पराशरधर्मसंहिताParāśaradharmasaṃhitā

ParDhSmṛti, 11

11 of 12 · 111 verses

Select a line for its word-by-word analysis.

1.1१.१

अमेध्यरेतो गोमांसं चण्डालान्नम् अथापि वा । (१।१)

amedhyareto gomāṃsaṃ caṇḍālānnam athāpi vā |

1.2१.२

यदि भुक्तं तु विप्रेण कृच्छ्रं चान्द्रायणं चरेत् ॥ (१।२)

yadi bhuktaṃ tu vipreṇa kṛcchraṃ cāndrāyaṇaṃ caret ||

2.1२.१

तथैव क्षत्रियो वैश्यो ऽप्यर्धं चान्द्रायणं चरेत् । (२।१)

tathaiva kṣatriyo vaiśyo 'pyardhaṃ cāndrāyaṇaṃ caret |

2.2२.२

शूद्रो ऽप्येवं यदा भुङ्क्ते प्राजापत्यं समाचरेत् ॥ (२।२)

śūdro 'pyevaṃ yadā bhuṅkte prājāpatyaṃ samācaret ||

3.1३.१

पञ्चगव्यं पिबेच्छूद्रो ब्रह्मकूर्चं पिबेद् द्विजः । (३।१)

pañcagavyaṃ pibecchūdro brahmakūrcaṃ pibed dvijaḥ |

3.2३.२

एकद्वित्रिचतुर् गा वा दद्याद् विप्राद्यनुक्रमात् ॥ (३।२)

ekadvitricatur gā vā dadyād viprādyanukramāt ||

4.1४.१

शूद्रान्नं सूतकान्नं च अभोज्यस्यान्नम् एव च । (४।१)

śūdrānnaṃ sūtakānnaṃ ca abhojyasyānnam eva ca |

4.2४.२

शङ्कितं प्रतिषिद्धान्नं पूर्वोच्छिष्टं तथैव च ॥ (४।२)

śaṅkitaṃ pratiṣiddhānnaṃ pūrvocchiṣṭaṃ tathaiva ca ||

5.1५.१

यदि भुक्तं तु विप्रेण अज्ञानाद् आपदापि वा । (५।१)

yadi bhuktaṃ tu vipreṇa ajñānād āpadāpi vā |

5.2५.२

ज्ञात्वा समाचरेत् कृच्छ्रं ब्रह्मकूर्चं तु पावनम् ॥ (५।२)

jñātvā samācaret kṛcchraṃ brahmakūrcaṃ tu pāvanam ||

6.1६.१

बालैर् नकुलमार्जारैर् अन्नम् उच्छिष्टितं यदा । (६।१)

bālair nakulamārjārair annam ucchiṣṭitaṃ yadā |

6.2६.२

तिलदर्भोदकैः प्रोक्ष्य शुध्यते नात्रसंशयः ॥ (६।२)

tiladarbhodakaiḥ prokṣya śudhyate nātrasaṃśayaḥ ||

7.1७.१

एकपङ्क्त्युपविष्टानां विप्राणां सह भोजने । (७।१)

ekapaṅktyupaviṣṭānāṃ viprāṇāṃ saha bhojane |

7.2७.२

यद्य् एको ऽपि त्यजेत् पात्रं शेषम् अन्नं न भोजयेत् ॥ (७।२)

yady eko 'pi tyajet pātraṃ śeṣam annaṃ na bhojayet ||

8.1८.१

मोहाद् भुञ्जीत यस् तत्र पङ्क्तावुच्छिष्टभोजने । (८।१)

mohād bhuñjīta yas tatra paṅktāvucchiṣṭabhojane |

8.2८.२

प्रायश्चित्तं चरेद् विप्रः कृच्छ्रं सांतपनं तथा ॥ (८।२)

prāyaścittaṃ cared vipraḥ kṛcchraṃ sāṃtapanaṃ tathā ||

9.1९.१

पीयूषं श्वेतलशुनं वृन्ताकफलगृञ्जने । (९।१)

pīyūṣaṃ śvetalaśunaṃ vṛntākaphalagṛñjane |

9.2९.२

पलाण्डुवृक्षनिर्यासदेवस्वकवकानि च ॥ (९।२)

palāṇḍuvṛkṣaniryāsadevasvakavakāni ca ||

10.1१०.१

उष्ट्रीक्षीरम् अविक्षीरम् अज्ञानाद् भुञ्जते द्विजः । (१०।१)

uṣṭrīkṣīram avikṣīram ajñānād bhuñjate dvijaḥ |

10.2१०.२

त्रिरात्रम् उपवासेन पञ्चगव्येन शुध्यति ॥ (१०।२)

trirātram upavāsena pañcagavyena śudhyati ||

11.1११.१

मण्डूकं भक्षयित्वा तु मूषिकामांसम् एव च । (११।१)

maṇḍūkaṃ bhakṣayitvā tu mūṣikāmāṃsam eva ca |

11.2११.२

ज्ञात्वा विप्रस् त्व् अहोरात्रं यावकान्नेन शुध्यति ॥ (११।२)

jñātvā vipras tv ahorātraṃ yāvakānnena śudhyati ||

12.1१२.१

क्षत्रियश् चापि वैश्यश् च क्रियावन्तौ शुचिव्रतौ । (१२।१)

kṣatriyaś cāpi vaiśyaś ca kriyāvantau śucivratau |

12.2१२.२

तद्गृहे तु द्विजैर् भोज्यं हव्यकव्येषु नित्यशः ॥ (१२।२)

tadgṛhe tu dvijair bhojyaṃ havyakavyeṣu nityaśaḥ ||

13.1१३.१

घृतं तैलं तथा क्षीरं भक्ष्यं स्नेहेन पाचितम् । (१३।१)

ghṛtaṃ tailaṃ tathā kṣīraṃ bhakṣyaṃ snehena pācitam |

13.2१३.२

गत्वा नदीतटे विप्रो भुञ्जीयाच्छूद्रभोजनम् ॥ (१३।२)

gatvā nadītaṭe vipro bhuñjīyācchūdrabhojanam ||

14.1१४.१

मद्यमांसरतं नित्यं नीचकर्मप्रवर्तकम् । (१४।१)

madyamāṃsarataṃ nityaṃ nīcakarmapravartakam |

14.2१४.२

तं शूद्रं वर्जयेद् विप्रः श्वपाकम् इव दूरतः ॥ (१४।२)

taṃ śūdraṃ varjayed vipraḥ śvapākam iva dūrataḥ ||

15.1१५.१

द्विजशुश्रूषणरतान् मद्यमांसविवर्जितान् । (१५।१)

dvijaśuśrūṣaṇaratān madyamāṃsavivarjitān |

15.2१५.२

स्वकर्मणि रतान् नित्यं न तान् शूद्रान् त्यजेद् द्विजः ॥ (१५।२)

svakarmaṇi ratān nityaṃ na tān śūdrān tyajed dvijaḥ ||

16.1१६.१

अज्ञानाद् भुञ्जते विप्राः सूतके मृतके ऽपि वा । (१६।१)

ajñānād bhuñjate viprāḥ sūtake mṛtake 'pi vā |

16.2१६.२

प्रायश्चित्तं कथं तेषां वर्णे वर्णे विनिर्दिशेत् ॥ (१६।२)

prāyaścittaṃ kathaṃ teṣāṃ varṇe varṇe vinirdiśet ||

17.1१७.१

गायत्र्यष्टसहस्रेण शुद्धिः स्याच्छूद्रसूतके । (१७।१)

gāyatryaṣṭasahasreṇa śuddhiḥ syācchūdrasūtake |

17.2१७.२

वैश्ये पञ्चसहस्रेण त्रिसहस्रेण क्षत्रिये ॥ (१७।२)

vaiśye pañcasahasreṇa trisahasreṇa kṣatriye ||

18.1१८.१

ब्राह्मणस्य यदा भुङ्क्ते द्वे सहस्रे तु दापयेत् । (१८।१)

brāhmaṇasya yadā bhuṅkte dve sahasre tu dāpayet |

18.2१८.२

अथवा वामदैव्येन साम्नैवैकेन शुध्यति ॥ (१८।२)

athavā vāmadaivyena sāmnaivaikena śudhyati ||

19.1१९.१

शुष्कान्नं गोरसं स्नेहं शूद्रवेश्मन आगतम् । (१९।१)

śuṣkānnaṃ gorasaṃ snehaṃ śūdraveśmana āgatam |

19.2१९.२

पक्वं विप्रगृहे भुक्तं भोज्यं तन् मनुर् अब्रवीत् ॥ (१९।२)

pakvaṃ vipragṛhe bhuktaṃ bhojyaṃ tan manur abravīt ||

20.1२०.१

आपत्कालेषु विप्रेण भुक्तं शूद्रगृहे यदि । (२०।१)

āpatkāleṣu vipreṇa bhuktaṃ śūdragṛhe yadi |

20.2२०.२

मनस्तापेन शुध्येत द्रुपदां वा जपेच्छतम् ॥ (२०।२)

manastāpena śudhyeta drupadāṃ vā japecchatam ||

21.1२१.१

दासनापितगोपालकुलमित्रार्धसीलिणः । (२१।१)

dāsanāpitagopālakulamitrārdhasīliṇaḥ |

21.2२१.२

एते शूद्रेषु भोज्यान्ना यश् चात्मानं निवेदयेत् ॥ (२१।२)

ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet ||

22.1२२.१

शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः । (२२।१)

śūdrakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ |

22.2२२.२

संस्कारात् तु भवेद् दासः असंस्कारात् तु नापितः ॥ (२२।२)

saṃskārāt tu bhaved dāsaḥ asaṃskārāt tu nāpitaḥ ||

23.1२३.१

क्षत्रियाच्छूद्रकन्यायां समुत्पन्नस् तु यः सुतः । (२३।१)

kṣatriyācchūdrakanyāyāṃ samutpannas tu yaḥ sutaḥ |

23.2२३.२

स गोपाल इति ज्ञेयो भोज्यो विप्रैर् न संशयः ॥ (२३।२)

sa gopāla iti jñeyo bhojyo viprair na saṃśayaḥ ||

24.1२४.१

वैश्यकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः । (२४।१)

vaiśyakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ |

24.2२४.२

स ह्य् आर्धिक इति ज्ञेयो भोज्यो विप्रैर् न संशयः ॥ (२४।२)

sa hy ārdhika iti jñeyo bhojyo viprair na saṃśayaḥ ||

25.1२५.१

भाण्डस्थितम् अभोज्येषु जलं दधि घृतं पयः । (२५।१)

bhāṇḍasthitam abhojyeṣu jalaṃ dadhi ghṛtaṃ payaḥ |

25.2२५.२

अकामतस् तु यो भुङ्क्ते प्रायश्चित्तं कथं भवेत् ॥ (२५।२)

akāmatas tu yo bhuṅkte prāyaścittaṃ kathaṃ bhavet ||

26.1२६.१

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा उपसर्पति । (२६।१)

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā upasarpati |

26.2२६.२

ब्रह्मकूर्चोपवासेन याज्यवर्णस्य निष्कृतिः ॥ (२६।२)

brahmakūrcopavāsena yājyavarṇasya niṣkṛtiḥ ||

27.1२७.१

शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति । (२७।१)

śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati |

27.2२७.२

ब्रह्मकूर्चम् अहोरात्रं श्वपाकम् अपि शोधयेत् ॥ (२७।२)

brahmakūrcam ahorātraṃ śvapākam api śodhayet ||

28.1२८.१

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । (२८।१)

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam |

28.2२८.२

निर्दिष्टं पञ्चगव्यं तु पवित्रं पापशोधनम् ॥ (२८।२)

nirdiṣṭaṃ pañcagavyaṃ tu pavitraṃ pāpaśodhanam ||

29.1२९.१

गोमूत्रं कृष्णवर्णायाः श्वेतायाश् चैव गोमयम् । (२९।१)

gomūtraṃ kṛṣṇavarṇāyāḥ śvetāyāś caiva gomayam |

29.2२९.२

पयश् च ताम्रवर्णाया रक्ताया गृह्यते दधि ॥ (२९।२)

payaś ca tāmravarṇāyā raktāyā gṛhyate dadhi ||

30.1३०.१

कपिलाया घृतं ग्राह्यं सर्वं कापिलम् एव वा । (३०।१)

kapilāyā ghṛtaṃ grāhyaṃ sarvaṃ kāpilam eva vā |

30.2३०.२

मूत्रम् एकपलं दद्याद् अङ्गुष्ठार्धं तु गोमयम् ॥ (३०।२)

mūtram ekapalaṃ dadyād aṅguṣṭhārdhaṃ tu gomayam ||

31.1३१.१

क्षीरं सप्तपलं दद्याद् दधि त्रिपलम् उच्यते । (३१।१)

kṣīraṃ saptapalaṃ dadyād dadhi tripalam ucyate |

31.2३१.२

घृतम् एकपलं दद्यात् पलम् एकं कुशोदकम् ॥ (३१।२)

ghṛtam ekapalaṃ dadyāt palam ekaṃ kuśodakam ||

32.1३२.१

गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् । (३२।१)

gāyatryādāya gomūtraṃ gandhadvāreti gomayam |

32.2३२.२

आप्यायस्वेति च क्षीरं दधिक्राव्णस् तथा दधि ॥ (३२।२)

āpyāyasveti ca kṣīraṃ dadhikrāvṇas tathā dadhi ||

33.1३३.१

तेजो ऽसि शुक्रम् इत्य् आज्यं देवस्य त्वा कुशोदकम् । (३३।१)

tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam |

33.2३३.२

पञ्चगव्यम् ऋचा पूतं स्थापयेद् अग्निसंनिधौ ॥ (३३।२)

pañcagavyam ṛcā pūtaṃ sthāpayed agnisaṃnidhau ||

34.1३४.१

आपोहिष्ठेति चालोड्य मानस्तोकेति मन्त्रयेत् । (३४।१)

āpohiṣṭheti cāloḍya mānastoketi mantrayet |

34.2३४.२

सप्तावरास् तु ये दर्भा अछिन्नाग्राः शुकत्विषः ॥ (३४।२)

saptāvarās tu ye darbhā achinnāgrāḥ śukatviṣaḥ ||

35.1३५.१

एतैर् उद्धृत्य होतव्यं पञ्चगव्यं यथाविधि । (३५।१)

etair uddhṛtya hotavyaṃ pañcagavyaṃ yathāvidhi |

35.2३५.२

इरावती इदं विष्णुर् मानस्तोकेति शंवती ॥ (३५।२)

irāvatī idaṃ viṣṇur mānastoketi śaṃvatī ||

36.1३६.१

एताभिश् चैव होतव्यं हुतशेषं पिबेद् द्विजः । (३६।१)

etābhiś caiva hotavyaṃ hutaśeṣaṃ pibed dvijaḥ |

36.2३६.२

आलोड्य प्रणवेनैव निर्मन्थ्य प्रणवेन तु ॥ (३६।२)

āloḍya praṇavenaiva nirmanthya praṇavena tu ||

37.1३७.१

उद्धृत्य प्रणवेनैव पिबेच्च प्रणवेन तु । (३७।१)

uddhṛtya praṇavenaiva pibecca praṇavena tu |

37.2३७.२

यत् त्व् अस्थिगतं पापं देहे तिष्ठति देहिनाम् ॥ (३७।२)

yat tv asthigataṃ pāpaṃ dehe tiṣṭhati dehinām ||

38.1३८.१

ब्रह्मकूर्चो दहेत् सर्वं प्रदीप्ताग्निर् इवेन्धनम् । (३८।१)

brahmakūrco dahet sarvaṃ pradīptāgnir ivendhanam |

38.2३८.२

पवित्रं त्रिषु लोकेषु देवताभिर् अधिष्ठितम् ॥ (३८।२)

pavitraṃ triṣu lokeṣu devatābhir adhiṣṭhitam ||

39.1३९.१

वरुणश् चैव गोमूत्रे गोमये हव्यवाहनः । (३९।१)

varuṇaś caiva gomūtre gomaye havyavāhanaḥ |

39.2३९.२

दध्नि वायुः समुद्दिष्टः सोमः क्षीरे घृते रविः ॥ (३९।२)

dadhni vāyuḥ samuddiṣṭaḥ somaḥ kṣīre ghṛte raviḥ ||

40.1४०.१

पिबतः पतितं तोयं भाजने मुखनिःसृतम् । (४०।१)

pibataḥ patitaṃ toyaṃ bhājane mukhaniḥsṛtam |

40.2४०.२

अपेयं तद् विजानीयात् पीत्वा चान्द्रायणं चरेत् ॥ (४०।२)

apeyaṃ tad vijānīyāt pītvā cāndrāyaṇaṃ caret ||

41.1४१.१

कूपे च पतितं दृष्ट्वा श्वसृगालौ च मर्कटम् । (४१।१)

kūpe ca patitaṃ dṛṣṭvā śvasṛgālau ca markaṭam |

41.2४१.२

अस्थिचर्मादि पतितं पीत्वामेध्या अपो द्विजः ॥ (४१।२)

asthicarmādi patitaṃ pītvāmedhyā apo dvijaḥ ||

42.1४२.१

नारं तु कुणपं काकं विड्वराहखरोष्ट्रकम् । (४२।१)

nāraṃ tu kuṇapaṃ kākaṃ viḍvarāhakharoṣṭrakam |

42.2४२.२

गावयं सौप्रतीकं च मायूरं खाड्गकं तथा ॥ (४२।२)

gāvayaṃ saupratīkaṃ ca māyūraṃ khāḍgakaṃ tathā ||

43.1४३.१

वैयाघ्रम् आर्क्षं सैंहं वा कूपे यदि निमज्जति । (४३।१)

vaiyāghram ārkṣaṃ saiṃhaṃ vā kūpe yadi nimajjati |

43.2४३.२

तटाकस्याथ दुष्टस्य पीतं स्याद् उदकं यदि ॥ (४३।२)

taṭākasyātha duṣṭasya pītaṃ syād udakaṃ yadi ||

44.1४४.१

प्रायश्चित्तं भवेत् पुंसः क्रमेणैतेन सर्वशः । (४४।१)

prāyaścittaṃ bhavet puṃsaḥ krameṇaitena sarvaśaḥ |

44.2४४.२

विप्रः शुध्येत् त्रिरात्रेण क्षत्रियस् तु दिनद्वयात् ॥ (४४।२)

vipraḥ śudhyet trirātreṇa kṣatriyas tu dinadvayāt ||

45.1४५.१

एकाहेन तु वैश्यस् तु शूद्रो नक्तेन शुध्यति । (४५।१)

ekāhena tu vaiśyas tu śūdro naktena śudhyati |

45.2४५.२

परपाकनिवृत्तस्य परपाकरतस्य च ॥ (४५।२)

parapākanivṛttasya parapākaratasya ca ||

46.1४६.१

अपचस्य च भुक्त्वान्नं द्विजश् चान्द्रायणं चरेत् । (४६।१)

apacasya ca bhuktvānnaṃ dvijaś cāndrāyaṇaṃ caret |

46.2४६.२

अपचस्य च यद् दानं दातुश् चास्य कुतः फलम् ॥ (४६।२)

apacasya ca yad dānaṃ dātuś cāsya kutaḥ phalam ||

47.1४७.१

दाता प्रतिग्रहीता च तौ द्वौ निरयगामिनौ । (४७।१)

dātā pratigrahītā ca tau dvau nirayagāminau |

47.2४७.२

गृहीत्वाग्निं समारोप्य पञ्चयज्ञान् न निर्वपेत् ॥ (४७।२)

gṛhītvāgniṃ samāropya pañcayajñān na nirvapet ||

48.1४८.१

परपाकनिवृत्तो ऽसौ मुनिभिः परिकीर्तितः । (४८।१)

parapākanivṛtto 'sau munibhiḥ parikīrtitaḥ |

48.2४८.२

पञ्चयज्ञान् स्वयं कृत्वा परान्नेनोपजीवति ॥ (४८।२)

pañcayajñān svayaṃ kṛtvā parānnenopajīvati ||

49.1४९.१

सततं प्रातर् उत्थाय परपाकरतस् तु सः । (४९।१)

satataṃ prātar utthāya parapākaratas tu saḥ |

49.2४९.२

गृहस्थधर्मा यो विप्रो ददाति परिवर्जितः ॥ (४९।२)

gṛhasthadharmā yo vipro dadāti parivarjitaḥ ||

50.1५०.१

ऋषिभिर् धर्मतत्त्वज्ञैर् अपचः परिकीर्तितः । (५०।१)

ṛṣibhir dharmatattvajñair apacaḥ parikīrtitaḥ |

50.2५०.२

युगे युगे तु ये धर्मास् तेषु तेषु च ये द्विजाः ॥ (५०।२)

yuge yuge tu ye dharmās teṣu teṣu ca ye dvijāḥ ||

51.1५१.१

तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः । (५१।१)

teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ |

51.2५१.२

हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः ॥ (५१।२)

huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ ||

52.1५२.१

स्नात्वा तिष्ठन्न् अहः शेषम् अभिवाद्य प्रसादयेत् । (५२।१)

snātvā tiṣṭhann ahaḥ śeṣam abhivādya prasādayet |

52.2५२.२

ताडयित्वा तृणेनापि कण्ठे बद्ध्वापि वाससा ॥ (५२।२)

tāḍayitvā tṛṇenāpi kaṇṭhe baddhvāpi vāsasā ||

53.1५३.१

विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत् । (५३।१)

vivādenāpi nirjitya praṇipatya prasādayet |

53.2५३.२

अवगूर्य त्व् अहोरात्रं त्रिरात्रं क्षितिपातने ॥ (५३।२)

avagūrya tv ahorātraṃ trirātraṃ kṣitipātane ||

54.1५४.१

अतिकृच्छ्रं च रुधिरे कृच्छ्रो ऽभ्यन्तरशोणिते । (५४।१)

atikṛcchraṃ ca rudhire kṛcchro 'bhyantaraśoṇite |

54.2५४.२

नवाहम् अतिकृच्छ्री स्यात् पाणिपूरान्नभोजनः ॥ (५४।२)

navāham atikṛcchrī syāt pāṇipūrānnabhojanaḥ ||

55.1५५.१

त्रिरात्रम् उपवासी स्याद् अतिकृच्छ्रः स उच्यते । (५५।१)

trirātram upavāsī syād atikṛcchraḥ sa ucyate |

55.2५५.२

सर्वेषाम् एव पापानां संकरे समुपस्थिते ॥ (५५।२)

sarveṣām eva pāpānāṃ saṃkare samupasthite ||

56.1५६.१

दशसाहस्रम् अभ्यस्ता गायत्री शोधनं परं ॥ (५६।१)

daśasāhasram abhyastā gāyatrī śodhanaṃ paraṃ ||

Data courtesy of The Digital Corpus of Sanskrit.

ParDhSmṛti, 11

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit