ManuS, 6
Select a line for its word-by-word analysis.
वानप्रस्थएवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः । (१।१)
vānaprasthaevaṃ gṛhāśrame sthitvā vidhivat snātako dvijaḥ |
वने वसेत् तु नियतो यथावद् विजितेन्द्रियः ॥ (१।२)
vane vaset tu niyato yathāvad vijitendriyaḥ ||
गृहस्थस् तु यथा पश्येद् वलीपलितम् आत्मनः । (२।१)
gṛhasthas tu yathā paśyed valīpalitam ātmanaḥ |
संत्यज्य ग्राम्यम् आहारं सर्वं चैव परिच्छदम् । (३।१)
saṃtyajya grāmyam āhāraṃ sarvaṃ caiva paricchadam |
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥ (३।२)
putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā ||
अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् । (४।१)
agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam |
ग्रामाद् अरण्यं निःसृत्य निवसेन् नियतेन्द्रियः ॥ (४।२)
grāmād araṇyaṃ niḥsṛtya nivasen niyatendriyaḥ ||
रितुअल्स्, सच्रिड़िचेस्मुन्यन्नैर् विविधैर् मेध्यैः शाकमूलफलेन वा । (५।१)
rituals, sacrificesmunyannair vividhair medhyaiḥ śākamūlaphalena vā |
एतान् एव महायज्ञान् निर्वपेद् विधिपूर्वकम् ॥ (५।२)
etān eva mahāyajñān nirvaped vidhipūrvakam ||
वसीत चर्म चीरं वा सायं स्नायात् प्रगे तथा । (६।१)
vasīta carma cīraṃ vā sāyaṃ snāyāt prage tathā |
जटाश् च बिभृयान् नित्यं श्मश्रुलोमनखानि च ॥ (६।२)
jaṭāś ca bibhṛyān nityaṃ śmaśrulomanakhāni ca ||
यद् भक्ष्यं स्यात् ततो दद्याद् बलिं भिक्षां च शक्तितः । (७।१)
yad bhakṣyaṃ syāt tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ |
स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः । (८।१)
svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ |
दर्शम् अस्कन्दयन् पर्व पौर्णमासं च योगतः ॥ (९।२)
darśam askandayan parva paurṇamāsaṃ ca yogataḥ ||
ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् । (१०।१)
ṛkṣeṣṭyāgrayaṇaṃ caiva cāturmāsyāni cāharet |
वासन्तशारदैर् मेध्यैर् मुन्यन्नैः स्वयम् आहृतैः । (११।१)
vāsantaśāradair medhyair munyannaiḥ svayam āhṛtaiḥ |
पुरोडाशांश् चरूंश् चैव विधिवन् निर्वपेत् पृथक् ॥ (११।२)
puroḍāśāṃś carūṃś caiva vidhivan nirvapet pṛthak ||
ड़ोओद् ओड़् अ वानप्रस्थदेवताभ्यस् तु तद्धुत्वा वन्यं मेध्यतरं हविः । (१२।१)
food of a vānaprasthadevatābhyas tu taddhutvā vanyaṃ medhyataraṃ haviḥ |
शेषम् आत्मनि युञ्जीत लवणं च स्वयं कृतम् ॥ (१२।२)
śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam ||
मेध्यवृक्षोद्भवान्य् अद्यात् स्नेहांश् च फलसम्भवान् ॥ (१३।२)
medhyavṛkṣodbhavāny adyāt snehāṃś ca phalasambhavān ||
वर्जयेन् मधु मांसं च भौमानि कवकानि च । (१४।१)
varjayen madhu māṃsaṃ ca bhaumāni kavakāni ca |
भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥ (१४।२)
bhūstṛṇaṃ śigrukaṃ caiva śleṣmātakaphalāni ca ||
त्यजेद् आश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् । (१५।१)
tyajed āśvayuje māsi munyannaṃ pūrvasaṃcitam |
न फालकृष्टम् अश्नीयाद् उत्सृष्टम् अपि केनचित् । (१६।१)
na phālakṛṣṭam aśnīyād utsṛṣṭam api kenacit |
न ग्रामजातान्य् आर्तो ऽपि मूलाणि च फलानि च ॥ (१६।२)
na grāmajātāny ārto 'pi mūlāṇi ca phalāni ca ||
अग्निपक्वाशनो वा स्यात् कालपक्वभुज् एव वा । (१७।१)
agnipakvāśano vā syāt kālapakvabhuj eva vā |
अश्मकुट्टो भवेद् वापि दन्तोलूखलिको ऽपि वा ॥ (१७।२)
aśmakuṭṭo bhaved vāpi dantolūkhaliko 'pi vā ||
सद्यःप्रक्षालको वा स्यान् माससंचयिको ऽपि वा । (१८।१)
sadyaḥprakṣālako vā syān māsasaṃcayiko 'pi vā |
नक्तं चान्नं समश्नीयाद् दिवा वाहृत्य शक्तितः । (१९।१)
naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ |
चतुर्थकालिको वा स्यात् स्याद् वाप्य् अष्टमकालिकः ॥ (१९।२)
caturthakāliko vā syāt syād vāpy aṣṭamakālikaḥ ||
चान्द्रायणविधानैर् वा शुक्लकृष्णे च वर्तयेत् । (२०।१)
cāndrāyaṇavidhānair vā śuklakṛṣṇe ca vartayet |
पक्षान्तयोर् वाप्य् अश्नीयाद् यवागूं क्वथितां सकृत् ॥ (२०।२)
pakṣāntayor vāpy aśnīyād yavāgūṃ kvathitāṃ sakṛt ||
पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा । (२१।१)
puṣpamūlaphalair vāpi kevalair vartayet sadā |
कालपक्वैः स्वयं शीर्णैर् वैखानसमते स्थितः ॥ (२१।२)
kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ ||
तपस्भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर् दिनम् । (२२।१)
tapasbhūmau viparivarteta tiṣṭhed vā prapadair dinam |
स्थानासनाभ्यां विहरेत् सवनेषूपयन्न् अपः ॥ (२२।२)
sthānāsanābhyāṃ viharet savaneṣūpayann apaḥ ||
ग्रीष्मे पञ्चतपास् तु स्याद् वर्षास्व् अभ्रावकाशिकः । (२३।१)
grīṣme pañcatapās tu syād varṣāsv abhrāvakāśikaḥ |
आर्द्रवासास् तु हेमन्ते क्रमशो वर्धयंस् तपः ॥ (२३।२)
ārdravāsās tu hemante kramaśo vardhayaṃs tapaḥ ||
उपस्पृशंस् त्रिषवणं पितॄन् देवांश् च तर्पयेत् । (२४।१)
upaspṛśaṃs triṣavaṇaṃ pitṝn devāṃś ca tarpayet |
तपश् चरंश् चोग्रतरं शोषयेद् देहम् आत्मनः ॥ (२४।२)
tapaś caraṃś cogrataraṃ śoṣayed deham ātmanaḥ ||
अग्नीन् आत्मनि वैतानान् समारोप्य यथाविधि । (२५।१)
agnīn ātmani vaitānān samāropya yathāvidhi |
अनग्निर् अनिकेतः स्यान् मुनिर् मूलफलाशनः ॥ (२५।२)
anagnir aniketaḥ syān munir mūlaphalāśanaḥ ||
अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः । (२६।१)
aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ |
तापसेष्व् एव विप्रेषु यात्रिकं भैक्षम् आहरेत् । (२७।१)
tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet |
ग्रामाद् आहृत्य वाश्नीयाद् अष्टौ ग्रासान् वने वसन् । (२८।१)
grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan |
एताश् चान्याश् च सेवेत दीक्षा विप्रो वने वसन् । (२९।१)
etāś cānyāś ca seveta dīkṣā vipro vane vasan |
विविधाश् चौपनिषदीर् आत्मसंसिद्धये श्रुतीः ॥ (२९।२)
vividhāś caupaniṣadīr ātmasaṃsiddhaye śrutīḥ ||
ऋषिभिर् ब्राह्मणैश् चैव गृहस्थैर् एव सेविताः । (३०।१)
ṛṣibhir brāhmaṇaiś caiva gṛhasthair eva sevitāḥ |
विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ (३०।२)
vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye ||
अपराजितां वास्थाय व्रजेद् दिशम् अजिह्मगः । (३१।१)
aparājitāṃ vāsthāya vrajed diśam ajihmagaḥ |
आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् । (३२।१)
āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum |
४। आश्रम: *व्रज्वनेषु च विहृत्यैवं तृतीयं भागम् आयुषः । (३३।१)
4. āśrama: *vrajvaneṣu ca vihṛtyaivaṃ tṛtīyaṃ bhāgam āyuṣaḥ |
चतुर्थम् आयुषो भागं त्यक्त्वा सङ्गान् परिव्रजेत् ॥ (३३।२)
caturtham āyuṣo bhāgaṃ tyaktvā saṅgān parivrajet ||
आश्रमाद् आश्रमं गत्वा हुतहोमो जितेन्द्रियः । (३४।१)
āśramād āśramaṃ gatvā hutahomo jitendriyaḥ |
भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ (३४।२)
bhikṣābalipariśrāntaḥ pravrajan pretya vardhate ||
ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् । (३५।१)
ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet |
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥ (३५।२)
anapākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ ||
अधीत्य विधिवद् वेदान् पुत्रांश् चोत्पाद्य धर्मतः । (३६।१)
adhītya vidhivad vedān putrāṃś cotpādya dharmataḥ |
इष्ट्वा च शक्तितो यज्ञैर् मनो मोक्षे निवेशयेत् ॥ (३६।२)
iṣṭvā ca śaktito yajñair mano mokṣe niveśayet ||
अनधीत्य द्विजो वेदान् अनुत्पाद्य तथा सुतान् । (३७।१)
anadhītya dvijo vedān anutpādya tathā sutān |
अनिष्ट्वा चैव यज्ञैश् च मोक्षम् इच्छन् व्रजत्य् अधः ॥ (३७।२)
aniṣṭvā caiva yajñaiś ca mokṣam icchan vrajaty adhaḥ ||
प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम् । (३८।१)
prājāpatyaṃ nirupyeṣṭiṃ sarvavedasadakṣiṇām |
आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ॥ (३८।२)
ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt ||
यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्य् अभयं गृहात् । (३९।१)
yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt |
यस्माद् अण्व् अपि भूतानां द्विजान् नोत्पद्यते भयम् । (४०।१)
yasmād aṇv api bhūtānāṃ dvijān notpadyate bhayam |
तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन ॥ (४०।२)
tasya dehād vimuktasya bhayaṃ nāsti kutaścana ||
अगाराद् अभिनिष्क्रान्तः पवित्रोपचितो मुनिः । (४१।१)
agārād abhiniṣkrāntaḥ pavitropacito muniḥ |
एक एव चरेन् नित्यं सिद्ध्यर्थम् असहायवान् । (४२।१)
eka eva caren nityaṃ siddhyartham asahāyavān |
सिद्धिम् एकस्य संपश्यन् न जहाति न हीयते ॥ (४२।२)
siddhim ekasya saṃpaśyan na jahāti na hīyate ||
अनग्निर् अनिकेतः स्याद् ग्रामम् अन्नार्थम् आश्रयेत् । (४३।१)
anagnir aniketaḥ syād grāmam annārtham āśrayet |
समता चैव सर्वस्मिन्न् एतन् मुक्तस्य लक्षणम् ॥ (४४।२)
samatā caiva sarvasminn etan muktasya lakṣaṇam ||
कालम् एव प्रतीक्षेत निर्वेशं भृतको यथा ॥ (४५।२)
kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā ||
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । (४६।१)
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet |
सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ (४६।२)
satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret ||
न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥ (४७।२)
na cemaṃ deham āśritya vairaṃ kurvīta kenacit ||
क्रुध्यन्तं न प्रतिक्रुध्येद् आक्रुष्टः कुशलं वदेत् । (४८।१)
krudhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet |
सप्तद्वारावकीर्णां च न वाचम् अनृतां वदेत् ॥ (४८।२)
saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet ||
रुलेस् ड़ोर् भैक्ष्यन चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । (५०।१)
rules for bhaikṣyana cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā |
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ (५०।२)
nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit ||
न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः । (५१।१)
na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ |
आकीर्णं भिक्षुकैर् वान्यैर् अगारम् उपसंव्रजेत् ॥ (५१।२)
ākīrṇaṃ bhikṣukair vānyair agāram upasaṃvrajet ||
कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् । (५२।१)
kḷptakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān |
विचरेन् नियतो नित्यं सर्वभूतान्य् अपीडयन् ॥ (५२।२)
vicaren niyato nityaṃ sarvabhūtāny apīḍayan ||
अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च । (५३।१)
ataijasāni pātrāṇi tasya syur nirvraṇāni ca |
तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इवाध्वरे ॥ (५३।२)
teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām ivādhvare ||
अलाबुं दारुपात्रं च मृन्मयं वैदलं तथा । (५४।१)
alābuṃ dārupātraṃ ca mṛnmayaṃ vaidalaṃ tathā |
एतानि यतिपात्राणि मनुः स्वायम्भुवो ऽब्रवीत् ॥ (५४।२)
etāni yatipātrāṇi manuḥ svāyambhuvo 'bravīt ||
एककालं चरेद् भैक्षं न प्रसज्जेत विस्तरे । (५५।१)
ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare |
भैक्षे प्रसक्तो हि यतिर् विषयेष्व् अपि सजति ॥ (५५।२)
bhaikṣe prasakto hi yatir viṣayeṣv api sajati ||
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश् चरेत् ॥ (५६।२)
vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiś caret ||
अलाभे न विषादी स्याल् लाभे चैव न हर्षयेत् । (५७।१)
alābhe na viṣādī syāl lābhe caiva na harṣayet |
प्राणयात्रिकमात्रः स्यात् मात्रासङ्गाद् विनिर्गतः ॥ (५७।२)
prāṇayātrikamātraḥ syāt mātrāsaṅgād vinirgataḥ ||
चोन्त्रोल् ओड़् सेन्से ओर्गन्स्, रेनोउन्चेमेन्तभिपूजितलाभांस् तु जुगुप्सेतैव सर्वशः । (५८।१)
control of sense organs, renouncementabhipūjitalābhāṃs tu jugupsetaiva sarvaśaḥ |
अभिपूजितलाभैश् च यतिर् मुक्तो ऽपि बध्यते ॥ (५८।२)
abhipūjitalābhaiś ca yatir mukto 'pi badhyate ||
ह्रियमाणानि विषयैर् इन्द्रियाणि निवर्तयेत् ॥ (५९।२)
hriyamāṇāni viṣayair indriyāṇi nivartayet ||
विप्रयोगं प्रियैश् चैव संयोगं च तथाप्रियैः । (६२।१)
viprayogaṃ priyaiś caiva saṃyogaṃ ca tathāpriyaiḥ |
देहाद् उत्क्रमणं चास्मात् पुनर् गर्भे च सम्भवम् । (६३।१)
dehād utkramaṇaṃ cāsmāt punar garbhe ca sambhavam |
योनिकोटिसहस्रेषु सृतीश् चास्यान्तरात्मनः ॥ (६३।२)
yonikoṭisahasreṣu sṛtīś cāsyāntarātmanaḥ ||
धर्मार्थप्रभवं चैव सुखसंयोगम् अक्षयम् ॥ (६४।२)
dharmārthaprabhavaṃ caiva sukhasaṃyogam akṣayam ||
सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः । (६५।१)
sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ |
देहेषु च समुत्पत्तिम् उत्तमेष्व् अधमेषु च ॥ (६५।२)
deheṣu ca samutpattim uttameṣv adhameṣu ca ||
दूषितो ऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः । (६६।१)
dūṣito 'pi cared dharmaṃ yatra tatrāśrame rataḥ |
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ (६६।२)
samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam ||
फलं कतकवृक्षस्य यद्य् अप्य् अम्बुप्रसादकम् । (६७।१)
phalaṃ katakavṛkṣasya yady apy ambuprasādakam |
संरक्षणार्थं जन्तूनां रात्राव् अहनि वा सदा । (६८।१)
saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani vā sadā |
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ (६८।२)
śarīrasyātyaye caiva samīkṣya vasudhāṃ caret ||
अह्ना रात्र्या च याञ् जन्तून् हिनस्त्य् अज्ञानतो यतिः । (६९।१)
ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ |
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षड् आचरेत् ॥ (६९।२)
teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret ||
प्राणायामा ब्राह्मणस्य त्रयो ऽपि विधिवत् कृताः । (७०।१)
prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ |
व्याहृतिप्रणवैर् युक्ता विज्ञेयं परमं तपः ॥ (७०।२)
vyāhṛtipraṇavair yuktā vijñeyaṃ paramaṃ tapaḥ ||
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । (७१।१)
dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ |
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ (७१।२)
tathendriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt ||
प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषम् । (७२।१)
prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam |
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ (७२।२)
pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān ||
उच्चावचेषु भूतेषु दुर्ज्ञेयाम् अकृतात्मभिः । (७३।१)
uccāvaceṣu bhūteṣu durjñeyām akṛtātmabhiḥ |
ध्यानयोगेन संपश्येद् गतिम् अस्यान्तरात्मनः ॥ (७३।२)
dhyānayogena saṃpaśyed gatim asyāntarātmanaḥ ||
सम्यग्दर्शनसम्पन्नः कर्मभिर् न निबध्यते । (७४।१)
samyagdarśanasampannaḥ karmabhir na nibadhyate |
अहिंसयेन्द्रियासङ्गैर् वैदिकैश् चैव कर्मभिः । (७५।१)
ahiṃsayendriyāsaṅgair vaidikaiś caiva karmabhiḥ |
तपसश् चरणैश् चोग्रैः साधयन्तीह तत्पदम् ॥ (७५।२)
tapasaś caraṇaiś cograiḥ sādhayantīha tatpadam ||
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ (७६।२)
carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ ||
रजस्वलम् अनित्यं च भूतावासम् इमं त्यजेत् ॥ (७७।२)
rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet ||
नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर् यथा । (७८।१)
nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ vā śakunir yathā |
तथा त्यजन्न् इमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ॥ (७८।२)
tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate ||
प्रियेषु स्वेषु सुकृतम् अप्रियेषु च दुष्कृतम् । (७९।१)
priyeṣu sveṣu sukṛtam apriyeṣu ca duṣkṛtam |
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ (७९।२)
visṛjya dhyānayogena brahmābhyeti sanātanam ||
तदा सुखम् अवाप्नोति प्रेत्य चेह च शाश्वतम् ॥ (८०।२)
tadā sukham avāpnoti pretya ceha ca śāśvatam ||
अनेन विधिना सर्वांस् त्यक्त्वा सङ्गान् शनैः शनैः । (८१।१)
anena vidhinā sarvāṃs tyaktvā saṅgān śanaiḥ śanaiḥ |
सर्वद्वंद्वविनिर्मुक्तो ब्रह्मण्य् एवावतिष्ठते ॥ (८१।२)
sarvadvaṃdvavinirmukto brahmaṇy evāvatiṣṭhate ||
ध्यानिकं सर्वम् एवैतद् यद् एतद् अभिशब्दितम् । (८२।१)
dhyānikaṃ sarvam evaitad yad etad abhiśabditam |
न ह्य् अनध्यात्मवित् कश्चित् क्रियाफलम् उपाश्नुते ॥ (८२।२)
na hy anadhyātmavit kaścit kriyāphalam upāśnute ||
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ (८३।२)
ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat ||
इदम् अन्विच्छतां स्वर्गम् इदम् आनन्त्यम् इच्छताम् ॥ (८४।२)
idam anvicchatāṃ svargam idam ānantyam icchatām ||
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥ (८५।२)
sa vidhūyeha pāpmānaṃ paraṃ brahmādhigacchati ||
एष धर्मो ऽनुशिष्टो वो यतीनां नियतात्मनाम् । (८६।१)
eṣa dharmo 'nuśiṣṭo vo yatīnāṃ niyatātmanām |
वेदसंन्यासिकवेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥ (८६।२)
vedasaṃnyāsikavedasaṃnyāsikānāṃ tu karmayogaṃ nibodhata ||
ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा । (८७।१)
brahmacārī gṛhasthaś ca vānaprastho yatis tathā |
एते गृहस्थप्रभवाश् चत्वारः पृथग् आश्रमाः ॥ (८७।२)
ete gṛhasthaprabhavāś catvāraḥ pṛthag āśramāḥ ||
सर्वे ऽपि क्रमशस् त्व् एते यथाशास्त्रं निषेविताः । (८८।१)
sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ |
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ (८८।२)
yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim ||
गृहस्थ उच्यते श्रेष्ठः स त्रीन् एतान् बिभर्ति हि ॥ (८९।२)
gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi ||
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । (९०।१)
yathā nadīnadāḥ sarve sāgare yānti saṃsthitim |
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ (९०।२)
tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim ||
चतुर्भिर् अपि चैवैतैर् नित्यम् आश्रमिभिर् द्विजैः । (९१।१)
caturbhir api caivaitair nityam āśramibhir dvijaiḥ |
धृतिः क्षमा दमो ऽस्तेयं शौचम् इन्द्रियनिग्रहः । (९२।१)
dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ |
धीर् विद्या सत्यम् अक्रोधो दशकं धर्मलक्षणम् ॥ (९२।२)
dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam ||
दश लक्षणानि धर्मस्य ये विप्राः समधीयते । (९३।१)
daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate |
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ (९३।२)
adhītya cānuvartante te yānti paramāṃ gatim ||
वेदान्तं विधिवच् छ्रुत्वा संन्यसेद् अनृणो द्विजः ॥ (९४।२)
vedāntaṃ vidhivac chrutvā saṃnyased anṛṇo dvijaḥ ||
संन्यस्य सर्वकर्माणि कर्मदोषान् अपानुदन् । (९५।१)
saṃnyasya sarvakarmāṇi karmadoṣān apānudan |
नियतो वेदम् अभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ (९५।२)
niyato vedam abhyasya putraiśvarye sukhaṃ vaset ||
एवं संन्यस्य कर्माणि स्वकार्यपरमो ऽस्पृहः । (९६।१)
evaṃ saṃnyasya karmāṇi svakāryaparamo 'spṛhaḥ |
संन्यासेनापहत्यैनः प्राप्नोति परमां गतिम् ॥ (९६।२)
saṃnyāsenāpahatyainaḥ prāpnoti paramāṃ gatim ||
एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः । (९७।१)
eṣa vo 'bhihito dharmo brāhmaṇasya caturvidhaḥ |
पुण्यो ऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत ॥ (९७।२)
puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata ||
Data courtesy of The Digital Corpus of Sanskrit.