MṛgT, 1, 1
Select a line for its word-by-word analysis.
हराद् इन्द्रक्रमायातं ज्ञानं शृणुत सुव्रताः ॥ (१।२)
harād indrakramāyātaṃ jñānaṃ śṛṇuta suvratāḥ ||
अथ तान् भावितान् मत्वा कदाचित् त्रिदशाधिपः । (३।१)
atha tān bhāvitān matvā kadācit tridaśādhipaḥ |
स तैः सम्पूजितः पृष्ट्वा तांश् च सर्वान् अनामयम् । (४।१)
sa taiḥ sampūjitaḥ pṛṣṭvā tāṃś ca sarvān anāmayam |
प्रोवाच चोदनाधर्मः किम् अर्थं नानुवर्त्यते ॥ (४।२)
provāca codanādharmaḥ kim arthaṃ nānuvartyate ||
त ऊचुर् नन्व् अयं धर्मश् चोदनाविहितो मुने । (५।१)
ta ūcur nanv ayaṃ dharmaś codanāvihito mune |
वेदे ऽस्ति संहिता रौद्री वाच्या रुद्रश् च देवता । (६।१)
vede 'sti saṃhitā raudrī vācyā rudraś ca devatā |
सांनिध्यकरणे ऽप्य् अस्मिन् विहितः काल्पिको विधिः ॥ (६।२)
sāṃnidhyakaraṇe 'py asmin vihitaḥ kālpiko vidhiḥ ||
इत्य् उक्ते ऽपि परं भावं जिज्ञासुः प्रहसन् प्रभुः । (७।१)
ity ukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasan prabhuḥ |
तान् आह मिथ्या ज्ञानं वः शब्दमात्रं हि देवता ॥ (७।२)
tān āha mithyā jñānaṃ vaḥ śabdamātraṃ hi devatā ||
न सा प्रयाति सांनिध्यं मूर्तत्वाद् अस्मदादिवत् ॥ (८।२)
na sā prayāti sāṃnidhyaṃ mūrtatvād asmadādivat ||
न च तत्साधकं किंचित् प्रमाणं भात्य् अबाधितम् । (९।१)
na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhāty abādhitam |
वाक्यं तद् अन्यथासिद्धं लोकवादाः क्व साधवः ॥ (९।२)
vākyaṃ tad anyathāsiddhaṃ lokavādāḥ kva sādhavaḥ ||
विशिष्टैश्वर्यसम्पन्ना सातो नैतन् निदर्शनम् ॥ (११।२)
viśiṣṭaiśvaryasampannā sāto naitan nidarśanam ||
अथास्त्व् एवं घटे न्यायः शब्दत्वाद् इन्द्रशब्दवत् । (१२।१)
athāstv evaṃ ghaṭe nyāyaḥ śabdatvād indraśabdavat |
नादत्ते घटशब्दो ऽम्भश् चन्द्रशब्दो न राजते ॥ (१२।२)
nādatte ghaṭaśabdo 'mbhaś candraśabdo na rājate ||
कर्मरूपादिशब्दानां सार्थकत्वं कथं भवेत् ॥ (१३।२)
karmarūpādiśabdānāṃ sārthakatvaṃ kathaṃ bhavet ||
प्रवादो ऽप्य् अखिलो मिथ्या समूलत्वान् न युक्तिमत् । (१४।१)
pravādo 'py akhilo mithyā samūlatvān na yuktimat |
स चेद् अमूलो भूतानां हताः सर्वाः प्रवृत्तयः ॥ (१४।२)
sa ced amūlo bhūtānāṃ hatāḥ sarvāḥ pravṛttayaḥ ||
उपमन्युर् हरं दृष्ट्वा विमन्युर् अभवन् मुनिः । (१५।१)
upamanyur haraṃ dṛṣṭvā vimanyur abhavan muniḥ |
कथं तस्य वचो मिथ्या यस्य वश्यः पयोनिधिः ॥ (१५।२)
kathaṃ tasya vaco mithyā yasya vaśyaḥ payonidhiḥ ||
क्रोडीकृतो हि पाशेन विषज्वालावलीमुचा हुंकृत्य । (१६।१)
kroḍīkṛto hi pāśena viṣajvālāvalīmucā huṃkṛtya |
साश्रुगद्गदवाचस् तान् वीक्ष्य प्रीतो ऽभवद् धीरः ॥ (१७।२)
sāśrugadgadavācas tān vīkṣya prīto 'bhavad dhīraḥ ||
स्वं रूपं दर्शयामास वज्री देवः शतक्रतुः । (१८।१)
svaṃ rūpaṃ darśayāmāsa vajrī devaḥ śatakratuḥ |
ते तम् ऋग्भिर् यजुर्भिश् च सामभिश् चास्तुवन् नताः । (१९।१)
te tam ṛgbhir yajurbhiś ca sāmabhiś cāstuvan natāḥ |
सो ऽब्रवीद् उच्यतां कामो जगत्सु प्रवरो ऽपि यः ॥ (१९।२)
so 'bravīd ucyatāṃ kāmo jagatsu pravaro 'pi yaḥ ||
ते वव्रिरे शिवज्ञानं श्रूयताम् इति सो ऽब्रवीत् । (२०।१)
te vavrire śivajñānaṃ śrūyatām iti so 'bravīt |
किं त्व् एको ऽस्तु मम प्रष्टा निखिलश्रोतृसंमतः ॥ (२०।२)
kiṃ tv eko 'stu mama praṣṭā nikhilaśrotṛsaṃmataḥ ||
अथ तेषां भरद्वाजो भगवान् अग्रणीर् अभूत् । (२१।१)
atha teṣāṃ bharadvājo bhagavān agraṇīr abhūt |
वाग्मी प्रगल्भः पप्रच्छ न्यायतः सुरपूजितम् ॥ (२१।२)
vāgmī pragalbhaḥ papraccha nyāyataḥ surapūjitam ||
कथं महेश्वराद् एतद् आगतं ज्ञानम् उत्तमम् । (२२।१)
kathaṃ maheśvarād etad āgataṃ jñānam uttamam |
किं च चेतसि संस्थाप्य निर्ममे भगवान् इदम् ॥ (२२।२)
kiṃ ca cetasi saṃsthāpya nirmame bhagavān idam ||
विधत्ते विमलं ज्ञानं पञ्चस्रोतो ऽभिलक्षितम् ॥ (२३।२)
vidhatte vimalaṃ jñānaṃ pañcasroto 'bhilakṣitam ||
तद्वर्तिवाचकव्रातवाच्यान् अष्टौ महेश्वरान् । (२४।१)
tadvartivācakavrātavācyān aṣṭau maheśvarān |
सप्तकोटिप्रसंख्यातान् मन्त्रांश् च परमे ऽध्वनि ॥ (२४।२)
saptakoṭiprasaṃkhyātān mantrāṃś ca parame 'dhvani ||
अष्टादशाधिकं चान्यच् छ्रुतं मायाधिकारिणाम् । (२५।१)
aṣṭādaśādhikaṃ cānyac chrutaṃ māyādhikāriṇām |
मन्त्रेश्वराणाम् ऊर्ध्वाध्वस्थितेशोपमतेजसाम् ॥ (२५।२)
mantreśvarāṇām ūrdhvādhvasthiteśopamatejasām ||
तेषु व्यक्तः स भगवान् इदं योग्येषु सिद्धये । (२६।१)
teṣu vyaktaḥ sa bhagavān idaṃ yogyeṣu siddhaye |
प्रकाशयत्य् अतो ऽन्येषु यो ऽर्थः समुपपद्यते ॥ (२६।२)
prakāśayaty ato 'nyeṣu yo 'rthaḥ samupapadyate ||
शिवोद्गीर्णम् इदं ज्ञानं मन्त्रमन्त्रेश्वरेश्वरैः । (२७।१)
śivodgīrṇam idaṃ jñānaṃ mantramantreśvareśvaraiḥ |
कामदत्वात् कामिकेति प्रगीतं बहुविस्तरम् ॥ (२७।२)
kāmadatvāt kāmiketi pragītaṃ bahuvistaram ||
तेभ्यो ऽवगत्य दृग्ज्योतिर्ज्वालालीढस्मरद्रुमः । (२८।१)
tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ |
ददाव् उमापतिर् मह्यं सहस्रैर् भवसंमितैः ॥ (२८।२)
dadāv umāpatir mahyaṃ sahasrair bhavasaṃmitaiḥ ||
तत्रापि विस्तरं हित्वा सूत्रैः सारार्थवाचकैः । (२९।१)
tatrāpi vistaraṃ hitvā sūtraiḥ sārārthavācakaiḥ |
वक्ष्ये निराकुलं ज्ञानं तदुक्तैर् एव भूयसा ॥ (२९।२)
vakṣye nirākulaṃ jñānaṃ taduktair eva bhūyasā ||
Data courtesy of The Digital Corpus of Sanskrit.