मूलमध्यमकारिकाःMūlamadhyamakārikāḥ
MMadhKār, 5
Select a line for its word-by-word analysis.
नाकाशं विद्यते किंचित् पूर्वम् आकाशलक्षणात् । (१।१)
nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt |
अलक्षणं प्रसज्येत स्यात् पूर्वं यदि लक्षणात् ॥ (१।२)
alakṣaṇaṃ prasajyeta syāt pūrvaṃ yadi lakṣaṇāt ||
अलक्षणो न कश्चिच् च भावः संविद्यते क्वचित् । (२।१)
alakṣaṇo na kaścic ca bhāvaḥ saṃvidyate kvacit |
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते ॥ (३।२)
salakṣaṇālakṣaṇābhyāṃ nāpyanyatra pravartate ||
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः ॥ (४।२)
lakṣyasyānupapattau ca lakṣaṇasyāpyasaṃbhavaḥ ||
तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते । (५।१)
tasmānna vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate |
लक्ष्यलक्षणनिर्मुक्तो नैव भावो ऽपि विद्यते ॥ (५।२)
lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate ||
तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् । (७।१)
tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam |
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः । (८।१)
astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ |
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् ॥ (८।२)
bhāvānāṃ te na paśyanti draṣṭavyopaśamaṃ śivam ||
Data courtesy of The Digital Corpus of Sanskrit.