पराशरधर्मसंहिताParāśaradharmasaṃhitā

ParDhSmṛti, 2

2 of 12 · 30 verses

Select a line for its word-by-word analysis.

1.1१.१

अतः परं गृहस्थस्य कर्माचारं कलौ युगे । (१।१)

ataḥ paraṃ gṛhasthasya karmācāraṃ kalau yuge |

1.2१.२

धर्मं साधारणं शक्त्या चातुर्वर्ण्याश्रमागतम् ॥ (१।२)

dharmaṃ sādhāraṇaṃ śaktyā cāturvarṇyāśramāgatam ||

2.1२.१

तं प्रवक्ष्याम्य् अहं पूर्वं पराशरवचो यथा । (२।१)

taṃ pravakṣyāmy ahaṃ pūrvaṃ parāśaravaco yathā |

2.2२.२

षट्कर्मसहितो विप्रः कृषिकर्म च कारयेत् ॥ (२।२)

ṣaṭkarmasahito vipraḥ kṛṣikarma ca kārayet ||

3.1३.१

क्षुधितं तृषितं श्रान्तं बलीवर्दं न योजयेत् । (३।१)

kṣudhitaṃ tṛṣitaṃ śrāntaṃ balīvardaṃ na yojayet |

3.2३.२

हीनाङ्गं व्याधितं क्लीबं वृषं विप्रो न वाहयेत् ॥ (३।२)

hīnāṅgaṃ vyādhitaṃ klībaṃ vṛṣaṃ vipro na vāhayet ||

4.1४.१

स्थिराङ्गं नीरुजं तृप्तं सुनर्दं षण्ढवर्जितम् । (४।१)

sthirāṅgaṃ nīrujaṃ tṛptaṃ sunardaṃ ṣaṇḍhavarjitam |

4.2४.२

वाहयेद् दिवसस्यार्धं पश्चात् स्नानं समाचरेत् ॥ (४।२)

vāhayed divasasyārdhaṃ paścāt snānaṃ samācaret ||

5.1५.१

जप्यं देवार्चनं होमं स्वाध्यायं चैवम् अभ्यसेत् । (५।१)

japyaṃ devārcanaṃ homaṃ svādhyāyaṃ caivam abhyaset |

5.2५.२

एकद्वित्रिचतुर्विप्रान् भोजयेत् स्नातकान् द्विजः ॥ (५।२)

ekadvitricaturviprān bhojayet snātakān dvijaḥ ||

6.1६.१

स्वयंकृष्टे तथा क्षेत्रे धान्यैश् च स्वयमर्जितैः । (६।१)

svayaṃkṛṣṭe tathā kṣetre dhānyaiś ca svayamarjitaiḥ |

6.2६.२

निर्वपेत् पञ्च यज्ञांश् च क्रतुदीक्षां च कारयेत् ॥ (६।२)

nirvapet pañca yajñāṃś ca kratudīkṣāṃ ca kārayet ||

7.1७.१

तिला रसा न विक्रेया विक्रेया धान्यतत्समाः । (७।१)

tilā rasā na vikreyā vikreyā dhānyatatsamāḥ |

7.2७.२

विप्रस्यैवंविधा वृत्तिस् तृणकाष्ठादिविक्रयः ॥ (७।२)

viprasyaivaṃvidhā vṛttis tṛṇakāṣṭhādivikrayaḥ ||

8.1८.१

ब्राह्मणश् चेत् कृषिं कुर्यात् तन्महादोषम् आप्नुयात् । (८।१)

brāhmaṇaś cet kṛṣiṃ kuryāt tanmahādoṣam āpnuyāt |

8.2८.२

संवत्सरेण यत् पापं मत्स्यघाती समाप्नुयात् ॥ (८।२)

saṃvatsareṇa yat pāpaṃ matsyaghātī samāpnuyāt ||

9.1९.१

अयोमुखेन काष्ठेन तद् एकाहेन लाङ्गली । (९।१)

ayomukhena kāṣṭhena tad ekāhena lāṅgalī |

9.2९.२

पाशको मत्स्यघाती च व्याधः शाकुनिकस् तथा ॥ (९।२)

pāśako matsyaghātī ca vyādhaḥ śākunikas tathā ||

10.1१०.१

अदाता कर्षकश् चैव सर्वे ते समभागिनः । (१०।१)

adātā karṣakaś caiva sarve te samabhāginaḥ |

10.2१०.२

वृक्षं छित्त्वा महीं भित्त्वा हत्वा च कृमिकीटकान् ॥ (१०।२)

vṛkṣaṃ chittvā mahīṃ bhittvā hatvā ca kṛmikīṭakān ||

11.1११.१

कर्षकः खलयज्ञेन सर्वपापैः प्रमुच्यते । (११।१)

karṣakaḥ khalayajñena sarvapāpaiḥ pramucyate |

11.2११.२

यो न दद्याद् द्विजातिभ्यो राशिमूलम् उपागतः ॥ (११।२)

yo na dadyād dvijātibhyo rāśimūlam upāgataḥ ||

12.1१२.१

स चौरः स च पापिष्ठो ब्रह्मघ्नं तं विनिर्दिशेत् । (१२।१)

sa cauraḥ sa ca pāpiṣṭho brahmaghnaṃ taṃ vinirdiśet |

12.2१२.२

राज्ञे दत्त्वा तु षड्भागं देवानां चैकविंशकम् ॥ (१२।२)

rājñe dattvā tu ṣaḍbhāgaṃ devānāṃ caikaviṃśakam ||

13.1१३.१

विप्राणां त्रिंशकं भागं सर्वपापैः प्रमुच्यते । (१३।१)

viprāṇāṃ triṃśakaṃ bhāgaṃ sarvapāpaiḥ pramucyate |

13.2१३.२

क्षत्रियो ऽपि कृषिं कृत्वा देवान् विप्रांश् च पूजयेत् ॥ (१३।२)

kṣatriyo 'pi kṛṣiṃ kṛtvā devān viprāṃś ca pūjayet ||

14.1१४.१

वैश्यः शूद्रस् तथा कुर्यात् कृषिवाणिज्यशिल्पकम् । (१४।१)

vaiśyaḥ śūdras tathā kuryāt kṛṣivāṇijyaśilpakam |

14.2१४.२

विकर्म कुर्वते शूद्रा द्विजशुश्रूषयोज्झिताः ॥ (१४।२)

vikarma kurvate śūdrā dvijaśuśrūṣayojjhitāḥ ||

15.1१५.१

भवन्त्य् अल्पायुषस् ते वै निरयं यान्त्य् असंशयं । (१५।१)

bhavanty alpāyuṣas te vai nirayaṃ yānty asaṃśayaṃ |

15.2१५.२

चतुर्णाम् अपि वर्णानाम् एष धर्मः सनातनः ॥ (१५।२)

caturṇām api varṇānām eṣa dharmaḥ sanātanaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

ParDhSmṛti, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit