मनुस्मृतिManusmṛti

ManuS, 3

3 of 12 · 572 verses

Select a line for its word-by-word analysis.

1.1१.१

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । (१।१)

ṣaṭtriṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam |

1.2१.२

तदर्धिकं पादिकं वा ग्रहणान्तिकम् एव वा ॥ (१।२)

tadardhikaṃ pādikaṃ vā grahaṇāntikam eva vā ||

2.1२.१

वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् । (२।१)

vedān adhītya vedau vā vedaṃ vāpi yathākramam |

2.2२.२

अविप्लुतब्रह्मचर्यो गृहस्थाश्रमम् आवसेत् ॥ (२।२)

aviplutabrahmacaryo gṛhasthāśramam āvaset ||

3.1३.१

तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । (३।१)

taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ |

3.2३.२

स्रग्विणं तल्प आसीनम् अर्हयेत् प्रथमं गवा ॥ (३।२)

sragviṇaṃ talpa āsīnam arhayet prathamaṃ gavā ||

4.1४.१

गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि । (४।१)

guruṇānumataḥ snātvā samāvṛtto yathāvidhi |

4.2४.२

उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥ (४।२)

udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām ||

5.1५.१

असपिण्डा च या मातुर् असगोत्रा च या पितुः । (५।१)

asapiṇḍā ca yā mātur asagotrā ca yā pituḥ |

5.2५.२

सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ (५।२)

sā praśastā dvijātīnāṃ dārakarmaṇi maithune ||

6.1६.१

महान्त्य् अपि समृद्धानि गोऽजाविधनधान्यतः । (६।१)

mahānty api samṛddhāni go'jāvidhanadhānyataḥ |

6.2६.२

स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥ (६।२)

strīsaṃbandhe daśaitāni kulāni parivarjayet ||

7.1७.१

हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् । (७।१)

hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam |

7.2७.२

क्षयामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥ (७।२)

kṣayāmayāvyapasmāriśvitrikuṣṭhikulāni ca ||

8.1८.१

नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् । (८।१)

nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm |

8.2८.२

नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम् ॥ (८।२)

nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām ||

9.1९.१

न ऋक्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् । (९।१)

na ṛkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām |

9.2९.२

न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ (९।२)

na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām ||

10.1१०.१

अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् । (१०।१)

avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm |

10.2१०.२

तनुलोमकेशदशनां मृद्वङ्गीम् उद्वहेत् स्त्रियम् ॥ (१०।२)

tanulomakeśadaśanāṃ mṛdvaṅgīm udvahet striyam ||

11.1११.१

यस्यास् तु न भवेद् भ्राता न विज्ञायेत वा पिता । (११।१)

yasyās tu na bhaved bhrātā na vijñāyeta vā pitā |

11.2११.२

नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ (११।२)

nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā ||

12.1१२.१

सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि । (१२।१)

savarṇāgre dvijātīnāṃ praśastā dārakarmaṇi |

12.2१२.२

कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो ऽवराः ॥ (१२।२)

kāmatas tu pravṛttānām imāḥ syuḥ kramaśo 'varāḥ ||

13.1१३.१

शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते । (१३।१)

śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte |

13.2१३.२

ते च स्वा चैव राज्ञश् च ताश् च स्वा चाग्रजन्मनः ॥ (१३।२)

te ca svā caiva rājñaś ca tāś ca svā cāgrajanmanaḥ ||

14.1१४.१

न ब्राह्मणक्षत्रिययोर् आपद्य् अपि हि तिष्ठतोः । (१४।१)

na brāhmaṇakṣatriyayor āpady api hi tiṣṭhatoḥ |

14.2१४.२

कस्मिंश्चिद् अपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥ (१४।२)

kasmiṃścid api vṛttānte śūdrā bhāryopadiśyate ||

15.1१५.१

हीनजातिस्त्रियं मोहाद् उद्वहन्तो द्विजातयः । (१५।१)

hīnajātistriyaṃ mohād udvahanto dvijātayaḥ |

15.2१५.२

कुलान्य् एव नयन्त्य् आशु ससंतानानि शूद्रताम् ॥ (१५।२)

kulāny eva nayanty āśu sasaṃtānāni śūdratām ||

16.1१६.१

शूद्रावेदी पतत्य् अत्रेर् उतथ्यतनयस्य च । (१६।१)

śūdrāvedī pataty atrer utathyatanayasya ca |

16.2१६.२

शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥ (१६।२)

śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ ||

17.1१७.१

शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम् । (१७।१)

śūdrāṃ śayanam āropya brāhmaṇo yāty adhogatim |

17.2१७.२

जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥ (१७।२)

janayitvā sutaṃ tasyāṃ brāhmaṇyād eva hīyate ||

18.1१८.१

दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु । (१८।१)

daivapitryātitheyāni tatpradhānāni yasya tu |

18.2१८.२

नाश्नन्ति पितृदेवास् तन् न च स्वर्गं स गच्छति ॥ (१८।२)

nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati ||

19.1१९.१

वृषलीफेनपीतस्य निःश्वासोपहतस्य च । (१९।१)

vṛṣalīphenapītasya niḥśvāsopahatasya ca |

19.2१९.२

तस्यां चैव प्रसूतस्य निष्कृतिर् न विधीयते ॥ (१९।२)

tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate ||

20.1२०.१

चतुर्णाम् अपि वर्णानां प्रेत्य चेह हिताहितान् । (२०।१)

caturṇām api varṇānāṃ pretya ceha hitāhitān |

20.2२०.२

अष्टाव् इमान् समासेन स्त्रीविवाहान् निबोधत ॥ (२०।२)

aṣṭāv imān samāsena strīvivāhān nibodhata ||

21.1२१.१

ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः । (२१।१)

brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ |

21.2२१.२

गान्धर्वो राक्षसश् चैव पैशाचश्चाष्टमो ऽधमः ॥ (२१।२)

gāndharvo rākṣasaś caiva paiśācaścāṣṭamo 'dhamaḥ ||

22.1२२.१

यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ । (२२।१)

yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau |

22.2२२.२

तद् वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ (२२।२)

tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān ||

23.1२३.१

षड् आनुपूर्व्या विप्रस्य क्षत्रस्य चतुरो ऽवरान् । (२३।१)

ṣaḍ ānupūrvyā viprasya kṣatrasya caturo 'varān |

23.2२३.२

विट्शूद्रयोस् तु तान् एव विद्याद् धर्म्यान् अराक्षसान् ॥ (२३।२)

viṭśūdrayos tu tān eva vidyād dharmyān arākṣasān ||

24.1२४.१

चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः । (२४।१)

caturo brāhmaṇasyādyān praśastān kavayo viduḥ |

24.2२४.२

राक्षसं क्षत्रियस्यैकम् आसुरं वैश्यशूद्रयोः ॥ (२४।२)

rākṣasaṃ kṣatriyasyaikam āsuraṃ vaiśyaśūdrayoḥ ||

25.1२५.१

पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह । (२५।१)

pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha |

25.2२५.२

पैशाचश् चासुरश् चैव न कर्तव्यौ कदाचन ॥ (२५।२)

paiśācaś cāsuraś caiva na kartavyau kadācana ||

26.1२६.१

पृथक् पृथग् वा मिश्रौ वा विवाहौ पूर्वचोदितौ । (२६।१)

pṛthak pṛthag vā miśrau vā vivāhau pūrvacoditau |

26.2२६.२

गान्धर्वो राक्षसश् चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥ (२६।२)

gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau ||

27.1२७.१

आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् । (२७।१)

ācchādya cārcayitvā ca śrutaśīlavate svayam |

27.2२७.२

आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ (२७।२)

āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ ||

28.1२८.१

यज्ञे तु वितते सम्यग् ऋत्विजे कर्म कुर्वते । (२८।१)

yajñe tu vitate samyag ṛtvije karma kurvate |

28.2२८.२

अलंकृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ (२८।२)

alaṃkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate ||

29.1२९.१

एकं गोमिथुनं द्वे वा वराद् आदाय धर्मतः । (२९।१)

ekaṃ gomithunaṃ dve vā varād ādāya dharmataḥ |

29.2२९.२

कन्याप्रदानं विधिवद् आर्षो धर्मः स उच्यते ॥ (२९।२)

kanyāpradānaṃ vidhivad ārṣo dharmaḥ sa ucyate ||

30.1३०.१

सहोभौ चरतां धर्मम् इति वाचानुभाष्य च । (३०।१)

sahobhau caratāṃ dharmam iti vācānubhāṣya ca |

30.2३०.२

कन्याप्रदानम् अभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ (३०।२)

kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ ||

31.1३१.१

ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । (३१।१)

jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ |

31.2३१.२

कन्याप्रदानं स्वाच्छन्द्याद् आसुरो धर्म उच्यते ॥ (३१।२)

kanyāpradānaṃ svācchandyād āsuro dharma ucyate ||

32.1३२.१

इच्छयान्योन्यसंयोगः कन्यायाश् च वरस्य च । (३२।१)

icchayānyonyasaṃyogaḥ kanyāyāś ca varasya ca |

32.2३२.२

गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः ॥ (३२।२)

gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ ||

33.1३३.१

हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदन्तीं गृहात् । (३३।१)

hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt |

33.2३३.२

प्रसह्य कन्याहरणं राक्षसो विधिर् उच्यते ॥ (३३।२)

prasahya kanyāharaṇaṃ rākṣaso vidhir ucyate ||

34.1३४.१

सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति । (३४।१)

suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati |

34.2३४.२

स पापिष्ठो विवाहानां पैशाचश् चाष्टमो ऽधमः ॥ (३४।२)

sa pāpiṣṭho vivāhānāṃ paiśācaś cāṣṭamo 'dhamaḥ ||

35.1३५.१

अद्भिर् एव द्विजाग्र्याणां कन्यादानं विशिष्यते । (३५।१)

adbhir eva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate |

35.2३५.२

इतरेषां तु वर्णानाम् इतरेतरकाम्यया ॥ (३५।२)

itareṣāṃ tu varṇānām itaretarakāmyayā ||

36.1३६.१

यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः । (३६।१)

yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ |

36.2३६.२

सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो मम ॥ (३६।२)

sarvaṃ śṛṇuta taṃ viprāḥ sarvaṃ kīrtayato mama ||

37.1३७.१

दश पूर्वान् परान् वंश्यान् आत्मानं चैकविंशकम् । (३७।१)

daśa pūrvān parān vaṃśyān ātmānaṃ caikaviṃśakam |

37.2३७.२

ब्राह्मीपुत्रः सुकृतकृन् मोचयत्य् एनसः पितॄन् ॥ (३७।२)

brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn ||

38.1३८.१

दैवोढाजः सुतश् चैव सप्त सप्त परावरान् । (३८।१)

daivoḍhājaḥ sutaś caiva sapta sapta parāvarān |

38.2३८.२

आर्षोढाजः सुतस् त्रींस् त्रीन् षट् षट् कायोढाजः सुतः ॥ (३८।२)

ārṣoḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāyoḍhājaḥ sutaḥ ||

39.1३९.१

ब्राह्मादिषु विवाहेषु चतुर्ष्व् एवानुपूर्वशः । (३९।१)

brāhmādiṣu vivāheṣu caturṣv evānupūrvaśaḥ |

39.2३९.२

ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसंमताः ॥ (३९।२)

brahmavarcasvinaḥ putrā jāyante śiṣṭasaṃmatāḥ ||

40.1४०.१

रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः । (४०।१)

rūpasattvaguṇopetā dhanavanto yaśasvinaḥ |

40.2४०.२

पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥ (४०।२)

paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ ||

41.1४१.१

इतरेषु तु शिष्टेषु नृशंसानृतवादिनः । (४१।१)

itareṣu tu śiṣṭeṣu nṛśaṃsānṛtavādinaḥ |

41.2४१.२

जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥ (४१।२)

jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ ||

42.1४२.१

अनिन्दितैः स्त्रीविवाहैर् अनिन्द्या भवति प्रजा । (४२।१)

aninditaiḥ strīvivāhair anindyā bhavati prajā |

42.2४२.२

निन्दितैर् निन्दिता नॄणां तस्मान् निन्द्यान् विवर्जयेत् ॥ (४२।२)

ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet ||

43.1४३.१

पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते । (४३।१)

pāṇigrahaṇasaṃskāraḥ savarṇāsūpadiśyate |

43.2४३.२

असवर्णास्व् अयं ज्ञेयो विधिर् उद्वाहकर्मणि ॥ (४३।२)

asavarṇāsv ayaṃ jñeyo vidhir udvāhakarmaṇi ||

44.1४४.१

शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । (४४।१)

śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā |

44.2४४.२

वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ (४४।२)

vasanasya daśā grāhyā śūdrayotkṛṣṭavedane ||

45.1४५.१

ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा । (४५।१)

ṛtukālābhigāmī syāt svadāranirataḥ sadā |

45.2४५.२

पर्ववर्जं व्रजेच् चैनां तद्व्रतो रतिकाम्यया ॥ (४५।२)

parvavarjaṃ vrajec caināṃ tadvrato ratikāmyayā ||

46.1४६.१

ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः । (४६।१)

ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ |

46.2४६.२

चतुर्भिर् इतरैः सार्धम् अहोभिः सद्विगर्हितैः ॥ (४६।२)

caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ ||

47.1४७.१

तासाम् आद्याश् चतस्रस् तु निन्दितैकादशी च या । (४७।१)

tāsām ādyāś catasras tu ninditaikādaśī ca yā |

47.2४७.२

त्रयोदशी च शेषास् तु प्रशस्ता दशरात्रयः ॥ (४७।२)

trayodaśī ca śeṣās tu praśastā daśarātrayaḥ ||

48.1४८.१

युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु । (४८।१)

yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu |

48.2४८.२

तस्माद् युग्मासु पुत्रार्थी संविशेद् आर्तवे स्त्रियम् ॥ (४८।२)

tasmād yugmāsu putrārthī saṃviśed ārtave striyam ||

49.1४९.१

पुमान् पुंसो ऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियाः । (४९।१)

pumān puṃso 'dhike śukre strī bhavaty adhike striyāḥ |

49.2४९.२

समे ऽपुमान् पुंस्त्रियौ वा क्षीणे ऽल्पे च विपर्ययः ॥ (४९।२)

same 'pumān puṃstriyau vā kṣīṇe 'lpe ca viparyayaḥ ||

50.1५०.१

निन्द्यास्व् अष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् । (५०।१)

nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan |

50.2५०.२

ब्रह्मचार्य् एव भवति यत्र तत्राश्रमे वसन् ॥ (५०।२)

brahmacāry eva bhavati yatra tatrāśrame vasan ||

51.1५१.१

न कन्यायाः पिता विद्वान् गृह्णीयात् शुल्कम् अण्व् अपि । (५१।१)

na kanyāyāḥ pitā vidvān gṛhṇīyāt śulkam aṇv api |

51.2५१.२

गृह्णन् शुल्कं हि लोभेन स्यान् नरो ऽपत्यविक्रयी ॥ (५१।२)

gṛhṇan śulkaṃ hi lobhena syān naro 'patyavikrayī ||

52.1५२.१

स्त्रीधनानि तु ये मोहाद् उपजीवन्ति बान्धवाः । (५२।१)

strīdhanāni tu ye mohād upajīvanti bāndhavāḥ |

52.2५२.२

नारी यानानि वस्त्रं वा ते पापा यान्त्य् अधोगतिम् ॥ (५२।२)

nārī yānāni vastraṃ vā te pāpā yānty adhogatim ||

53.1५३.१

आर्षे गोमिथुनं शुल्कं केचिद् आहुर् मृषैव तत् । (५३।१)

ārṣe gomithunaṃ śulkaṃ kecid āhur mṛṣaiva tat |

53.2५३.२

अल्पो ऽप्य् एवं महान् वापि विक्रयस् तावद् एव सः ॥ (५३।२)

alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ ||

54.1५४.१

यासां नाददते शुल्कं ज्ञातयो न स विक्रयः । (५४।१)

yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ |

54.2५४.२

अर्हणं तत् कुमारीणाम् आनृशंस्यं च केवलम् ॥ (५४।२)

arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ ca kevalam ||

55.1५५.१

पितृभिर् भ्रातृभिश् चैताः पतिभिर् देवरैस् तथा । (५५।१)

pitṛbhir bhrātṛbhiś caitāḥ patibhir devarais tathā |

55.2५५.२

पूज्या भूषयितव्याश् च बहुकल्याणम् ईप्सुभिः ॥ (५५।२)

pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ ||

56.1५६.१

यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः । (५६।१)

yatra nāryas tu pūjyante ramante tatra devatāḥ |

56.2५६.२

यत्रैतास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ॥ (५६।२)

yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ ||

57.1५७.१

शोचन्ति जामयो यत्र विनश्यत्य् आशु तत् कुलम् । (५७।१)

śocanti jāmayo yatra vinaśyaty āśu tat kulam |

57.2५७.२

न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा ॥ (५७।२)

na śocanti tu yatraitā vardhate taddhi sarvadā ||

58.1५८.१

जामयो यानि गेहानि शपन्त्य् अप्रतिपूजिताः । (५८।१)

jāmayo yāni gehāni śapanty apratipūjitāḥ |

58.2५८.२

तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ (५८।२)

tāni kṛtyāhatānīva vinaśyanti samantataḥ ||

59.1५९.१

तस्माद् एताः सदा पूज्या भूषणाच्छादनाशनैः । (५९।१)

tasmād etāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ |

59.2५९.२

भूतिकामैर् नरैर् नित्यं सत्करेषूत्सवेषु च ॥ (५९।२)

bhūtikāmair narair nityaṃ satkareṣūtsaveṣu ca ||

60.1६०.१

संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च । (६०।१)

saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca |

60.2६०.२

यस्मिन्न् एव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ (६०।२)

yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam ||

61.1६१.१

यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् । (६१।१)

yadi hi strī na roceta pumāṃsaṃ na pramodayet |

61.2६१.२

अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते ॥ (६१।२)

apramodāt punaḥ puṃsaḥ prajanaṃ na pravartate ||

62.1६२.१

स्त्रियां तु रोचमानायां सर्वं तद् रोचते कुलम् । (६२।१)

striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam |

62.2६२.२

तस्यां त्व् अरोचमानायां सर्वम् एव न रोचते ॥ (६२।२)

tasyāṃ tv arocamānāyāṃ sarvam eva na rocate ||

63.1६३.१

कुविवाहैः क्रियालोपैर् वेदानध्ययनेन च । (६३।१)

kuvivāhaiḥ kriyālopair vedānadhyayanena ca |

63.2६३.२

कुलान्य् अकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ (६३।२)

kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca ||

64.1६४.१

शिल्पेन व्यवहारेण शूद्रापत्यैश् च केवलैः । (६४।१)

śilpena vyavahāreṇa śūdrāpatyaiś ca kevalaiḥ |

64.2६४.२

गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया ॥ (६४।२)

gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā ||

65.1६५.१

अयाज्ययाजनैश् चैव नास्तिक्येन च कर्मणाम् । (६५।१)

ayājyayājanaiś caiva nāstikyena ca karmaṇām |

65.2६५.२

कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ (६५।२)

kulānyāśu vinaśyanti yāni hīnāni mantrataḥ ||

66.1६६.१

मन्त्रतस् तु समृद्धानि कुलान्य् अल्पधनान्य् अपि । (६६।१)

mantratas tu samṛddhāni kulāny alpadhanāny api |

66.2६६.२

कुलसंख्यां च गच्छन्ति कर्षन्ति च महद् यशः ॥ (६६।२)

kulasaṃkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ ||

67.1६७.१

वैवाहिके ऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि । (६७।१)

vaivāhike 'gnau kurvīta gṛhyaṃ karma yathāvidhi |

67.2६७.२

पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ॥ (६७।२)

pañcayajñavidhānaṃ ca paktiṃ cānvāhikīṃ gṛhī ||

68.1६८.१

पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः । (६८।१)

pañca sūnā gṛhasthasya cullī peṣaṇyupaskaraḥ |

68.2६८.२

कण्डनी चोदकुम्भश् च बध्यते यास् तु वाहयन् ॥ (६८।२)

kaṇḍanī codakumbhaś ca badhyate yās tu vāhayan ||

69.1६९.१

तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः । (६९।१)

tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ |

69.2६९.२

पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ (६९।२)

pañca kḷptā mahāyajñāḥ pratyahaṃ gṛhamedhinām ||

70.1७०.१

अध्यापनं ब्रह्मयज्ञः पितृयज्ञस् तु तर्पणम् । (७०।१)

adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam |

70.2७०.२

होमो दैवो बलिर् भौतो नृयज्ञो ऽतिथिपूजनम् ॥ (७०।२)

homo daivo balir bhauto nṛyajño 'tithipūjanam ||

71.1७१.१

पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः । (७१।१)

pañcaitān yo mahāyajñān na hāpayati śaktitaḥ |

71.2७१.२

स गृहे ऽपि वसन् नित्यं सूनादोषैर् न लिप्यते ॥ (७१।२)

sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate ||

72.1७२.१

देवतातिथिभृत्यानां पितॄणाम् आत्मनश् च यः । (७२।१)

devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ |

72.2७२.२

न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति ॥ (७२।२)

na nirvapati pañcānām ucchvasan na sa jīvati ||

73.1७३.१

अहुतं च हुतं चैव तथा प्रहुतम् एव च । (७३।१)

ahutaṃ ca hutaṃ caiva tathā prahutam eva ca |

73.2७३.२

ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ॥ (७३।२)

brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñān pracakṣate ||

74.1७४.१

जपो ऽहुतो हुतो होमः प्रहुतो भौतिको बलिः । (७४।१)

japo 'huto huto homaḥ prahuto bhautiko baliḥ |

74.2७४.२

ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ॥ (७४।२)

brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam ||

75.1७५.१

स्वाध्याये नित्ययुक्तः स्याद् दैवे चैवेह कर्मणि । (७५।१)

svādhyāye nityayuktaḥ syād daive caiveha karmaṇi |

75.2७५.२

दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥ (७५।२)

daivakarmaṇi yukto hi bibhartīdaṃ carācaram ||

76.1७६.१

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते । (७६।१)

agnau prāstāhutiḥ samyag ādityam upatiṣṭhate |

76.2७६.२

आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ (७६।२)

ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ ||

77.1७७.१

यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः । (७७।१)

yathā vāyuṃ samāśritya vartante sarvajantavaḥ |

77.2७७.२

तथा गृहस्थम् आश्रित्य वर्तन्ते सर्व आश्रमाः ॥ (७७।२)

tathā gṛhastham āśritya vartante sarva āśramāḥ ||

78.1७८.१

यस्मात् त्रयो ऽप्य् आश्रमिणो ज्ञानेनान्नेन चान्वहम् । (७८।१)

yasmāt trayo 'py āśramiṇo jñānenānnena cānvaham |

78.2७८.२

गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही ॥ (७८।२)

gṛhasthenaiva dhāryante tasmājjyeṣṭhāśramo gṛhī ||

79.1७९.१

स संधार्यः प्रयत्नेन स्वर्गम् अक्षयम् इच्छता । (७९।१)

sa saṃdhāryaḥ prayatnena svargam akṣayam icchatā |

79.2७९.२

सुखं चेहेच्छतात्यन्तं यो ऽधार्यो दुर्बलेन्द्रियैः ॥ (७९।२)

sukhaṃ cehecchatātyantaṃ yo 'dhāryo durbalendriyaiḥ ||

80.1८०.१

ऋषयः पितरो देवा भूतान्य् अतिथयस् तथा । (८०।१)

ṛṣayaḥ pitaro devā bhūtāny atithayas tathā |

80.2८०.२

आशासते कुटुम्बिभ्यस् तेभ्यः कार्यं विजानता ॥ (८०।२)

āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā ||

81.1८१.१

स्वाध्यायेनार्चयेतर्षीन् होमैर् देवान् यथाविधि । (८१।१)

svādhyāyenārcayetarṣīn homair devān yathāvidhi |

81.2८१.२

पितॄन् श्राद्धैश् च नॄन् अन्नैर् भूतानि बलिकर्मणा ॥ (८१।२)

pitṝn śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā ||

82.1८२.१

कुर्याद् अहरहः श्राद्धम् अन्नाद्येनौदकेन वा । (८२।१)

kuryād aharahaḥ śrāddham annādyenaudakena vā |

82.2८२.२

पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् आवहन् ॥ (८२।२)

payomūlaphalair vāpi pitṛbhyaḥ prītim āvahan ||

83.1८३.१

एकम् अप्याशयेद् विप्रं पितृअर्थे पाञ्चयज्ञिके । (८३।१)

ekam apyāśayed vipraṃ pitṛarthe pāñcayajñike |

83.2८३.२

न चैवात्राशयेत् किंचिद् वैश्वदेवं प्रति द्विजम् ॥ (८३।२)

na caivātrāśayet kiṃcid vaiśvadevaṃ prati dvijam ||

84.1८४.१

वैश्वदेवस्य सिद्धस्य गृह्ये ऽग्नौ विधिपूर्वकम् । (८४।१)

vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam |

84.2८४.२

आभ्यः कुर्याद् देवताभ्यो ब्राह्मणो होमम् अन्वहम् ॥ (८४।२)

ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham ||

85.1८५.१

अग्नेः सोमस्य चैवादौ तयोश् चैव समस्तयोः । (८५।१)

agneḥ somasya caivādau tayoś caiva samastayoḥ |

85.2८५.२

विश्वेभ्यश् चैव देवेभ्यो धन्वन्तरय एव च ॥ (८५।२)

viśvebhyaś caiva devebhyo dhanvantaraya eva ca ||

86.1८६.१

कुह्वै चैवानुमत्यै च प्रजापतय एव च । (८६।१)

kuhvai caivānumatyai ca prajāpataya eva ca |

86.2८६.२

सह द्यावापृथिव्योश् च तथा स्विष्टकृते ऽन्ततः ॥ (८६।२)

saha dyāvāpṛthivyoś ca tathā sviṣṭakṛte 'ntataḥ ||

87.1८७.१

एवं सम्यग्घविर् हुत्वा सर्वदिक्षु प्रदक्षिणम् । (८७।१)

evaṃ samyagghavir hutvā sarvadikṣu pradakṣiṇam |

87.2८७.२

इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥ (८७।२)

indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret ||

88.1८८.१

मरुद्भ्य इति तु द्वारि क्षिपेद् अप्स्व् अद्भ्य इत्य् अपि । (८८।१)

marudbhya iti tu dvāri kṣiped apsv adbhya ity api |

88.2८८.२

वनस्पतिभ्य इत्य् एवं मुसलोलूखले हरेत् ॥ (८८।२)

vanaspatibhya ity evaṃ musalolūkhale haret ||

89.1८९.१

उच्छीर्षके श्रियै कुर्याद् भद्रकाल्यै च पादतः । (८९।१)

ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ |

89.2८९.२

ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ (८९।२)

brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret ||

90.1९०.१

विश्वेभ्यश् चैव देवेभ्यो बलिम् आकाश उत्क्षिपेत् । (९०।१)

viśvebhyaś caiva devebhyo balim ākāśa utkṣipet |

90.2९०.२

दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥ (९०।२)

divācarebhyo bhūtebhyo naktaṃcāribhya eva ca ||

91.1९१.१

पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये । (९१।१)

pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye |

91.2९१.२

पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥ (९१।२)

pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret ||

92.1९२.१

शूनां च पतितानां च श्वपचां पापरोगिणाम् । (९२।१)

śūnāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām |

92.2९२.२

वयसानां कृमीणां च शनकैर् निर्वपेद् भुवि ॥ (९२।२)

vayasānāṃ kṛmīṇāṃ ca śanakair nirvaped bhuvi ||

93.1९३.१

एवं यः सर्वभूतानि ब्राह्मणो नित्यम् अर्चति । (९३।१)

evaṃ yaḥ sarvabhūtāni brāhmaṇo nityam arcati |

93.2९३.२

स गच्छति परं स्थानं तेजोमूर्तिः पथर्जुना ॥ (९३।२)

sa gacchati paraṃ sthānaṃ tejomūrtiḥ patharjunā ||

94.1९४.१

कृत्वैतद् बलिकर्मैवम् अतिथिं पूर्वम् आशयेत् । (९४।१)

kṛtvaitad balikarmaivam atithiṃ pūrvam āśayet |

94.2९४.२

भिक्षां च भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ॥ (९४।२)

bhikṣāṃ ca bhikṣave dadyād vidhivad brahmacāriṇe ||

95.1९५.१

यत् पुण्यफलम् आप्नोति गां दत्त्वा विधिवद् गुरोः । (९५।१)

yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ |

95.2९५.२

तत् पुण्यफलम् आप्नोति भिक्षां दत्त्वा द्विजो गृही ॥ (९५।२)

tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī ||

96.1९६.१

भिक्षाम् अप्य् उदपात्रं वा सत्कृत्य विधिपूर्वकम् । (९६।१)

bhikṣām apy udapātraṃ vā satkṛtya vidhipūrvakam |

96.2९६.२

वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ (९६।२)

vedatattvārthaviduṣe brāhmaṇāyopapādayet ||

97.1९७.१

नश्यन्ति हव्यकव्यानि नराणाम् अविजानताम् । (९७।१)

naśyanti havyakavyāni narāṇām avijānatām |

97.2९७.२

भस्मीभूतेषु विप्रेषु मोहाद् दत्तानि दातृभिः ॥ (९७।२)

bhasmībhūteṣu vipreṣu mohād dattāni dātṛbhiḥ ||

98.1९८.१

विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु । (९८।१)

vidyātapaḥsamṛddheṣu hutaṃ vipramukhāgniṣu |

98.2९८.२

निस्तारयति दुर्गाच् च महतश् चैव किल्बिषात् ॥ (९८।२)

nistārayati durgāc ca mahataś caiva kilbiṣāt ||

99.1९९.१

सम्प्राप्ताय त्व् अतिथये प्रदद्याद् आसनोदके । (९९।१)

samprāptāya tv atithaye pradadyād āsanodake |

99.2९९.२

अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥ (९९।२)

annaṃ caiva yathāśakti satkṛtya vidhipūrvakam ||

100.1१००.१

शिलान् अप्य् उञ्छतो नित्यं पञ्चाग्नीन् अपि जुह्वतः । (१००।१)

śilān apy uñchato nityaṃ pañcāgnīn api juhvataḥ |

100.2१००.२

सर्वं सुकृतम् आदत्ते ब्राह्मणो ऽनर्चितो वसन् ॥ (१००।२)

sarvaṃ sukṛtam ādatte brāhmaṇo 'narcito vasan ||

101.1१०१.१

तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता । (१०१।१)

tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā |

101.2१०१.२

एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ (१०१।२)

etāny api satāṃ gehe nocchidyante kadācana ||

102.1१०२.१

एकरात्रं तु निवसन्न् अतिथिर् ब्राह्मणः स्मृतः । (१०२।१)

ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ |

102.2१०२.२

अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते ॥ (१०२।२)

anityaṃ hi sthito yasmāt tasmād atithir ucyate ||

103.1१०३.१

नैकग्रामीणम् अतिथिं विप्रं सांगतिकं तथा । (१०३।१)

naikagrāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā |

103.2१०३.२

उपस्थितं गृहे विद्याद् भार्या यत्राग्नयो ऽपि वा ॥ (१०३।२)

upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā ||

104.1१०४.१

उपासते ये गृहस्थाः परपाकम् अबुद्धयः । (१०४।१)

upāsate ye gṛhasthāḥ parapākam abuddhayaḥ |

104.2१०४.२

तेन ते प्रेत्य पशुतां व्रजन्त्य् अन्नादिदायिनः ॥ (१०४।२)

tena te pretya paśutāṃ vrajanty annādidāyinaḥ ||

105.1१०५.१

अप्रणोद्यो ऽतिथिः सायं सूर्योढो गृहमेधिना । (१०५।१)

apraṇodyo 'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā |

105.2१०५.२

काले प्राप्तस् त्व् अकाले वा नास्यानश्नन् गृहे वसेत् ॥ (१०५।२)

kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset ||

106.1१०६.१

न वै स्वयं तद् अश्नीयाद् अतिथिं यन् न भोजयेत् । (१०६।१)

na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet |

106.2१०६.२

धन्यं यशस्यम् आयुष्यं स्वर्ग्यं वातिथिपूजनम् ॥ (१०६।२)

dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ vātithipūjanam ||

107.1१०७.१

आसनावसथौ शय्याम् अनुव्रज्याम् उपासनाम् । (१०७।१)

āsanāvasathau śayyām anuvrajyām upāsanām |

107.2१०७.२

उत्तमेषूत्तमं कुर्याद्धीने हीनं समे समम् ॥ (१०७।२)

uttameṣūttamaṃ kuryāddhīne hīnaṃ same samam ||

108.1१०८.१

वैश्वदेवे तु निर्वृत्ते यद्य् अन्यो ऽतिथिर् आव्रजेत् । (१०८।१)

vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet |

108.2१०८.२

तस्याप्यन्नं यथाशक्ति प्रदद्यान् न बलिं हरेत् ॥ (१०८।२)

tasyāpyannaṃ yathāśakti pradadyān na baliṃ haret ||

109.1१०९.१

न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् । (१०९।१)

na bhojanārthaṃ sve vipraḥ kulagotre nivedayet |

109.2१०९.२

भोजनार्थं हि ते शंसन् वान्ताशीत्य् उच्यते बुधैः ॥ (१०९।२)

bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ ||

110.1११०.१

न ब्राह्मणस्य त्व् अतिथिर् गृहे राजन्य उच्यते । (११०।१)

na brāhmaṇasya tv atithir gṛhe rājanya ucyate |

110.2११०.२

वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुर् एव च ॥ (११०।२)

vaiśyaśūdrau sakhā caiva jñātayo gurur eva ca ||

111.1१११.१

यदि त्वतिथिधर्मेण क्षत्रियो गृहम् आव्रजेत् । (१११।१)

yadi tvatithidharmeṇa kṣatriyo gṛham āvrajet |

111.2१११.२

भुक्तवत्सु च विप्रेषु कामं तम् अपि भोजयेत् ॥ (१११।२)

bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet ||

112.1११२.१

वैश्यशूद्राव् अपि प्राप्तौ कुटुम्बे ऽतिथिधर्मिणौ । (११२।१)

vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau |

112.2११२.२

भोजयेत् सह भृत्यैस् ताव् आनृशंस्यं प्रयोजयन् ॥ (११२।२)

bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan ||

113.1११३.१

इतरान् अपि सख्यादीन् सम्प्रीत्या गृहम् आगतान् । (११३।१)

itarān api sakhyādīn samprītyā gṛham āgatān |

113.2११३.२

प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया ॥ (११३।२)

prakṛtyānnaṃ yathāśakti bhojayet saha bhāryayā ||

114.1११४.१

सुवासिनीः कुमारीश् च रोगिणो गर्भिणीः स्त्रियः । (११४।१)

suvāsinīḥ kumārīś ca rogiṇo garbhiṇīḥ striyaḥ |

114.2११४.२

अतिथिभ्यो ऽग्र एवैतान् भोजयेद् अविचारयन् ॥ (११४।२)

atithibhyo 'gra evaitān bhojayed avicārayan ||

115.1११५.१

अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्ते ऽविचक्षणः । (११५।१)

adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte 'vicakṣaṇaḥ |

115.2११५.२

स भुञ्जानो न जानाति श्वगृध्रैर् जग्धिम् आत्मनः ॥ (११५।२)

sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ ||

116.1११६.१

भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । (११६।१)

bhuktavatsvatha vipreṣu sveṣu bhṛtyeṣu caiva hi |

116.2११६.२

भुञ्जीयातां ततः पश्चाद् अवशिष्टं तु दम्पती ॥ (११६।२)

bhuñjīyātāṃ tataḥ paścād avaśiṣṭaṃ tu dampatī ||

117.1११७.१

देवान् ऋषीन् मनुष्यांश् च पितॄन् गृह्याश् च देवताः । (११७।१)

devān ṛṣīn manuṣyāṃś ca pitṝn gṛhyāś ca devatāḥ |

117.2११७.२

पूजयित्वा ततः पश्चाद् गृहस्थः शेषभुग् भवेत् ॥ (११७।२)

pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet ||

118.1११८.१

अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । (११८।१)

aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt |

118.2११८.२

यज्ञशिष्टाशनं ह्येतत् सताम् अन्नं विधीयते ॥ (११८।२)

yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate ||

119.1११९.१

राजर्त्विज्स्नातकगुरून् प्रियश्वशुरमातुलान् । (११९।१)

rājartvijsnātakagurūn priyaśvaśuramātulān |

119.2११९.२

अर्हयेन् मधुपर्केण परिसंवत्सरात् पुनः ॥ (११९।२)

arhayen madhuparkeṇa parisaṃvatsarāt punaḥ ||

120.1१२०.१

राजा च श्रोत्रियश् चैव यज्ञकर्मण्युपस्थितौ । (१२०।१)

rājā ca śrotriyaś caiva yajñakarmaṇyupasthitau |

120.2१२०.२

मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः ॥ (१२०।२)

madhuparkeṇa saṃpūjyau na tvayajña iti sthitiḥ ||

121.1१२१.१

सायं त्व् अन्नस्य सिद्धस्य पत्न्य् अमन्त्रं बलिं हरेत् । (१२१।१)

sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret |

121.2१२१.२

वैश्वदेवं हि नामैतत् सायं प्रातर् विधीयते ॥ (१२१।२)

vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate ||

122.1१२२.१

पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये ऽग्निमान् । (१२२।१)

pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān |

122.2१२२.२

पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥ (१२२।२)

piṇḍānvāhāryakaṃ śrāddhaṃ kuryān māsānumāsikam ||

123.1१२३.१

पितॄणां मासिकं श्राद्धम् अन्वाहार्यं विदुर् बुधाः । (१२३।१)

pitṝṇāṃ māsikaṃ śrāddham anvāhāryaṃ vidur budhāḥ |

123.2१२३.२

तच्चामिषेण कर्तव्यं प्रशस्तेन प्रयत्नतः ॥ (१२३।२)

taccāmiṣeṇa kartavyaṃ praśastena prayatnataḥ ||

124.1१२४.१

तत्र ये भोजनीयाः स्युर् ये च वर्ज्या द्विजोत्तमाः । (१२४।१)

tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ |

124.2१२४.२

यावन्तश् चैव यैश् चान्नैस् तान् प्रवक्ष्याम्यशेषतः ॥ (१२४।२)

yāvantaś caiva yaiś cānnais tān pravakṣyāmyaśeṣataḥ ||

125.1१२५.१

द्वौ दैवे पितृकार्ये त्रीन् एकैकम् उभयत्र वा । (१२५।१)

dvau daive pitṛkārye trīn ekaikam ubhayatra vā |

125.2१२५.२

भोजयेत् सुसमृद्धो ऽपि न प्रसज्जेत विस्तरे ॥ (१२५।२)

bhojayet susamṛddho 'pi na prasajjeta vistare ||

126.1१२६.१

सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदः । (१२६।१)

satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasampadaḥ |

126.2१२६.२

पञ्चैतान् विस्तरो हन्ति तस्मान् नेहेत विस्तरम् ॥ (१२६।२)

pañcaitān vistaro hanti tasmān neheta vistaram ||

127.1१२७.१

प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये । (१२७।१)

prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye |

127.2१२७.२

तस्मिन् युक्तस्येति नित्यं प्रेतकृत्यैव लौकिकी ॥ (१२७।२)

tasmin yuktasyeti nityaṃ pretakṛtyaiva laukikī ||

128.1१२८.१

श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । (१२८।१)

śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ |

128.2१२८.२

अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ (१२८।२)

arhattamāya viprāya tasmai dattaṃ mahāphalam ||

129.1१२९.१

एकैकम् अपि विद्वांसं दैवे पित्र्ये च भोजयेत् । (१२९।१)

ekaikam api vidvāṃsaṃ daive pitrye ca bhojayet |

129.2१२९.२

पुष्कलं फलम् आप्नोति नामन्त्रज्ञान् बहून् अपि ॥ (१२९।२)

puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api ||

130.1१३०.१

दूराद् एव परीक्षेत ब्राह्मणं वेदपारगम् । (१३०।१)

dūrād eva parīkṣeta brāhmaṇaṃ vedapāragam |

130.2१३०.२

तीर्थं तद्धव्यकव्यानां प्रदाने सो ऽतिथिः स्मृतः ॥ (१३०।२)

tīrthaṃ taddhavyakavyānāṃ pradāne so 'tithiḥ smṛtaḥ ||

131.1१३१.१

सहस्रं हि सहस्राणाम् अनृचां यत्र भुञ्जते । (१३१।१)

sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate |

131.2१३१.२

एकस् तान् मन्त्रवित् प्रीतः सर्वान् अर्हति धर्मतः ॥ (१३१।२)

ekas tān mantravit prītaḥ sarvān arhati dharmataḥ ||

132.1१३२.१

ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च । (१३२।१)

jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca |

132.2१३२.२

न हि हस्ताव् असृग्दिग्धौ रुधिरेणैव शुध्यतः ॥ (१३२।२)

na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ ||

133.1१३३.१

यावतो ग्रसते ग्रासान् हव्यकव्येष्व् अमन्त्रवित् । (१३३।१)

yāvato grasate grāsān havyakavyeṣv amantravit |

133.2१३३.२

तावतो ग्रसते प्रेतो दीप्तशूलऋष्ट्ययोगुडान् ॥ (१३३।२)

tāvato grasate preto dīptaśūlaṛṣṭyayoguḍān ||

134.1१३४.१

ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास् तथापरे । (१३४।१)

jñānaniṣṭhā dvijāḥ kecit taponiṣṭhās tathāpare |

134.2१३४.२

तपःस्वाध्यायनिष्ठाश् च कर्मनिष्ठास् तथापरे ॥ (१३४।२)

tapaḥsvādhyāyaniṣṭhāś ca karmaniṣṭhās tathāpare ||

135.1१३५.१

ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः । (१३५।१)

jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ |

135.2१३५.२

हव्यानि तु यथान्यायं सर्वेष्व् एव चतुर्ष्व् अपि ॥ (१३५।२)

havyāni tu yathānyāyaṃ sarveṣv eva caturṣv api ||

136.1१३६.१

अश्रोत्रियः पिता यस्य पुत्रः स्याद् वेदपारगः । (१३६।१)

aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ |

136.2१३६.२

अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः ॥ (१३६।२)

aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ ||

137.1१३७.१

ज्यायांसम् अनयोर् विद्याद् यस्य स्याच्छ्रोत्रियः पिता । (१३७।१)

jyāyāṃsam anayor vidyād yasya syācchrotriyaḥ pitā |

137.2१३७.२

मन्त्रसम्पूजनार्थं तु सत्कारम् इतरो ऽर्हति ॥ (१३७।२)

mantrasampūjanārthaṃ tu satkāram itaro 'rhati ||

138.1१३८.१

न श्राद्धे भोजयेन् मित्रं धनैः कार्यो ऽस्य संग्रहः । (१३८।१)

na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ |

138.2१३८.२

नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद् द्विजम् ॥ (१३८।२)

nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam ||

139.1१३९.१

यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । (१३९।१)

yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca |

139.2१३९.२

तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ (१३९।२)

tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca ||

140.1१४०.१

यः संगतानि कुरुते मोहात् श्राद्धेन मानवः । (१४०।१)

yaḥ saṃgatāni kurute mohāt śrāddhena mānavaḥ |

140.2१४०.२

स स्वर्गाच्च्यवते लोकात् श्राद्धमित्रो द्विजाधमः ॥ (१४०।२)

sa svargāccyavate lokāt śrāddhamitro dvijādhamaḥ ||

141.1१४१.१

सम्भोजनी साभिहिता पैशाची दक्षिणा द्विजैः । (१४१।१)

sambhojanī sābhihitā paiśācī dakṣiṇā dvijaiḥ |

141.2१४१.२

इहैवास्ते तु सा लोके गौर् अन्धेवैकवेश्मनि ॥ (१४१।२)

ihaivāste tu sā loke gaur andhevaikaveśmani ||

142.1१४२.१

यथेरिणे बीजम् उप्त्वा न वप्ता लभते फलम् । (१४२।१)

yatheriṇe bījam uptvā na vaptā labhate phalam |

142.2१४२.२

तथानृचे हविर् दत्त्वा न दाता लभते फलम् ॥ (१४२।२)

tathānṛce havir dattvā na dātā labhate phalam ||

143.1१४३.१

दातॄन् प्रतिग्रहीतॄंश् च कुरुते फलभागिनः । (१४३।१)

dātṝn pratigrahītṝṃś ca kurute phalabhāginaḥ |

143.2१४३.२

विदुषे दक्षिणां दत्त्वा विधिवत् प्रेत्य चेह च ॥ (१४३।२)

viduṣe dakṣiṇāṃ dattvā vidhivat pretya ceha ca ||

144.1१४४.१

कामं श्राद्धे ऽर्चयेन् मित्रं नाभिरूपम् अपि त्व् अरिम् । (१४४।१)

kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim |

144.2१४४.२

द्विषता हि हविर् भुक्तं भवति प्रेत्य निष्फलम् ॥ (१४४।२)

dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam ||

145.1१४५.१

यत्नेन भोजयेत् श्राद्धे बह्वृचं वेदपारगम् । (१४५।१)

yatnena bhojayet śrāddhe bahvṛcaṃ vedapāragam |

145.2१४५.२

शाखान्तगम् अथाध्वर्युं छन्दोगं तु समाप्तिकम् ॥ (१४५।२)

śākhāntagam athādhvaryuṃ chandogaṃ tu samāptikam ||

146.1१४६.१

एषाम् अन्यतमो यस्य भुञ्जीत श्राद्धम् अर्चितः । (१४६।१)

eṣām anyatamo yasya bhuñjīta śrāddham arcitaḥ |

146.2१४६.२

पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी ॥ (१४६।२)

pitṝṇāṃ tasya tṛptiḥ syācchāśvatī sāptapauruṣī ||

147.1१४७.१

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । (१४७।१)

eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ |

147.2१४७.२

अनुकल्पस् त्व् अयं ज्ञेयः सदा सद्भिर् अनुष्ठितः ॥ (१४७।२)

anukalpas tv ayaṃ jñeyaḥ sadā sadbhir anuṣṭhitaḥ ||

148.1१४८.१

मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् । (१४८।१)

mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum |

148.2१४८.२

दौहित्रं विट्पतिं बन्धुम् ऋत्विग्याज्यौ च भोजयेत् ॥ (१४८।२)

dauhitraṃ viṭpatiṃ bandhum ṛtvigyājyau ca bhojayet ||

149.1१४९.१

न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । (१४९।१)

na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit |

149.2१४९.२

पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ (१४९।२)

pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ ||

150.1१५०.१

ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः । (१५०।१)

ye stenapatitaklībā ye ca nāstikavṛttayaḥ |

150.2१५०.२

तान् हव्यकव्ययोर् विप्रान् अनर्हान् मनुर् अब्रवीत् ॥ (१५०।२)

tān havyakavyayor viprān anarhān manur abravīt ||

151.1१५१.१

जटिलं चानधीयानं दुर्बलं कितवं तथा । (१५१।१)

jaṭilaṃ cānadhīyānaṃ durbalaṃ kitavaṃ tathā |

151.2१५१.२

याजयन्ति च ये पूगांस् तांश् च श्राद्धे न भोजयेत् ॥ (१५१।२)

yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet ||

152.1१५२.१

चिकित्सकान् देवलकान् मांसविक्रयिणस् तथा । (१५२।१)

cikitsakān devalakān māṃsavikrayiṇas tathā |

152.2१५२.२

विपणेन च जीवन्तो वर्ज्याः स्युर् हव्यकव्ययोः ॥ (१५२।२)

vipaṇena ca jīvanto varjyāḥ syur havyakavyayoḥ ||

153.1१५३.१

प्रेष्यो ग्रामस्य राज्ञश् च कुनखी श्यावदन्तकः । (१५३।१)

preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ |

153.2१५३.२

प्रतिरोद्धा गुरोश् चैव त्यक्ताग्निर् वार्द्धुषिस् तथा ॥ (१५३।२)

pratiroddhā guroś caiva tyaktāgnir vārddhuṣis tathā ||

154.1१५४.१

यक्ष्मी च पशुपालश् च परिवेत्ता निराकृतिः । (१५४।१)

yakṣmī ca paśupālaś ca parivettā nirākṛtiḥ |

154.2१५४.२

ब्रह्मद्विष् परिवित्तिश् च गणाभ्यन्तर एव च ॥ (१५४।२)

brahmadviṣ parivittiś ca gaṇābhyantara eva ca ||

155.1१५५.१

कुशीलवो ऽवकीर्णी च वृषलीपतिर् एव च । (१५५।१)

kuśīlavo 'vakīrṇī ca vṛṣalīpatir eva ca |

155.2१५५.२

पौनर्भवश् च काणश् च यस्य चोपपतिर् गृहे ॥ (१५५।२)

paunarbhavaś ca kāṇaś ca yasya copapatir gṛhe ||

156.1१५६.१

भृतकाध्यापको यश् च भृतकाध्यापितस् तथा । (१५६।१)

bhṛtakādhyāpako yaś ca bhṛtakādhyāpitas tathā |

156.2१५६.२

शूद्रशिष्यो गुरुश् चैव वाग्दुष्टः कुण्डगोलकौ ॥ (१५६।२)

śūdraśiṣyo guruś caiva vāgduṣṭaḥ kuṇḍagolakau ||

157.1१५७.१

अकारणे परित्यक्ता मातापित्रोर् गुरोस् तथा । (१५७।१)

akāraṇe parityaktā mātāpitror guros tathā |

157.2१५७.२

ब्राह्मैर् यौनैश् च सम्बन्धैः संयोगं पतितैर् गतः ॥ (१५७।२)

brāhmair yaunaiś ca sambandhaiḥ saṃyogaṃ patitair gataḥ ||

158.1१५८.१

अगारदाही गरदः कुण्डाशी सोमविक्रयी । (१५८।१)

agāradāhī garadaḥ kuṇḍāśī somavikrayī |

158.2१५८.२

समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥ (१५८।२)

samudrayāyī bandī ca tailikaḥ kūṭakārakaḥ ||

159.1१५९.१

पित्रा विवदमानश् च कितवो मद्यपस् तथा । (१५९।१)

pitrā vivadamānaś ca kitavo madyapas tathā |

159.2१५९.२

पापरोग्य् अभिशस्तश् च दाम्भिको रसविक्रयी ॥ (१५९।२)

pāparogy abhiśastaś ca dāmbhiko rasavikrayī ||

160.1१६०.१

धनुःशराणां कर्ता च यश् चाग्रेदिधिषूपतिः । (१६०।१)

dhanuḥśarāṇāṃ kartā ca yaś cāgredidhiṣūpatiḥ |

160.2१६०.२

मित्रध्रुग् द्यूतवृत्तिश् च पुत्राचार्यस् तथैव च ॥ (१६०।२)

mitradhrug dyūtavṛttiś ca putrācāryas tathaiva ca ||

161.1१६१.१

भ्रामरी गण्डमाली च श्वित्र्य् अथो पिशुनस् तथा । (१६१।१)

bhrāmarī gaṇḍamālī ca śvitry atho piśunas tathā |

161.2१६१.२

उन्मत्तो ऽन्धश् च वर्ज्याः स्युर् वेदनिन्दक एव च ॥ (१६१।२)

unmatto 'ndhaś ca varjyāḥ syur vedanindaka eva ca ||

162.1१६२.१

हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर् यश् च जीवति । (१६२।१)

hastigo'śvoṣṭradamako nakṣatrair yaś ca jīvati |

162.2१६२.२

पक्षिणां पोषको यश् च युद्धाचार्यस् तथैव च ॥ (१६२।२)

pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca ||

163.1१६३.१

स्रोतसां भेदको यश् च तेषां चावरणे रतः । (१६३।१)

srotasāṃ bhedako yaś ca teṣāṃ cāvaraṇe rataḥ |

163.2१६३.२

गृहसंवेशको दूतो वृक्षारोपक एव च ॥ (१६३।२)

gṛhasaṃveśako dūto vṛkṣāropaka eva ca ||

164.1१६४.१

श्वक्रीडी श्येनजीवी च कन्यादूषक एव च । (१६४।१)

śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca |

164.2१६४.२

हिंस्रो वृषलवृत्तिश् च गणानां चैव याजकः ॥ (१६४।२)

hiṃsro vṛṣalavṛttiś ca gaṇānāṃ caiva yājakaḥ ||

165.1१६५.१

आचारहीनः क्लीबश् च नित्यं याचनकस् तथा । (१६५।१)

ācārahīnaḥ klībaś ca nityaṃ yācanakas tathā |

165.2१६५.२

कृषिजीवी श्लीपदी च सद्भिर् निन्दित एव च ॥ (१६५।२)

kṛṣijīvī ślīpadī ca sadbhir nindita eva ca ||

166.1१६६.१

औरभ्रिको माहिषिकः परपूर्वापतिस् तथा । (१६६।१)

aurabhriko māhiṣikaḥ parapūrvāpatis tathā |

166.2१६६.२

प्रेतनिर्यापकश् चैव वर्जनीयाः प्रयत्नतः ॥ (१६६।२)

pretaniryāpakaś caiva varjanīyāḥ prayatnataḥ ||

167.1१६७.१

एतान् विगर्हिताचारान् अपाङ्क्तेयान् द्विजाधमान् । (१६७।१)

etān vigarhitācārān apāṅkteyān dvijādhamān |

167.2१६७.२

द्विजातिप्रवरो विद्वान् उभयत्र विवर्जयेत् ॥ (१६७।२)

dvijātipravaro vidvān ubhayatra vivarjayet ||

168.1१६८.१

ब्राह्मणस् त्व् अनधीयानस् तृणाग्निर् इव शाम्यति । (१६८।१)

brāhmaṇas tv anadhīyānas tṛṇāgnir iva śāmyati |

168.2१६८.२

तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ (१६८।२)

tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate ||

169.1१६९.१

अपाङ्क्तदाने यो दातुर् भवत्य् ऊर्ध्वं फलोदयः । (१६९।१)

apāṅktadāne yo dātur bhavaty ūrdhvaṃ phalodayaḥ |

169.2१६९.२

दैवे हविषि पित्र्ये वा तं प्रवक्ष्याम्य् अशेषतः ॥ (१६९।२)

daive haviṣi pitrye vā taṃ pravakṣyāmy aśeṣataḥ ||

170.1१७०.१

अव्रतैर् यद् द्विजैर् भुक्तं परिवेत्त्रादिभिस् तथा । (१७०।१)

avratair yad dvijair bhuktaṃ parivettrādibhis tathā |

170.2१७०.२

अपाङ्क्तेयैर् यद् अन्यैश् च तद् वै रक्षांसि भुञ्जते ॥ (१७०।२)

apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate ||

171.1१७१.१

दाराग्निहोत्रसंयोगं कुरुते यो ऽग्रजे स्थिते । (१७१।१)

dārāgnihotrasaṃyogaṃ kurute yo 'graje sthite |

171.2१७१.२

परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥ (१७१।२)

parivettā sa vijñeyaḥ parivittis tu pūrvajaḥ ||

172.1१७२.१

परिवित्तिः परिवेत्ता यया च परिविद्यते । (१७२।१)

parivittiḥ parivettā yayā ca parividyate |

172.2१७२.२

सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ (१७२।२)

sarve te narakaṃ yānti dātṛyājakapañcamāḥ ||

173.1१७३.१

भ्रातुर् मृतस्य भार्यायां यो ऽनुरज्येत कामतः । (१७३।१)

bhrātur mṛtasya bhāryāyāṃ yo 'nurajyeta kāmataḥ |

173.2१७३.२

धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ (१७३।२)

dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ ||

174.1१७४.१

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ । (१७४।१)

paradāreṣu jāyete dvau sutau kuṇḍagolakau |

174.2१७४.२

पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः ॥ (१७४।२)

patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ ||

175.1१७५.१

तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च । (१७५।१)

tau tu jātau parakṣetre prāṇinau pretya ceha ca |

175.2१७५.२

दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् ॥ (१७५।२)

dattāni havyakavyāni nāśayanti pradāyinām ||

176.1१७६.१

अपाङ्क्त्यो यावतः पाङ्क्त्यान् भुञ्जानान् अनुपश्यति । (१७६।१)

apāṅktyo yāvataḥ pāṅktyān bhuñjānān anupaśyati |

176.2१७६.२

तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥ (१७६।२)

tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ ||

177.1१७७.१

वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु । (१७७।१)

vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tu |

177.2१७७.२

पापरोगी सहस्रस्य दातुर् नाशयते फलम् ॥ (१७७।२)

pāparogī sahasrasya dātur nāśayate phalam ||

178.1१७८.१

यावतः संस्पृशेद् अङ्गैर् ब्राह्मणान् शूद्रयाजकः । (१७८।१)

yāvataḥ saṃspṛśed aṅgair brāhmaṇān śūdrayājakaḥ |

178.2१७८.२

तावतां न भवेद् दातुः फलं दानस्य पौर्तिकम् ॥ (१७८।२)

tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam ||

179.1१७९.१

वेदविच् चापि विप्रो ऽस्य लोभात् कृत्वा प्रतिग्रहम् । (१७९।१)

vedavic cāpi vipro 'sya lobhāt kṛtvā pratigraham |

179.2१७९.२

विनाशं व्रजति क्षिप्रम् आमपात्रम् इवाम्भसि ॥ (१७९।२)

vināśaṃ vrajati kṣipram āmapātram ivāmbhasi ||

180.1१८०.१

सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् । (१८०।१)

somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam |

180.2१८०.२

नष्टं देवलके दत्तम् अप्रतिष्ठं तु वार्द्धुषौ ॥ (१८०।२)

naṣṭaṃ devalake dattam apratiṣṭhaṃ tu vārddhuṣau ||

181.1१८१.१

यत् तु वाणिजके दत्तं नेह नामुत्र तद् भवेत् । (१८१।१)

yat tu vāṇijake dattaṃ neha nāmutra tad bhavet |

181.2१८१.२

भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे ॥ (१८१।२)

bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije ||

182.1१८२.१

इतरेषु त्व् अपाङ्क्त्येषु यथोद्दिष्टेष्व् असाधुषु । (१८२।१)

itareṣu tv apāṅktyeṣu yathoddiṣṭeṣv asādhuṣu |

182.2१८२.२

मेदोऽसृङ्मांसमज्जास्थि वदन्त्यन्नं मनीषिणः ॥ (१८२।२)

medo'sṛṅmāṃsamajjāsthi vadantyannaṃ manīṣiṇaḥ ||

183.1१८३.१

अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर् द्विजोत्तमैः । (१८३।१)

apāṅktyopahatā paṅktiḥ pāvyate yair dvijottamaiḥ |

183.2१८३.२

तान् निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥ (१८३।२)

tān nibodhata kārtsnyena dvijāgryān paṅktipāvanān ||

184.1१८४.१

अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । (१८४।१)

agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca |

184.2१८४.२

श्रोत्रियान्वयजाश् चैव विज्ञेयाः पङ्क्तिपावनाः ॥ (१८४।२)

śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ ||

185.1१८५.१

त्रिणाचिकेतः पञ्चाग्निस् त्रिसुपर्णः षडङ्गवित् । (१८५।१)

triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit |

185.2१८५.२

ब्रह्मदेयात्मसंतानो ज्येष्ठसामग एव च ॥ (१८५।२)

brahmadeyātmasaṃtāno jyeṣṭhasāmaga eva ca ||

186.1१८६.१

वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः । (१८६।१)

vedārthavit pravaktā ca brahmacārī sahasradaḥ |

186.2१८६.२

शतायुश् चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ (१८६।२)

śatāyuś caiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ ||

187.1१८७.१

पूर्वेद्युर् अपरेद्युर् वा श्राद्धकर्मण्य् उपस्थिते । (१८७।१)

pūrvedyur aparedyur vā śrāddhakarmaṇy upasthite |

187.2१८७.२

निमन्त्रयेत त्र्यवरान् सम्यग् विप्रान् यथोदितान् ॥ (१८७।२)

nimantrayeta tryavarān samyag viprān yathoditān ||

188.1१८८.१

निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा । (१८८।१)

nimantrito dvijaḥ pitrye niyatātmā bhavet sadā |

188.2१८८.२

न च छन्दांस्य् अधीयीत यस्य श्राद्धं च तद् भवेत् ॥ (१८८।२)

na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet ||

189.1१८९.१

निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान् । (१८९।१)

nimantritān hi pitara upatiṣṭhanti tān dvijān |

189.2१८९.२

वायुवच् चानुगच्छन्ति तथासीनान् उपासते ॥ (१८९।२)

vāyuvac cānugacchanti tathāsīnān upāsate ||

190.1१९०.१

केतितस् तु यथान्यायं हव्ये कव्ये द्विजोत्तमः । (१९०।१)

ketitas tu yathānyāyaṃ havye kavye dvijottamaḥ |

190.2१९०.२

कथंचिद् अप्य् अतिक्रामन् पापः सूकरतां व्रजेत् ॥ (१९०।२)

kathaṃcid apy atikrāman pāpaḥ sūkaratāṃ vrajet ||

191.1१९१.१

आमन्त्रितस् तु यः श्राद्धे वृषल्या सह मोदते । (१९१।१)

āmantritas tu yaḥ śrāddhe vṛṣalyā saha modate |

191.2१९१.२

दातुर् यद् दुष्कृतं किंचित् तत् सर्वं प्रतिपद्यते ॥ (१९१।२)

dātur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate ||

192.1१९२.१

अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः । (१९२।१)

akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ |

192.2१९२.२

न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ (१९२।२)

nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ ||

193.1१९३.१

यस्माद् उत्पत्तिर् एतेषां सर्वेषाम् अप्य् अशेषतः । (१९३।१)

yasmād utpattir eteṣāṃ sarveṣām apy aśeṣataḥ |

193.2१९३.२

ये च यैर् उपचर्याः स्युर् नियमैस् तान् निबोधत ॥ (१९३।२)

ye ca yair upacaryāḥ syur niyamais tān nibodhata ||

194.1१९४.१

मनोर् हैरण्यगर्भस्य ये मरीच्यादयः सुताः । (१९४।१)

manor hairaṇyagarbhasya ye marīcyādayaḥ sutāḥ |

194.2१९४.२

तेषाम् ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ (१९४।२)

teṣām ṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ ||

195.1१९५.१

विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः । (१९५।१)

virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ |

195.2१९५.२

अग्निष्वात्ताश् च देवानां मारीचा लोकविश्रुताः ॥ (१९५।२)

agniṣvāttāś ca devānāṃ mārīcā lokaviśrutāḥ ||

196.1१९६.१

दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् । (१९६।१)

daityadānavayakṣāṇāṃ gandharvoragarakṣasām |

196.2१९६.२

सुपर्णकिंनराणां च स्मृता बर्हिषदो ऽत्रिजाः ॥ (१९६।२)

suparṇakiṃnarāṇāṃ ca smṛtā barhiṣado 'trijāḥ ||

197.1१९७.१

सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । (१९७।१)

somapā nāma viprāṇāṃ kṣatriyāṇāṃ havirbhujaḥ |

197.2१९७.२

वैश्यानाम् आज्यपा नाम शूद्राणां तु सुकालिनः ॥ (१९७।२)

vaiśyānām ājyapā nāma śūdrāṇāṃ tu sukālinaḥ ||

198.1१९८.१

सोमपास् तु कवेः पुत्रा हविष्मन्तो ऽङ्गिरःसुताः । (१९८।१)

somapās tu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ |

198.2१९८.२

पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ (१९८।२)

pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ ||

199.1१९९.१

अग्निदग्धानग्निदग्धान् काव्यान् बर्हिषदस् तथा । (१९९।१)

agnidagdhānagnidagdhān kāvyān barhiṣadas tathā |

199.2१९९.२

अग्निष्वात्तांश् च सौम्यांश् च विप्राणाम् एव निर्दिशेत् ॥ (१९९।२)

agniṣvāttāṃś ca saumyāṃś ca viprāṇām eva nirdiśet ||

200.1२००.१

य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः । (२००।१)

ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ |

200.2२००.२

तेषाम् अपीह विज्ञेयं पुत्रपौत्रम् अनन्तकम् ॥ (२००।२)

teṣām apīha vijñeyaṃ putrapautram anantakam ||

201.1२०१.१

ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः । (२०१।१)

ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devamānavāḥ |

201.2२०१.२

देवेभ्यस् तु जगत् सर्वं चरं स्थाण्व् अनुपूर्वशः ॥ (२०१।२)

devebhyas tu jagat sarvaṃ caraṃ sthāṇv anupūrvaśaḥ ||

202.1२०२.१

राजतैर् भाजनैर् एषाम् अथो वा रजतान्वितैः । (२०२।१)

rājatair bhājanair eṣām atho vā rajatānvitaiḥ |

202.2२०२.२

वार्य् अपि श्रद्धया दत्तम् अक्षयायोपकल्पते ॥ (२०२।२)

vāry api śraddhayā dattam akṣayāyopakalpate ||

203.1२०३.१

दैवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते । (२०३।१)

daivakāryād dvijātīnāṃ pitṛkāryaṃ viśiṣyate |

203.2२०३.२

दैवं हि पितृकार्यस्य पूर्वम् आप्यायनं स्मृतम् ॥ (२०३।२)

daivaṃ hi pitṛkāryasya pūrvam āpyāyanaṃ smṛtam ||

204.1२०४.१

तेषाम् आ रक्षभूतं तु पूर्वं दैवं नियोजयेत् । (२०४।१)

teṣām ā rakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet |

204.2२०४.२

रक्षांसि विप्रलुम्पन्ति श्राद्धम् आ रक्षवर्जितम् ॥ (२०४।२)

rakṣāṃsi vipralumpanti śrāddham ā rakṣavarjitam ||

205.1२०५.१

दैवाद्यन्तं तद् ईहेत पित्राद्यन्तं न तद् भवेत् । (२०५।१)

daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet |

205.2२०५.२

पित्राद्यन्तं त्व् ईहमानः क्षिप्रं नश्यति सान्वयः ॥ (२०५।२)

pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ ||

206.1२०६.१

शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् । (२०६।१)

śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet |

206.2२०६.२

दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ (२०६।२)

dakṣiṇāpravaṇaṃ caiva prayatnenopapādayet ||

207.1२०७.१

अवकाशेषु चोक्षेषु जलतीरेषु चैव हि । (२०७।१)

avakāśeṣu cokṣeṣu jalatīreṣu caiva hi |

207.2२०७.२

विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ (२०७।२)

vivikteṣu ca tuṣyanti dattena pitaraḥ sadā ||

208.1२०८.१

आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक्पृथक् । (२०८।१)

āsaneṣūpakḷpteṣu barhiṣmatsu pṛthakpṛthak |

208.2२०८.२

उपस्पृष्टोदकान् सम्यग् विप्रांस् तान् उपवेशयेत् ॥ (२०८।२)

upaspṛṣṭodakān samyag viprāṃs tān upaveśayet ||

209.1२०९.१

उपवेश्य तु तान् विप्रान् आसनेष्व् अजुगुप्सितान् । (२०९।१)

upaveśya tu tān viprān āsaneṣv ajugupsitān |

209.2२०९.२

गन्धमाल्यैः सुरभिभिर् अर्चयेद् दैवपूर्वकम् ॥ (२०९।२)

gandhamālyaiḥ surabhibhir arcayed daivapūrvakam ||

210.1२१०.१

तेषाम् उदकम् आनीय सपवित्रांस् तिलान् अपि । (२१०।१)

teṣām udakam ānīya sapavitrāṃs tilān api |

210.2२१०.२

अग्नौ कुर्याद् अनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ (२१०।२)

agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha ||

211.1२११.१

अग्नेः सोमयमाभ्यां च कृत्वाप्यायनम् आदितः । (२११।१)

agneḥ somayamābhyāṃ ca kṛtvāpyāyanam āditaḥ |

211.2२११.२

हविर्दानेन विधिवत् पश्चात् संतर्पयेत् पितॄन् ॥ (२११।२)

havirdānena vidhivat paścāt saṃtarpayet pitṝn ||

212.1२१२.१

अग्न्यभावे तु विप्रस्य पाणाव् एवोपपादयेत् । (२१२।१)

agnyabhāve tu viprasya pāṇāv evopapādayet |

212.2२१२.२

यो ह्य् अग्निः स द्विजो विप्रैर् मन्त्रदर्शिभिर् उच्यते ॥ (२१२।२)

yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate ||

213.1२१३.१

अक्रोधनान् सुप्रसादान् वदन्त्य् एतान् पुरातनान् । (२१३।१)

akrodhanān suprasādān vadanty etān purātanān |

213.2२१३.२

लोकस्याप्यायने युक्तान् श्राद्धदेवान् द्विजोत्तमान् ॥ (२१३।२)

lokasyāpyāyane yuktān śrāddhadevān dvijottamān ||

214.1२१४.१

अपसव्यम् अग्नौ कृत्वा सर्वम् आवृत्य विक्रमम् । (२१४।१)

apasavyam agnau kṛtvā sarvam āvṛtya vikramam |

214.2२१४.२

अपसव्येन हस्तेन निर्वपेद् उदकं भुवि ॥ (२१४।२)

apasavyena hastena nirvaped udakaṃ bhuvi ||

215.1२१५.१

त्रींस् तु तस्माद्धविःशेषात् पिण्डान् कृत्वा समाहितः । (२१५।१)

trīṃs tu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ |

215.2२१५.२

औदकेनैव विधिना निर्वपेद् दक्षिणामुखः ॥ (२१५।२)

audakenaiva vidhinā nirvaped dakṣiṇāmukhaḥ ||

216.1२१६.१

न्युप्य पिण्डांस् ततस् तांस् तु प्रयतो विधिपूर्वकम् । (२१६।१)

nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam |

216.2२१६.२

तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम् ॥ (२१६।२)

teṣu darbheṣu taṃ hastaṃ nirmṛjyāllepabhāginām ||

217.1२१७.१

आचम्योदक् परावृत्य त्रिर् आयम्य शनैर् असून् । (२१७।१)

ācamyodak parāvṛtya trir āyamya śanair asūn |

217.2२१७.२

षड् ऋतूंश् च नमस्कुर्यात् पितॄन् एव च मन्त्रवत् ॥ (२१७।२)

ṣaḍ ṛtūṃś ca namaskuryāt pitṝn eva ca mantravat ||

218.1२१८.१

उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः । (२१८।१)

udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ |

218.2२१८.२

अवजिघ्रेच् च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ (२१८।२)

avajighrec ca tān piṇḍān yathānyuptān samāhitaḥ ||

219.1२१९.१

पिण्डेभ्यस् त्व् अल्पिकां मात्रां समादायानुपूर्वशः । (२१९।१)

piṇḍebhyas tv alpikāṃ mātrāṃ samādāyānupūrvaśaḥ |

219.2२१९.२

तान् एव विप्रान् आसीनान् विधिवत् पूर्वम् आशयेत् ॥ (२१९।२)

tān eva viprān āsīnān vidhivat pūrvam āśayet ||

220.1२२०.१

ध्रियमाणे तु पितरि पूर्वेषाम् एव निर्वपेत् । (२२०।१)

dhriyamāṇe tu pitari pūrveṣām eva nirvapet |

220.2२२०.२

विप्रवद् वापि तं श्राद्धे स्वकं पितरम् आशयेत् ॥ (२२०।२)

vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet ||

221.1२२१.१

पिता यस्य निवृत्तः स्याज् जीवेच्चापि पितामहः । (२२१।१)

pitā yasya nivṛttaḥ syāj jīveccāpi pitāmahaḥ |

221.2२२१.२

पितुः स नाम संकीर्त्य कीर्तयेत् प्रपितामहम् ॥ (२२१।२)

pituḥ sa nāma saṃkīrtya kīrtayet prapitāmaham ||

222.1२२२.१

पितामहो वा तच्छ्राद्धं भुञ्जीतेत्य् अब्रवीन् मनुः । (२२२।१)

pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ |

222.2२२२.२

कामं वा समनुज्ञातः स्वयम् एव समाचरेत् ॥ (२२२।२)

kāmaṃ vā samanujñātaḥ svayam eva samācaret ||

223.1२२३.१

तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् । (२२३।१)

teṣāṃ dattvā tu hasteṣu sapavitraṃ tilodakam |

223.2२२३.२

तत्पिण्डाग्रं प्रयच्छेत स्वधैषाम् अस्त्व् इति ब्रुवन् ॥ (२२३।२)

tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan ||

224.1२२४.१

पाणिभ्यां तूपसंगृह्य स्वयम् अन्नस्य वर्धितम् । (२२४।१)

pāṇibhyāṃ tūpasaṃgṛhya svayam annasya vardhitam |

224.2२२४.२

विप्रान्तिके पितॄन् ध्यायन् शनकैर् उपनिक्षिपेत् ॥ (२२४।२)

viprāntike pitṝn dhyāyan śanakair upanikṣipet ||

225.1२२५.१

उभयोर् हस्तयोर् मुक्तं यद् अन्नम् उपनीयते । (२२५।१)

ubhayor hastayor muktaṃ yad annam upanīyate |

225.2२२५.२

तद् विप्रलुम्पन्त्य् असुराः सहसा दुष्टचेतसः ॥ (२२५।२)

tad vipralumpanty asurāḥ sahasā duṣṭacetasaḥ ||

226.1२२६.१

गुणांश् च सूपशाकाद्यान् पयो दधि घृतं मधु । (२२६।१)

guṇāṃś ca sūpaśākādyān payo dadhi ghṛtaṃ madhu |

226.2२२६.२

विन्यसेत् प्रयतः पूर्वं भूमाव् एव समाहितः ॥ (२२६।२)

vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ ||

227.1२२७.१

भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च । (२२७।१)

bhakṣyaṃ bhojyaṃ ca vividhaṃ mūlāni ca phalāni ca |

227.2२२७.२

हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥ (२२७।२)

hṛdyāni caiva māṃsāni pānāni surabhīṇi ca ||

228.1२२८.१

उपनीय तु तत् सर्वं शनकैः सुसमाहितः । (२२८।१)

upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ |

228.2२२८.२

परिवेषयेत प्रयतो गुणान् सर्वान् प्रचोदयन् ॥ (२२८।२)

pariveṣayeta prayato guṇān sarvān pracodayan ||

229.1२२९.१

नास्रम् आपातयेज् जातु न कुप्येन् नानृतं वदेत् । (२२९।१)

nāsram āpātayej jātu na kupyen nānṛtaṃ vadet |

229.2२२९.२

न पादेन स्पृशेद् अन्नं न चैतद् अवधूनयेत् ॥ (२२९।२)

na pādena spṛśed annaṃ na caitad avadhūnayet ||

230.1२३०.१

अस्रं गमयति प्रेतान् कोपो ऽरीन् अनृतं शुनः । (२३०।१)

asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ |

230.2२३०.२

पादस्पर्शस् तु रक्षांसि दुष्कृतीन् अवधूननम् ॥ (२३०।२)

pādasparśas tu rakṣāṃsi duṣkṛtīn avadhūnanam ||

231.1२३१.१

यद् यद् रोचेत विप्रेभ्यस् तत् तद् दद्याद् अमत्सरः । (२३१।१)

yad yad roceta viprebhyas tat tad dadyād amatsaraḥ |

231.2२३१.२

ब्रह्मोद्याश् च कथाः कुर्यात् पितॄणाम् एतद् ईप्सितम् ॥ (२३१।२)

brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam ||

232.1२३२.१

स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि । (२३२।१)

svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi |

232.2२३२.२

आख्यानानीतिहासांश् च पुराणानि खिलानि च ॥ (२३२।२)

ākhyānānītihāsāṃś ca purāṇāni khilāni ca ||

233.1२३३.१

हर्षयेद् ब्राह्मणांस् तुष्टो भोजयेच् च शनैःशनैः । (२३३।१)

harṣayed brāhmaṇāṃs tuṣṭo bhojayec ca śanaiḥśanaiḥ |

233.2२३३.२

अन्नाद्येनासकृच्चैतान् गुणैश् च परिचोदयेत् ॥ (२३३।२)

annādyenāsakṛccaitān guṇaiś ca paricodayet ||

234.1२३४.१

व्रतस्थम् अपि दौहित्रं श्राद्धे यत्नेन भोजयेत् । (२३४।१)

vratastham api dauhitraṃ śrāddhe yatnena bhojayet |

234.2२३४.२

कुतपं चासनं दद्यात् तिलैश् च विकिरेन् महीम् ॥ (२३४।२)

kutapaṃ cāsanaṃ dadyāt tilaiś ca vikiren mahīm ||

235.1२३५.१

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः । (२३५।१)

trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ |

235.2२३५.२

त्रीणि चात्र प्रशंसन्ति शौचम् अक्रोधम् अत्वराम् ॥ (२३५।२)

trīṇi cātra praśaṃsanti śaucam akrodham atvarām ||

236.1२३६.१

अत्युष्णं सर्वम् अन्नं स्याद् भुञ्जीरंस् ते च वाग्यताः । (२३६।१)

atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ |

236.2२३६.२

न च द्विजातयो ब्रूयुर् दात्रा पृष्टा हविर्गुणान् ॥ (२३६।२)

na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān ||

237.1२३७.१

यावद् उष्मा भवत्य् अन्नं यावद् अश्नन्ति वाग्यताः । (२३७।१)

yāvad uṣmā bhavaty annaṃ yāvad aśnanti vāgyatāḥ |

237.2२३७.२

पितरस् तावद् अश्नन्ति यावन् नोक्ता हविर्गुणाः ॥ (२३७।२)

pitaras tāvad aśnanti yāvan noktā havirguṇāḥ ||

238.1२३८.१

यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः । (२३८।१)

yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ |

238.2२३८.२

सोपानत्कश् च यद् भुङ्क्ते तद् वै रक्षांसि भुञ्जते ॥ (२३८।२)

sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate ||

239.1२३९.१

चाण्डालश् च वराहश् च कुक्कुटः श्वा तथैव च । (२३९।१)

cāṇḍālaś ca varāhaś ca kukkuṭaḥ śvā tathaiva ca |

239.2२३९.२

रजस्वला च षण्ढश् च नेक्षेरन्न् अश्नतो द्विजान् ॥ (२३९।२)

rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān ||

240.1२४०.१

होमे प्रदाने भोज्ये च यद् एभिर् अभिवीक्ष्यते । (२४०।१)

home pradāne bhojye ca yad ebhir abhivīkṣyate |

240.2२४०.२

दैवे हविषि पित्र्ये वा तद् गच्छत्य् अयथातथम् ॥ (२४०।२)

daive haviṣi pitrye vā tad gacchaty ayathātatham ||

241.1२४१.१

घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः । (२४१।१)

ghrāṇena sūkaro hanti pakṣavātena kukkuṭaḥ |

241.2२४१.२

श्वा तु दृष्टिनिपातेन स्पर्शेणावरवर्णजः ॥ (२४१।२)

śvā tu dṛṣṭinipātena sparśeṇāvaravarṇajaḥ ||

242.1२४२.१

खञ्जो वा यदि वा काणो दातुः प्रेष्यो ऽपि वा भवेत् । (२४२।१)

khañjo vā yadi vā kāṇo dātuḥ preṣyo 'pi vā bhavet |

242.2२४२.२

हीनातिरिक्तगात्रो वा तम् अप्य् अपनयेत् पुनः ॥ (२४२।२)

hīnātiriktagātro vā tam apy apanayet punaḥ ||

243.1२४३.१

ब्राह्मणं भिक्षुकं वापि भोजनार्थम् उपस्थितम् । (२४३।१)

brāhmaṇaṃ bhikṣukaṃ vāpi bhojanārtham upasthitam |

243.2२४३.२

ब्राह्मणैर् अभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ (२४३।२)

brāhmaṇair abhyanujñātaḥ śaktitaḥ pratipūjayet ||

244.1२४४.१

सार्ववर्णिकम् अन्नाद्यं संनीयाप्लाव्य वारिणा । (२४४।१)

sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā |

244.2२४४.२

समुत्सृजेद् भुक्तवताम् अग्रतो विकिरन् भुवि ॥ (२४४।२)

samutsṛjed bhuktavatām agrato vikiran bhuvi ||

245.1२४५.१

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् । (२४५।१)

asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām |

245.2२४५.२

उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरश् च यः ॥ (२४५।२)

ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ ||

246.1२४६.१

उच्छेषणं भूमिगतम् अजिह्मस्याशठस्य च । (२४६।१)

uccheṣaṇaṃ bhūmigatam ajihmasyāśaṭhasya ca |

246.2२४६.२

दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ॥ (२४६।२)

dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate ||

247.1२४७.१

आ सपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु । (२४७।१)

ā sapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu |

247.2२४७.२

अदैवं भोजयेच्छ्राद्धं पिण्डम् एकं च निर्वपेत् ॥ (२४७।२)

adaivaṃ bhojayecchrāddhaṃ piṇḍam ekaṃ ca nirvapet ||

248.1२४८.१

सहपिण्डक्रियायां तु कृतायाम् अस्य धर्मतः । (२४८।१)

sahapiṇḍakriyāyāṃ tu kṛtāyām asya dharmataḥ |

248.2२४८.२

अनयैवावृता कार्यं पिण्डनिर्वपणं सुतैः ॥ (२४८।२)

anayaivāvṛtā kāryaṃ piṇḍanirvapaṇaṃ sutaiḥ ||

249.1२४९.१

श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति । (२४९।१)

śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati |

249.2२४९.२

स मूढो नरकं याति कालसूत्रम् अवाक्शिराः ॥ (२४९।२)

sa mūḍho narakaṃ yāti kālasūtram avākśirāḥ ||

250.1२५०.१

श्राद्धभुग् वृषलीतल्पं तद् अहर् यो ऽधिगच्छति । (२५०।१)

śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati |

250.2२५०.२

तस्याः पुरीषे तं मासं पितरस् तस्य शेरते ॥ (२५०।२)

tasyāḥ purīṣe taṃ māsaṃ pitaras tasya śerate ||

251.1२५१.१

पृष्ट्वा स्वदितम् इत्य् एवं तृप्तान् आचामयेत् ततः । (२५१।१)

pṛṣṭvā svaditam ity evaṃ tṛptān ācāmayet tataḥ |

251.2२५१.२

आचान्तांश् चानुजानीयाद् अभितो रम्यताम् इति ॥ (२५१।२)

ācāntāṃś cānujānīyād abhito ramyatām iti ||

252.1२५२.१

स्वधास्त्व् इत्य् एव तं ब्रूयुर् ब्राह्मणास् तदनन्तरम् । (२५२।१)

svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram |

252.2२५२.२

स्वधाकारः परा ह्य् आशीः सर्वेषु पितृकर्मसु ॥ (२५२।२)

svadhākāraḥ parā hy āśīḥ sarveṣu pitṛkarmasu ||

253.1२५३.१

ततो भुक्तवतां तेषाम् अन्नशेषं निवेदयेत् । (२५३।१)

tato bhuktavatāṃ teṣām annaśeṣaṃ nivedayet |

253.2२५३.२

यथा ब्रूयुस् तथा कुर्याद् अनुज्ञातस् ततो द्विजैः ॥ (२५३।२)

yathā brūyus tathā kuryād anujñātas tato dvijaiḥ ||

254.1२५४.१

पित्र्ये स्वदितम् इत्य् एव वाच्यं गोष्ठे तु सुशृतम् । (२५४।१)

pitrye svaditam ity eva vācyaṃ goṣṭhe tu suśṛtam |

254.2२५४.२

सम्पन्नम् इत्य् अभ्युदये दैवे रुचितम् इत्य् अपि ॥ (२५४।२)

sampannam ity abhyudaye daive rucitam ity api ||

255.1२५५.१

अपराह्णस् तथा दर्भा वास्तुसम्पादनं तिलाः । (२५५।१)

aparāhṇas tathā darbhā vāstusampādanaṃ tilāḥ |

255.2२५५.२

सृष्टिर् मृष्टिर् द्विजाश् चाग्र्याः श्राद्धकर्मसु सम्पदः ॥ (२५५।२)

sṛṣṭir mṛṣṭir dvijāś cāgryāḥ śrāddhakarmasu sampadaḥ ||

256.1२५६.१

दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः । (२५६।१)

darbhāḥ pavitraṃ pūrvāhṇo haviṣyāṇi ca sarvaśaḥ |

256.2२५६.२

पवित्रं यच् च पूर्वोक्तं विज्ञेया हव्यसम्पदः ॥ (२५६।२)

pavitraṃ yac ca pūrvoktaṃ vijñeyā havyasampadaḥ ||

257.1२५७.१

मुन्यन्नानि पयः सोमो मांसं यच् चानुपस्कृतम् । (२५७।१)

munyannāni payaḥ somo māṃsaṃ yac cānupaskṛtam |

257.2२५७.२

अक्षारलवणं चैव प्रकृत्या हविर् उच्यते ॥ (२५७।२)

akṣāralavaṇaṃ caiva prakṛtyā havir ucyate ||

258.1२५८.१

विसृज्य ब्राह्मणांस् तांस् तु नियतो वाग्यतः शुचिः । (२५८।१)

visṛjya brāhmaṇāṃs tāṃs tu niyato vāgyataḥ śuciḥ |

258.2२५८.२

दक्षिणां दिशम् आकाङ्क्षन् याचेतेमान् वरान् पितॄन् ॥ (२५८।२)

dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn ||

259.1२५९.१

दातारो नो ऽभिवर्धन्तां वेदाः संततिर् एव च । (२५९।१)

dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca |

259.2२५९.२

श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इति ॥ (२५९।२)

śraddhā ca no mā vyagamad bahudeyaṃ ca no 'stv iti ||

260.1२६०.१

एवं निर्वपणं कृत्वा पिण्डांस् तांस् तदनन्तरम् । (२६०।१)

evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃs tāṃs tadanantaram |

260.2२६०.२

गां विप्रम् अजम् अग्निं वा प्राशयेद् अप्सु वा क्षिपेत् ॥ (२६०।२)

gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet ||

261.1२६१.१

पिण्डनिर्वपणं केचित् परस्ताद् एव कुर्वते । (२६१।१)

piṇḍanirvapaṇaṃ kecit parastād eva kurvate |

261.2२६१.२

वयोभिः खादयन्त्य् अन्ये प्रक्षिपन्त्य् अनले ऽप्सु वा ॥ (२६१।२)

vayobhiḥ khādayanty anye prakṣipanty anale 'psu vā ||

262.1२६२.१

पतिव्रता धर्मपत्नी पितृपूजनतत्परा । (२६२।१)

pativratā dharmapatnī pitṛpūjanatatparā |

262.2२६२.२

मध्यमं तु ततः पिण्डम् अद्यात् सम्यक् सुतार्थिनी ॥ (२६२।२)

madhyamaṃ tu tataḥ piṇḍam adyāt samyak sutārthinī ||

263.1२६३.१

आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् । (२६३।१)

āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam |

263.2२६३.२

धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा ॥ (२६३।२)

dhanavantaṃ prajāvantaṃ sāttvikaṃ dhārmikaṃ tathā ||

264.1२६४.१

प्रक्षाल्य हस्ताव् आचाम्य ज्ञातिप्रायं प्रकल्पयेत् । (२६४।१)

prakṣālya hastāv ācāmya jñātiprāyaṃ prakalpayet |

264.2२६४.२

ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवान् अपि भोजयेत् ॥ (२६४।२)

jñātibhyaḥ satkṛtaṃ dattvā bāndhavān api bhojayet ||

265.1२६५.१

उच्छेषणं तु तत् तिष्ठेद् यावद् विप्रा विसर्जिताः । (२६५।१)

uccheṣaṇaṃ tu tat tiṣṭhed yāvad viprā visarjitāḥ |

265.2२६५.२

ततो गृहबलिं कुर्याद् इति धर्मो व्यवस्थितः ॥ (२६५।२)

tato gṛhabaliṃ kuryād iti dharmo vyavasthitaḥ ||

266.1२६६.१

हविर् यच् चिररात्राय यच् चानन्त्याय कल्पते । (२६६।१)

havir yac cirarātrāya yac cānantyāya kalpate |

266.2२६६.२

पितृभ्यो विधिवद् दत्तं तत् प्रवक्ष्याम्य् अशेषतः ॥ (२६६।२)

pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ ||

267.1२६७.१

तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा । (२६७।१)

tilair vrīhiyavair māṣair adbhir mūlaphalena vā |

267.2२६७.२

दत्तेन मासं तृप्यन्ति विधिवत् पितरो नॄणाम् ॥ (२६७।२)

dattena māsaṃ tṛpyanti vidhivat pitaro nṝṇām ||

268.1२६८.१

द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । (२६८।१)

dvau māsau matsyamāṃsena trīn māsān hāriṇena tu |

268.2२६८.२

औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ (२६८।२)

aurabhreṇātha caturaḥ śākunenātha pañca vai ||

269.1२६९.१

षण्मासांश् छागमांसेन पार्षतेन च सप्त वै । (२६९।१)

ṣaṇmāsāṃś chāgamāṃsena pārṣatena ca sapta vai |

269.2२६९.२

अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ (२६९।२)

aṣṭāveṇasya māṃsena rauraveṇa navaiva tu ||

270.1२७०.१

दशमासांस् तु तृप्यन्ति वराहमहिषामिषैः । (२७०।१)

daśamāsāṃs tu tṛpyanti varāhamahiṣāmiṣaiḥ |

270.2२७०.२

शशकूर्मयोस् तु मांसेन मासान् एकादशैव तु ॥ (२७०।२)

śaśakūrmayos tu māṃsena māsān ekādaśaiva tu ||

271.1२७१.१

संवत्सरं तु गव्येन पयसा पायसेन च । (२७१।१)

saṃvatsaraṃ tu gavyena payasā pāyasena ca |

271.2२७१.२

वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी ॥ (२७१।२)

vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī ||

272.1२७२.१

कालशाकं महाशल्काः खड्गलोहामिषं मधु । (२७२।१)

kālaśākaṃ mahāśalkāḥ khaḍgalohāmiṣaṃ madhu |

272.2२७२.२

आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ॥ (२७२।२)

ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ ||

273.1२७३.१

यत् किंचिन् मधुना मिश्रं प्रदद्यात् तु त्रयोदशीम् । (२७३।१)

yat kiṃcin madhunā miśraṃ pradadyāt tu trayodaśīm |

273.2२७३.२

तद् अप्य् अक्षयम् एव स्याद् वर्षासु च मघासु च ॥ (२७३।२)

tad apy akṣayam eva syād varṣāsu ca maghāsu ca ||

274.1२७४.१

अपि नः स कुले भूयाद् यो नो दद्यात् त्रयोदशीम् । (२७४।१)

api naḥ sa kule bhūyād yo no dadyāt trayodaśīm |

274.2२७४.२

पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च ॥ (२७४।२)

pāyasaṃ madhusarpirbhyāṃ prākchāye kuñjarasya ca ||

275.1२७५.१

यद् यद् ददाति विधिवत् सम्यक् श्रद्धासमन्वितः । (२७५।१)

yad yad dadāti vidhivat samyak śraddhāsamanvitaḥ |

275.2२७५.२

तत् तत् पितॄणां भवति परत्रानन्तम् अक्षयम् ॥ (२७५।२)

tat tat pitṝṇāṃ bhavati paratrānantam akṣayam ||

276.1२७६.१

कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । (२७६।१)

kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm |

276.2२७६.२

श्राद्धे प्रशस्तास् तिथयो यथैता न तथाइतराः ॥ (२७६।२)

śrāddhe praśastās tithayo yathaitā na tathāitarāḥ ||

277.1२७७.१

युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् समश्नुते । (२७७।१)

yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute |

277.2२७७.२

अयुक्षु तु पितॄन् सर्वान् प्रजां प्राप्नोति पुष्कलाम् ॥ (२७७।२)

ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām ||

278.1२७८.१

यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते । (२७८।१)

yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate |

278.2२७८.२

तथा श्राद्धस्य पूर्वाह्णाद् अपराह्णो विशिष्यते ॥ (२७८।२)

tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate ||

279.1२७९.१

प्राचीनावीतिना सम्यग् अपसव्यम् अतन्द्रिणा । (२७९।१)

prācīnāvītinā samyag apasavyam atandriṇā |

279.2२७९.२

पित्र्यम् आ निधनात् कार्यं विधिवद् दर्भपाणिना ॥ (२७९।२)

pitryam ā nidhanāt kāryaṃ vidhivad darbhapāṇinā ||

280.1२८०.१

रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा । (२८०।१)

rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā |

280.2२८०.२

संध्ययोर् उभयोश् चैव सूर्ये चैवाचिरोदिते ॥ (२८०।२)

saṃdhyayor ubhayoś caiva sūrye caivācirodite ||

281.1२८१.१

अनेन विधिना श्राद्धं त्रिर् अब्दस्येह निर्वपेत् । (२८१।१)

anena vidhinā śrāddhaṃ trir abdasyeha nirvapet |

281.2२८१.२

हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकम् अन्वहम् ॥ (२८१।२)

hemantagrīṣmavarṣāsu pāñcayajñikam anvaham ||

282.1२८२.१

न पैतृयज्ञीयो होमो लौकिके ऽग्नौ विधीयते । (२८२।१)

na paitṛyajñīyo homo laukike 'gnau vidhīyate |

282.2२८२.२

न दर्शेन विना श्राद्धम् आहिताग्नेर् द्विजन्मनः ॥ (२८२।२)

na darśena vinā śrāddham āhitāgner dvijanmanaḥ ||

283.1२८३.१

यद् एव तर्पयत्य् अद्भिः पितॄन् स्नात्वा द्विजोत्तमः । (२८३।१)

yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ |

283.2२८३.२

तेनैव कृत्स्नम् आप्नोति पितृयज्ञक्रियाफलम् ॥ (२८३।२)

tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam ||

284.1२८४.१

वसून् वदन्ति तु पितॄन् रुद्रांश् चैव पितामहान् । (२८४।१)

vasūn vadanti tu pitṝn rudrāṃś caiva pitāmahān |

284.2२८४.२

प्रपितामहांस् तथादित्यान् श्रुतिर् एषा सनातनी ॥ (२८४।२)

prapitāmahāṃs tathādityān śrutir eṣā sanātanī ||

285.1२८५.१

विघसाशी भवेन् नित्यं नित्यं वामृतभोजनः । (२८५।१)

vighasāśī bhaven nityaṃ nityaṃ vāmṛtabhojanaḥ |

285.2२८५.२

विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम् ॥ (२८५।२)

vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam ||

286.1२८६.१

एतद् वो ऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् । (२८६।१)

etad vo 'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam |

286.2२८६.२

द्विजातिमुख्यवृत्तीनां विधानं श्रूयताम् इति ॥ (२८६।२)

dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti ||

Data courtesy of The Digital Corpus of Sanskrit.

ManuS, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit