर्णकर्तुर् वेणस्य शस्त्रविक्रयिणस् तथा ॥ (२१५।२)
suvarṇakartur veṇasya śastravikrayiṇas tathā ||
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च । (२१६।१)
śvavatāṃ śauṇḍikānāṃ ca cailanirṇejakasya ca |
रञ्जकस्य नृशंसस्य यस्य चोपपतिर् गृहे ॥ (२१६।२)
rañjakasya nṛśaṃsasya yasya copapatir gṛhe ||
मृष्यन्ति ये चोपपतिं स्त्रीजितानाम् च सर्वशः । (२१७।१)
mṛṣyanti ye copapatiṃ strījitānām ca sarvaśaḥ |
अनिर्दशं च प्रेतान्नम् अतुष्टिकरम् एव च ॥ (२१७।२)
anirdaśaṃ ca pretānnam atuṣṭikaram eva ca ||
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । (२१८।१)
rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam |
आयुः सुवर्णकारान्नं यशश् चर्मावकर्तिनः ॥ (२१८।२)
āyuḥ suvarṇakārānnaṃ yaśaś carmāvakartinaḥ ||
कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च । (२१९।१)
kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca |
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ (२१९।२)
gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati ||
पूयं चिकित्सकस्यान्नं पुंश्चल्यास् त्व् अन्नम् इन्द्रियम् । (२२०।१)
pūyaṃ cikitsakasyānnaṃ puṃścalyās tv annam indriyam |
विष्ठा वार्द्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ (२२०।२)
viṣṭhā vārddhuṣikasyānnaṃ śastravikrayiṇo malam ||
य एते ऽन्ये त्व् अभोज्यान्नाः क्रमशः परिकीर्तिताः । (२२१।१)
ya ete 'nye tv abhojyānnāḥ kramaśaḥ parikīrtitāḥ |
तेषां त्वगस्थिरोमाणि वदन्त्य् अन्नं मनीषिणः ॥ (२२१।२)
teṣāṃ tvagasthiromāṇi vadanty annaṃ manīṣiṇaḥ ||
भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् । (२२२।१)
bhuktvāto 'nyatamasyānnam amatyā kṣapaṇaṃ tryaham |
मत्या भुक्त्वाचरेत् कृच्छ्रं रेतोविण्मूत्रम् एव च ॥ (२२२।२)
matyā bhuktvācaret kṛcchraṃ retoviṇmūtram eva ca ||
नाद्याच्छूद्रस्य पक्वान्नं विद्वान् अश्राद्धिनो द्विजः । (२२३।१)
nādyācchūdrasya pakvānnaṃ vidvān aśrāddhino dvijaḥ |
आददीतामम् एवास्माद् अवृत्ताव् एकरात्रिकम् ॥ (२२३।२)
ādadītāmam evāsmād avṛttāv ekarātrikam ||
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्द्धुषेः । (२२४।१)
śrotriyasya kadaryasya vadānyasya ca vārddhuṣeḥ |
मीमांसित्वोभयं देवाः समम् अन्नम् अकल्पयन् ॥ (२२४।२)
mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan ||
तान् प्रजापतिर् आहेत्य मा कृध्वं विषमं समम् । (२२५।१)
tān prajāpatir āhetya mā kṛdhvaṃ viṣamaṃ samam |
श्रद्धापूतं वदान्यस्य हतम् अश्रद्धयेतरत् ॥ (२२५।२)
śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat ||
श्रद्धयेष्टं च पूर्तं च नित्यं कुर्याद् अतन्द्रितः । (२२६।१)
śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryād atandritaḥ |
श्रद्धाकृते ह्य् अक्षये ते भवतः स्वागतैर् धनैः ॥ (२२६।२)
śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ ||
दानधर्मं निषेवेत नित्यम् ऐष्टिकपौर्तिकम् । (२२७।१)
dānadharmaṃ niṣeveta nityam aiṣṭikapaurtikam |
परितुष्टेन भावेन पात्रम् आसाद्य शक्तितः ॥ (२२७।२)
parituṣṭena bhāvena pātram āsādya śaktitaḥ ||
यत् किंचिद् अपि दातव्यं याचितेनानसूयया । (२२८।१)
yat kiṃcid api dātavyaṃ yācitenānasūyayā |
उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ॥ (२२८।२)
utpatsyate hi tat pātraṃ yat tārayati sarvataḥ ||
वारिदस् तृप्तिम् आप्नोति सुखम् अक्षयम् अन्नदः । (२२९।१)
vāridas tṛptim āpnoti sukham akṣayam annadaḥ |
तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ॥ (२२९।२)
tilapradaḥ prajām iṣṭāṃ dīpadaś cakṣur uttamam ||
भूमिदो भूमिम् आप्नोति दीर्घम् आयुर् हिरण्यदः । (२३०।१)
bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ |
गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपम् उत्तमम् ॥ (२३०।२)
gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam ||
वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः । (२३१।१)
vāsodaś candrasālokyam aśvisālokyam aśvadaḥ |
अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ (२३१।२)
anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam ||
यानशय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः । (२३२।१)
yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ |
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥ (२३२।२)
dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām ||
सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते । (२३३।१)
sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate |
येन येन तु भावेन यद् यद् दानं प्रयच्छति । (२३४।१)
yena yena tu bhāvena yad yad dānaṃ prayacchati |
तत् तत् तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥ (२३४।२)
tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ ||
यो ऽर्चितं प्रतिगृह्णाति ददात्य् अर्चितम् एव वा । (२३५।१)
yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva vā |
ताव् उभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ (२३५।२)
tāv ubhau gacchataḥ svargaṃ narakaṃ tu viparyaye ||
न विस्मयेत तपसा वदेद् इष्ट्वा च नानृतम् । (२३६।१)
na vismayeta tapasā vaded iṣṭvā ca nānṛtam |
नार्तो ऽप्य् अपवदेद् विप्रान् न दत्त्वा परिकीर्तयेत् ॥ (२३६।२)
nārto 'py apavaded viprān na dattvā parikīrtayet ||
यज्ञो ऽनृतेन क्षरति तपः क्षरति विस्मयात् । (२३७।१)
yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt |
आयुर् विप्रापवादेन दानं च परिकीर्तनात् ॥ (२३७।२)
āyur viprāpavādena dānaṃ ca parikīrtanāt ||
धर्मं शनैः संचिनुयाद् वल्मीकम् इव पुत्तिकाः । (२३८।१)
dharmaṃ śanaiḥ saṃcinuyād valmīkam iva puttikāḥ |
नामुत्र हि सहायार्थं पिता माता च तिष्ठतः । (२३९।१)
nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ |
न पुत्रदारं न ज्ञातिर् धर्मस् तिष्ठति केवलः ॥ (२३९।२)
na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ ||
एको ऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ॥ (२४०।२)
eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam ||
मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं क्षितौ । (२४१।१)
mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau |
विमुखा बान्धवा यान्ति धर्मस् तम् अनुगच्छति ॥ (२४१।२)
vimukhā bāndhavā yānti dharmas tam anugacchati ||
तस्माद् धर्मं सहायार्थं नित्यं संचिनुयात् शनैः । (२४२।१)
tasmād dharmaṃ sahāyārthaṃ nityaṃ saṃcinuyāt śanaiḥ |
धर्मेण हि सहायेन तमस् तरति दुस्तरम् ॥ (२४२।२)
dharmeṇa hi sahāyena tamas tarati dustaram ||
धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् । (२४३।१)
dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam |
परलोकं नयत्य् आशु भास्वन्तं खशरीरिणम् ॥ (२४३।२)
paralokaṃ nayaty āśu bhāsvantaṃ khaśarīriṇam ||
उत्तमैर् उत्तमैर् नित्यं सम्बन्धान् आचरेत् सह । (२४४।१)
uttamair uttamair nityaṃ sambandhān ācaret saha |
निनीषुः कुलम् उत्कर्षम् अधमान् अधमांस् त्यजेत् ॥ (२४४।२)
ninīṣuḥ kulam utkarṣam adhamān adhamāṃs tyajet ||
उत्तमान् उत्तमान् एव गच्छन् हीनांस् तु वर्जयन् । (२४५।१)
uttamān uttamān eva gacchan hīnāṃs tu varjayan |
ब्राह्मणः श्रेष्ठताम् एति प्रत्यवायेन शूद्रताम् ॥ (२४५।२)
brāhmaṇaḥ śreṣṭhatām eti pratyavāyena śūdratām ||
दृढकारी मृदुर् दान्तः क्रूराचारैर् असंवसन् । (२४६।१)
dṛḍhakārī mṛdur dāntaḥ krūrācārair asaṃvasan |
अहिंस्रो दमदानाभ्यां जयेत् स्वर्गं तथाव्रतः ॥ (२४६।२)
ahiṃsro damadānābhyāṃ jayet svargaṃ tathāvrataḥ ||
एधोदकं मूलफलम् अन्नम् अभ्युद्यतं च यत् । (२४७।१)
edhodakaṃ mūlaphalam annam abhyudyataṃ ca yat |
सर्वतः प्रतिगृह्णीयात् मध्व् अथाभयदक्षिणाम् ॥ (२४७।२)
sarvataḥ pratigṛhṇīyāt madhv athābhayadakṣiṇām ||
आहृताभ्युद्यतां भिक्षां पुरस्ताद् अप्रचोदिताम् । (२४८।१)
āhṛtābhyudyatāṃ bhikṣāṃ purastād apracoditām |
मेने प्रजापतिर् ग्राह्याम् अपि दुष्कृतकर्मणः ॥ (२४८।२)
mene prajāpatir grāhyām api duṣkṛtakarmaṇaḥ ||
नाश्नन्ति पितरस् तस्य दशवर्षाणि पञ्च च । (२४९।१)
nāśnanti pitaras tasya daśavarṣāṇi pañca ca |
न च हव्यं वहत्य् अग्निर् यस् ताम् अभ्यवमन्यते ॥ (२४९।२)
na ca havyaṃ vahaty agnir yas tām abhyavamanyate ||
शय्यां गृहान् कुशान् गन्धान् अपः पुष्पं मणीन् दधि । (२५०।१)
śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi |
धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥ (२५०।२)
dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet ||
गुरून् भृत्यांश् चोज्जिहीर्षन्न् अर्चिष्यन् देवतातिथीन् । (२५१।१)
gurūn bhṛtyāṃś cojjihīrṣann arciṣyan devatātithīn |
सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ॥ (२५१।२)
sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ ||
गुरुषु त्व् अभ्यतीतेषु विना वा तैर् गृहे वसन् । (२५२।१)
guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan |
आत्मनो वृत्तिम् अन्विच्छन् गृह्णीयात् साधुतः सदा ॥ (२५२।२)
ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā ||
एते शूद्रेषु भोज्यान्ना यश् चात्मानं निवेदयेत् ॥ (२५३।२)
ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet ||
यादृशो ऽस्य भवेद् आत्मा यादृशं च चिकीर्षितम् । (२५४।१)
yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam |
यथा चोपचरेद् एनं तथात्मानं निवेदयेत् ॥ (२५४।२)
yathā copacared enaṃ tathātmānaṃ nivedayet ||
यो ऽन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते । (२५५।१)
yo 'nyathā santam ātmānam anyathā satsu bhāṣate |
वाच्य् अर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः । (२५६।१)
vācy arthā niyatāḥ sarve vāṅmūlā vāgviniḥsṛtāḥ |
तांस् तु यः स्तेनयेद् वाचं स सर्वस्तेयकृत् नरः ॥ (२५६।२)
tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt naraḥ ||
महर्षिपितृदेवानां गत्वानृण्यं यथाविधि । (२५७।१)
maharṣipitṛdevānāṃ gatvānṛṇyaṃ yathāvidhi |
पुत्रे सर्वं समासज्य वसेन् माध्यस्थ्यम् आश्रितः ॥ (२५७।२)
putre sarvaṃ samāsajya vasen mādhyasthyam āśritaḥ ||
एकाकी चिन्तयेन् नित्यं विविक्ते हितम् आत्मनः । (२५८।१)
ekākī cintayen nityaṃ vivikte hitam ātmanaḥ |
एकाकी चिन्तयानो हि परं श्रेयो ऽधिगच्छति ॥ (२५८।२)
ekākī cintayāno hi paraṃ śreyo 'dhigacchati ||
एषोदिता गृहस्थस्य वृत्तिर् विप्रस्य शाश्वती । (२५९।१)
eṣoditā gṛhasthasya vṛttir viprasya śāśvatī |
स्नातकव्रतकल्पश् च सत्त्ववृद्धिकरः शुभः ॥ (२५९।२)
snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ ||
अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् । (२६०।१)
anena vipro vṛttena vartayan vedaśāstravit |
व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥ (२६०।२)
vyapetakalmaṣo nityaṃ brahmaloke mahīyate ||
Data courtesy of The Digital Corpus of Sanskrit.