पराशरधर्मसंहिताParāśaradharmasaṃhitā

ParDhSmṛti, 5

5 of 12 · 50 verses

Select a line for its word-by-word analysis.

1.1१.१

वृकश्वानसृगालाद्यैर् दष्टो यस् तु द्विजोत्तमः । (१।१)

vṛkaśvānasṛgālādyair daṣṭo yas tu dvijottamaḥ |

1.2१.२

स्नात्वा जपेत् स गायत्रीं पवित्रां वेदमातरम् ॥ (१।२)

snātvā japet sa gāyatrīṃ pavitrāṃ vedamātaram ||

2.1२.१

गवां शृङ्गोदकैः स्नानं महानद्योस् तु संगमे । (२।१)

gavāṃ śṛṅgodakaiḥ snānaṃ mahānadyos tu saṃgame |

2.2२.२

समुद्रदर्शनाद् वापि शुना दष्टः शुचिर् भवेत् ॥ (२।२)

samudradarśanād vāpi śunā daṣṭaḥ śucir bhavet ||

3.1३.१

वेदविद्याव्रतस्नातः शुना दष्टो द्विजो यदि । (३।१)

vedavidyāvratasnātaḥ śunā daṣṭo dvijo yadi |

3.2३.२

स हिरण्योदकैः स्नात्वा घृतं प्राश्य विशुध्यति ॥ (३।२)

sa hiraṇyodakaiḥ snātvā ghṛtaṃ prāśya viśudhyati ||

4.1४.१

सव्रतस् तु शुना दष्टो यस् त्रिरात्रम् उपावसेत् । (४।१)

savratas tu śunā daṣṭo yas trirātram upāvaset |

4.2४.२

घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत् ॥ (४।२)

ghṛtaṃ kuśodakaṃ pītvā vrataśeṣaṃ samāpayet ||

5.1५.१

अव्रतः सव्रतो वापि शुना दष्टो भवेद् द्विजः । (५।१)

avrataḥ savrato vāpi śunā daṣṭo bhaved dvijaḥ |

5.2५.२

प्रणिपत्य भवेत् पूतो विप्रैश् चक्षुर्निरीक्षितः ॥ (५।२)

praṇipatya bhavet pūto vipraiś cakṣurnirīkṣitaḥ ||

6.1६.१

शुना घ्रातावलीढस्य नखैर् विलिखितस्य च । (६।१)

śunā ghrātāvalīḍhasya nakhair vilikhitasya ca |

6.2६.२

अद्भिः प्रक्षालनं प्रोक्तम् अग्निना चोपचूलनम् ॥ (६।२)

adbhiḥ prakṣālanaṃ proktam agninā copacūlanam ||

7.1७.१

शुना तु ब्राह्मणी दष्टा जम्बुकेन वृकेण वा । (७।१)

śunā tu brāhmaṇī daṣṭā jambukena vṛkeṇa vā |

7.2७.२

उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर् भवेत् ॥ (७।२)

uditaṃ grahanakṣatraṃ dṛṣṭvā sadyaḥ śucir bhavet ||

8.1८.१

कृष्णपक्षे यदा सोमो न दृश्येत कदाचन । (८।१)

kṛṣṇapakṣe yadā somo na dṛśyeta kadācana |

8.2८.२

यां दिशं व्रजते सोमस् तां दिशं वावलोकयेत् ॥ (८।२)

yāṃ diśaṃ vrajate somas tāṃ diśaṃ vāvalokayet ||

9.1९.१

असद्ब्राह्मणके ग्रामे शुना दष्टो द्विजोत्तमः । (९।१)

asadbrāhmaṇake grāme śunā daṣṭo dvijottamaḥ |

9.2९.२

वृषं प्रदक्षिणीकृत्य सद्यः स्नात्वा शुचिर् भवेत् ॥ (९।२)

vṛṣaṃ pradakṣiṇīkṛtya sadyaḥ snātvā śucir bhavet ||

10.1१०.१

चण्डालेन श्वपाकेन गोभिर् विप्रैर् हतो यदि । (१०।१)

caṇḍālena śvapākena gobhir viprair hato yadi |

10.2१०.२

आहिताग्निर् मृतो विप्रो विषेणात्महतो यदि ॥ (१०।२)

āhitāgnir mṛto vipro viṣeṇātmahato yadi ||

11.1११.१

दहेत् तं ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्जितम् । (११।१)

dahet taṃ brāhmaṇaṃ vipro lokāgnau mantravarjitam |

11.2११.२

स्पृष्ट्वा वोढ्वा च दग्ध्वा च सपिण्डेषु च सर्वथा ॥ (११।२)

spṛṣṭvā voḍhvā ca dagdhvā ca sapiṇḍeṣu ca sarvathā ||

12.1१२.१

प्राजापत्यं चरेत् पश्चाद् विप्राणाम् अनुशासनात् । (१२।१)

prājāpatyaṃ caret paścād viprāṇām anuśāsanāt |

12.2१२.२

दग्धास्थीनि पुनर् गृह्य क्षीरैः प्रक्षालयेद् द्विजः ॥ (१२।२)

dagdhāsthīni punar gṛhya kṣīraiḥ prakṣālayed dvijaḥ ||

13.1१३.१

पुनर् दहेत् स्वाग्निना तु स्वतन्त्रेण पृथक् पृथक् । (१३।१)

punar dahet svāgninā tu svatantreṇa pṛthak pṛthak |

13.2१३.२

आहिताग्निर् द्विजः कश्चित् प्रवसन् कालचोदितः ॥ (१३।२)

āhitāgnir dvijaḥ kaścit pravasan kālacoditaḥ ||

14.1१४.१

देहनाशम् अनुप्राप्तस् तस्याग्निर् वसते गृहे । (१४।१)

dehanāśam anuprāptas tasyāgnir vasate gṛhe |

14.2१४.२

प्रेताग्निहोत्रसंस्कारः श्रूयताम् ऋषिपुङ्गवाः ॥ (१४।२)

pretāgnihotrasaṃskāraḥ śrūyatām ṛṣipuṅgavāḥ ||

15.1१५.१

कृष्णाजिनं समास्तीर्य कुशैस् तु पुरुषाकृतिम् । (१५।१)

kṛṣṇājinaṃ samāstīrya kuśais tu puruṣākṛtim |

15.2१५.२

षट्शतानि शतं चैव पलाशानां च वृन्ततः ॥ (१५।२)

ṣaṭśatāni śataṃ caiva palāśānāṃ ca vṛntataḥ ||

16.1१६.१

चत्वारिंशच्छिरे दद्याच्छतं कण्ठे तु विन्यसेत् । (१६।१)

catvāriṃśacchire dadyācchataṃ kaṇṭhe tu vinyaset |

16.2१६.२

बाहुभ्यां शतकं दद्याद् अङ्गुलीषु दशैव तु ॥ (१६।२)

bāhubhyāṃ śatakaṃ dadyād aṅgulīṣu daśaiva tu ||

17.1१७.१

शतं तु जघने दद्याद् द्विशतं तूदरे तथा । (१७।१)

śataṃ tu jaghane dadyād dviśataṃ tūdare tathā |

17.2१७.२

दद्याद् अष्टौ वृषणयोः पञ्च मेढ्रे तु विन्यसेत् ॥ (१७।२)

dadyād aṣṭau vṛṣaṇayoḥ pañca meḍhre tu vinyaset ||

18.1१८.१

एकविंशतिम् ऊरुभ्यां द्विशतं जानुजङ्घयोः । (१८।१)

ekaviṃśatim ūrubhyāṃ dviśataṃ jānujaṅghayoḥ |

18.2१८.२

पादाङ्गुलीषु षड् दद्याद् यज्ञपात्रं ततो न्यसेत् ॥ (१८।२)

pādāṅgulīṣu ṣaḍ dadyād yajñapātraṃ tato nyaset ||

19.1१९.१

शम्यां शिश्ने विनिःक्षिप्य अरणीं मुष्कयोर् अपि । (१९।१)

śamyāṃ śiśne viniḥkṣipya araṇīṃ muṣkayor api |

19.2१९.२

जुहूं च दक्षिणे हस्ते वामे तूपभृतं न्यसेत् ॥ (१९।२)

juhūṃ ca dakṣiṇe haste vāme tūpabhṛtaṃ nyaset ||

20.1२०.१

कर्णे चोलूखलं दद्यात् पृष्ठे च मुसलं न्यसेत् । (२०।१)

karṇe colūkhalaṃ dadyāt pṛṣṭhe ca musalaṃ nyaset |

20.2२०.२

उरसि क्षिप्य दृषदं तण्डुलाज्यतिलान् मुखे ॥ (२०।२)

urasi kṣipya dṛṣadaṃ taṇḍulājyatilān mukhe ||

21.1२१.१

श्रोत्रे च प्रोक्षणीं दद्याद् आज्यस्थलीं तु चक्षुषोः । (२१।१)

śrotre ca prokṣaṇīṃ dadyād ājyasthalīṃ tu cakṣuṣoḥ |

21.2२१.२

कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत् ॥ (२१।२)

karṇe netre mukhe ghrāṇe hiraṇyaśakalaṃ nyaset ||

22.1२२.१

अग्निहोत्रोपकरणम् अशेषं तत्र निक्षिपेत् । (२२।१)

agnihotropakaraṇam aśeṣaṃ tatra nikṣipet |

22.2२२.२

असौ स्वर्गाय लोकाय स्वाहेत्य् एकाहुतिं सकृत् ॥ (२२।२)

asau svargāya lokāya svāhety ekāhutiṃ sakṛt ||

23.1२३.१

दद्यात् पुत्रो ऽथवा भ्राताप्य् अन्यो वापि च बान्धवः । (२३।१)

dadyāt putro 'thavā bhrātāpy anyo vāpi ca bāndhavaḥ |

23.2२३.२

यथा दहनसंस्कारस् तथा कार्यं विचक्षणैः ॥ (२३।२)

yathā dahanasaṃskāras tathā kāryaṃ vicakṣaṇaiḥ ||

24.1२४.१

ईदृशं तु विधिं कुर्याद् ब्रह्मलोकगतिः स्मृता । (२४।१)

īdṛśaṃ tu vidhiṃ kuryād brahmalokagatiḥ smṛtā |

24.2२४.२

दहन्ति ये द्विजास् तं तु ते यान्ति परमां गतिम् ॥ (२४।२)

dahanti ye dvijās taṃ tu te yānti paramāṃ gatim ||

25.1२५.१

अन्यथा कुर्वते कर्म त्व् आत्मबुद्ध्या प्रचोदिताः । (२५।१)

anyathā kurvate karma tv ātmabuddhyā pracoditāḥ |

25.2२५.२

भवन्त्य् अल्पायुषस् ते वै पतन्ति नरके ऽशुचौ ॥ (२५।२)

bhavanty alpāyuṣas te vai patanti narake 'śucau ||

Data courtesy of The Digital Corpus of Sanskrit.

ParDhSmṛti, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit