पराशरधर्मसंहिताParāśaradharmasaṃhitā

ParDhSmṛti, 8

8 of 12 · 83 verses

Select a line for its word-by-word analysis.

1.1१.१

गवां बन्धनयोक्त्रेषु भवेन् मृत्युर् अकामतः । (१।१)

gavāṃ bandhanayoktreṣu bhaven mṛtyur akāmataḥ |

1.2१.२

अकामकृतपापस्य प्रायश्चित्तं कथं भवेत् ॥ (१।२)

akāmakṛtapāpasya prāyaścittaṃ kathaṃ bhavet ||

2.1२.१

वेदवेदाङ्गविदुषां धर्मशास्त्रं विजानताम् । (२।१)

vedavedāṅgaviduṣāṃ dharmaśāstraṃ vijānatām |

2.2२.२

स्वकर्मरतविप्राणां स्वकं पापं निवेदयेत् ॥ (२।२)

svakarmarataviprāṇāṃ svakaṃ pāpaṃ nivedayet ||

3.1३.१

सावित्र्याश् चापि गायत्र्याः संध्योपास्त्यग्निकार्ययोः । (३।१)

sāvitryāś cāpi gāyatryāḥ saṃdhyopāstyagnikāryayoḥ |

3.2३.२

अज्ञानात् कृषिकर्तारो ब्राह्मणा नामधारकाः ॥ (३।२)

ajñānāt kṛṣikartāro brāhmaṇā nāmadhārakāḥ ||

4.1४.१

अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम् । (४।१)

avratānām amantrāṇāṃ jātimātropajīvinām |

4.2४.२

सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ (४।२)

sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate ||

5.1५.१

यद् वदन्ति तमोमूढा मूर्खा धर्मम् अतद्विदः । (५।१)

yad vadanti tamomūḍhā mūrkhā dharmam atadvidaḥ |

5.2५.२

तत् पापं शतधा भूत्वा तद्वक्तॄन् अधिगच्छति ॥ (५।२)

tat pāpaṃ śatadhā bhūtvā tadvaktṝn adhigacchati ||

6.1६.१

अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः । (६।१)

ajñātvā dharmaśāstrāṇi prāyaścittaṃ dadāti yaḥ |

6.2६.२

प्रायश्चित्ती भवेत् पूतः किल्बिषं पर्षदि व्रजेत् ॥ (६।२)

prāyaścittī bhavet pūtaḥ kilbiṣaṃ parṣadi vrajet ||

7.1७.१

चत्वारो वा त्रयो वापि यं ब्रूयुर् वेदपारगाः । (७।१)

catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ |

7.2७.२

स धर्मेति विज्ञेयो नेतरैस् तु सहस्रशः ॥ (७।२)

sa dharmeti vijñeyo netarais tu sahasraśaḥ ||

8.1८.१

प्रमाणमार्गं मार्गन्तो ये धर्मं प्रवदन्ति वै । (८।१)

pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai |

8.2८.२

तेषाम् उद्विजते पापं सद्भूतगुणवादिनाम् ॥ (८।२)

teṣām udvijate pāpaṃ sadbhūtaguṇavādinām ||

9.1९.१

यथाश्मनि स्थितं तोयं मारुतार्केण शुध्यति । (९।१)

yathāśmani sthitaṃ toyaṃ mārutārkeṇa śudhyati |

9.2९.२

एवं परिषदादेशान् नाशयेत् तस्य दुष्कृतम् ॥ (९।२)

evaṃ pariṣadādeśān nāśayet tasya duṣkṛtam ||

10.1१०.१

नैव गच्छति कर्तारं नैव गच्छति पर्षदम् । (१०।१)

naiva gacchati kartāraṃ naiva gacchati parṣadam |

10.2१०.२

मारुतार्कादिसंयोगात् पापं नश्यति तोयवत् ॥ (१०।२)

mārutārkādisaṃyogāt pāpaṃ naśyati toyavat ||

11.1११.१

चत्वारो वा त्रयो वापि वेदवन्तो ऽग्निहोत्रिणः । (११।१)

catvāro vā trayo vāpi vedavanto 'gnihotriṇaḥ |

11.2११.२

ब्राह्मणानां समर्था ये परिषत् साभिधीयते ॥ (११।२)

brāhmaṇānāṃ samarthā ye pariṣat sābhidhīyate ||

12.1१२.१

अनाहिताग्नयो ये ऽन्ये वेदवेदाङ्गपारगाः । (१२।१)

anāhitāgnayo ye 'nye vedavedāṅgapāragāḥ |

12.2१२.२

पञ्च त्रयो वा धर्मज्ञाः परिषत् सा प्रकीर्तिता ॥ (१२।२)

pañca trayo vā dharmajñāḥ pariṣat sā prakīrtitā ||

13.1१३.१

मुनीनाम् आत्मविद्यानां द्विजानां यज्ञयाजिनाम् । (१३।१)

munīnām ātmavidyānāṃ dvijānāṃ yajñayājinām |

13.2१३.२

वेदव्रतेषु स्नातानाम् एको ऽपि परिषद् भवेत् ॥ (१३।२)

vedavrateṣu snātānām eko 'pi pariṣad bhavet ||

14.1१४.१

पञ्च पूर्वं मया प्रोक्तास् तेषां चासंभवे त्रयः । (१४।१)

pañca pūrvaṃ mayā proktās teṣāṃ cāsaṃbhave trayaḥ |

14.2१४.२

स्ववृत्तिपरितुष्टो ये परिषत् सा प्रकीर्तिता ॥ (१४।२)

svavṛttiparituṣṭo ye pariṣat sā prakīrtitā ||

15.1१५.१

अत ऊर्ध्वं तु ये विप्राः केवलं नामधारकाः । (१५।१)

ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ |

15.2१५.२

परिषत्त्वं न तेष्व् अस्ति सहस्रगुणितेष्व् अपि ॥ (१५।२)

pariṣattvaṃ na teṣv asti sahasraguṇiteṣv api ||

16.1१६.१

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । (१६।१)

yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ |

16.2१६.२

ब्राह्मणस् त्व् अनधीयानस् त्रयस् ते नामधारकाः ॥ (१६।२)

brāhmaṇas tv anadhīyānas trayas te nāmadhārakāḥ ||

17.1१७.१

ग्रामस्थानं यथा शून्यं यथा कूपस् तु निर्जलः । (१७।१)

grāmasthānaṃ yathā śūnyaṃ yathā kūpas tu nirjalaḥ |

17.2१७.२

यथा हुतम् अनग्नौ च अमन्त्रो ब्राह्मणस् तथा ॥ (१७।२)

yathā hutam anagnau ca amantro brāhmaṇas tathā ||

18.1१८.१

यथा षण्ढो ऽफलः स्त्रीषु यथा गौर् ऊषराफला । (१८।१)

yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur ūṣarāphalā |

18.2१८.२

यथा चाज्ञे ऽफलं दानं तथा विप्रो ऽनृचो ऽफलः ॥ (१८।२)

yathā cājñe 'phalaṃ dānaṃ tathā vipro 'nṛco 'phalaḥ ||

19.1१९.१

चित्रकर्म यथानेकैर् अङ्गैर् उन्मील्यते शनैः । (१९।१)

citrakarma yathānekair aṅgair unmīlyate śanaiḥ |

19.2१९.२

ब्राह्मण्यम् अपि तद्वद्धि संस्कारैर् मन्त्रपूर्वकैः ॥ (१९।२)

brāhmaṇyam api tadvaddhi saṃskārair mantrapūrvakaiḥ ||

20.1२०.१

प्रायश्चित्तं प्रयच्छन्ति ये द्विजा नामधारकाः । (२०।१)

prāyaścittaṃ prayacchanti ye dvijā nāmadhārakāḥ |

20.2२०.२

ते द्विजाः पापकर्माणः समेता नरकं ययुः ॥ (२०।२)

te dvijāḥ pāpakarmāṇaḥ sametā narakaṃ yayuḥ ||

21.1२१.१

ये पठन्ति द्विजा वेदं पञ्चयज्ञरताश् च ये । (२१।१)

ye paṭhanti dvijā vedaṃ pañcayajñaratāś ca ye |

21.2२१.२

त्रैलोक्यं तारयन्त्य् एते पञ्चेन्द्रियरता अपि ॥ (२१।२)

trailokyaṃ tārayanty ete pañcendriyaratā api ||

22.1२२.१

सम्प्रणीतः श्मशानेषु दीप्तो ऽग्निः सर्वभक्षकः । (२२।१)

sampraṇītaḥ śmaśāneṣu dīpto 'gniḥ sarvabhakṣakaḥ |

22.2२२.२

एवं च वेदविद् विप्रः सर्वभक्षो ऽपि दैवतम् ॥ (२२।२)

evaṃ ca vedavid vipraḥ sarvabhakṣo 'pi daivatam ||

23.1२३.१

अमेध्यानि तु सर्वाणि प्रक्षिप्यन्ते यथोदके । (२३।१)

amedhyāni tu sarvāṇi prakṣipyante yathodake |

23.2२३.२

तथैव किल्बिषं सर्वं प्रक्षिपेच्च द्विजानले ॥ (२३।२)

tathaiva kilbiṣaṃ sarvaṃ prakṣipecca dvijānale ||

24.1२४.१

गायत्रीरहितो विप्रः शूद्राद् अप्य् अशुचिर् भवेत् । (२४।१)

gāyatrīrahito vipraḥ śūdrād apy aśucir bhavet |

24.2२४.२

गायत्रीब्रह्मतत्त्वज्ञाः सम्पूज्यन्ते जनैर् द्विजाः ॥ (२४।२)

gāyatrībrahmatattvajñāḥ sampūjyante janair dvijāḥ ||

25.1२५.१

दुःशीलो ऽपि द्विजः पूज्यो न तु शूद्रो जितेन्द्रियः । (२५।१)

duḥśīlo 'pi dvijaḥ pūjyo na tu śūdro jitendriyaḥ |

25.2२५.२

कः परित्यज्य गां दुष्टां दुहेच्छीलवतीं खरीम् ॥ (२५।२)

kaḥ parityajya gāṃ duṣṭāṃ duhecchīlavatīṃ kharīm ||

26.1२६.१

धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः । (२६।१)

dharmaśāstrarathārūḍhā vedakhaḍgadharā dvijāḥ |

26.2२६.२

क्रीडार्थम् अपि यद् ब्रूयुः स धर्मः परमः स्मृतः ॥ (२६।२)

krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ ||

27.1२७.१

चातुर्वेद्यो विकल्पी च अङ्गविद् धर्मपाठकः । (२७।१)

cāturvedyo vikalpī ca aṅgavid dharmapāṭhakaḥ |

27.2२७.२

त्रयश् च आश्रमो मुख्याः पर्षद् एषा दशावरा ॥ (२७।२)

trayaś ca āśramo mukhyāḥ parṣad eṣā daśāvarā ||

28.1२८.१

राज्ञश् चानुमते स्थित्वा प्रायश्चित्तम् विनिर्दिशेत् । (२८।१)

rājñaś cānumate sthitvā prāyaścittam vinirdiśet |

28.2२८.२

स्वयम् एव न कर्तव्यं कर्तव्या स्वल्पनिष्कृतिः ॥ (२८।२)

svayam eva na kartavyaṃ kartavyā svalpaniṣkṛtiḥ ||

29.1२९.१

ब्राह्मणांस् तान् अतिक्रम्य राजा कर्तुं यद् इच्छति । (२९।१)

brāhmaṇāṃs tān atikramya rājā kartuṃ yad icchati |

29.2२९.२

तत् पापं शतधा भूत्वा राजानम् अनुगच्छति ॥ (२९।२)

tat pāpaṃ śatadhā bhūtvā rājānam anugacchati ||

30.1३०.१

प्रायश्चित्तं सदा दद्याद् देवतायतनाग्रतः । (३०।१)

prāyaścittaṃ sadā dadyād devatāyatanāgrataḥ |

30.2३०.२

आत्मकृच्छ्रं ततः कृत्वा जपेद् वै वेदमातरम् ॥ (३०।२)

ātmakṛcchraṃ tataḥ kṛtvā japed vai vedamātaram ||

31.1३१.१

सशिखं वपनं कृत्वा त्रिसंध्यम् अवगाहनम् । (३१।१)

saśikhaṃ vapanaṃ kṛtvā trisaṃdhyam avagāhanam |

31.2३१.२

गवां मध्ये वसेद् रात्रौ दिवा गाश् चाप्य् अनुव्रजेत् ॥ (३१।२)

gavāṃ madhye vased rātrau divā gāś cāpy anuvrajet ||

32.1३२.१

उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । (३२।१)

uṣṇe varṣati śīte vā mārute vāti vā bhṛśam |

32.2३२.२

न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्तितः ॥ (३२।२)

na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ ||

33.1३३.१

आत्मनो यदि वान्येषां गृहे क्षेत्रे खले ऽथ वा । (३३।१)

ātmano yadi vānyeṣāṃ gṛhe kṣetre khale 'tha vā |

33.2३३.२

भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥ (३३।२)

bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam ||

34.1३४.१

पिबन्तीषु पिबेत् तोयं संविशन्तीषु संविशेत् । (३४।१)

pibantīṣu pibet toyaṃ saṃviśantīṣu saṃviśet |

34.2३४.२

पतितां पङ्कमग्नां वा सर्वप्राणैः समुद्धरेत् ॥ (३४।२)

patitāṃ paṅkamagnāṃ vā sarvaprāṇaiḥ samuddharet ||

35.1३५.१

ब्राह्मणार्थे गवार्थे वा यस् तु प्राणान् परित्यजेत् । (३५।१)

brāhmaṇārthe gavārthe vā yas tu prāṇān parityajet |

35.2३५.२

मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥ (३५।२)

mucyate brahmahatyāyā goptā gor brāhmaṇasya ca ||

36.1३६.१

गोवधस्यानुरूपेण प्राजापत्यं विनिर्दिशेत् । (३६।१)

govadhasyānurūpeṇa prājāpatyaṃ vinirdiśet |

36.2३६.२

प्राजापत्यं ततः कृच्छ्रं विभजेत् तच्चतुर्विधम् ॥ (३६।२)

prājāpatyaṃ tataḥ kṛcchraṃ vibhajet taccaturvidham ||

37.1३७.१

एकाहम् एकभक्ताशी एकाहं नक्तभोजनः । (३७।१)

ekāham ekabhaktāśī ekāhaṃ naktabhojanaḥ |

37.2३७.२

अयाचिताश्य् एकम् अहर् एकाहं मारुताशनः ॥ (३७।२)

ayācitāśy ekam ahar ekāhaṃ mārutāśanaḥ ||

38.1३८.१

दिनद्वयं चैकभक्तो द्विदिनं चैकभोजनः । (३८।१)

dinadvayaṃ caikabhakto dvidinaṃ caikabhojanaḥ |

38.2३८.२

दिनद्वयम् अयाची स्याद् द्विदिनं मारुताशनः ॥ (३८।२)

dinadvayam ayācī syād dvidinaṃ mārutāśanaḥ ||

39.1३९.१

त्रिदिनं चैकभक्ताशी त्रिदिनं नक्तभोजनः । (३९।१)

tridinaṃ caikabhaktāśī tridinaṃ naktabhojanaḥ |

39.2३९.२

दिनत्रयम् अयाची स्यात् त्रिदिनं मारुताशनः ॥ (३९।२)

dinatrayam ayācī syāt tridinaṃ mārutāśanaḥ ||

40.1४०.१

चतुरहं चैकभक्ताशी चतुरहं नक्तभोजनः । (४०।१)

caturahaṃ caikabhaktāśī caturahaṃ naktabhojanaḥ |

40.2४०.२

चतुर्दिनम् अयाची स्याच् चतुरहं मारुताशनः ॥ (४०।२)

caturdinam ayācī syāc caturahaṃ mārutāśanaḥ ||

41.1४१.१

प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् । (४१।१)

prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam |

41.2४१.२

विप्राणां दक्षिणां दद्यात् पवित्राणि जपेद् द्विजः । (४१।२)

viprāṇāṃ dakṣiṇāṃ dadyāt pavitrāṇi japed dvijaḥ |

41.3४१.३

ब्राह्मणान् भोजयित्वा तु गोघ्नः शुद्धो न संशयः ॥ (४१।३)

brāhmaṇān bhojayitvā tu goghnaḥ śuddho na saṃśayaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

ParDhSmṛti, 8

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit