पराशरधर्मसंहिताParāśaradharmasaṃhitā

ParDhSmṛti, 7

7 of 12 · 76 verses

Select a line for its word-by-word analysis.

1.1१.१

अथातो द्रव्यशुद्धिस् तु पराशरवचो यथा । (१।१)

athāto dravyaśuddhis tu parāśaravaco yathā |

1.2१.२

दारवाणां पात्राणां तक्षणाच्छुद्धिर् इष्यते ॥ (१।२)

dāravāṇāṃ pātrāṇāṃ takṣaṇācchuddhir iṣyate ||

2.1२.१

भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति । (२।१)

bhasmanā śudhyate kāṃsyaṃ tāmramamlena śudhyati |

2.2२.२

रजसा शुध्यते नारी विकलं या न गच्छति ॥ (२।२)

rajasā śudhyate nārī vikalaṃ yā na gacchati ||

3.1३.१

नदी वेगेन शुध्येत लोपो यदि न दृश्यते । (३।१)

nadī vegena śudhyeta lopo yadi na dṛśyate |

3.2३.२

वापीकूपतडागेषु दूषितेषु कथंचन ॥ (३।२)

vāpīkūpataḍāgeṣu dūṣiteṣu kathaṃcana ||

4.1४.१

उद्धृत्य वै घटशतं पञ्चगव्येन शुध्यति । (४।१)

uddhṛtya vai ghaṭaśataṃ pañcagavyena śudhyati |

4.2४.२

अष्टवर्षा भवेद् गौरी नववर्षा तु रोहिणी ॥ (४।२)

aṣṭavarṣā bhaved gaurī navavarṣā tu rohiṇī ||

5.1५.१

दशवर्षा भवेत् कन्या अत ऊर्ध्वं रजस्वला । (५।१)

daśavarṣā bhavet kanyā ata ūrdhvaṃ rajasvalā |

5.2५.२

प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति ॥ (५।२)

prāpte tu dvādaśe varṣe yaḥ kanyāṃ na prayacchati ||

6.1६.१

मासि मासि रजस् तस्याः पिबन्ति पितरः स्वयम् । (६।१)

māsi māsi rajas tasyāḥ pibanti pitaraḥ svayam |

6.2६.२

माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ॥ (६।२)

mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca ||

7.1७.१

त्रयस् ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् । (७।१)

trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām |

7.2७.२

यस् तां समुद्वहेत् कन्यां ब्राह्मणो मदमोहितः ॥ (७।२)

yas tāṃ samudvahet kanyāṃ brāhmaṇo madamohitaḥ ||

8.1८.१

असंभाष्यो ह्य् अपाङ्क्तेयः स विप्रो वृषलीपतिः । (८।१)

asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ |

8.2८.२

यः करोत्य् एकरात्रेण वृषलीसेवनं द्विजः ॥ (८।२)

yaḥ karoty ekarātreṇa vṛṣalīsevanaṃ dvijaḥ ||

9.1९.१

स भैक्षभुज् जपन् नित्यं त्रिभिर् वर्षैर् विशुध्यति । (९।१)

sa bhaikṣabhuj japan nityaṃ tribhir varṣair viśudhyati |

9.2९.२

अस्तं गते यदा सूर्ये चण्डालं पतितं स्त्रियम् ॥ (९।२)

astaṃ gate yadā sūrye caṇḍālaṃ patitaṃ striyam ||

10.1१०.१

सूतिकां स्पृशतश् चैव कथं शुद्धिर् विधीयते । (१०।१)

sūtikāṃ spṛśataś caiva kathaṃ śuddhir vidhīyate |

10.2१०.२

जातवेदःसुवर्णं च सोममार्गं विलोक्य च ॥ (१०।२)

jātavedaḥsuvarṇaṃ ca somamārgaṃ vilokya ca ||

11.1११.१

ब्राह्मणानुमतश् चैव स्नानं कृत्वा विशुध्यति । (११।१)

brāhmaṇānumataś caiva snānaṃ kṛtvā viśudhyati |

11.2११.२

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी ब्राह्मणी तथा ॥ (११।२)

spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī brāhmaṇī tathā ||

12.1१२.१

तावत् तिष्ठेन् निराहारा त्रिरात्रेणैव शुध्यति । (१२।१)

tāvat tiṣṭhen nirāhārā trirātreṇaiva śudhyati |

12.2१२.२

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा ॥ (१२।२)

spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī kṣatriyā tathā ||

13.1१३.१

अर्धकृच्छ्रं चरेत् पूर्वा पादम् एकम् अनन्तरा । (१३।१)

ardhakṛcchraṃ caret pūrvā pādam ekam anantarā |

13.2१३.२

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजा तथा ॥ (१३।२)

spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī vaiśyajā tathā ||

14.1१४.१

पादहीनं चरेत् पूर्वा पादम् एकम् अनन्तरा । (१४।१)

pādahīnaṃ caret pūrvā pādam ekam anantarā |

14.2१४.२

स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा ॥ (१४।२)

spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī śūdrajā tathā ||

15.1१५.१

कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुध्यति । (१५।१)

kṛcchreṇa śudhyate pūrvā śūdrā dānena śudhyati |

15.2१५.२

स्नाता रजस्वला या तु चतुर्थे ऽहनि शुध्यति ॥ (१५।२)

snātā rajasvalā yā tu caturthe 'hani śudhyati ||

16.1१६.१

कुर्याद् रजो निवृत्तौ तु दैवपित्र्यादि कर्म च । (१६।१)

kuryād rajo nivṛttau tu daivapitryādi karma ca |

16.2१६.२

रोगेण यद् रजः स्त्रीणाम् अन्वहं तु प्रवर्तते ॥ (१६।२)

rogeṇa yad rajaḥ strīṇām anvahaṃ tu pravartate ||

17.1१७.१

नाशुचिः सा ततस् तेन तत् स्याद् वैकालिकं मतम् । (१७।१)

nāśuciḥ sā tatas tena tat syād vaikālikaṃ matam |

17.2१७.२

साध्वाचारा न तावत् स्याद् रजो यावत् प्रवर्तते ॥ (१७।२)

sādhvācārā na tāvat syād rajo yāvat pravartate ||

18.1१८.१

रजोनिवृत्तौ गम्या स्त्री गृहकर्मणि चैव हि । (१८।१)

rajonivṛttau gamyā strī gṛhakarmaṇi caiva hi |

18.2१८.२

प्रथमे ऽहनि चण्डाली द्वितीये ब्रह्मघातिनी ॥ (१८।२)

prathame 'hani caṇḍālī dvitīye brahmaghātinī ||

19.1१९.१

तृतीये रजकी प्रोक्ता चतुर्थे ऽहनि शुध्यति । (१९।१)

tṛtīye rajakī proktā caturthe 'hani śudhyati |

19.2१९.२

आतुरे स्नानोत्पन्ने दशकृत्वो ह्य् अनातुरः ॥ (१९।२)

āture snānotpanne daśakṛtvo hy anāturaḥ ||

20.1२०.१

स्नात्वा स्नात्वा स्पृशेद् एनं ततः शुध्येत् स आतुरः । (२०।१)

snātvā snātvā spṛśed enaṃ tataḥ śudhyet sa āturaḥ |

20.2२०.२

उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः ॥ (२०।२)

ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ ||

21.1२१.१

उपोष्य रजनीम् एकां पञ्चगव्येन शुध्यति । (२१।१)

upoṣya rajanīm ekāṃ pañcagavyena śudhyati |

21.2२१.२

अनुच्छिष्टेन शूद्रेण स्पर्शे स्नानं विधीयते ॥ (२१।२)

anucchiṣṭena śūdreṇa sparśe snānaṃ vidhīyate ||

22.1२२.१

तेनोच्छिष्टेन संस्पृष्टः प्राजापत्यं समाचरेत् । (२२।१)

tenocchiṣṭena saṃspṛṣṭaḥ prājāpatyaṃ samācaret |

22.2२२.२

भस्मना शुध्यते कांस्यं सुरया यन् न लिप्यते ॥ (२२।२)

bhasmanā śudhyate kāṃsyaṃ surayā yan na lipyate ||

23.1२३.१

सुरामात्रेण संस्पृष्टं शुध्यते ऽग्न्युपलेखनैः । (२३।१)

surāmātreṇa saṃspṛṣṭaṃ śudhyate 'gnyupalekhanaiḥ |

23.2२३.२

गवाघ्रातानि कांस्यानि श्वकाकोपहतानि च ॥ (२३।२)

gavāghrātāni kāṃsyāni śvakākopahatāni ca ||

24.1२४.१

शुध्यन्ति दशभिः क्षारैः शूद्रोच्छिष्टानि यानि च । (२४।१)

śudhyanti daśabhiḥ kṣāraiḥ śūdrocchiṣṭāni yāni ca |

24.2२४.२

गण्डूषं पादशौचं च कृत्वा वै कांस्यभाजने ॥ (२४।२)

gaṇḍūṣaṃ pādaśaucaṃ ca kṛtvā vai kāṃsyabhājane ||

25.1२५.१

षण्मासान् भुवि निःक्षिप्य उद्धृत्य पुनर् आहरेत् । (२५।१)

ṣaṇmāsān bhuvi niḥkṣipya uddhṛtya punar āharet |

25.2२५.२

आयसेष्व् आयसानां च सीसस्याग्नौ विशोधनम् ॥ (२५।२)

āyaseṣv āyasānāṃ ca sīsasyāgnau viśodhanam ||

26.1२६.१

दन्तम् अस्थि तथा भृङ्गं रूप्यं सौवर्णभाजनम् । (२६।१)

dantam asthi tathā bhṛṅgaṃ rūpyaṃ sauvarṇabhājanam |

26.2२६.२

मणिपाषाणपात्राणीत्य् एतान् प्रक्षालयेज् जलैः ॥ (२६।२)

maṇipāṣāṇapātrāṇīty etān prakṣālayej jalaiḥ ||

27.1२७.१

पाषाणे तु पुनर् घर्षः शुद्धिर् एवम् उदाहृता । (२७।१)

pāṣāṇe tu punar gharṣaḥ śuddhir evam udāhṛtā |

27.2२७.२

मृण्मये दहनाच्छुद्धिर् धान्यानां मार्जनाद् अपि ॥ (२७।२)

mṛṇmaye dahanācchuddhir dhānyānāṃ mārjanād api ||

28.1२८.१

वेणुवल्कलचीराणां क्षौमकार्पासवाससाम् । (२८।१)

veṇuvalkalacīrāṇāṃ kṣaumakārpāsavāsasām |

28.2२८.२

और्णनेत्रपटानां च प्रोक्षणाच्छुद्धिर् इष्यते ॥ (२८।२)

aurṇanetrapaṭānāṃ ca prokṣaṇācchuddhir iṣyate ||

29.1२९.१

मुञ्जोपस्करशूर्पाणां शणस्य फलचर्मणाम् । (२९।१)

muñjopaskaraśūrpāṇāṃ śaṇasya phalacarmaṇām |

29.2२९.२

तृणकाष्ठस्य रज्जूणाम् उदकाभ्युक्षणं मतम् ॥ (२९।२)

tṛṇakāṣṭhasya rajjūṇām udakābhyukṣaṇaṃ matam ||

30.1३०.१

तूलिकाद्युपधानानि रक्तवस्त्रादिकानि च । (३०।१)

tūlikādyupadhānāni raktavastrādikāni ca |

30.2३०.२

शोषयित्वातपेनैव प्रोक्षणाच्छुद्धिताम् इयुः ॥ (३०।२)

śoṣayitvātapenaiva prokṣaṇācchuddhitām iyuḥ ||

31.1३१.१

मार्जारमक्षिकाकीटपतङ्गकृमिदर्दुराः । (३१।१)

mārjāramakṣikākīṭapataṅgakṛmidardurāḥ |

31.2३१.२

मेध्यामेध्यं स्पृशन्तो ऽपि नोच्छिष्टं मनुर् अब्रवीत् ॥ (३१।२)

medhyāmedhyaṃ spṛśanto 'pi nocchiṣṭaṃ manur abravīt ||

32.1३२.१

महीं स्पृष्ट्वागतं तोयं याश् चाप्य् अन्योन्यविप्रुषः । (३२।१)

mahīṃ spṛṣṭvāgataṃ toyaṃ yāś cāpy anyonyavipruṣaḥ |

32.2३२.२

भुक्तोच्छिष्टं तथा स्नेहं नोच्छिष्टं मनुर् अब्रवीत् ॥ (३२।२)

bhuktocchiṣṭaṃ tathā snehaṃ nocchiṣṭaṃ manur abravīt ||

33.1३३.१

ताम्बूलेक्षुफले चैव भुक्तस्नेहानुलेपने । (३३।१)

tāmbūlekṣuphale caiva bhuktasnehānulepane |

33.2३३.२

मधुपर्के च सोमे च नोच्छिष्टं धर्मतो विदुः ॥ (३३।२)

madhuparke ca some ca nocchiṣṭaṃ dharmato viduḥ ||

34.1३४.१

रथ्याकर्दमतोयानि नावः पन्थास् तृणानि च । (३४।१)

rathyākardamatoyāni nāvaḥ panthās tṛṇāni ca |

34.2३४.२

मारुतार्केण शुध्यन्ति पक्वेष्टकचितानि च ॥ (३४।२)

mārutārkeṇa śudhyanti pakveṣṭakacitāni ca ||

35.1३५.१

अदुष्टा संतता धारा वातोद्धूताश् च रेणवः । (३५।१)

aduṣṭā saṃtatā dhārā vātoddhūtāś ca reṇavaḥ |

35.2३५.२

स्त्रियो वृद्धाश् च बालाश् च न दुष्यन्ति कदाचन ॥ (३५।२)

striyo vṛddhāś ca bālāś ca na duṣyanti kadācana ||

36.1३६.१

देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्व् अपि । (३६।१)

deśabhaṅge pravāse vā vyādhiṣu vyasaneṣv api |

36.2३६.२

रक्षेद् एव स्वदेहादि पश्चाद् धर्मं समाचरेत् ॥ (३६।२)

rakṣed eva svadehādi paścād dharmaṃ samācaret ||

37.1३७.१

येन केन च धर्मेण मृदुना दारुणेन वा । (३७।१)

yena kena ca dharmeṇa mṛdunā dāruṇena vā |

37.2३७.२

उद्धरेद् दीनम् आत्मानं समर्थो धर्मम् आचरेत् ॥ (३७।२)

uddhared dīnam ātmānaṃ samartho dharmam ācaret ||

38.1३८.१

आपत्काले तु निस्तीर्णे शौचाचारं तु चिन्तयेत् । (३८।१)

āpatkāle tu nistīrṇe śaucācāraṃ tu cintayet |

38.2३८.२

शुद्धिं समुद्धरेत् पश्चात् स्वस्थो धर्मं समाचरेत् ॥ (३८।२)

śuddhiṃ samuddharet paścāt svastho dharmaṃ samācaret ||

Data courtesy of The Digital Corpus of Sanskrit.

ParDhSmṛti, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit