MṛgT, 1, 6
Select a line for its word-by-word analysis.
अथ विश्वनिमित्तस्य प्राप्तं लक्षणमात्मनः । (१।१)
atha viśvanimittasya prāptaṃ lakṣaṇamātmanaḥ |
कार्यं क्षित्यादि कर्तेशस्तत्कर्तुर् नोपयुज्यते । (२।१)
kāryaṃ kṣityādi karteśastatkartur nopayujyate |
न स्वार्थमप्यचिद्भावान् नानर्थ्यं कर्तृगौरवात् ॥ (२।२)
na svārthamapyacidbhāvān nānarthyaṃ kartṛgauravāt ||
पारिशेष्यात्परार्थं तत् क्षेत्रज्ञः स परस्तयोः । (३।१)
pāriśeṣyātparārthaṃ tat kṣetrajñaḥ sa parastayoḥ |
परो देहस्तदर्थत्वात्परार्थाः क्ष्मादयो ननु ॥ (३।२)
paro dehastadarthatvātparārthāḥ kṣmādayo nanu ||
कायो ऽप्य् अचित्त्वादान्यार्थ्यं सुतरां प्रतिपद्यते । (४।१)
kāyo 'py acittvādānyārthyaṃ sutarāṃ pratipadyate |
चेतनश्चेत् न भोग्यत्वाद्विकारित्वाच् च जातुचित् ॥ (४।२)
cetanaścet na bhogyatvādvikāritvāc ca jātucit ||
भोग्या विकारिणो दृष्टाश्चिद्विहीनाः पटादयः । (५।१)
bhogyā vikāriṇo dṛṣṭāścidvihīnāḥ paṭādayaḥ |
यस्मिन्सति च सत्त्वाद्वा न सत्यपि शवे चितिः ॥ (५।२)
yasminsati ca sattvādvā na satyapi śave citiḥ ||
परिणामस्य वैशिष्ट्यादस्ति चेत् न स्मृतिस्तदा । (६।१)
pariṇāmasya vaiśiṣṭyādasti cet na smṛtistadā |
नाप्येवं सुप्रतीतत्वात् स्मर्ता कायेतरोऽस्त्यतः ॥ (६।२)
nāpyevaṃ supratītatvāt smartā kāyetaro'styataḥ ||
नाकर्ता भिन्नचिद्योगी पाशान्ते शिवताश्रुतेः ॥ (७।२)
nākartā bhinnacidyogī pāśānte śivatāśruteḥ ||
Data courtesy of The Digital Corpus of Sanskrit.