पराशरधर्मसंहिताParāśaradharmasaṃhitā

ParDhSmṛti, 6

6 of 12 · 150 verses

Select a line for its word-by-word analysis.

1.1१.१

अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् । (१।१)

ataḥ paraṃ pravakṣyāmi prāṇihatyāsu niṣkṛtim |

1.2१.२

पराशरेन पूर्वोक्ता मन्वर्थे ऽपि च विस्तृताम् ॥ (१।२)

parāśarena pūrvoktā manvarthe 'pi ca vistṛtām ||

2.1२.१

क्रौञ्चसारसहंसांश् च चक्रवाकं च कुक्कुटम् । (२।१)

krauñcasārasahaṃsāṃś ca cakravākaṃ ca kukkuṭam |

2.2२.२

जालपादं च शरभम् अहोरात्रेण शुध्यति ॥ (२।२)

jālapādaṃ ca śarabham ahorātreṇa śudhyati ||

3.1३.१

बलाकाटिट्टिभौ वापि शुकपारावताव् अपि । (३।१)

balākāṭiṭṭibhau vāpi śukapārāvatāv api |

3.2३.२

अहिनक्रविघाती च शुध्यते नक्तभोजनात् ॥ (३।२)

ahinakravighātī ca śudhyate naktabhojanāt ||

4.1४.१

वृककाककपोतानां शारितित्तिरिघातकः । (४।१)

vṛkakākakapotānāṃ śāritittirighātakaḥ |

4.2४.२

अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति ॥ (४।२)

antarjala ubhe saṃdhye prāṇāyāmena śudhyati ||

5.1५.१

गृध्रश्येनशशादानाम् उलूकस्य च घातकः । (५।१)

gṛdhraśyenaśaśādānām ulūkasya ca ghātakaḥ |

5.2५.२

अपक्वाशी दिनं तिष्ठेत् त्रिकालं मारुताशनः ॥ (५।२)

apakvāśī dinaṃ tiṣṭhet trikālaṃ mārutāśanaḥ ||

6.1६.१

वल्गुणीटिट्टिभानां च कोकिलाखञ्जरीटके । (६।१)

valguṇīṭiṭṭibhānāṃ ca kokilākhañjarīṭake |

6.2६.२

लाविकारक्तपक्षेषु शुध्यते नक्तभोजनात् ॥ (६।२)

lāvikāraktapakṣeṣu śudhyate naktabhojanāt ||

7.1७.१

कारण्डवचकोराणां पिङ्गलाकुररस्य च । (७।१)

kāraṇḍavacakorāṇāṃ piṅgalākurarasya ca |

7.2७.२

भारद्वाजादिकं हत्वा शिवं पूज्य विशुध्यति ॥ (७।२)

bhāradvājādikaṃ hatvā śivaṃ pūjya viśudhyati ||

8.1८.१

भेरुण्डचाषभासांश् च पारावतकपिञ्जलौ । (८।१)

bheruṇḍacāṣabhāsāṃś ca pārāvatakapiñjalau |

8.2८.२

पक्षिणां चैव सर्वेषाम् अहोरात्रम् अभोजनम् ॥ (८।२)

pakṣiṇāṃ caiva sarveṣām ahorātram abhojanam ||

9.1९.१

हत्वा मूषकमार्जारसर्पाजगरडुण्डुभान् । (९।१)

hatvā mūṣakamārjārasarpājagaraḍuṇḍubhān |

9.2९.२

कृसरं भोजयेद् विप्रान् लोहदण्डश् च दक्षिणा ॥ (९।२)

kṛsaraṃ bhojayed viprān lohadaṇḍaś ca dakṣiṇā ||

10.1१०.१

शिशुमारं तथा गोधां हत्वा कूर्मं च शल्यकम् । (१०।१)

śiśumāraṃ tathā godhāṃ hatvā kūrmaṃ ca śalyakam |

10.2१०.२

वृन्ताकफलभक्षी चाप्यहोरात्रेण शुध्यति ॥ (१०।२)

vṛntākaphalabhakṣī cāpyahorātreṇa śudhyati ||

11.1११.१

वृकजम्बूकऋक्षाणां तरक्षुश्वानघातकः । (११।१)

vṛkajambūkaṛkṣāṇāṃ tarakṣuśvānaghātakaḥ |

11.2११.२

तिलप्रस्थं द्विजे दद्याद् वायुभक्षो दिनत्रयम् ॥ (११।२)

tilaprasthaṃ dvije dadyād vāyubhakṣo dinatrayam ||

12.1१२.१

गजस्य च तुरङ्गस्य महिषोष्ट्रनिपातने । (१२।१)

gajasya ca turaṅgasya mahiṣoṣṭranipātane |

12.2१२.२

प्रायश्चित्तम् अहोरात्रं त्रिसंध्यम् अवगाहनम् ॥ (१२।२)

prāyaścittam ahorātraṃ trisaṃdhyam avagāhanam ||

13.1१३.१

कुरङ्गं वानरं सिंहं चित्रं व्याघ्रं तु घातयन् । (१३।१)

kuraṅgaṃ vānaraṃ siṃhaṃ citraṃ vyāghraṃ tu ghātayan |

13.2१३.२

शुध्यते स त्रिरात्रेण विप्राणां तर्पणेन च ॥ (१३।२)

śudhyate sa trirātreṇa viprāṇāṃ tarpaṇena ca ||

14.1१४.१

मृगरोहिद्वराहाणाम् अवेर् बस्तस्य घातकः । (१४।१)

mṛgarohidvarāhāṇām aver bastasya ghātakaḥ |

14.2१४.२

अफालकृष्टम् अश्नीयाद् अहोरात्रम् उपोष्य सः ॥ (१४।२)

aphālakṛṣṭam aśnīyād ahorātram upoṣya saḥ ||

15.1१५.१

एवं चतुष्पदानां च सर्वेषां वनचारिणाम् । (१५।१)

evaṃ catuṣpadānāṃ ca sarveṣāṃ vanacāriṇām |

15.2१५.२

अहोरात्रोषितस् तिष्ठेज् जपेद् वै जातवेदसम् ॥ (१५।२)

ahorātroṣitas tiṣṭhej japed vai jātavedasam ||

16.1१६.१

शिल्पिनं कारुकं शूद्रं स्त्रियं वा यस् तु घातयेत् । (१६।१)

śilpinaṃ kārukaṃ śūdraṃ striyaṃ vā yas tu ghātayet |

16.2१६.२

प्राजापत्यद्वयं कृत्वा वृषैकादशदक्षिणा ॥ (१६।२)

prājāpatyadvayaṃ kṛtvā vṛṣaikādaśadakṣiṇā ||

17.1१७.१

वैश्यं वा क्षत्रियं वापि निर्दोषं यो ऽभिघातयेत् । (१७।१)

vaiśyaṃ vā kṣatriyaṃ vāpi nirdoṣaṃ yo 'bhighātayet |

17.2१७.२

सो ऽपि कृच्छ्रद्वयं कुर्याद् गोविंशद्दक्षिणां ददेत् ॥ (१७।२)

so 'pi kṛcchradvayaṃ kuryād goviṃśaddakṣiṇāṃ dadet ||

18.1१८.१

वैश्यं शूद्रं क्रियासक्तं विकर्मस्थं द्विजोत्तमम् । (१८।१)

vaiśyaṃ śūdraṃ kriyāsaktaṃ vikarmasthaṃ dvijottamam |

18.2१८.२

हत्वा चान्द्रायणं तस्य त्रिंशद् गोश् चैव दक्षिणाम् ॥ (१८।२)

hatvā cāndrāyaṇaṃ tasya triṃśad goś caiva dakṣiṇām ||

19.1१९.१

चण्डालं हतवान् कश्चिद् ब्राह्मणे यदि कंचन । (१९।१)

caṇḍālaṃ hatavān kaścid brāhmaṇe yadi kaṃcana |

19.2१९.२

प्राजापत्यं चरेत् कृच्छ्रं गोद्वयं दक्षिणां ददत् ॥ (१९।२)

prājāpatyaṃ caret kṛcchraṃ godvayaṃ dakṣiṇāṃ dadat ||

20.1२०.१

क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा । (२०।१)

kṣatriyeṇāpi vaiśyena śūdreṇaivetareṇa vā |

20.2२०.२

चण्डालस्य वधे प्राप्ते कृच्छ्रार्धेन विशुध्यति ॥ (२०।२)

caṇḍālasya vadhe prāpte kṛcchrārdhena viśudhyati ||

21.1२१.१

चोरौ श्वपाकचण्डालौ विप्रेणाभिहतौ यदि । (२१।१)

corau śvapākacaṇḍālau vipreṇābhihatau yadi |

21.2२१.२

अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥ (२१।२)

ahorātroṣitaḥ snātvā pañcagavyena śudhyati ||

22.1२२.१

श्वपाकं वापि चण्डालं विप्रः सम्भाषते यदि । (२२।१)

śvapākaṃ vāpi caṇḍālaṃ vipraḥ sambhāṣate yadi |

22.2२२.२

द्विजसंभाषणं कुर्यात् सावित्रीं तु सकृज् जपेत् ॥ (२२।२)

dvijasaṃbhāṣaṇaṃ kuryāt sāvitrīṃ tu sakṛj japet ||

23.1२३.१

चण्डालैः सह सुप्तं तु त्रिरात्रम् उपवासयेत् । (२३।१)

caṇḍālaiḥ saha suptaṃ tu trirātram upavāsayet |

23.2२३.२

चण्डालैकपथं गत्वा गायत्रीस्मरणाच्छुचिः ॥ (२३।२)

caṇḍālaikapathaṃ gatvā gāyatrīsmaraṇācchuciḥ ||

24.1२४.१

चण्डालदर्शने सद्य आदित्यम् अवलोकयेत् । (२४।१)

caṇḍāladarśane sadya ādityam avalokayet |

24.2२४.२

चण्डालस्पर्शने चैव सचैलं स्नानम् आचरेत् ॥ (२४।२)

caṇḍālasparśane caiva sacailaṃ snānam ācaret ||

25.1२५.१

चण्डालखातवापीषु पीत्वा सलिलम् अग्रजः । (२५।१)

caṇḍālakhātavāpīṣu pītvā salilam agrajaḥ |

25.2२५.२

अज्ञानाच्चैकभक्तेन त्व् अहोरात्रेण शुध्यति ॥ (२५।२)

ajñānāccaikabhaktena tv ahorātreṇa śudhyati ||

26.1२६.१

चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् । (२६।१)

caṇḍālabhāṇḍasaṃspṛṣṭaṃ pītvā kūpagataṃ jalam |

26.2२६.२

गोमूत्रयावकाहारस् त्रिरात्राच्छुद्धिम् आप्नुयात् ॥ (२६।२)

gomūtrayāvakāhāras trirātrācchuddhim āpnuyāt ||

27.1२७.१

चण्डालघटसंस्थं तु यत् तोयं पिबति द्विजः । (२७।१)

caṇḍālaghaṭasaṃsthaṃ tu yat toyaṃ pibati dvijaḥ |

27.2२७.२

तत्क्षणात् क्षिपते यस् तु प्राजापत्यं समाचरेत् ॥ (२७।२)

tatkṣaṇāt kṣipate yas tu prājāpatyaṃ samācaret ||

28.1२८.१

यदि न क्षिपते तोयं शरीरे यस्य जीर्यति । (२८।१)

yadi na kṣipate toyaṃ śarīre yasya jīryati |

28.2२८.२

प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनं चरेत् ॥ (२८।२)

prājāpatyaṃ na dātavyaṃ kṛcchraṃ sāṃtapanaṃ caret ||

29.1२९.१

चरेत् सांतपनं विप्रः प्राजापत्यम् अनन्तरः । (२९।१)

caret sāṃtapanaṃ vipraḥ prājāpatyam anantaraḥ |

29.2२९.२

तदर्धं तु चरेद् वैश्यः पादं शूद्रस् तद् आचरेत् ॥ (२९।२)

tadardhaṃ tu cared vaiśyaḥ pādaṃ śūdras tad ācaret ||

30.1३०.१

भाण्डस्थम् अन्त्यजानां तु जलं दधि पयः पिबेत् । (३०।१)

bhāṇḍastham antyajānāṃ tu jalaṃ dadhi payaḥ pibet |

30.2३०.२

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चैव प्रमादतः ॥ (३०।२)

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva pramādataḥ ||

31.1३१.१

ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः । (३१।१)

brahmakūrcopavāsena dvijātīnāṃ tu niṣkṛtiḥ |

31.2३१.२

शूद्रस्य चोपवासेन तथा दानेन शक्तितः ॥ (३१।२)

śūdrasya copavāsena tathā dānena śaktitaḥ ||

32.1३२.१

भुङ्क्ते ऽज्ञानाद् द्विजश्रेष्ठश् चण्डालान्नं कथंचन । (३२।१)

bhuṅkte 'jñānād dvijaśreṣṭhaś caṇḍālānnaṃ kathaṃcana |

32.2३२.२

गोमूत्रयावकाहारो दशरात्रेण शुध्यति ॥ (३२।२)

gomūtrayāvakāhāro daśarātreṇa śudhyati ||

33.1३३.१

एकैकं ग्रासम् अश्नीयाद् गोमूत्रयावकस्य च । (३३।१)

ekaikaṃ grāsam aśnīyād gomūtrayāvakasya ca |

33.2३३.२

दशाहं नियमस्थस्य व्रतं तत् तु विनिर्दिशेत् ॥ (३३।२)

daśāhaṃ niyamasthasya vrataṃ tat tu vinirdiśet ||

34.1३४.१

अविज्ञातस् तु चण्डालो यत्र वेश्मनि तिष्ठति । (३४।१)

avijñātas tu caṇḍālo yatra veśmani tiṣṭhati |

34.2३४.२

विज्ञाते तूपसन्नस्य द्विजाः कुर्वन्त्य् अनुग्रहम् ॥ (३४।२)

vijñāte tūpasannasya dvijāḥ kurvanty anugraham ||

35.1३५.१

मुनिवक्त्रोद्गतान् धर्मान् गायन्तो वेदपारगाः । (३५।१)

munivaktrodgatān dharmān gāyanto vedapāragāḥ |

35.2३५.२

पतन्तम् उद्धरेयुस् तं धर्मज्ञाः पापसंकरात् ॥ (३५।२)

patantam uddhareyus taṃ dharmajñāḥ pāpasaṃkarāt ||

36.1३६.१

दध्ना च सर्पिषा चैव क्षीरगोमूत्रयावकम् । (३६।१)

dadhnā ca sarpiṣā caiva kṣīragomūtrayāvakam |

36.2३६.२

भुञ्जीत सह सर्वैश् च त्रिसंध्यम् अवगाहनम् ॥ (३६।२)

bhuñjīta saha sarvaiś ca trisaṃdhyam avagāhanam ||

37.1३७.१

त्र्यहं भुञ्जीत दध्ना च त्र्यहं भुञ्जीत सर्पिषा । (३७।१)

tryahaṃ bhuñjīta dadhnā ca tryahaṃ bhuñjīta sarpiṣā |

37.2३७.२

त्र्यहं क्षीरेण भुञ्जीत एकैकेन दिनत्रयम् ॥ (३७।२)

tryahaṃ kṣīreṇa bhuñjīta ekaikena dinatrayam ||

38.1३८.१

भावदुष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम् । (३८।१)

bhāvaduṣṭaṃ na bhuñjīta nocchiṣṭaṃ kṛmidūṣitam |

38.2३८.२

दधिक्षीरस्य त्रिपलं पलं एकं घृतस्य तु ॥ (३८।२)

dadhikṣīrasya tripalaṃ palaṃ ekaṃ ghṛtasya tu ||

39.1३९.१

भस्मना तु भवेच्छुद्धिर् उभयोस् ताम्रकांस्ययोः । (३९।१)

bhasmanā tu bhavecchuddhir ubhayos tāmrakāṃsyayoḥ |

39.2३९.२

जलशौचेन वस्त्राणां परित्यागेन मृण्मयम् ॥ (३९।२)

jalaśaucena vastrāṇāṃ parityāgena mṛṇmayam ||

40.1४०.१

कुसुम्भगुडकार्पासलवणं तैलसर्पिषी । (४०।१)

kusumbhaguḍakārpāsalavaṇaṃ tailasarpiṣī |

40.2४०.२

द्वारे कृत्वा तु धान्यानि दद्याद् वेश्मनि पावकम् ॥ (४०।२)

dvāre kṛtvā tu dhānyāni dadyād veśmani pāvakam ||

41.1४१.१

एवं शुद्धस् ततः पश्चात् कुर्याद् ब्राह्मणतर्पणम् । (४१।१)

evaṃ śuddhas tataḥ paścāt kuryād brāhmaṇatarpaṇam |

41.2४१.२

त्रिंशतं गोवृषं चैकं दद्याद् विप्रेषु दक्षिणाम् ॥ (४१।२)

triṃśataṃ govṛṣaṃ caikaṃ dadyād vipreṣu dakṣiṇām ||

42.1४२.१

पुनर् लेपनखातेन होमजप्येन शुध्यति । (४२।१)

punar lepanakhātena homajapyena śudhyati |

42.2४२.२

आधारेण च विप्राणां भूमिदोषो न विद्यते ॥ (४२।२)

ādhāreṇa ca viprāṇāṃ bhūmidoṣo na vidyate ||

43.1४३.१

चण्डालैः सह संपर्कं मासं मासार्धम् एव वा । (४३।१)

caṇḍālaiḥ saha saṃparkaṃ māsaṃ māsārdham eva vā |

43.2४३.२

गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥ (४३।२)

gomūtrayāvakāhāro māsārdhena viśudhyati ||

44.1४४.१

रजकी चर्मकारी च लुब्धकी वेणुजीविनी । (४४।१)

rajakī carmakārī ca lubdhakī veṇujīvinī |

44.2४४.२

चातुर्वर्ण्यस्य च गृहे त्व् अविज्ञाता तु तिष्ठति ॥ (४४।२)

cāturvarṇyasya ca gṛhe tv avijñātā tu tiṣṭhati ||

45.1४५.१

ज्ञात्वा तु निष्कृतिं कुर्यात् पूर्वोक्तस्यार्धम् एव च । (४५।१)

jñātvā tu niṣkṛtiṃ kuryāt pūrvoktasyārdham eva ca |

45.2४५.२

गृहदाहं न कुर्वीत शेषं सर्वं च कारयेत् ॥ (४५।२)

gṛhadāhaṃ na kurvīta śeṣaṃ sarvaṃ ca kārayet ||

46.1४६.१

गृहस्याभ्यन्तरं गच्छेच्चण्डालो यदि कस्यचित् । (४६।१)

gṛhasyābhyantaraṃ gaccheccaṇḍālo yadi kasyacit |

46.2४६.२

तम् अगाराद् विनिर्वास्य मृद्भाण्डं तु विसर्जयेत् ॥ (४६।२)

tam agārād vinirvāsya mṛdbhāṇḍaṃ tu visarjayet ||

47.1४७.१

रसपूर्णं तु यद् भाण्डं न त्यजेत् तु कदाचन । (४७।१)

rasapūrṇaṃ tu yad bhāṇḍaṃ na tyajet tu kadācana |

47.2४७.२

गोमयेन तु संमिश्रैर् जलैः प्रोक्षेद् गृहं तथा ॥ (४७।२)

gomayena tu saṃmiśrair jalaiḥ prokṣed gṛhaṃ tathā ||

48.1४८.१

ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे । (४८।१)

brāhmaṇasya vraṇadvāre pūyaśoṇitasaṃbhave |

48.2४८.२

कृमिर् उत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥ (४८।२)

kṛmir utpadyate yasya prāyaścittaṃ kathaṃ bhavet ||

49.1४९.१

गवां मूत्रपुरीषेण दध्ना क्षीरेण सर्पिषा । (४९।१)

gavāṃ mūtrapurīṣeṇa dadhnā kṣīreṇa sarpiṣā |

49.2४९.२

त्र्यहं स्नात्वा च पीत्वा च कृमिदुष्टः शुचिर् भवेत् ॥ (४९।२)

tryahaṃ snātvā ca pītvā ca kṛmiduṣṭaḥ śucir bhavet ||

50.1५०.१

क्षत्रियो ऽपि सुवर्णस्य पञ्चमाषान् प्रदाय तु । (५०।१)

kṣatriyo 'pi suvarṇasya pañcamāṣān pradāya tu |

50.2५०.२

गोदक्षिणां तु वैश्यस्याप्य् उपवासं विनिर्दिशेत् ॥ (५०।२)

godakṣiṇāṃ tu vaiśyasyāpy upavāsaṃ vinirdiśet ||

51.1५१.१

शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति । (५१।१)

śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati |

51.2५१.२

अच्छिद्रम् इति यद् वाक्यं वदन्ति क्षितिदेवताः ॥ (५१।२)

acchidram iti yad vākyaṃ vadanti kṣitidevatāḥ ||

52.1५२.१

प्रणम्य शिरसा ग्राह्यम् अग्निष्टोमफलं हि तत् । (५२।१)

praṇamya śirasā grāhyam agniṣṭomaphalaṃ hi tat |

52.2५२.२

जपच्छिद्रं तपच्छिद्रं यच्छिद्रं यज्ञकर्मणि ॥ (५२।२)

japacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi ||

53.1५३.१

सर्वं भवति निश्छिद्रं ब्राह्मणैर् उपपादितम् । (५३।१)

sarvaṃ bhavati niśchidraṃ brāhmaṇair upapāditam |

53.2५३.२

व्याधिव्यसनिनिश्रान्ते दुर्भिक्षे डामरे तथा ॥ (५३।२)

vyādhivyasaniniśrānte durbhikṣe ḍāmare tathā ||

54.1५४.१

उपवासो व्रतं होमो द्विजसम्पादितानि वै । (५४।१)

upavāso vrataṃ homo dvijasampāditāni vai |

54.2५४.२

अथवा ब्राह्मणास् तुष्टाः सर्वं कुर्वन्त्य् अनुग्रहम् ॥ (५४।२)

athavā brāhmaṇās tuṣṭāḥ sarvaṃ kurvanty anugraham ||

55.1५५.१

सर्वान् कामान् अवाप्नोति द्विजसम्पादितैर् इह । (५५।१)

sarvān kāmān avāpnoti dvijasampāditair iha |

55.2५५.२

दुर्बले ऽनुग्रहः प्रोक्तस् तथा वै बालवृद्धयोः ॥ (५५।२)

durbale 'nugrahaḥ proktas tathā vai bālavṛddhayoḥ ||

56.1५६.१

अतो ऽन्यथा भवेद् दोषस् तस्मान् नानुग्रहः स्मृतः । (५६।१)

ato 'nyathā bhaved doṣas tasmān nānugrahaḥ smṛtaḥ |

56.2५६.२

स्नेहाद् वा यदि वा लोभाद् भयाद् अज्ञानतो ऽपि वा ॥ (५६।२)

snehād vā yadi vā lobhād bhayād ajñānato 'pi vā ||

57.1५७.१

कुर्वन्त्य् अनुग्रहं ये तु तत् पापं तेषु गच्छति । (५७।१)

kurvanty anugrahaṃ ye tu tat pāpaṃ teṣu gacchati |

57.2५७.२

शरीरस्यात्यये प्राप्ते वदन्ति नियमं तु ये ॥ (५७।२)

śarīrasyātyaye prāpte vadanti niyamaṃ tu ye ||

58.1५८.१

महत् कार्योपरोधेन न स्वस्थस्य कदाचन । (५८।१)

mahat kāryoparodhena na svasthasya kadācana |

58.2५८.२

स्वस्थस्य मूढाः कुर्वन्ति वदन्त्य् अनियमं तु ये ॥ (५८।२)

svasthasya mūḍhāḥ kurvanti vadanty aniyamaṃ tu ye ||

59.1५९.१

ते तस्य विघ्नकर्तारः पतन्ति नरके ऽशुचौ । (५९।१)

te tasya vighnakartāraḥ patanti narake 'śucau |

59.2५९.२

स्वयम् एव व्रतं कृत्वा ब्राह्मणं यो ऽवमन्यते ॥ (५९।२)

svayam eva vrataṃ kṛtvā brāhmaṇaṃ yo 'vamanyate ||

60.1६०.१

वृथा तस्योपवासः स्यान् न स पुण्येन युज्यते । (६०।१)

vṛthā tasyopavāsaḥ syān na sa puṇyena yujyate |

60.2६०.२

स एव नियमो ग्राह्यो यद्य् एको ऽपि वदेद् द्विजः ॥ (६०।२)

sa eva niyamo grāhyo yady eko 'pi vaded dvijaḥ ||

61.1६१.१

कुर्याद् वाक्यं द्विजानां तु अन्यथा भ्रूणहा भवेत् । (६१।१)

kuryād vākyaṃ dvijānāṃ tu anyathā bhrūṇahā bhavet |

61.2६१.२

ब्राह्मणा जङ्गमं तीर्थं तीर्थभूता हि साधवः ॥ (६१।२)

brāhmaṇā jaṅgamaṃ tīrthaṃ tīrthabhūtā hi sādhavaḥ ||

62.1६२.१

तेषां वाक्योदकेनैव शुध्यन्ति मलिना जनाः । (६२।१)

teṣāṃ vākyodakenaiva śudhyanti malinā janāḥ |

62.2६२.२

ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः ॥ (६२।२)

brāhmaṇā yāni bhāṣante manyante tāni devatāḥ ||

63.1६३.१

सर्वदेवमयो विप्रो न तद्वचनम् अन्यथा । (६३।१)

sarvadevamayo vipro na tadvacanam anyathā |

63.2६३.२

उपवासो व्रतं चैव स्नानं तीर्थं जपस् तपः ॥ (६३।२)

upavāso vrataṃ caiva snānaṃ tīrthaṃ japas tapaḥ ||

64.1६४.१

विप्रसम्पादितं यस्य सम्पूर्णं तस्य तत् फलम् । (६४।१)

viprasampāditaṃ yasya sampūrṇaṃ tasya tat phalam |

64.2६४.२

अन्नाद्ये कीटसंयुक्ते मक्षिकाकेशदूषिते ॥ (६४।२)

annādye kīṭasaṃyukte makṣikākeśadūṣite ||

65.1६५.१

तदन्तरा स्पृशेच् चापस् तद् अन्नं भस्मना स्पृशेत् । (६५।१)

tadantarā spṛśec cāpas tad annaṃ bhasmanā spṛśet |

65.2६५.२

भुञ्जानश् चैव यो विप्रः पादं हस्तेन संस्पृशेत् ॥ (६५।२)

bhuñjānaś caiva yo vipraḥ pādaṃ hastena saṃspṛśet ||

66.1६६.१

स्वम् उच्छिष्टम् असौ भुङ्क्ते पाणिना मुक्तभाजने । (६६।१)

svam ucchiṣṭam asau bhuṅkte pāṇinā muktabhājane |

66.2६६.२

पादुकास्थो न भुञ्जीत पर्यङ्के संस्थितो ऽपि वा ॥ (६६।२)

pādukāstho na bhuñjīta paryaṅke saṃsthito 'pi vā ||

67.1६७.१

श्वानचण्डालदृष्टौ च भोजनं परिवर्जयेत् । (६७।१)

śvānacaṇḍāladṛṣṭau ca bhojanaṃ parivarjayet |

67.2६७.२

यद् अन्नं प्रतिषिद्धं स्याद् अन्नशुद्धिस् तथैव च ॥ (६७।२)

yad annaṃ pratiṣiddhaṃ syād annaśuddhis tathaiva ca ||

68.1६८.१

यथा पराशरेणोक्तं तथैवाहं वदामि वः । (६८।१)

yathā parāśareṇoktaṃ tathaivāhaṃ vadāmi vaḥ |

68.2६८.२

शृतं द्रोणाढकस्यान्नं काकश्वानोपघातितम् ॥ (६८।२)

śṛtaṃ droṇāḍhakasyānnaṃ kākaśvānopaghātitam ||

69.1६९.१

केनेदं शुध्यते चेति ब्राह्मणेभ्यो निवेदयेत् । (६९।१)

kenedaṃ śudhyate ceti brāhmaṇebhyo nivedayet |

69.2६९.२

काकश्वानावलीढं तु द्रोणान्नं न परित्यजेत् ॥ (६९।२)

kākaśvānāvalīḍhaṃ tu droṇānnaṃ na parityajet ||

70.1७०.१

वेदवेदाङ्गविद्विप्रैर् धर्मशास्त्रानुपालकैः । (७०।१)

vedavedāṅgavidviprair dharmaśāstrānupālakaiḥ |

70.2७०.२

प्रस्था द्वात्रिंशतिर् द्रोणः स्मृतो द्विप्रस्थ आढकः ॥ (७०।२)

prasthā dvātriṃśatir droṇaḥ smṛto dviprastha āḍhakaḥ ||

71.1७१.१

ततो द्रोणाढकस्यान्नं श्रुतिस्मृतिविदो विदुः । (७१।१)

tato droṇāḍhakasyānnaṃ śrutismṛtivido viduḥ |

71.2७१.२

काकश्वानावलीढं तु गवाघ्रातं खरेण वा ॥ (७१।२)

kākaśvānāvalīḍhaṃ tu gavāghrātaṃ khareṇa vā ||

72.1७२.१

स्वल्पम् अन्नं त्यजेद् विप्रः शुद्धिर् द्रोणाढके भवेत् । (७२।१)

svalpam annaṃ tyajed vipraḥ śuddhir droṇāḍhake bhavet |

72.2७२.२

अन्नस्योद्धृत्य तन्मात्रं यच्च लालाहतं भवेत् ॥ (७२।२)

annasyoddhṛtya tanmātraṃ yacca lālāhataṃ bhavet ||

73.1७३.१

सुवर्णोदकम् अभ्युक्ष्य हुताशेनैव तापयेत् । (७३।१)

suvarṇodakam abhyukṣya hutāśenaiva tāpayet |

73.2७३.२

हुताशनेन संस्पृष्टं सुवर्णसलिलेन च ॥ (७३।२)

hutāśanena saṃspṛṣṭaṃ suvarṇasalilena ca ||

74.1७४.१

विप्राणां ब्रह्मघोषेण भोज्यं भवति तत्क्षणात् । (७४।१)

viprāṇāṃ brahmaghoṣeṇa bhojyaṃ bhavati tatkṣaṇāt |

74.2७४.२

स्नेहो वा गोरसो वापि तत्र शुद्धिः कथं भवेत् ॥ (७४।२)

sneho vā goraso vāpi tatra śuddhiḥ kathaṃ bhavet ||

75.1७५.१

अल्पं परित्यजेत् तत्र स्नेहस्योत्पवनेन च । (७५।१)

alpaṃ parityajet tatra snehasyotpavanena ca |

75.2७५.२

अनलज्वालया शुद्धिर् गोरसस्य विधीयते ॥ (७५।२)

analajvālayā śuddhir gorasasya vidhīyate ||

Data courtesy of The Digital Corpus of Sanskrit.

ParDhSmṛti, 6

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit