MṛgT, 1, 9
Select a line for its word-by-word analysis.
कथ्यते ग्रन्थिपाशस्य किंचिद् युक्त्यापि लेशतः ॥ (१।२)
kathyate granthipāśasya kiṃcid yuktyāpi leśataḥ ||
तेनोपादानम् अप्यस्ति न पटस् तन्तुभिर् विना ॥ (३।२)
tenopādānam apyasti na paṭas tantubhir vinā ||
तद् अचेतनम् एव स्यात् कार्यस्याचित्त्वदर्शनात् । (४।१)
tad acetanam eva syāt kāryasyācittvadarśanāt |
प्राप्तः सर्वहरो दोषः कारणानियमो ऽन्यथा ॥ (४।२)
prāptaḥ sarvaharo doṣaḥ kāraṇāniyamo 'nyathā ||
यद्यनित्यम् इदं कार्यं कस्माद् उत्पद्यते पुनः । (५।१)
yadyanityam idaṃ kāryaṃ kasmād utpadyate punaḥ |
अव्यापि चेत् कुतस् तत् स्यात् सर्वेषां सर्वतोमुखम् ॥ (५।२)
avyāpi cet kutas tat syāt sarveṣāṃ sarvatomukham ||
यद् अनेकम् अचित् तत् तु दृष्टम् उत्पत्तिधर्मकम् । (६।१)
yad anekam acit tat tu dṛṣṭam utpattidharmakam |
न तद् उत्पत्तिमत् तस्माद् एकम् अभ्युपगम्यताम् ॥ (६।२)
na tad utpattimat tasmād ekam abhyupagamyatām ||
येषां चिद्धर्मकाद्धेतोर् अचिद् अप्युपजायते । (८।१)
yeṣāṃ ciddharmakāddhetor acid apyupajāyate |
तेषां पूर्वोदिताद्धेतोर् ज्ञातैव ज्ञानसूक्ष्मता ॥ (९।२)
teṣāṃ pūrvoditāddhetor jñātaiva jñānasūkṣmatā ||
का वार्त्ता नाखिलध्वंसो न सर्वज्ञो मृषा वदेत् ॥ (१०।२)
kā vārttā nākhiladhvaṃso na sarvajño mṛṣā vadet ||
एकदेशेऽपि यो धर्मः प्रतीतो यस्य धर्मिणः । (११।१)
ekadeśe'pi yo dharmaḥ pratīto yasya dharmiṇaḥ |
कोटिशो मरणं दृष्ट्वा संहतानां शरीरिणाम् । (१२।१)
koṭiśo maraṇaṃ dṛṣṭvā saṃhatānāṃ śarīriṇām |
विवृतौ व्यक्तिरूपाणि व्याप्रियन्ते ऽर्थसिद्धये ॥ (१३।२)
vivṛtau vyaktirūpāṇi vyāpriyante 'rthasiddhaye ||
तन्त्वादिकारकादानं पटासत्त्वे पटार्थिनः । (१४।१)
tantvādikārakādānaṃ paṭāsattve paṭārthinaḥ |
सत्त्वे कारकशब्दोऽपि व्यपैतीति हतं जगत् ॥ (१४।२)
sattve kārakaśabdo'pi vyapaitīti hataṃ jagat ||
साफल्यम् असदुत्पत्ताव् अस्तु कारकवस्तुनः । (१५।१)
sāphalyam asadutpattāv astu kārakavastunaḥ |
उत्पादयतु सर्वस्मात् सर्वः सर्वम् अभीप्सितम् ॥ (१५।२)
utpādayatu sarvasmāt sarvaḥ sarvam abhīpsitam ||
अथाशक्यं यतः शक्यम् अत्र वः किं नियामकम् । (१६।१)
athāśakyaṃ yataḥ śakyam atra vaḥ kiṃ niyāmakam |
नच पश्यामि तत्किंचित् शक्तिश् चेत् सिद्धसाध्यता ॥ (१६।२)
naca paśyāmi tatkiṃcit śaktiś cet siddhasādhyatā ||
श्रुतिर् आदानम् अर्थश् च व्यपैतीत्यपि तद्धतम् ॥ (१७।२)
śrutir ādānam arthaś ca vyapaitītyapi taddhatam ||
अथास्त्युत्पादिका शक्तिर् न कार्यं शक्तिरूपकम् । (१८।१)
athāstyutpādikā śaktir na kāryaṃ śaktirūpakam |
तयोर् विशेषणं वाच्यं नैतत् पश्यामि किंचन ॥ (१८।२)
tayor viśeṣaṇaṃ vācyaṃ naitat paśyāmi kiṃcana ||
नासतः क्रियते व्यक्तिः कलादेर् ग्रन्थितस् तथा ॥ (२१।३)
nāsataḥ kriyate vyaktiḥ kalāder granthitas tathā ||
Data courtesy of The Digital Corpus of Sanskrit.