मनुस्मृतिManusmṛti

ManuS, 5

5 of 12 · 338 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथोदितान् । (१।१)

śrutvaitān ṛṣayo dharmān snātakasya yathoditān |

1.2१.२

इदम् ऊचुर् महात्मानम् अनलप्रभवं भृगुम् ॥ (१।२)

idam ūcur mahātmānam analaprabhavaṃ bhṛgum ||

2.1२.१

एवं यथोक्तं विप्राणां स्वधर्मम् अनुतिष्ठताम् । (२।१)

evaṃ yathoktaṃ viprāṇāṃ svadharmam anutiṣṭhatām |

2.2२.२

कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥ (२।२)

kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ prabho ||

3.1३.१

स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः । (३।१)

sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ |

3.2३.२

श्रूयतां येन दोषेण मृत्युर् विप्रान् जिघांसति ॥ (३।२)

śrūyatāṃ yena doṣeṇa mṛtyur viprān jighāṃsati ||

4.1४.१

अनभ्यासेन वेदानाम् आचारस्य च वर्जनात् । (४।१)

anabhyāsena vedānām ācārasya ca varjanāt |

4.2४.२

आलस्याद् अन्नदोषाच् च मृत्युर् विप्राञ् जिघांसति ॥ (४।२)

ālasyād annadoṣāc ca mṛtyur viprāñ jighāṃsati ||

5.1५.१

उनेअतब्ले ड़ोओद्लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च । (५।१)

uneatable foodlaśunaṃ gṛñjanaṃ caiva palāṇḍuṃ kavakāni ca |

5.2५.२

अभक्ष्याणि द्विजातीनाम् अमेध्यप्रभवानि च ॥ (५।२)

abhakṣyāṇi dvijātīnām amedhyaprabhavāni ca ||

6.1६.१

लोहितान् वृक्षनिर्यासान् वृश्चनप्रभवांस् तथा । (६।१)

lohitān vṛkṣaniryāsān vṛścanaprabhavāṃs tathā |

6.2६.२

शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ॥ (६।२)

śeluṃ gavyaṃ ca peyūṣaṃ prayatnena vivarjayet ||

7.1७.१

वृथा कृसरसंयावं पायसापूपम् एव च । (७।१)

vṛthā kṛsarasaṃyāvaṃ pāyasāpūpam eva ca |

7.2७.२

अनुपाकृतमांसानि देवान्नानि हवींषि च ॥ (७।२)

anupākṛtamāṃsāni devānnāni havīṃṣi ca ||

8.1८.१

अनिर्दशाया गोः क्षीरम् औष्ट्रम् ऐकशफं तथा । (८।१)

anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā |

8.2८.२

आविकं संधिनीक्षीरं विवत्सायाश् च गोः पयः ॥ (८।२)

āvikaṃ saṃdhinīkṣīraṃ vivatsāyāś ca goḥ payaḥ ||

9.1९.१

आरण्यानां च सर्वेषां मृगाणां माहिषं विना । (९।१)

āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā |

9.2९.२

स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ (९।२)

strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi ||

10.1१०.१

दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसम्भवम् । (१०।१)

dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhisambhavam |

10.2१०.२

यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥ (१०।२)

yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ ||

11.1११.१

क्रव्यादाञ् शकुनान् सर्वान् तथा ग्रामनिवासिनः । (११।१)

kravyādāñ śakunān sarvān tathā grāmanivāsinaḥ |

11.2११.२

अनिर्दिष्टांश् चैकशफांष् टिट्टिभं च विवर्जयेत् ॥ (११।२)

anirdiṣṭāṃś caikaśaphāṃṣ ṭiṭṭibhaṃ ca vivarjayet ||

12.1१२.१

कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् । (१२।१)

kalaviṅkaṃ plavaṃ haṃsaṃ cakrāhvaṃ grāmakukkuṭam |

12.2१२.२

सारसं रज्जुवालं च दात्यूहं शुकसारिके ॥ (१२।२)

sārasaṃ rajjuvālaṃ ca dātyūhaṃ śukasārike ||

13.1१३.१

प्रतुदाञ् जालपादांश् च कोयष्टिनखविष्किरान् । (१३।१)

pratudāñ jālapādāṃś ca koyaṣṭinakhaviṣkirān |

13.2१३.२

निमज्जतश् च मत्स्यादान् सौनं वल्लूरम् एव च ॥ (१३।२)

nimajjataś ca matsyādān saunaṃ vallūram eva ca ||

14.1१४.१

बकं चैव बलाकां च काकोलं खञ्जरीटकम् । (१४।१)

bakaṃ caiva balākāṃ ca kākolaṃ khañjarīṭakam |

14.2१४.२

मत्स्यादान् विड्वराहांश् च मत्स्यान् एव च सर्वशः ॥ (१४।२)

matsyādān viḍvarāhāṃś ca matsyān eva ca sarvaśaḥ ||

15.1१५.१

ड़िस्ह् अस् चर्निवोरोउस् अनिमल्यो यस्य मांसम् अश्नाति स तन्मांसाद उच्यते । (१५।१)

fish as carnivorous animalyo yasya māṃsam aśnāti sa tanmāṃsāda ucyate |

15.2१५.२

मत्स्यादः सर्वमांसादस् तस्मान् मत्स्यान् विवर्जयेत् ॥ (१५।२)

matsyādaḥ sarvamāṃsādas tasmān matsyān vivarjayet ||

16.1१६.१

पाठीनरोहिताव् आद्यौ नियुक्तौ हव्यकव्ययोः । (१६।१)

pāṭhīnarohitāv ādyau niyuktau havyakavyayoḥ |

16.2१६.२

राजीवान् सिंहतुण्डांश् च सशल्कांश् चैव सर्वशः ॥ (१६।२)

rājīvān siṃhatuṇḍāṃś ca saśalkāṃś caiva sarvaśaḥ ||

17.1१७.१

न भक्षयेद् एकचरान् अज्ञातांश् च मृगद्विजान् । (१७।१)

na bhakṣayed ekacarān ajñātāṃś ca mṛgadvijān |

17.2१७.२

भक्ष्येष्व् अपि समुद्दिष्टान् सर्वान् पञ्चनखांस् तथा ॥ (१७।२)

bhakṣyeṣv api samuddiṣṭān sarvān pañcanakhāṃs tathā ||

18.1१८.१

श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस् तथा । (१८।१)

śvāvidhaṃ śalyakaṃ godhāṃ khaḍgakūrmaśaśāṃs tathā |

18.2१८.२

भक्ष्यान् पञ्चनखेष्व् आहुर् अनुष्ट्रांश् चैकतोदतः ॥ (१८।२)

bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś caikatodataḥ ||

19.1१९.१

छत्त्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । (१९।१)

chattrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam |

19.2१९.२

पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ (१९।२)

palāṇḍuṃ gṛñjanaṃ caiva matyā jagdhvā pated dvijaḥ ||

20.1२०.१

अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सांतपनं चरेत् । (२०।१)

amatyaitāni ṣaḍ jagdhvā kṛcchraṃ sāṃtapanaṃ caret |

20.2२०.२

यतिचान्द्रायणं वापि शेषेषूपवसेद् अहः ॥ (२०।२)

yaticāndrāyaṇaṃ vāpi śeṣeṣūpavased ahaḥ ||

21.1२१.१

संवत्सरस्यैकम् अपि चरेत् कृच्छ्रं द्विजोत्तमः । (२१।१)

saṃvatsarasyaikam api caret kṛcchraṃ dvijottamaḥ |

21.2२१.२

किल्लिन्ग् अनिमल्स्: ड़ोर् सच्रिड़िचे अन्द् सुब्सिस्तेन्चेअज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ (२१।२)

killing animals: for sacrifice and subsistenceajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ ||

22.1२२.१

यज्ञार्थं ब्राह्मणैर् वध्याः प्रशस्ता मृगपक्षिणः । (२२।१)

yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛgapakṣiṇaḥ |

22.2२२.२

भृत्यानां चैव वृत्त्यर्थम् अगस्त्यो ह्य् आचरत् पुरा ॥ (२२।२)

bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā ||

23.1२३.१

बभूवुर् हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् । (२३।१)

babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām |

23.2२३.२

पुराणेष्व् अपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ (२३।२)

purāṇeṣv api yajñeṣu brahmakṣatrasaveṣu ca ||

24.1२४.१

यत् किंचित् स्नेहसंयुक्तं भक्ष्यं भोज्यम् अगर्हितम् । (२४।१)

yat kiṃcit snehasaṃyuktaṃ bhakṣyaṃ bhojyam agarhitam |

24.2२४.२

तत् पर्युषितम् अप्य् आद्यं हविःशेषं च यद् भवेत् ॥ (२४।२)

tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet ||

25.1२५.१

चिरस्थितम् अपि त्व् आद्यम् अस्नेहाक्तं द्विजातिभिः । (२५।१)

cirasthitam api tv ādyam asnehāktaṃ dvijātibhiḥ |

25.2२५.२

यवगोधूमजं सर्वं पयसश् चैव विक्रिया ॥ (२५।२)

yavagodhūmajaṃ sarvaṃ payasaś caiva vikriyā ||

26.1२६.१

एतद् उक्तं द्विजातीनां भक्ष्याभक्ष्यम् अशेषतः । (२६।१)

etad uktaṃ dvijātīnāṃ bhakṣyābhakṣyam aśeṣataḥ |

26.2२६.२

रुलेस् ड़ोर् एअतिन्ग् मेअत्मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥ (२६।२)

rules for eating meatmāṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane ||

27.1२७.१

प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया । (२७।१)

prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā |

27.2२७.२

यथाविधि नियुक्तस् तु प्राणानाम् एव चात्यये ॥ (२७।२)

yathāvidhi niyuktas tu prāṇānām eva cātyaye ||

28.1२८.१

प्राणस्यान्नम् इदं सर्वं प्रजापतिर् अकल्पयत् । (२८।१)

prāṇasyānnam idaṃ sarvaṃ prajāpatir akalpayat |

28.2२८.२

स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ (२८।२)

sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam ||

29.1२९.१

चराणाम् अन्नम् अचरा दंष्ट्रिणाम् अप्य् अदंष्ट्रिणः । (२९।१)

carāṇām annam acarā daṃṣṭriṇām apy adaṃṣṭriṇaḥ |

29.2२९.२

अहस्ताश् च सहस्तानां शूराणां चैव भीरवः ॥ (२९।२)

ahastāś ca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ ||

30.1३०.१

नात्ता दुष्यत्य् अदन्न् आद्यान् प्राणिनो ऽहन्य् अहन्य् अपि । (३०।१)

nāttā duṣyaty adann ādyān prāṇino 'hany ahany api |

30.2३०.२

धात्रैव सृष्टा ह्य् आद्याश् च प्राणिनो ऽत्तार एव च ॥ (३०।२)

dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca ||

31.1३१.१

यज्ञाय जग्धिर् मांसस्येत्य् एष दैवो विधिः स्मृतः । (३१।१)

yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ |

31.2३१.२

अतो ऽन्यथा प्रवृत्तिस् तु राक्षसो विधिर् उच्यते ॥ (३१।२)

ato 'nyathā pravṛttis tu rākṣaso vidhir ucyate ||

32.1३२.१

क्रीत्वा स्वयं वाप्य् उत्पाद्य परोपकृतम् एव वा । (३२।१)

krītvā svayaṃ vāpy utpādya paropakṛtam eva vā |

32.2३२.२

देवान् पितॄंश् चार्चयित्वा खादन् मांसं न दुष्यति ॥ (३२।२)

devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati ||

33.1३३.१

नाद्याद् अविधिना मांसं विधिज्ञो ऽनापदि द्विजः । (३३।१)

nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ |

33.2३३.२

जग्ध्वा ह्य् अविधिना मांसं प्रेतस् तैर् अद्यते ऽवशः ॥ (३३।२)

jagdhvā hy avidhinā māṃsaṃ pretas tair adyate 'vaśaḥ ||

34.1३४.१

न तादृशं भवत्य् एनो मृगहन्तुर् धनार्थिनः । (३४।१)

na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ |

34.2३४.२

यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ (३४।२)

yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ ||

35.1३५.१

नियुक्तस् तु यथान्यायं यो मांसं नात्ति मानवः । (३५।१)

niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ |

35.2३५.२

स प्रेत्य पशुतां याति सम्भवान् एकविंशतिम् ॥ (३५।२)

sa pretya paśutāṃ yāti sambhavān ekaviṃśatim ||

36.1३६.१

असंस्कृतान् पशून् मन्त्रैर् नाद्याद् विप्रः कदाचन । (३६।१)

asaṃskṛtān paśūn mantrair nādyād vipraḥ kadācana |

36.2३६.२

मन्त्रैस् तु संस्कृतान् अद्याच्छाश्वतं विधिम् आस्थितः ॥ (३६।२)

mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ ||

37.1३७.१

कुर्याद् घृतपशुं सङ्गे कुर्यात् पिष्टपशुं तथा । (३७।१)

kuryād ghṛtapaśuṃ saṅge kuryāt piṣṭapaśuṃ tathā |

37.2३७.२

न त्व् एव तु वृथा हन्तुं पशुम् इच्छेत् कदाचन ॥ (३७।२)

na tv eva tu vṛthā hantuṃ paśum icchet kadācana ||

38.1३८.१

यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् । (३८।१)

yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam |

38.2३८.२

वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ (३८।२)

vṛthāpaśughnaḥ prāpnoti pretya janmani janmani ||

39.1३९.१

यज्ञार्थं पशवः सृष्टाः स्वयम् एव स्वयंभुवा । (३९।१)

yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā |

39.2३९.२

यज्ञो ऽस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधो ऽवधः ॥ (३९।२)

yajño 'sya bhūtyai sarvasya tasmād yajñe vadho 'vadhaḥ ||

40.1४०.१

ओषध्यः पशवो वृक्षास् तिर्यञ्चः पक्षिणस् तथा । (४०।१)

oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā |

40.2४०.२

यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्य् उत्सृतीः पुनः ॥ (४०।२)

yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvanty utsṛtīḥ punaḥ ||

41.1४१.१

मधुपर्के च यज्ञे च पितृदैवतकर्मणि । (४१।१)

madhuparke ca yajñe ca pitṛdaivatakarmaṇi |

41.2४१.२

अत्रैव पशवो हिंस्या नान्यत्रेत्य् अब्रवीन् मनुः ॥ (४१।२)

atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ ||

42.1४२.१

एष्व् अर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः । (४२।१)

eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ |

42.2४२.२

आत्मानं च पशुं चैव गमयत्य् उत्तमां गतिम् ॥ (४२।२)

ātmānaṃ ca paśuṃ caiva gamayaty uttamāṃ gatim ||

43.1४३.१

गृहे गुराव् अरण्ये वा निवसन्न् आत्मवान् द्विजः । (४३।१)

gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ |

43.2४३.२

नावेदविहितां हिंसाम् आपद्य् अपि समाचरेत् ॥ (४३।२)

nāvedavihitāṃ hiṃsām āpady api samācaret ||

44.1४४.१

या वेदविहिता हिंसा नियतास्मिंश् चराचरे । (४४।१)

yā vedavihitā hiṃsā niyatāsmiṃś carācare |

44.2४४.२

अहिंसाम् एव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ॥ (४४।२)

ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau ||

45.1४५.१

यो ऽहिंसकानि भूतानि हिनस्त्य् आत्मसुखेच्छया । (४५।१)

yo 'hiṃsakāni bhūtāni hinasty ātmasukhecchayā |

45.2४५.२

स जीवंश् च मृतश् चैव न क्वचित् सुखम् एधते ॥ (४५।२)

sa jīvaṃś ca mṛtaś caiva na kvacit sukham edhate ||

46.1४६.१

यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति । (४६।१)

yo bandhanavadhakleśān prāṇināṃ na cikīrṣati |

46.2४६.२

स सर्वस्य हितप्रेप्सुः सुखम् अत्यन्तम् अश्नुते ॥ (४६।२)

sa sarvasya hitaprepsuḥ sukham atyantam aśnute ||

47.1४७.१

यद् ध्यायति यत् कुरुते रतिं बध्नाति यत्र च । (४७।१)

yad dhyāyati yat kurute ratiṃ badhnāti yatra ca |

47.2४७.२

तद् अवाप्नोत्य् अयत्नेन यो हिनस्ति न किंचन ॥ (४७।२)

tad avāpnoty ayatnena yo hinasti na kiṃcana ||

48.1४८.१

नाकृत्वा प्राणिनां हिंसां मांसम् उत्पद्यते क्वचित् । (४८।१)

nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit |

48.2४८.२

न च प्राणिवधः स्वर्ग्यस् तस्मान्मांसं विवर्जयेत् ॥ (४८।२)

na ca prāṇivadhaḥ svargyas tasmānmāṃsaṃ vivarjayet ||

49.1४९.१

समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् । (४९।१)

samutpattiṃ ca māṃsasya vadhabandhau ca dehinām |

49.2४९.२

प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ (४९।२)

prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt ||

50.1५०.१

न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । (५०।१)

na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat |

50.2५०.२

न लोके प्रियतां याति व्याधिभिश् च न पीड्यते ॥ (५०।२)

na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate ||

51.1५१.१

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । (५१।१)

anumantā viśasitā nihantā krayavikrayī |

51.2५१.२

संस्कर्ता चोपहर्ता च खादकश् चेति घातकाः ॥ (५१।२)

saṃskartā copahartā ca khādakaś ceti ghātakāḥ ||

52.1५२.१

स्वमांसं परमांसेन यो वर्धयितुम् इच्छति । (५२।१)

svamāṃsaṃ paramāṃsena yo vardhayitum icchati |

52.2५२.२

अनभ्यर्च्य पितॄन् देवांस् ततो ऽन्यो नास्त्य् अपुण्यकृत् ॥ (५२।२)

anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt ||

53.1५३.१

वर्षे वर्षे ऽश्वमेधेन यो यजेत शतं समाः । (५३।१)

varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ |

53.2५३.२

मांसानि च न खादेद् यस् तयोः पुण्यफलं समम् ॥ (५३।२)

māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam ||

54.1५४.१

फलमूलाशनैर् मेध्यैर् मुन्यन्नानां च भोजनैः । (५४।१)

phalamūlāśanair medhyair munyannānāṃ ca bhojanaiḥ |

54.2५४.२

न तत् फलम् अवाप्नोति यन् मांसपरिवर्जनात् ॥ (५४।२)

na tat phalam avāpnoti yan māṃsaparivarjanāt ||

55.1५५.१

मां स भक्षयितामुत्र यस्य मांसम् इहाद्म्य् अहम् । (५५।१)

māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham |

55.2५५.२

एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ (५५।२)

etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ ||

56.1५६.१

न मांसभक्षणे दोषो न मद्ये न च मैथुने । (५६।१)

na māṃsabhakṣaṇe doṣo na madye na ca maithune |

56.2५६.२

प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ॥ (५६।२)

pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā ||

57.1५७.१

शुद्धि:: प्रेतशुद्धि, सूतकप्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च । (५७।१)

śuddhi:: pretaśuddhi, sūtakapretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca |

57.2५७.२

चतुर्णाम् अपि वर्णानां यथावद् अनुपूर्वशः ॥ (५७।२)

caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ ||

58.1५८.१

दन्तजाते ऽनुजाते च कृतचूडे च संस्थिते । (५८।१)

dantajāte 'nujāte ca kṛtacūḍe ca saṃsthite |

58.2५८.२

अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥ (५८।२)

aśuddhā bāndhavāḥ sarve sūtake ca tathocyate ||

59.1५९.१

दशाहं शावम् आशौचं सपिण्डेषु विधीयते । (५९।१)

daśāhaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate |

59.2५९.२

अर्वाक् संचयनाद् अस्थ्नां त्र्यहम् एकाहम् एव वा ॥ (५९।२)

arvāk saṃcayanād asthnāṃ tryaham ekāham eva vā ||

60.1६०.१

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । (६०।१)

sapiṇḍatā tu puruṣe saptame vinivartate |

60.2६०.२

समानोदकभावस् तु जन्मनाम्नोर् अवेदने ॥ (६०।२)

samānodakabhāvas tu janmanāmnor avedane ||

61.1६१.१

यथेदं शावम् आशौचं सपिण्डेषु विधीयते । (६१।१)

yathedaṃ śāvam āśaucaṃ sapiṇḍeṣu vidhīyate |

61.2६१.२

जनने ऽप्य् एवम् एव स्यान् निपुणं शुद्धिम् इच्छताम् ॥ (६१।२)

janane 'py evam eva syān nipuṇaṃ śuddhim icchatām ||

62.1६२.१

सर्वेषां शावम् आशौचं मातापित्रोस् तु सूतकम् । (६२।१)

sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam |

62.2६२.२

सूतकं मातुर् एव स्याद् उपस्पृश्य पिता शुचिः ॥ (६२।२)

sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ ||

63.1६३.१

निरस्य तु पुमान् शुक्रम् उपस्पृश्यैव शुध्यति । (६३।१)

nirasya tu pumān śukram upaspṛśyaiva śudhyati |

63.2६३.२

बैजिकाद् अभिसम्बन्धाद् अनुरुन्ध्याद् अघं त्र्यहम् ॥ (६३।२)

baijikād abhisambandhād anurundhyād aghaṃ tryaham ||

64.1६४.१

अह्ना चैकेन रात्र्या च त्रिरात्रैर् एव च त्रिभिः । (६४।१)

ahnā caikena rātryā ca trirātrair eva ca tribhiḥ |

64.2६४.२

शवस्पृशो विशुध्यन्ति त्र्यहाद् उदकदायिनः ॥ (६४।२)

śavaspṛśo viśudhyanti tryahād udakadāyinaḥ ||

65.1६५.१

गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समाचरन् । (६५।१)

guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran |

65.2६५.२

प्रेतहारैः समं तत्र दशरात्रेण शुध्यति ॥ (६५।२)

pretahāraiḥ samaṃ tatra daśarātreṇa śudhyati ||

66.1६६.१

रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुध्यति । (६६।१)

rātribhir māsatulyābhir garbhasrāve viśudhyati |

66.2६६.२

रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ॥ (६६।२)

rajasy uparate sādhvī snānena strī rajasvalā ||

67.1६७.१

नॄणाम् अकृतचूडानां विशुद्धिर् नैशिकी स्मृता । (६७।१)

nṝṇām akṛtacūḍānāṃ viśuddhir naiśikī smṛtā |

67.2६७.२

निर्वृत्तचूडकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥ (६७।२)

nirvṛttacūḍakānāṃ tu trirātrāc chuddhir iṣyate ||

68.1६८.१

ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः । (६८।१)

ūnadvivārṣikaṃ pretaṃ nidadhyur bāndhavā bahiḥ |

68.2६८.२

अलंकृत्य शुचौ भूमाव् अस्थिसंचयनाद् ऋते ॥ (६८।२)

alaṃkṛtya śucau bhūmāv asthisaṃcayanād ṛte ||

69.1६९.१

नास्य कार्यो ऽग्निसंस्कारो न च कार्योदकक्रिया । (६९।१)

nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā |

69.2६९.२

अरण्ये काष्ठवत् त्यक्त्वा क्षपेयुस् त्र्यहम् एव तु ॥ (६९।२)

araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu ||

70.1७०.१

नात्रिवर्षस्य कर्तव्या बान्धवैर् उदकक्रिया । (७०।१)

nātrivarṣasya kartavyā bāndhavair udakakriyā |

70.2७०.२

जातदन्तस्य वा कुर्युर् नाम्नि वापि कृते सति ॥ (७०।२)

jātadantasya vā kuryur nāmni vāpi kṛte sati ||

71.1७१.१

सब्रह्मचारिण्य् एकाहम् अतीते क्षपणम् स्मृतम् । (७१।१)

sabrahmacāriṇy ekāham atīte kṣapaṇam smṛtam |

71.2७१.२

जन्मन्य् एकोदकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥ (७१।२)

janmany ekodakānāṃ tu trirātrāc chuddhir iṣyate ||

72.1७२.१

स्त्रीणाम् असंस्कृतानां तु त्र्यहाच्छुध्यन्ति बान्धवाः । (७२।१)

strīṇām asaṃskṛtānāṃ tu tryahācchudhyanti bāndhavāḥ |

72.2७२.२

यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥ (७२।२)

yathoktenaiva kalpena śudhyanti tu sanābhayaḥ ||

73.1७३.१

अक्षारलवणान्नाः स्युर् निमज्जेयुश् च ते त्र्यहम् । (७३।१)

akṣāralavaṇānnāḥ syur nimajjeyuś ca te tryaham |

73.2७३.२

मांसाशनं च नाश्नीयुः शयीरंश् च पृथक् क्षितौ ॥ (७३।२)

māṃsāśanaṃ ca nāśnīyuḥ śayīraṃś ca pṛthak kṣitau ||

74.1७४.१

संनिधाव् एष वै कल्पः शावाशौचस्य कीर्तितः । (७४।१)

saṃnidhāv eṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ |

74.2७४.२

असंनिधाव् अयं ज्ञेयो विधिः सम्बन्धिबान्धवैः ॥ (७४।२)

asaṃnidhāv ayaṃ jñeyo vidhiḥ sambandhibāndhavaiḥ ||

75.1७५.१

विगतं तु विदेशस्थं शृणुयाद् यो ह्य् अनिर्दशम् । (७५।१)

vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam |

75.2७५.२

यच्छेषं दशरात्रस्य तावद् एवाशुचिर् भवेत् ॥ (७५।२)

yaccheṣaṃ daśarātrasya tāvad evāśucir bhavet ||

76.1७६.१

अतिक्रान्ते दशाहे च त्रिरात्रम् अशुचिर् भवेत् । (७६।१)

atikrānte daśāhe ca trirātram aśucir bhavet |

76.2७६.२

संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥ (७६।२)

saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati ||

77.1७७.१

निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । (७७।१)

nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca |

77.2७७.२

सवासा जलम् आप्लुत्य शुद्धो भवति मानवः ॥ (७७।२)

savāsā jalam āplutya śuddho bhavati mānavaḥ ||

78.1७८.१

बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते । (७८।१)

bāle deśāntarasthe ca pṛthakpiṇḍe ca saṃsthite |

78.2७८.२

सवासा जलम् आप्लुत्य सद्य एव विशुध्यति ॥ (७८।२)

savāsā jalam āplutya sadya eva viśudhyati ||

79.1७९.१

अन्तर्दशाहे स्यातां चेत् पुनर् मरणजन्मनी । (७९।१)

antardaśāhe syātāṃ cet punar maraṇajanmanī |

79.2७९.२

तावत् स्याद् अशुचिर् विप्रो यावत् तत् स्याद् अनिर्दशम् ॥ (७९।२)

tāvat syād aśucir vipro yāvat tat syād anirdaśam ||

80.1८०.१

त्रिरात्रम् आहुर् आशौचम् आचार्ये संस्थिते सति । (८०।१)

trirātram āhur āśaucam ācārye saṃsthite sati |

80.2८०.२

तस्य पुत्रे च पत्न्यां च दिवारात्रम् इति स्थितिः ॥ (८०।२)

tasya putre ca patnyāṃ ca divārātram iti sthitiḥ ||

81.1८१.१

श्रोत्रिये तूपसंपन्ने त्रिरात्रम् अशुचिर् भवेत् । (८१।१)

śrotriye tūpasaṃpanne trirātram aśucir bhavet |

81.2८१.२

मातुले पक्षिणीं रात्रिं शिष्यऋत्विग्बान्धवेषु च ॥ (८१।२)

mātule pakṣiṇīṃ rātriṃ śiṣyaṛtvigbāndhaveṣu ca ||

82.1८२.१

प्रेते राजनि सज्योतिर् यस्य स्याद् विषये स्थितः । (८२।१)

prete rājani sajyotir yasya syād viṣaye sthitaḥ |

82.2८२.२

अश्रोत्रिये त्व् अहः कृत्स्नम् अनूचाने तथा गुरौ ॥ (८२।२)

aśrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau ||

83.1८३.१

शुध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः । (८३।१)

śudhyed vipro daśāhena dvādaśāhena bhūmipaḥ |

83.2८३.२

वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ (८३।२)

vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati ||

84.1८४.१

न वर्धयेद् अघाहानि प्रत्यूहेन् नाग्निषु क्रियाः । (८४।१)

na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ |

84.2८४.२

न च तत्कर्म कुर्वाणः सनाभ्यो ऽप्य् अशुचिर् भवेत् ॥ (८४।२)

na ca tatkarma kurvāṇaḥ sanābhyo 'py aśucir bhavet ||

85.1८५.१

दिवाकीर्तिम् उदक्यां च पतितं सूतिकां तथा । (८५।१)

divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā |

85.2८५.२

शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ (८५।२)

śavaṃ tatspṛṣṭinaṃ caiva spṛṣṭvā snānena śudhyati ||

86.1८६.१

आचम्य प्रयतो नित्यं जपेद् अशुचिदर्शने । (८६।१)

ācamya prayato nityaṃ japed aśucidarśane |

86.2८६.२

सौरान् मन्त्रान् यथोत्साहं पावमानीश् च शक्तितः ॥ (८६।२)

saurān mantrān yathotsāhaṃ pāvamānīś ca śaktitaḥ ||

87.1८७.१

नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति । (८७।१)

nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati |

87.2८७.२

आचम्यैव तु निःस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा ॥ (८७।२)

ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā ||

88.1८८.१

आदिष्टी नोदकं कुर्याद् आ व्रतस्य समापनात् । (८८।१)

ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt |

88.2८८.२

समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ (८८।२)

samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati ||

89.1८९.१

वृथासंकरजातानां प्रव्रज्यासु च तिष्ठताम् । (८९।१)

vṛthāsaṃkarajātānāṃ pravrajyāsu ca tiṣṭhatām |

89.2८९.२

आत्मनस् त्यागिनां चैव निवर्तेतोदकक्रिया ॥ (८९।२)

ātmanas tyāgināṃ caiva nivartetodakakriyā ||

90.1९०.१

पाषण्डम् आश्रितानां च चरन्तीनां च कामतः । (९०।१)

pāṣaṇḍam āśritānāṃ ca carantīnāṃ ca kāmataḥ |

90.2९०.२

गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ॥ (९०।२)

garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām ||

91.1९१.१

आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम् । (९१।१)

ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum |

91.2९१.२

निर्हृत्य तु व्रती प्रेतान् न व्रतेन वियुज्यते ॥ (९१।२)

nirhṛtya tu vratī pretān na vratena viyujyate ||

92.1९२.१

दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । (९२।१)

dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet |

92.2९२.२

पश्चिमोत्तरपूर्वैस् तु यथायोगं द्विजन्मनः ॥ (९२।२)

paścimottarapūrvais tu yathāyogaṃ dvijanmanaḥ ||

93.1९३.१

पुरित्य् ओड़् अ किन्ग्।क्षत्रियन राज्ञाम् अघदोषो ऽस्ति व्रतिनां न च सत्त्रिणाम् । (९३।१)

purity of a king|kṣatriyana rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām |

93.2९३.२

ऐन्द्रं स्थानम् उपासीना ब्रह्मभूता हि ते सदा ॥ (९३।२)

aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā ||

94.1९४.१

राज्ञो महात्मिके स्थाने सद्यः शौचं विधीयते । (९४।१)

rājño mahātmike sthāne sadyaḥ śaucaṃ vidhīyate |

94.2९४.२

प्रजानां परिरक्षार्थम् आसनं चात्र कारणम् ॥ (९४।२)

prajānāṃ parirakṣārtham āsanaṃ cātra kāraṇam ||

95.1९५.१

डिम्भाहवहतानां च विद्युता पार्थिवेन च । (९५।१)

ḍimbhāhavahatānāṃ ca vidyutā pārthivena ca |

95.2९५.२

गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥ (९५।२)

gobrāhmaṇasya caivārthe yasya cecchati pārthivaḥ ||

96.1९६.१

सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर् यमस्य च । (९६।१)

somāgnyarkānilendrāṇāṃ vittāppatyor yamasya ca |

96.2९६.२

अष्टानां लोकपालानां वपुर् धारयते नृपः ॥ (९६।२)

aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ ||

97.1९७.१

लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते । (९७।१)

lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate |

97.2९७.२

शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ ॥ (९७।२)

śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau ||

98.1९८.१

उद्यतैर् आहवे शस्त्रैः क्षत्रधर्महतस्य च । (९८।१)

udyatair āhave śastraiḥ kṣatradharmahatasya ca |

98.2९८.२

सद्यः संतिष्ठते यज्ञस् तथाशौचम् इति स्थितिः ॥ (९८।२)

sadyaḥ saṃtiṣṭhate yajñas tathāśaucam iti sthitiḥ ||

99.1९९.१

विप्रः शुध्यत्य् अपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । (९९।१)

vipraḥ śudhyaty apaḥ spṛṣṭvā kṣatriyo vāhanāyudham |

99.2९९.२

वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः ॥ (९९।२)

vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ ||

100.1१००.१

एतद् वो ऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः । (१००।१)

etad vo 'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ |

100.2१००.२

प्रेतशुद्धि: असपिण्डअसपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥ (१००।२)

pretaśuddhi: asapiṇḍaasapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata ||

101.1१०१.१

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । (१०१।१)

asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat |

101.2१०१.२

विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥ (१०१।२)

viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān ||

102.1१०२.१

यद्य् अन्नम् अत्ति तेषां तु दशाहेनैव शुध्यति । (१०२।१)

yady annam atti teṣāṃ tu daśāhenaiva śudhyati |

102.2१०२.२

अनदन्न् अन्नम् अह्नैव न चेत् तस्मिन् गृहे वसेत् ॥ (१०२।२)

anadann annam ahnaiva na cet tasmin gṛhe vaset ||

103.1१०३.१

अनुगम्येच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव च । (१०३।१)

anugamyecchayā pretaṃ jñātim ajñātim eva ca |

103.2१०३.२

स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ (१०३।२)

snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati ||

104.1१०४.१

न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् । (१०४।१)

na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet |

104.2१०४.२

अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंस्पर्शदूषिता ॥ (१०४।२)

asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā ||

105.1१०५.१

ज्ञानं तपो ऽग्निर् आहारो मृन्मनो वार्य् उपाञ्जनम् । (१०५।१)

jñānaṃ tapo 'gnir āhāro mṛnmano vāry upāñjanam |

105.2१०५.२

वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् ॥ (१०५।२)

vāyuḥ karmārkakālau ca śuddheḥ kartṝṇi dehinām ||

106.1१०६.१

सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम् । (१०६।१)

sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtam |

106.2१०६.२

यो ऽर्थे शुचिर् हि स शुचिर् न मृत्वारिशुचिः शुचिः ॥ (१०६।२)

yo 'rthe śucir hi sa śucir na mṛtvāriśuciḥ śuciḥ ||

107.1१०७.१

क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः । (१०७।१)

kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ |

107.2१०७.२

प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ (१०७।२)

pracchannapāpā japyena tapasā vedavittamāḥ ||

108.1१०८.१

मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति । (१०८।१)

mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati |

108.2१०८.२

रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ (१०८।२)

rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ ||

109.1१०९.१

अद्भिर् गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । (१०९।१)

adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati |

109.2१०९.२

विद्यातपोभ्यां भूतात्मा बुद्धिर् ज्ञानेन शुध्यति ॥ (१०९।२)

vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati ||

110.1११०.१

एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः । (११०।१)

eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ |

110.2११०.२

पुरिड़िचतिओन् ओड़् ओब्जेच्त्स्नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ॥ (११०।२)

purification of objectsnānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam ||

111.1१११.१

तैजसानां मणीनां च सर्वस्याश्ममयस्य च । (१११।१)

taijasānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca |

111.2१११.२

भस्मनाद्भिर् मृदा चैव शुद्धिर् उक्ता मनीषिभिः ॥ (१११।२)

bhasmanādbhir mṛdā caiva śuddhir uktā manīṣibhiḥ ||

112.1११२.१

निर्लेपं काञ्चनं भाण्डम् अद्भिर् एव विशुध्यति । (११२।१)

nirlepaṃ kāñcanaṃ bhāṇḍam adbhir eva viśudhyati |

112.2११२.२

अब्जम् अश्ममयं चैव राजतं चानुपस्कृतम् ॥ (११२।२)

abjam aśmamayaṃ caiva rājataṃ cānupaskṛtam ||

113.1११३.१

अपाम् अग्नेश् च संयोगाद्धैमं रौप्यं च निर्बभौ । (११३।१)

apām agneś ca saṃyogāddhaimaṃ raupyaṃ ca nirbabhau |

113.2११३.२

तस्मात् तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥ (११३।२)

tasmāt tayoḥ svayonyaiva nirṇeko guṇavattaraḥ ||

114.1११४.१

ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च । (११४।१)

tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca |

114.2११४.२

शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ (११४।२)

śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ ||

115.1११५.१

द्रवाणां चैव सर्वेषां शुद्धिर् उत्पवनं स्मृतम् । (११५।१)

dravāṇāṃ caiva sarveṣāṃ śuddhir utpavanaṃ smṛtam |

115.2११५.२

प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ (११५।२)

prokṣaṇaṃ saṃhatānāṃ ca dāravāṇāṃ ca takṣaṇam ||

116.1११६.१

मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि । (११६।१)

mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi |

116.2११६.२

चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥ (११६।२)

camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu ||

117.1११७.१

चरूणां स्रुक्स्रुवाणां च शुद्धिर् उष्णेन वारिणा । (११७।१)

carūṇāṃ sruksruvāṇāṃ ca śuddhir uṣṇena vāriṇā |

117.2११७.२

स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥ (११७।२)

sphyaśūrpaśakaṭānāṃ ca musalolūkhalasya ca ||

118.1११८.१

अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । (११८।१)

adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām |

118.2११८.२

प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥ (११८।२)

prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate ||

119.1११९.१

चैलवच् चर्मणां शुद्धिर् वैदलानां तथैव च । (११९।१)

cailavac carmaṇāṃ śuddhir vaidalānāṃ tathaiva ca |

119.2११९.२

शाकमूलफलानां च धान्यवच् छुद्धिर् इष्यते ॥ (११९।२)

śākamūlaphalānāṃ ca dhānyavac chuddhir iṣyate ||

120.1१२०.१

कौशेयाविकयोर् ऊषैः कुतपानाम् अरिष्टकैः । (१२०।१)

kauśeyāvikayor ūṣaiḥ kutapānām ariṣṭakaiḥ |

120.2१२०.२

श्रीफलैर् अंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ (१२०।२)

śrīphalair aṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ ||

121.1१२१.१

क्षौमवच्छङ्खशृङ्गाणाम् अस्थिदन्तमयस्य च । (१२१।१)

kṣaumavacchaṅkhaśṛṅgāṇām asthidantamayasya ca |

121.2१२१.२

शुद्धिर् विजानता कार्या गोमूत्रेणोदकेन वा ॥ (१२१।२)

śuddhir vijānatā kāryā gomūtreṇodakena vā ||

122.1१२२.१

प्रोक्षणात् तृणकाष्ठं च पलालं चैव शुध्यति । (१२२।१)

prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati |

122.2१२२.२

मार्जनोपाञ्जनैर् वेश्म पुनःपाकेन मृन्मयम् ॥ (१२२।२)

mārjanopāñjanair veśma punaḥpākena mṛnmayam ||

123.1१२३.१

मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैः पूयशोणितैः । (१२३।१)

madyair mūtraiḥ purīṣair vā ṣṭhīvanaiḥ pūyaśoṇitaiḥ |

123.2१२३.२

संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ (१२३।२)

saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam ||

124.1१२४.१

सम्मार्जनोपाञ्जनेन सेकेनोल्लेखनेन च । (१२४।१)

sammārjanopāñjanena sekenollekhanena ca |

124.2१२४.२

गवां च परिवासेन भूमिः शुध्यति पञ्चभिः ॥ (१२४।२)

gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ ||

125.1१२५.१

पक्षिजग्धं गवा घ्रातम् अवधूतम् अवक्षुतम् । (१२५।१)

pakṣijagdhaṃ gavā ghrātam avadhūtam avakṣutam |

125.2१२५.२

दूषितं केशकीटैश् च मृत्प्रक्षेपेण शुध्यति ॥ (१२५।२)

dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati ||

126.1१२६.१

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः । (१२६।१)

yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ |

126.2१२६.२

तावन् मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ (१२६।२)

tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu ||

127.1१२७.१

त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन् । (१२७।१)

trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan |

127.2१२७.२

अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते ॥ (१२७।२)

adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate ||

128.1१२८.१

आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर् भवेत् । (१२८।१)

āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gor bhavet |

128.2१२८.२

अव्याप्ताश् चेद् अमेध्येन गन्धवर्णरसान्विताः ॥ (१२८।२)

avyāptāś ced amedhyena gandhavarṇarasānvitāḥ ||

129.1१२९.१

नित्यं शुद्धः कारुहस्तः पण्ये यच् च प्रसारितम् । (१२९।१)

nityaṃ śuddhaḥ kāruhastaḥ paṇye yac ca prasāritam |

129.2१२९.२

ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यम् इति स्थितिः ॥ (१२९।२)

brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyam iti sthitiḥ ||

130.1१३०.१

नित्यम् आस्यं शुचि स्त्रीणां शकुनिः फलपातने । (१३०।१)

nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane |

130.2१३०.२

प्रस्रवे च शुचिर् वत्सः श्वा मृगग्रहणे शुचिः ॥ (१३०।२)

prasrave ca śucir vatsaḥ śvā mṛgagrahaṇe śuciḥ ||

131.1१३१.१

श्वभिर् हतस्य यन् मांसं शुचि तन् मनुर् अब्रवीत् । (१३१।१)

śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt |

131.2१३१.२

क्रव्याद्भिश् च हतस्यान्यैश् चण्डालाद्यैश् च दस्युभिः ॥ (१३१।२)

kravyādbhiś ca hatasyānyaiś caṇḍālādyaiś ca dasyubhiḥ ||

132.1१३२.१

पुरित्य् ओड़् पर्त्स् ओड़् थे बोद्यूर्ध्वं नाभेर् यानि खानि तानि मेध्यानि सर्वशः । (१३२।१)

purity of parts of the bodyūrdhvaṃ nābher yāni khāni tāni medhyāni sarvaśaḥ |

132.2१३२.२

यान्य् अधस् तान्य् अमेध्यानि देहाच् चैव मलाश् च्युताः ॥ (१३२।२)

yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ ||

133.1१३३.१

मक्षिका विप्रुषश् छाया गौर् अश्वः सूर्यरश्मयः । (१३३।१)

makṣikā vipruṣaś chāyā gaur aśvaḥ sūryaraśmayaḥ |

133.2१३३.२

रजो भूर् वायुर् अग्निश् च स्पर्शे मेध्यानि निर्दिशेत् ॥ (१३३।२)

rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet ||

134.1१३४.१

विङ्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयम् अर्थवत् । (१३४।१)

viṅmūtrotsargaśuddhyarthaṃ mṛdvāryādeyam arthavat |

134.2१३४.२

दैहिकानां मलानां च शुद्धिषु द्वादशस्व् अपि ॥ (१३४।२)

daihikānāṃ malānāṃ ca śuddhiṣu dvādaśasv api ||

135.1१३५.१

वसा शुक्रम् असृङ्मज्जा मूत्रविड्घ्राणकर्णविष् । (१३५।१)

vasā śukram asṛṅmajjā mūtraviḍghrāṇakarṇaviṣ |

135.2१३५.२

श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नॄणां मलाः ॥ (१३५।२)

śleṣmāśru dūṣikā svedo dvādaśaite nṝṇāṃ malāḥ ||

136.1१३६.१

एका लिङ्गे गुदे तिस्रस् तथैकत्र करे दश । (१३६।१)

ekā liṅge gude tisras tathaikatra kare daśa |

136.2१३६.२

उभयोः सप्त दातव्या मृदः शुद्धिम् अभीप्सता ॥ (१३६।२)

ubhayoḥ sapta dātavyā mṛdaḥ śuddhim abhīpsatā ||

137.1१३७.१

एतच् छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । (१३७।१)

etac chaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām |

137.2१३७.२

त्रिगुणं स्याद् वनस्थानां यतीनां तु चतुर्गुणम् ॥ (१३७।२)

triguṇaṃ syād vanasthānāṃ yatīnāṃ tu caturguṇam ||

138.1१३८.१

आचमनकृत्वा मूत्रं पुरीषं वा खान्य् आचान्त उपस्पृशेत् । (१३८।१)

ācamanakṛtvā mūtraṃ purīṣaṃ vā khāny ācānta upaspṛśet |

138.2१३८.२

वेदम् अध्येष्यमाणश् च अन्नम् अश्नंश् च सर्वदा ॥ (१३८।२)

vedam adhyeṣyamāṇaś ca annam aśnaṃś ca sarvadā ||

139.1१३९.१

त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् । (१३९।१)

trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham |

139.2१३९.२

शरीरं शौचम् इच्छन् हि स्त्री शूद्रस् तु सकृत् सकृत् ॥ (१३९।२)

śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt ||

140.1१४०.१

शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् । (१४०।१)

śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām |

140.2१४०.२

वैश्यवच्छौचकल्पश् च द्विजोच्छिष्टं च भोजनम् ॥ (१४०।२)

vaiśyavacchaucakalpaś ca dvijocchiṣṭaṃ ca bhojanam ||

141.1१४१.१

नोच्छिष्टं कुर्वते मुख्या विप्रुषो ऽङ्गं न यान्ति याः । (१४१।१)

nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ |

141.2१४१.२

न श्मश्रूणि गतान्य् आस्यं न दन्तान्तरधिष्ठितम् ॥ (१४१।२)

na śmaśrūṇi gatāny āsyaṃ na dantāntaradhiṣṭhitam ||

142.1१४२.१

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । (१४२।१)

spṛśanti bindavaḥ pādau ya ācāmayataḥ parān |

142.2१४२.२

भौमिकैस् ते समा ज्ञेया न तैर् आप्रयतो भवेत् ॥ (१४२।२)

bhaumikais te samā jñeyā na tair āprayato bhavet ||

143.1१४३.१

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन । (१४३।१)

ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana |

143.2१४३.२

अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥ (१४३।२)

anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt ||

144.1१४४.१

वान्तो विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत् । (१४४।१)

vānto viriktaḥ snātvā tu ghṛtaprāśanam ācaret |

144.2१४४.२

आचामेद् एव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥ (१४४।२)

ācāmed eva bhuktvānnaṃ snānaṃ maithuninaḥ smṛtam ||

145.1१४५.१

सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च । (१४५।१)

suptvā kṣutvā ca bhuktvā ca niṣṭhīvyoktvānṛtāni ca |

145.2१४५.२

पीत्वापो ऽध्येष्यमाणश् च आचामेत् प्रयतो ऽपि सन् ॥ (१४५।२)

pītvāpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san ||

146.1१४६.१

एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस् तथैव च । (१४६।१)

eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhis tathaiva ca |

146.2१४६.२

उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान् निबोधत ॥ (१४६।२)

ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata ||

147.1१४७.१

स्त्रीधर्मबालया वा युवत्या वा वृद्धया वापि योषिता । (१४७।१)

strīdharmabālayā vā yuvatyā vā vṛddhayā vāpi yoṣitā |

147.2१४७.२

न स्वातन्त्र्येण कर्तव्यं किंचिद् कार्यं गृहेष्व् अपि ॥ (१४७।२)

na svātantryeṇa kartavyaṃ kiṃcid kāryaṃ gṛheṣv api ||

148.1१४८.१

बाल्ये पितुर् वशे तिष्ठेत् पाणिग्राहस्य यौवने । (१४८।१)

bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane |

148.2१४८.२

पुत्राणां भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्रताम् ॥ (१४८।२)

putrāṇāṃ bhartari prete na bhajet strī svatantratām ||

149.1१४९.१

पित्रा भर्त्रा सुतैर् वापि नेच्छेद् विरहम् आत्मनः । (१४९।१)

pitrā bhartrā sutair vāpi necched viraham ātmanaḥ |

149.2१४९.२

एषां हि विरहेण स्त्री गर्ह्ये कुर्याद् उभे कुले ॥ (१४९।२)

eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule ||

150.1१५०.१

सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया । (१५०।१)

sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā |

150.2१५०.२

सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ (१५०।२)

susaṃskṛtopaskarayā vyaye cāmuktahastayā ||

151.1१५१.१

यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः । (१५१।१)

yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ |

151.2१५१.२

तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ (१५१।२)

taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet ||

152.1१५२.१

मङ्गलार्थं स्वस्त्ययनं यज्ञश् चासां प्रजापतेः । (१५२।१)

maṅgalārthaṃ svastyayanaṃ yajñaś cāsāṃ prajāpateḥ |

152.2१५२.२

प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम् ॥ (१५२।२)

prayujyate vivāhe tu pradānaṃ svāmyakāraṇam ||

153.1१५३.१

अनृतावृतुकाले च मन्त्रसंस्कारकृत् पतिः । (१५३।१)

anṛtāvṛtukāle ca mantrasaṃskārakṛt patiḥ |

153.2१५३.२

सुखस्य नित्यं दातेह परलोके च योषितः ॥ (१५३।२)

sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ ||

154.1१५४.१

विशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः । (१५४।१)

viśīlaḥ kāmavṛtto vā guṇair vā parivarjitaḥ |

154.2१५४.२

उपचार्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥ (१५४।२)

upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ ||

155.1१५५.१

नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषणम् । (१५५।१)

nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam |

155.2१५५.२

पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ (१५५।२)

patiṃ śuśrūṣate yena tena svarge mahīyate ||

156.1१५६.१

पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा । (१५६।१)

pāṇigrāhasya sādhvī strī jīvato vā mṛtasya vā |

156.2१५६.२

पतिलोकम् अभीप्सन्ती नाचरेत् किंचिद् अप्रियम् ॥ (१५६।२)

patilokam abhīpsantī nācaret kiṃcid apriyam ||

157.1१५७.१

कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः । (१५७।१)

kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ |

157.2१५७.२

न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ (१५७।२)

na tu nāmāpi gṛhṇīyāt patyau prete parasya tu ||

158.1१५८.१

आसीत आ मरणात् क्षान्ता नियता ब्रह्मचारिणी । (१५८।१)

āsīta ā maraṇāt kṣāntā niyatā brahmacāriṇī |

158.2१५८.२

यो धर्म एकपत्नीनां काङ्क्षन्ती तम् अनुत्तमम् ॥ (१५८।२)

yo dharma ekapatnīnāṃ kāṅkṣantī tam anuttamam ||

159.1१५९.१

अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् । (१५९।१)

anekāni sahasrāṇi kumārabrahmacāriṇām |

159.2१५९.२

दिवं गतानि विप्राणाम् अकृत्वा कुलसंततिम् ॥ (१५९।२)

divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim ||

160.1१६०.१

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । (१६०।१)

mṛte bhartari sādhvī strī brahmacarye vyavasthitā |

160.2१६०.२

स्वर्गं गच्छत्य् अपुत्रापि यथा ते ब्रह्मचारिणः ॥ (१६०।२)

svargaṃ gacchaty aputrāpi yathā te brahmacāriṇaḥ ||

161.1१६१.१

अपत्यलोभाद् या तु स्त्री भर्तारम् अतिवर्तते । (१६१।१)

apatyalobhād yā tu strī bhartāram ativartate |

161.2१६१.२

सेह निन्दाम् अवाप्नोति परलोकाच्च हीयते ॥ (१६१।२)

seha nindām avāpnoti paralokācca hīyate ||

162.1१६२.१

नान्योत्पन्ना प्रजास्तीह न चाप्य् अन्यपरिग्रहे । (१६२।१)

nānyotpannā prajāstīha na cāpy anyaparigrahe |

162.2१६२.२

न द्वितीयश् च साध्वीनां क्वचिद् भर्तोपदिश्यते ॥ (१६२।२)

na dvitīyaś ca sādhvīnāṃ kvacid bhartopadiśyate ||

163.1१६३.१

पतिं हित्वापकृष्टं स्वम् उत्कृष्टं या निषेवते । (१६३।१)

patiṃ hitvāpakṛṣṭaṃ svam utkṛṣṭaṃ yā niṣevate |

163.2१६३.२

निन्द्यैव सा भवेल् लोके परपूर्वेति चोच्यते ॥ (१६३।२)

nindyaiva sā bhavel loke parapūrveti cocyate ||

164.1१६४.१

व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । (१६४।१)

vyabhicārāt tu bhartuḥ strī loke prāpnoti nindyatām |

164.2१६४.२

शृगालयोनिं प्राप्नोति पापरोगैश् च पीड्यते ॥ (१६४।२)

śṛgālayoniṃ prāpnoti pāparogaiś ca pīḍyate ||

165.1१६५.१

पतिं या नाभिचरति मनोवाग्देहसंयता । (१६५।१)

patiṃ yā nābhicarati manovāgdehasaṃyatā |

165.2१६५.२

सा भर्तृलोकम् आप्नोति सद्भिः साध्वीति चोच्यते ॥ (१६५।२)

sā bhartṛlokam āpnoti sadbhiḥ sādhvīti cocyate ||

166.1१६६.१

अनेन नारी वृत्तेन मनोवाग्देहसंयता । (१६६।१)

anena nārī vṛttena manovāgdehasaṃyatā |

166.2१६६.२

इहाग्र्यां कीर्तिम् आप्नोति पतिलोकं परत्र च ॥ (१६६।२)

ihāgryāṃ kīrtim āpnoti patilokaṃ paratra ca ||

167.1१६७.१

एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् । (१६७।१)

evaṃ vṛttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm |

167.2१६७.२

दाहयेद् अग्निहोत्रेण यज्ञपात्रैश् च धर्मवित् ॥ (१६७।२)

dāhayed agnihotreṇa yajñapātraiś ca dharmavit ||

168.1१६८.१

भार्यायै पूर्वमारिण्यै दत्त्वाग्नीन् अन्त्यकर्मणि । (१६८।१)

bhāryāyai pūrvamāriṇyai dattvāgnīn antyakarmaṇi |

168.2१६८.२

पुनर् दारक्रियां कुर्यात् पुनर् आधानम् एव च ॥ (१६८।२)

punar dārakriyāṃ kuryāt punar ādhānam eva ca ||

169.1१६९.१

अनेन विधिना नित्यं पञ्चयज्ञान् न हापयेत् । (१६९।१)

anena vidhinā nityaṃ pañcayajñān na hāpayet |

169.2१६९.२

द्वितीयम् आयुषो भागं कृतदारो गृहे वसेत् ॥ (१६९।२)

dvitīyam āyuṣo bhāgaṃ kṛtadāro gṛhe vaset ||

Data courtesy of The Digital Corpus of Sanskrit.

ManuS, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit