पराशरधर्मसंहिताParāśaradharmasaṃhitā

ParDhSmṛti, 1

1 of 12 · 134 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो हिमशैलाग्रे देवदारुवनालये । (१।१)

athāto himaśailāgre devadāruvanālaye |

1.2१.२

व्यासम् एकाग्रम् आसीनम् अपृच्छन्न् ऋषयः पुरा ॥ (१।२)

vyāsam ekāgram āsīnam apṛcchann ṛṣayaḥ purā ||

2.1२.१

मानुषाणां हितं धर्मं वर्तमाने कलौ युगे । (२।१)

mānuṣāṇāṃ hitaṃ dharmaṃ vartamāne kalau yuge |

2.2२.२

शौचाचारं यथावच् च वद सत्यवतीसुत ॥ (२।२)

śaucācāraṃ yathāvac ca vada satyavatīsuta ||

3.1३.१

तच्छ्रुत्वा ऋषिवाक्यं तु सशिष्यो ऽग्न्यर्कसंनिभः । (३।१)

tacchrutvā ṛṣivākyaṃ tu saśiṣyo 'gnyarkasaṃnibhaḥ |

3.2३.२

प्रत्युवाच महातेजाः श्रुतिस्मृतिविशारदः ॥ (३।२)

pratyuvāca mahātejāḥ śrutismṛtiviśāradaḥ ||

4.1४.१

न चाहं सर्वतत्त्वज्ञः कथं धर्मं वदाम्य् अहं । (४।१)

na cāhaṃ sarvatattvajñaḥ kathaṃ dharmaṃ vadāmy ahaṃ |

4.2४.२

अस्मत्पितैव प्रष्टव्य इति व्यासः सुतो ऽब्रवीत् ॥ (४।२)

asmatpitaiva praṣṭavya iti vyāsaḥ suto 'bravīt ||

5.1५.१

ततस् त ऋषयः सर्वे धर्मतत्त्वार्थकाङ्क्षिणः । (५।१)

tatas ta ṛṣayaḥ sarve dharmatattvārthakāṅkṣiṇaḥ |

5.2५.२

ऋषिं व्यासं पुरस्कृत्य गता बदरिकाश्रमम् ॥ (५।२)

ṛṣiṃ vyāsaṃ puraskṛtya gatā badarikāśramam ||

6.1६.१

नानापुष्पलताकीर्णं फलवृक्षैर् अलंकृतम् । (६।१)

nānāpuṣpalatākīrṇaṃ phalavṛkṣair alaṃkṛtam |

6.2६.२

नदीप्रस्रवणोपेतं पुण्यतीर्थोपशोभितं ॥ (६।२)

nadīprasravaṇopetaṃ puṇyatīrthopaśobhitaṃ ||

7.1७.१

मृगपक्षिनिनादाढ्यं देवतायतनावृतम् । (७।१)

mṛgapakṣininādāḍhyaṃ devatāyatanāvṛtam |

7.2७.२

यक्षगन्धर्वसिद्धैश् च नृत्यगीतैर् अलंकृतम् ॥ (७।२)

yakṣagandharvasiddhaiś ca nṛtyagītair alaṃkṛtam ||

8.1८.१

तस्मिन्न् ऋषिसभामध्ये शक्तिपुत्रं पराशरम् । (८।१)

tasminn ṛṣisabhāmadhye śaktiputraṃ parāśaram |

8.2८.२

सुखासीनं महातेजा मुनिमुख्यगणावृतम् ॥ (८।२)

sukhāsīnaṃ mahātejā munimukhyagaṇāvṛtam ||

9.1९.१

कृताञ्जलिपुटो भूत्वा व्यासस् तु ऋषिभिः सह । (९।१)

kṛtāñjalipuṭo bhūtvā vyāsas tu ṛṣibhiḥ saha |

9.2९.२

प्रदक्षिणाभिवादैश् च स्तुतिभिः समपूजयत् ॥ (९।२)

pradakṣiṇābhivādaiś ca stutibhiḥ samapūjayat ||

10.1१०.१

ततः संतुष्टहृदयः पराशरमहामुनिः । (१०।१)

tataḥ saṃtuṣṭahṛdayaḥ parāśaramahāmuniḥ |

10.2१०.२

आह सुस्वागतं ब्रूहीत्य् आसीनो मुनिपुङ्गवः ॥ (१०।२)

āha susvāgataṃ brūhīty āsīno munipuṅgavaḥ ||

11.1११.१

कुशलं सम्यग् इत्य् उक्त्वा व्यासः पृच्छत्य् अनन्तरम् । (११।१)

kuśalaṃ samyag ity uktvā vyāsaḥ pṛcchaty anantaram |

11.2११.२

यदि जानासि भक्तिं मे स्नेहाद् वा भक्तवत्सल ॥ (११।२)

yadi jānāsi bhaktiṃ me snehād vā bhaktavatsala ||

12.1१२.१

धर्मं कथय मे तात अनुग्राह्यो ह्य् अहं तव । (१२।१)

dharmaṃ kathaya me tāta anugrāhyo hy ahaṃ tava |

12.2१२.२

श्रुता मे मानवा धर्मा वासिष्ठाः काश्यपास् तथा ॥ (१२।२)

śrutā me mānavā dharmā vāsiṣṭhāḥ kāśyapās tathā ||

13.1१३.१

गार्गेया गौतमीयाश् च तथा चोशनसा स्मृताः । (१३।१)

gārgeyā gautamīyāś ca tathā cośanasā smṛtāḥ |

13.2१३.२

अत्रेर् विष्णोश् च संवर्ताद् दक्षाद् अङ्गिरसस् तथा ॥ (१३।२)

atrer viṣṇoś ca saṃvartād dakṣād aṅgirasas tathā ||

14.1१४.१

शातातपाच् च हारीताद् याज्ञवल्क्यात् तथैव च । (१४।१)

śātātapāc ca hārītād yājñavalkyāt tathaiva ca |

14.2१४.२

आपस्तम्बकृता धर्माः शङ्खस्य लिखितस्य च ॥ (१४।२)

āpastambakṛtā dharmāḥ śaṅkhasya likhitasya ca ||

15.1१५.१

कात्यायनकृताश् चैव तथा प्राचेतसान् मुनेः । (१५।१)

kātyāyanakṛtāś caiva tathā prācetasān muneḥ |

15.2१५.२

श्रुता ह्य् एते भवत्प्रोक्ताः श्रुत्यर्था मे न विस्मृताः ॥ (१५।२)

śrutā hy ete bhavatproktāḥ śrutyarthā me na vismṛtāḥ ||

16.1१६.१

अस्मिन् मन्वन्तरे धर्माः कृतत्रेतादिके युगे । (१६।१)

asmin manvantare dharmāḥ kṛtatretādike yuge |

16.2१६.२

सर्वे धर्माः कृते जाताः सर्वे नष्टाः कलौ युगे ॥ (१६।२)

sarve dharmāḥ kṛte jātāḥ sarve naṣṭāḥ kalau yuge ||

17.1१७.१

चातुर्वर्ण्यसमाचारं किंचित् साधारणं वद । (१७।१)

cāturvarṇyasamācāraṃ kiṃcit sādhāraṇaṃ vada |

17.2१७.२

चतुर्णाम् अपि वर्णानां कर्तव्यं धर्मकोविदैः ॥ (१७।२)

caturṇām api varṇānāṃ kartavyaṃ dharmakovidaiḥ ||

18.1१८.१

ब्रूहि धर्मस्वरूपज्ञ सूक्ष्मं स्थूलं च विस्तरात् । (१८।१)

brūhi dharmasvarūpajña sūkṣmaṃ sthūlaṃ ca vistarāt |

18.2१८.२

व्यासवाक्यावसाने तु मुनिमुख्यः पराशरः ॥ (१८।२)

vyāsavākyāvasāne tu munimukhyaḥ parāśaraḥ ||

19.1१९.१

धर्मस्य निर्णयं प्राह सूक्ष्मं स्थूलं च विस्तरात् । (१९।१)

dharmasya nirṇayaṃ prāha sūkṣmaṃ sthūlaṃ ca vistarāt |

19.2१९.२

शृणु पुत्र प्रवक्ष्यामि शृण्वन्तु मुनयस् तथा ॥ (१९।२)

śṛṇu putra pravakṣyāmi śṛṇvantu munayas tathā ||

20.1२०.१

कल्पे कल्पे क्षयोत्पत्त्या ब्रह्मविष्णुमहेश्वराः । (२०।१)

kalpe kalpe kṣayotpattyā brahmaviṣṇumaheśvarāḥ |

20.2२०.२

श्रुतिस्मृतिसदाचारनिर्णेतारश् च सर्वदा ॥ (२०।२)

śrutismṛtisadācāranirṇetāraś ca sarvadā ||

21.1२१.१

न कश्चिद् वेदकर्ता च वेदं स्मृत्वा चतुर्मुखः । (२१।१)

na kaścid vedakartā ca vedaṃ smṛtvā caturmukhaḥ |

21.2२१.२

तथैव धर्मान् स्मरति मनुः कल्पान्तरे ऽन्तरे ॥ (२१।२)

tathaiva dharmān smarati manuḥ kalpāntare 'ntare ||

22.1२२.१

अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे युगे । (२२।१)

anye kṛtayuge dharmās tretāyāṃ dvāpare yuge |

22.2२२.२

अन्ये कलियुगे नॄणां युगरूपानुसारतः ॥ (२२।२)

anye kaliyuge nṝṇāṃ yugarūpānusārataḥ ||

23.1२३.१

तपः परं कृतयुगे त्रेतायां ज्ञानम् उच्यते । (२३।१)

tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate |

23.2२३.२

द्वापरे यज्ञम् एवाहुः दानम् एव कलौ युगे ॥ (२३।२)

dvāpare yajñam evāhuḥ dānam eva kalau yuge ||

24.1२४.१

कृते तु मानवा धर्मास् त्रेतायां गौतमाः स्मृताः । (२४।१)

kṛte tu mānavā dharmās tretāyāṃ gautamāḥ smṛtāḥ |

24.2२४.२

द्वापरे शाङ्खलिखिताः कलौ पाराशराः स्मृताः ॥ (२४।२)

dvāpare śāṅkhalikhitāḥ kalau pārāśarāḥ smṛtāḥ ||

25.1२५.१

त्यजेद् देशं कृतयुगे त्रेतायां ग्रामम् उत्सृजेत् । (२५।१)

tyajed deśaṃ kṛtayuge tretāyāṃ grāmam utsṛjet |

25.2२५.२

द्वापरे कुलम् एकं तु कर्तारं तु कलौ युगे ॥ (२५।२)

dvāpare kulam ekaṃ tu kartāraṃ tu kalau yuge ||

26.1२६.१

कृते संभाषणाद् एव त्रेतायां स्पर्शनेन च । (२६।१)

kṛte saṃbhāṣaṇād eva tretāyāṃ sparśanena ca |

26.2२६.२

द्वापरे त्व् अन्नम् आदाय कलौ पतति कर्मणा ॥ (२६।२)

dvāpare tv annam ādāya kalau patati karmaṇā ||

27.1२७.१

कृते तात्कालिकः शापस् त्रेतायां दशभिर् दिनैः । (२७।१)

kṛte tātkālikaḥ śāpas tretāyāṃ daśabhir dinaiḥ |

27.2२७.२

द्वापरे चैकमासेन कलौ संवत्सरेण तु ॥ (२७।२)

dvāpare caikamāsena kalau saṃvatsareṇa tu ||

28.1२८.१

अभिगम्य कृते दानं त्रेतास्व् आहूय दीयते । (२८।१)

abhigamya kṛte dānaṃ tretāsv āhūya dīyate |

28.2२८.२

द्वापरे याचमानाय सेवया दीयते कलौ ॥ (२८।२)

dvāpare yācamānāya sevayā dīyate kalau ||

29.1२९.१

अभिगम्योत्तमं दानम् आहूयैव तु मध्यमम् । (२९।१)

abhigamyottamaṃ dānam āhūyaiva tu madhyamam |

29.2२९.२

अधमं याचमानाय सेवादानं तु निष्फलम् ॥ (२९।२)

adhamaṃ yācamānāya sevādānaṃ tu niṣphalam ||

30.1३०.१

जितो धर्मो ह्य् अधर्मेण सत्यं चैवानृतेन च । (३०।१)

jito dharmo hy adharmeṇa satyaṃ caivānṛtena ca |

30.2३०.२

जिताश् चोरैश् च राजानः स्त्रीभिश् च पुरुषाः कलौ ॥ (३०।२)

jitāś coraiś ca rājānaḥ strībhiś ca puruṣāḥ kalau ||

31.1३१.१

सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति । (३१।१)

sīdanti cāgnihotrāṇi gurupūjā praṇaśyati |

31.2३१.२

कुमार्यश् च प्रसूयन्ते अस्मिन् कलियुगे सदा ॥ (३१।२)

kumāryaś ca prasūyante asmin kaliyuge sadā ||

32.1३२.१

कृते त्व् अस्थिगताः प्राणास् त्रेतायां मांसम् आश्रिताः । (३२।१)

kṛte tv asthigatāḥ prāṇās tretāyāṃ māṃsam āśritāḥ |

32.2३२.२

द्वापरे रुधिरं चैव कलौ त्व् अन्नादिषु स्थिताः ॥ (३२।२)

dvāpare rudhiraṃ caiva kalau tv annādiṣu sthitāḥ ||

33.1३३.१

युगे युगे च ये धर्मास् तत्र तत्र च ये द्विजाः । (३३।१)

yuge yuge ca ye dharmās tatra tatra ca ye dvijāḥ |

33.2३३.२

तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥ (३३।२)

teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ ||

34.1३४.१

युगे युगे तु सामर्थ्यं शेषं मुनिविभाषितम् । (३४।१)

yuge yuge tu sāmarthyaṃ śeṣaṃ munivibhāṣitam |

34.2३४.२

पराशरेण चाप्य् उक्तं प्रायश्चित्तं विधीयते ॥ (३४।२)

parāśareṇa cāpy uktaṃ prāyaścittaṃ vidhīyate ||

35.1३५.१

अहम् अद्यैव तत् सर्वम् अनुस्मृत्य ब्रवीमि वः । (३५।१)

aham adyaiva tat sarvam anusmṛtya bravīmi vaḥ |

35.2३५.२

चातुर्वर्ण्यसमाचारं शृण्वन्तु ऋषिपुङ्गवाः ॥ (३५।२)

cāturvarṇyasamācāraṃ śṛṇvantu ṛṣipuṅgavāḥ ||

36.1३६.१

पराशरमतं पुण्यं पवित्रं पापनाशनम् । (३६।१)

parāśaramataṃ puṇyaṃ pavitraṃ pāpanāśanam |

36.2३६.२

चिन्तितं ब्राह्मणार्थाय धर्मसंस्थापनाय च ॥ (३६।२)

cintitaṃ brāhmaṇārthāya dharmasaṃsthāpanāya ca ||

37.1३७.१

चतुर्णाम् अपि वर्णानाम् आचारो धर्मपालकः । (३७।१)

caturṇām api varṇānām ācāro dharmapālakaḥ |

37.2३७.२

आचारभ्रष्टदेहानां भवेद् धर्मः पराङ्मुखः ॥ (३७।२)

ācārabhraṣṭadehānāṃ bhaved dharmaḥ parāṅmukhaḥ ||

38.1३८.१

षट्कर्माभिरतो नित्यं देवतातिथिपूजकः । (३८।१)

ṣaṭkarmābhirato nityaṃ devatātithipūjakaḥ |

38.2३८.२

हुतशेषं तु भुञ्जानो ब्राह्मणो नावसीदति ॥ (३८।२)

hutaśeṣaṃ tu bhuñjāno brāhmaṇo nāvasīdati ||

39.1३९.१

संध्यास्नानं जपो होमो देवतातिथिपूजनम् । (३९।१)

saṃdhyāsnānaṃ japo homo devatātithipūjanam |

39.2३९.२

आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने ॥ (३९।२)

ātithyaṃ vaiśvadevaṃ ca ṣaṭkarmāṇi dine dine ||

40.1४०.१

इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा । (४०।१)

iṣṭo vā yadi vā dveṣyo mūrkhaḥ paṇḍita eva vā |

40.2४०.२

सम्प्राप्तो वैश्वदेवान्ते सो ऽतिथिः स्वर्गसंग्रमः ॥ (४०।२)

samprāpto vaiśvadevānte so 'tithiḥ svargasaṃgramaḥ ||

41.1४१.१

दूराध्वोपगतं श्रान्तं वैश्वदेव उपस्थितम् । (४१।१)

dūrādhvopagataṃ śrāntaṃ vaiśvadeva upasthitam |

41.2४१.२

अतिथिं तं विजानीयान् नातिथिः पूर्वम् आगतः ॥ (४१।२)

atithiṃ taṃ vijānīyān nātithiḥ pūrvam āgataḥ ||

42.1४२.१

नैकग्रामीणम् अतिथिं संगृह्णीत कदाचन । (४२।१)

naikagrāmīṇam atithiṃ saṃgṛhṇīta kadācana |

42.2४२.२

अनित्यम् आगतो यस्मात् तस्माद् अतिथिर् उच्यते ॥ (४२।२)

anityam āgato yasmāt tasmād atithir ucyate ||

43.1४३.१

अतिथिं तत्र सम्प्राप्तं पूजयेत् स्वागतादिना । (४३।१)

atithiṃ tatra samprāptaṃ pūjayet svāgatādinā |

43.2४३.२

अर्घ्यासनप्रदानेन पादप्रक्षालनेन च ॥ (४३।२)

arghyāsanapradānena pādaprakṣālanena ca ||

44.1४४.१

श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च । (४४।१)

śraddhayā cānnadānena priyapraśnottareṇa ca |

44.2४४.२

गच्छन्तं चानुयानेन प्रीतिम् उत्पादयेद् गृही ॥ (४४।२)

gacchantaṃ cānuyānena prītim utpādayed gṛhī ||

45.1४५.१

अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते । (४५।१)

atithir yasya bhagnāśo gṛhāt pratinivartate |

45.2४५.२

पितरस् तस्य नाश्नन्ति दश वर्षाणि पञ्च च ॥ (४५।२)

pitaras tasya nāśnanti daśa varṣāṇi pañca ca ||

46.1४६.१

काष्ठभारसहस्रेण घृतकुम्भशतेन च । (४६।१)

kāṣṭhabhārasahasreṇa ghṛtakumbhaśatena ca |

46.2४६.२

अतिथिर् यस्य भग्नाशस् तस्य होमो निरर्थकः ॥ (४६।२)

atithir yasya bhagnāśas tasya homo nirarthakaḥ ||

47.1४७.१

सुक्षेत्रे वापयेद् बीजं सुपात्रे निक्षिपेद् धनम् । (४७।१)

sukṣetre vāpayed bījaṃ supātre nikṣiped dhanam |

47.2४७.२

सुक्षेत्रे च सुपात्रे च ह्य् उप्तं दत्तं न नश्यति ॥ (४७।२)

sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati ||

48.1४८.१

न पृच्छेद् गोत्रचरणे न स्वाध्यायं श्रुतं तथा । (४८।१)

na pṛcched gotracaraṇe na svādhyāyaṃ śrutaṃ tathā |

48.2४८.२

हृदये कल्पयेद् देवं सर्वदेवमयो हि सः ॥ (४८।२)

hṛdaye kalpayed devaṃ sarvadevamayo hi saḥ ||

49.1४९.१

अपूर्वः सुव्रती विप्रो ह्य् अपूर्वश् चातिथिर् यथा । (४९।१)

apūrvaḥ suvratī vipro hy apūrvaś cātithir yathā |

49.2४९.२

वेदाभ्यासरतो नित्यं ताव् अपूर्वौ दिने दिने ॥ (४९।२)

vedābhyāsarato nityaṃ tāv apūrvau dine dine ||

50.1५०.१

वैश्वदेवे तु सम्प्राप्ते भिक्षुके गृहम् आगते । (५०।१)

vaiśvadeve tu samprāpte bhikṣuke gṛham āgate |

50.2५०.२

उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ॥ (५०।२)

uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet ||

51.1५१.१

यतिश् च ब्रह्मचारी च पक्वान्नस्वामिनाव् उभौ । (५१।१)

yatiś ca brahmacārī ca pakvānnasvāmināv ubhau |

51.2५१.२

तयोर् अन्नम् अदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ (५१।२)

tayor annam adattvā tu bhuktvā cāndrāyaṇaṃ caret ||

52.1५२.१

दद्याच् च भिक्षात्रितयं परिव्राड् ब्रह्मचारिणाम् । (५२।१)

dadyāc ca bhikṣātritayaṃ parivrāḍ brahmacāriṇām |

52.2५२.२

इच्छया च ततो दद्याद् विभवे सत्यवारितम् ॥ (५२।२)

icchayā ca tato dadyād vibhave satyavāritam ||

53.1५३.१

यतिहस्ते जलं दद्याद् भैक्षं दद्यात् पुनर् जलम् । (५३।१)

yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam |

53.2५३.२

तद् भैक्ष्यं मेरुणा तुल्यं तज् जलं सागरोपमम् ॥ (५३।२)

tad bhaikṣyaṃ meruṇā tulyaṃ taj jalaṃ sāgaropamam ||

54.1५४.१

यस्य छत्रं हयश् चैव कुञ्जरारोहम् ऋद्धिमत् । (५४।१)

yasya chatraṃ hayaś caiva kuñjarāroham ṛddhimat |

54.2५४.२

ऐन्द्रं स्थानम् उपासीत तस्मात् तं न विचारयेत् ॥ (५४।२)

aindraṃ sthānam upāsīta tasmāt taṃ na vicārayet ||

55.1५५.१

वैश्वदेवकृतं पापं शक्तो भिक्षुर् व्यपोहितुम् । (५५।१)

vaiśvadevakṛtaṃ pāpaṃ śakto bhikṣur vyapohitum |

55.2५५.२

न हि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥ (५५।२)

na hi bhikṣukṛtān doṣān vaiśvadevo vyapohati ||

56.1५६.१

अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः । (५६।१)

akṛtvā vaiśvadevaṃ tu bhuñjate ye dvijādhamāḥ |

56.2५६.२

सर्वे ते निष्फला ज्ञेयाः पतन्ति नरके ऽशुचौ ॥ (५६।२)

sarve te niṣphalā jñeyāḥ patanti narake 'śucau ||

57.1५७.१

वैश्वदेवविहीना ये आतिथ्येन बहिष्कृताः । (५७।१)

vaiśvadevavihīnā ye ātithyena bahiṣkṛtāḥ |

57.2५७.२

सर्वे ते नरकं यान्ति काकयोनिं व्रजन्ति च ॥ (५७।२)

sarve te narakaṃ yānti kākayoniṃ vrajanti ca ||

58.1५८.१

पापो वा यदि चण्डालो विप्रघ्नः पितृघातकः । (५८।१)

pāpo vā yadi caṇḍālo vipraghnaḥ pitṛghātakaḥ |

58.2५८.२

वैश्वदेवे तु सम्प्राप्तः सो ऽतिथिः स्वर्गसंक्रमः ॥ (५८।२)

vaiśvadeve tu samprāptaḥ so 'tithiḥ svargasaṃkramaḥ ||

59.1५९.१

यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः । (५९।१)

yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ |

59.2५९.२

वामपादे करं न्यस्य तद् वै रक्षांसि भुञ्जते ॥ (५९।२)

vāmapāde karaṃ nyasya tad vai rakṣāṃsi bhuñjate ||

60.1६०.१

अव्रता ह्य् अनधीयाना यत्र भैक्षचरा द्विजाः । (६०।१)

avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ |

60.2६०.२

तं ग्रामं दण्डयेद् राजा चोरभक्तप्रदो हि सः ॥ (६०।२)

taṃ grāmaṃ daṇḍayed rājā corabhaktaprado hi saḥ ||

61.1६१.१

क्षत्रियो हि प्रजा रक्षञ् शस्त्रपाणिः प्रदण्डवान् । (६१।१)

kṣatriyo hi prajā rakṣañ śastrapāṇiḥ pradaṇḍavān |

61.2६१.२

निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत् ॥ (६१।२)

nirjitya parasainyāni kṣitiṃ dharmeṇa pālayet ||

62.1६२.१

पुष्पं पुष्पं विचिनुयान् मूलच्छेदं न कारयेत् । (६२।१)

puṣpaṃ puṣpaṃ vicinuyān mūlacchedaṃ na kārayet |

62.2६२.२

मालाकार इवारामे न यथाङ्गारकारकः ॥ (६२।२)

mālākāra ivārāme na yathāṅgārakārakaḥ ||

63.1६३.१

लाभकर्म तथा रत्नं गवां च परिपालनम् । (६३।१)

lābhakarma tathā ratnaṃ gavāṃ ca paripālanam |

63.2६३.२

कृषिकर्म च वाणिज्यं वैश्यवृत्तिर् उदाहृता ॥ (६३।२)

kṛṣikarma ca vāṇijyaṃ vaiśyavṛttir udāhṛtā ||

64.1६४.१

शूद्रस्य द्विजशुश्रूषा परमो धर्म उच्यते । (६४।१)

śūdrasya dvijaśuśrūṣā paramo dharma ucyate |

64.2६४.२

अन्यथा कुरुते किंचित् तद् भवेत् तस्य निष्फलम् ॥ (६४।२)

anyathā kurute kiṃcit tad bhavet tasya niṣphalam ||

65.1६५.१

लवणं मधुतैलं च दधितक्रं घृतं पयः । (६५।१)

lavaṇaṃ madhutailaṃ ca dadhitakraṃ ghṛtaṃ payaḥ |

65.2६५.२

न दुष्येच्छूद्रजातीनां कुर्यात् सर्वेषु विक्रयम् ॥ (६५।२)

na duṣyecchūdrajātīnāṃ kuryāt sarveṣu vikrayam ||

66.1६६.१

विक्रीणन् मध्यमांसानि ह्य् अभक्षस्य च भक्षणम् । (६६।१)

vikrīṇan madhyamāṃsāni hy abhakṣasya ca bhakṣaṇam |

66.2६६.२

कुर्वन्न् अगम्यागमनं शूद्रः पतति तत्क्षणात् ॥ (६६।२)

kurvann agamyāgamanaṃ śūdraḥ patati tatkṣaṇāt ||

67.1६७.१

कपिलाक्षीरपानेन ब्राह्मणीगमनेन च । (६७।१)

kapilākṣīrapānena brāhmaṇīgamanena ca |

67.2६७.२

वेदाक्षरविचारेण शूद्रश् चाण्डालतां व्रजेत् ॥ (६७।२)

vedākṣaravicāreṇa śūdraś cāṇḍālatāṃ vrajet ||

Data courtesy of The Digital Corpus of Sanskrit.

ParDhSmṛti, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit