पराशरधर्मसंहिताParāśaradharmasaṃhitā

ParDhSmṛti, 12

12 of 12 · 147 verses

Select a line for its word-by-word analysis.

1.1१.१

दुःस्वप्नं यदि पश्येत् तु वान्ते तु क्षुरकर्मणि । (१।१)

duḥsvapnaṃ yadi paśyet tu vānte tu kṣurakarmaṇi |

1.2१.२

मैथुने प्रेतधूमे च स्नानम् एव विधीयते ॥ (१।२)

maithune pretadhūme ca snānam eva vidhīyate ||

2.1२.१

अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टम् एव च । (२।१)

ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭam eva ca |

2.2२.२

पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ (२।२)

punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ ||

3.1३.१

अजिनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च । (३।१)

ajinaṃ mekhalā daṇḍo bhaikṣyacaryā vratāni ca |

3.2३.२

निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥ (३।२)

nivartante dvijātīnāṃ punaḥ saṃskārakarmaṇi ||

4.1४.१

विण्मूत्रभोजी शुद्ध्यर्थं प्राजापत्यं समाचरेत् । (४।१)

viṇmūtrabhojī śuddhyarthaṃ prājāpatyaṃ samācaret |

4.2४.२

पञ्चगव्यं च कुर्वीत स्नात्वा पीत्वा शुचिर् भवेत् ॥ (४।२)

pañcagavyaṃ ca kurvīta snātvā pītvā śucir bhavet ||

5.1५.१

जलाग्निपतने चैव प्रव्रज्यानाशकेषु च । (५।१)

jalāgnipatane caiva pravrajyānāśakeṣu ca |

5.2५.२

प्रत्यवसितवर्णानां कथं शुद्धिर् विधीयते ॥ (५।२)

pratyavasitavarṇānāṃ kathaṃ śuddhir vidhīyate ||

6.1६.१

प्राजापत्यद्वयेनैव तीर्थाभिगमनेन च । (६।१)

prājāpatyadvayenaiva tīrthābhigamanena ca |

6.2६.२

वृषैकादशदानेन वर्णाः शुध्यन्ति ते त्रयः ॥ (६।२)

vṛṣaikādaśadānena varṇāḥ śudhyanti te trayaḥ ||

7.1७.१

ब्राह्मणस्य प्रवक्ष्यामि वनं गत्वा चतुष्पथे । (७।१)

brāhmaṇasya pravakṣyāmi vanaṃ gatvā catuṣpathe |

7.2७.२

सशिखं वपनं कृत्वा प्राजापत्यद्वयं चरेत् ॥ (७।२)

saśikhaṃ vapanaṃ kṛtvā prājāpatyadvayaṃ caret ||

8.1८.१

गोद्वयं दक्षिणां दद्याच्छुद्धिं स्वायंभुवो ऽब्रवीत् । (८।१)

godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ svāyaṃbhuvo 'bravīt |

8.2८.२

मुच्यते तेन पापेन ब्राह्मणत्वं च गच्छति ॥ (८।२)

mucyate tena pāpena brāhmaṇatvaṃ ca gacchati ||

9.1९.१

स्नानानि पञ्च पुण्यानि कीर्तितानि मनीषिभिः । (९।१)

snānāni pañca puṇyāni kīrtitāni manīṣibhiḥ |

9.2९.२

आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यम् एव च ॥ (९।२)

āgneyaṃ vāruṇaṃ brāhmaṃ vāyavyaṃ divyam eva ca ||

10.1१०.१

आग्नेयं भस्मना स्नानम् अवगाह्य तु वारुणम् । (१०।१)

āgneyaṃ bhasmanā snānam avagāhya tu vāruṇam |

10.2१०.२

आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥ (१०।२)

āpohiṣṭheti ca brāhmaṃ vāyavyaṃ gorajaḥ smṛtam ||

11.1११.१

यत् तु सातपवर्षेण तत् स्नानं दिव्यम् उच्यते । (११।१)

yat tu sātapavarṣeṇa tat snānaṃ divyam ucyate |

11.2११.२

तत्र स्नात्वा तु गङ्गायां स्नातो भवति मानवः ॥ (११।२)

tatra snātvā tu gaṅgāyāṃ snāto bhavati mānavaḥ ||

12.1१२.१

स्नातुं यान्तं द्विजं सर्वे देवाः पितृगणैः सह । (१२।१)

snātuṃ yāntaṃ dvijaṃ sarve devāḥ pitṛgaṇaiḥ saha |

12.2१२.२

वायुभूतास् तु गच्छन्ति तृषार्ताः सलिलार्थिनः ॥ (१२।२)

vāyubhūtās tu gacchanti tṛṣārtāḥ salilārthinaḥ ||

13.1१३.१

निराशास् ते निवर्तन्ते वस्त्रनिष्पीडने कृते । (१३।१)

nirāśās te nivartante vastraniṣpīḍane kṛte |

13.2१३.२

तस्मान् न पीडयेद् वस्त्रं अकृत्वा पितृतर्पणम् ॥ (१३।२)

tasmān na pīḍayed vastraṃ akṛtvā pitṛtarpaṇam ||

14.1१४.१

रोमकूपेष्व् अवस्थाप्य यस् तिलैस् तर्पयेत् पितॄन् । (१४।१)

romakūpeṣv avasthāpya yas tilais tarpayet pitṝn |

14.2१४.२

पितरस् तर्पितास् तेन रुधिरेण मलेन च ॥ (१४।२)

pitaras tarpitās tena rudhireṇa malena ca ||

15.1१५.१

अवधूनोति यः केशान् स्नात्वा यस् तूत्सृजेन् मलम् । (१५।१)

avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam |

15.2१५.२

आचामेद् वा जलस्थे ऽपि स बाह्यः पितृदैवतैः ॥ (१५।२)

ācāmed vā jalasthe 'pi sa bāhyaḥ pitṛdaivataiḥ ||

16.1१६.१

शिरः प्रावृत्त्य कण्ठं वा मुक्तकच्छशिखो ऽपि वा । (१६।१)

śiraḥ prāvṛttya kaṇṭhaṃ vā muktakacchaśikho 'pi vā |

16.2१६.२

विना यज्ञोपवीतेन आचान्तो ऽप्य् अशुचिर् भवेत् ॥ (१६।२)

vinā yajñopavītena ācānto 'py aśucir bhavet ||

17.1१७.१

जले स्थलस्थो नाचामेज् जलस्थश् च बहिःस्थले । (१७।१)

jale sthalastho nācāmej jalasthaś ca bahiḥsthale |

17.2१७.२

उभे स्पृष्ट्वा समाचान्त उभयत्र शुचिर् भवेत् ॥ (१७।२)

ubhe spṛṣṭvā samācānta ubhayatra śucir bhavet ||

18.1१८.१

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे । (१८।१)

snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe |

18.2१८.२

आचान्तः पुनर् आचामेद् वासो विपरिधाय च ॥ (१८।२)

ācāntaḥ punar ācāmed vāso viparidhāya ca ||

19.1१९.१

क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते । (१९।१)

kṣute niṣṭhīvane caiva dantocchiṣṭe tathānṛte |

19.2१९.२

पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥ (१९।२)

patitānāṃ ca saṃbhāṣe dakṣiṇaṃ śravaṇaṃ spṛśet ||

20.1२०.१

प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस् तथा । (२०।१)

prabhāsādīni tīrthāni gaṅgādyāḥ saritas tathā |

20.2२०.२

विप्रस्य दक्षिणे कर्णे सन्तीति मनुर् अब्रवीत् ॥ (२०।२)

viprasya dakṣiṇe karṇe santīti manur abravīt ||

21.1२१.१

अग्निर् आपश् च वेदाश् च सोमसूर्यानिलास् तथा । (२१।१)

agnir āpaś ca vedāś ca somasūryānilās tathā |

21.2२१.२

सर्व एव तु विप्रस्य श्रोत्रे तिष्ठन्ति दक्षिणे ॥ (२१।२)

sarva eva tu viprasya śrotre tiṣṭhanti dakṣiṇe ||

22.1२२.१

भास्करस्य करैः पूतं दिवा स्नानं प्रशस्यते । (२२।१)

bhāskarasya karaiḥ pūtaṃ divā snānaṃ praśasyate |

22.2२२.२

अप्रशस्तं निशि स्नानं राहोर् अन्यत्र दर्शनात् ॥ (२२।२)

apraśastaṃ niśi snānaṃ rāhor anyatra darśanāt ||

23.1२३.१

स्नानं दानं जपो होमः कर्तव्यो राहुदर्शने । (२३।१)

snānaṃ dānaṃ japo homaḥ kartavyo rāhudarśane |

23.2२३.२

अन्यदा त्व् अशुची रात्रिस् तस्मात् तां परिवर्जयेत् ॥ (२३।२)

anyadā tv aśucī rātris tasmāt tāṃ parivarjayet ||

24.1२४.१

मरुतो वसवो रुद्रा आदित्याश् चैव देवताः । (२४।१)

maruto vasavo rudrā ādityāś caiva devatāḥ |

24.2२४.२

सर्वे सोमे प्रलीयन्ते तस्माद् दानं तु तद्ग्रहे ॥ (२४।२)

sarve some pralīyante tasmād dānaṃ tu tadgrahe ||

25.1२५.१

खलयज्ञे विवाहे च संक्रान्तौ ग्रहणे तथा । (२५।१)

khalayajñe vivāhe ca saṃkrāntau grahaṇe tathā |

25.2२५.२

शर्वर्यां दानम् अस्त्य् एव नान्यत्रैव विधीयते ॥ (२५।२)

śarvaryāṃ dānam asty eva nānyatraiva vidhīyate ||

26.1२६.१

पुत्रजन्मनि यज्ञे च तथा चात्ययकर्मणि । (२६।१)

putrajanmani yajñe ca tathā cātyayakarmaṇi |

26.2२६.२

राहोश् च दर्शने दानं प्रशस्तं नान्यदा निशि ॥ (२६।२)

rāhoś ca darśane dānaṃ praśastaṃ nānyadā niśi ||

27.1२७.१

महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम् । (२७।१)

mahāniśā tu vijñeyā madhyasthaṃ praharadvayam |

27.2२७.२

प्रदोषपश्चिमौ यामौ दिनवत् स्नानम् आचरेत् ॥ (२७।२)

pradoṣapaścimau yāmau dinavat snānam ācaret ||

28.1२८.१

चैत्यवृक्षश् चितिर् यूपश् चण्डालः सोमविक्रयी । (२८।१)

caityavṛkṣaś citir yūpaś caṇḍālaḥ somavikrayī |

28.2२८.२

एतांस् तु ब्राह्मणः स्पृष्ट्वा सवासा जलम् आविशेत् ॥ (२८।२)

etāṃs tu brāhmaṇaḥ spṛṣṭvā savāsā jalam āviśet ||

29.1२९.१

अस्थिसंचयनात् पूर्वं रुदित्वा स्नानम् आचरेत् । (२९।१)

asthisaṃcayanāt pūrvaṃ ruditvā snānam ācaret |

29.2२९.२

अन्तर्दशाहे विप्रस्य ह्य् ऊर्ध्वम् आचमनं भवेत् ॥ (२९।२)

antardaśāhe viprasya hy ūrdhvam ācamanaṃ bhavet ||

30.1३०.१

सर्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे । (३०।१)

sarvaṃ gaṅgāsamaṃ toyaṃ rāhugraste divākare |

30.2३०.२

सोमग्रहे तथैवोक्तं स्नानदानादिकर्मसु ॥ (३०।२)

somagrahe tathaivoktaṃ snānadānādikarmasu ||

31.1३१.१

कुशैः पूतं तु यत् स्नानं कुशेनोपस्पृशेद् द्विजः । (३१।१)

kuśaiḥ pūtaṃ tu yat snānaṃ kuśenopaspṛśed dvijaḥ |

31.2३१.२

कुशेन चोद्धृतं तोयं सोमपानसमं भवेत् ॥ (३१।२)

kuśena coddhṛtaṃ toyaṃ somapānasamaṃ bhavet ||

32.1३२.१

अग्निकार्यात् परिभ्रष्टाः संध्योपासनवर्जिताः । (३२।१)

agnikāryāt paribhraṣṭāḥ saṃdhyopāsanavarjitāḥ |

32.2३२.२

वेदं चैवानधीयानाः सर्वे ते वृषलाः स्मृताः ॥ (३२।२)

vedaṃ caivānadhīyānāḥ sarve te vṛṣalāḥ smṛtāḥ ||

33.1३३.१

तस्माद् वृषलभीतेन ब्राह्मणेन विशेषतः । (३३।१)

tasmād vṛṣalabhītena brāhmaṇena viśeṣataḥ |

33.2३३.२

अध्येतव्यो ऽप्य् एकदेशो यदि सर्वं न शक्यते ॥ (३३।२)

adhyetavyo 'py ekadeśo yadi sarvaṃ na śakyate ||

34.1३४.१

शूद्रान्नरसपुष्टस्याप्य् अधीयानस्य नित्यशः । (३४।१)

śūdrānnarasapuṣṭasyāpy adhīyānasya nityaśaḥ |

34.2३४.२

जपतो जुह्वतो वापि गतिर् ऊर्ध्वा न विद्यते ॥ (३४।२)

japato juhvato vāpi gatir ūrdhvā na vidyate ||

35.1३५.१

शूद्रान्नं शूद्रसंपर्कः शूद्रेण तु सहासनम् । (३५।१)

śūdrānnaṃ śūdrasaṃparkaḥ śūdreṇa tu sahāsanam |

35.2३५.२

शूद्राज् ज्ञानागमश् चैव ज्वलन्तम् अपि पातयेत् ॥ (३५।२)

śūdrāj jñānāgamaś caiva jvalantam api pātayet ||

36.1३६.१

यः शूद्र्या पाचयेन् नित्यं शूद्री च गृहमेधिनी । (३६।१)

yaḥ śūdryā pācayen nityaṃ śūdrī ca gṛhamedhinī |

36.2३६.२

वर्जितः पितृदेवेभ्यो रौरवं याति स द्विजः ॥ (३६।२)

varjitaḥ pitṛdevebhyo rauravaṃ yāti sa dvijaḥ ||

37.1३७.१

मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजनः । (३७।१)

mṛtasūtakapuṣṭāṅgo dvijaḥ śūdrānnabhojanaḥ |

37.2३७.२

अहं तन् न विजानामि कां कां योनिं गमिष्यति ॥ (३७।२)

ahaṃ tan na vijānāmi kāṃ kāṃ yoniṃ gamiṣyati ||

38.1३८.१

गृध्रो द्वादशजन्मानि दशजन्मानि सूकरः । (३८।१)

gṛdhro dvādaśajanmāni daśajanmāni sūkaraḥ |

38.2३८.२

श्वयोनौ सप्तजन्मा स्याद् इत्य् एवं मनुर् अब्रवीत् ॥ (३८।२)

śvayonau saptajanmā syād ity evaṃ manur abravīt ||

39.1३९.१

दक्षिणार्थम् तु यो विप्रः शूद्रस्य जुहुयाद्धविः । (३९।१)

dakṣiṇārtham tu yo vipraḥ śūdrasya juhuyāddhaviḥ |

39.2३९.२

ब्राह्मणस् तु भवेच्छूद्रः शूद्रस् तु ब्राह्मणो भवेत् ॥ (३९।२)

brāhmaṇas tu bhavecchūdraḥ śūdras tu brāhmaṇo bhavet ||

40.1४०.१

मौनव्रतं समाश्रित्य आसीनो न वदेद् द्विजः । (४०।१)

maunavrataṃ samāśritya āsīno na vaded dvijaḥ |

40.2४०.२

भुञ्जानो हि वदेद् यस् तु तद् अन्नं परिवर्जयेत् ॥ (४०।२)

bhuñjāno hi vaded yas tu tad annaṃ parivarjayet ||

50.1५०.१

ब्रह्महत्यादिभिर् मर्त्यो मनोवाक्कायकर्मजैः । (५०।१)

brahmahatyādibhir martyo manovākkāyakarmajaiḥ |

50.2५०.२

एतद् गोचर्मदानेन मुच्यते सर्वकिल्बिषैः ॥ (५०।२)

etad gocarmadānena mucyate sarvakilbiṣaiḥ ||

51.1५१.१

कुटुम्बिने दरिद्राय श्रोत्रियाय विशेषतः । (५१।१)

kuṭumbine daridrāya śrotriyāya viśeṣataḥ |

51.2५१.२

यद् दानं दीयते तस्मै तद् दानं शुभकारकम् ॥ (५१।२)

yad dānaṃ dīyate tasmai tad dānaṃ śubhakārakam ||

52.1५२.१

वापीकूपतडागाद्यैर् वाजपेयशतैर् मुखैः । (५२।१)

vāpīkūpataḍāgādyair vājapeyaśatair mukhaiḥ |

52.2५२.२

गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ॥ (५२।२)

gavāṃ koṭipradānena bhūmihartā na śudhyati ||

53.1५३.१

अष्टादशदिनाद् अर्वाक् स्नानम् एव रजस्वला । (५३।१)

aṣṭādaśadinād arvāk snānam eva rajasvalā |

53.2५३.२

अत ऊर्ध्वं त्रिरात्रं स्याद् उशना मुनिर् अब्रवीत् ॥ (५३।२)

ata ūrdhvaṃ trirātraṃ syād uśanā munir abravīt ||

54.1५४.१

युगं युगद्वयं चैव त्रियुगं च चतुर्युगम् । (५४।१)

yugaṃ yugadvayaṃ caiva triyugaṃ ca caturyugam |

54.2५४.२

चाण्डालसूतिकोदक्यापतितानाम् अधः क्रमात् ॥ (५४।२)

cāṇḍālasūtikodakyāpatitānām adhaḥ kramāt ||

55.1५५.१

ततः संनिधिमात्रेण सचैलं स्नानम् आचरेत् । (५५।१)

tataḥ saṃnidhimātreṇa sacailaṃ snānam ācaret |

55.2५५.२

स्नात्वावलोकयेत् सूर्यम् अज्ञानात् स्पृशते यदि ॥ (५५।२)

snātvāvalokayet sūryam ajñānāt spṛśate yadi ||

56.1५६.१

विद्यमानेषु हस्तेषु ब्राह्मणो ज्ञानदुर्बलः । (५६।१)

vidyamāneṣu hasteṣu brāhmaṇo jñānadurbalaḥ |

56.2५६.२

तोयं पिबति वक्त्रेण श्वयोनौ जायते ध्रुवम् ॥ (५६।२)

toyaṃ pibati vaktreṇa śvayonau jāyate dhruvam ||

57.1५७.१

यस् तु क्रुद्धः पुमान् ब्रूयाज् जायायास् तु अगम्यताम् । (५७।१)

yas tu kruddhaḥ pumān brūyāj jāyāyās tu agamyatām |

57.2५७.२

पुनर् इच्छति चेद् एनां विप्रमध्ये तु श्रावयेत् ॥ (५७।२)

punar icchati ced enāṃ vipramadhye tu śrāvayet ||

58.1५८.१

श्रान्तः क्रुद्धस् तमोऽन्धो वा क्षुत्पिपासाभयार्दितः । (५८।१)

śrāntaḥ kruddhas tamo'ndho vā kṣutpipāsābhayārditaḥ |

58.2५८.२

दानं पुण्यम् अकृत्वा तु प्रायश्चित्तं दिनत्रयम् ॥ (५८।२)

dānaṃ puṇyam akṛtvā tu prāyaścittaṃ dinatrayam ||

59.1५९.१

उपस्पृशेत् त्रिषवणं महानद्युपसंगमे । (५९।१)

upaspṛśet triṣavaṇaṃ mahānadyupasaṃgame |

59.2५९.२

चीर्णान्ते चैव गां दद्याद् ब्राह्मणान् भोजयेद् दश ॥ (५९।२)

cīrṇānte caiva gāṃ dadyād brāhmaṇān bhojayed daśa ||

60.1६०.१

दुराचारस्य विप्रस्य निषिद्धाचरणस्य च । (६०।१)

durācārasya viprasya niṣiddhācaraṇasya ca |

60.2६०.२

अन्नं भुक्त्वा द्विजः कुर्याद् दिनम् एकम् अभोजनम् ॥ (६०।२)

annaṃ bhuktvā dvijaḥ kuryād dinam ekam abhojanam ||

61.1६१.१

सदाचारस्य विप्रस्य तथा वेदान्तवेदिनः । (६१।१)

sadācārasya viprasya tathā vedāntavedinaḥ |

61.2६१.२

भुक्त्वान्नं मुच्यते पापाद् अहोरात्रान्तरान् नरः ॥ (६१।२)

bhuktvānnaṃ mucyate pāpād ahorātrāntarān naraḥ ||

62.1६२.१

ऊर्ध्वोच्छिष्टम् अधोच्छिष्टम् अन्तरिक्षम् ऋतौ तथा । (६२।१)

ūrdhvocchiṣṭam adhocchiṣṭam antarikṣam ṛtau tathā |

62.2६२.२

कृच्छ्रत्रयं प्रकुर्वीत अशौचमरणे तथा ॥ (६२।२)

kṛcchratrayaṃ prakurvīta aśaucamaraṇe tathā ||

63.1६३.१

कृच्छ्रं देव्य् अयुतं चैव प्राणायामशतद्वयम् । (६३।१)

kṛcchraṃ devy ayutaṃ caiva prāṇāyāmaśatadvayam |

63.2६३.२

पुण्यतीर्थे ऽनार्द्रशिरः स्नानं द्वादशसंख्यया ॥ (६३।२)

puṇyatīrthe 'nārdraśiraḥ snānaṃ dvādaśasaṃkhyayā ||

64.1६४.१

द्वियोजने तीर्थयात्रा कृच्छ्रम् एकं प्रकल्पितम् । (६४।१)

dviyojane tīrthayātrā kṛcchram ekaṃ prakalpitam |

64.2६४.२

गृहस्थः कामतः कुर्याद् रेतसः स्खलनं भुवि ॥ (६४।२)

gṛhasthaḥ kāmataḥ kuryād retasaḥ skhalanaṃ bhuvi ||

65.1६५.१

सहस्रं तु जपेद् देव्याः प्राणायामैस् त्रिभिः सह । (६५।१)

sahasraṃ tu japed devyāḥ prāṇāyāmais tribhiḥ saha |

65.2६५.२

चतुर्विद्योपपन्नस् तु विधिवद् ब्रह्मघातके ॥ (६५।२)

caturvidyopapannas tu vidhivad brahmaghātake ||

66.1६६.१

समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत् । (६६।१)

samudrasetugamanaṃ prāyaścittaṃ vinirdiśet |

66.2६६.२

सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात् समाचरेत् ॥ (६६।२)

setubandhapathe bhikṣāṃ cāturvarṇyāt samācaret ||

67.1६७.१

वर्जयित्वा विकर्मस्थांश् छत्रोपानद्विवर्जितः । (६७।१)

varjayitvā vikarmasthāṃś chatropānadvivarjitaḥ |

67.2६७.२

अहं दुष्कृतकर्मा वै महापातककारकः ॥ (६७।२)

ahaṃ duṣkṛtakarmā vai mahāpātakakārakaḥ ||

68.1६८.१

गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः । (६८।१)

gṛhadvāreṣu tiṣṭhāmi bhikṣārthī brahmaghātakaḥ |

68.2६८.२

गोकुलेषु वसेच् चैव ग्रामेषु नगरेषु वा ॥ (६८।२)

gokuleṣu vasec caiva grāmeṣu nagareṣu vā ||

69.1६९.१

तपोवनेषु तीर्थेषु नदीप्रस्रवणेषु वा । (६९।१)

tapovaneṣu tīrtheṣu nadīprasravaṇeṣu vā |

69.2६९.२

एतेषु ख्यापयन्न् एनः पुण्यं गत्वा तु सागरम् ॥ (६९।२)

eteṣu khyāpayann enaḥ puṇyaṃ gatvā tu sāgaram ||

70.1७०.१

दशयोजनविस्तीर्णं शतयोजनम् आयतम् । (७०।१)

daśayojanavistīrṇaṃ śatayojanam āyatam |

70.2७०.२

रामचन्द्रसमादिष्टनलसंचयसंचितम् ॥ (७०।२)

rāmacandrasamādiṣṭanalasaṃcayasaṃcitam ||

71.1७१.१

सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति । (७१।१)

setuṃ dṛṣṭvā samudrasya brahmahatyāṃ vyapohati |

71.2७१.२

सेतुं दृष्ट्वा विशुद्धात्मा त्ववगाहेत सागरम् ॥ (७१।२)

setuṃ dṛṣṭvā viśuddhātmā tvavagāheta sāgaram ||

72.1७२.१

यजेत वाश्वमेधेन राजा तु पृथिवीपतिः । (७२।१)

yajeta vāśvamedhena rājā tu pṛthivīpatiḥ |

72.2७२.२

पुनः प्रत्यागते वेश्म वासार्थम् उपसर्पति ॥ (७२।२)

punaḥ pratyāgate veśma vāsārtham upasarpati ||

73.1७३.१

सपुत्रः सह भृत्यैश् च कुर्याद् ब्राह्मणभोजनम् । (७३।१)

saputraḥ saha bhṛtyaiś ca kuryād brāhmaṇabhojanam |

73.2७३.२

गाश् चैवैकशतं दद्याच्चतुर्विध्येषु दक्षिणाम् ॥ (७३।२)

gāś caivaikaśataṃ dadyāccaturvidhyeṣu dakṣiṇām ||

74.1७४.१

ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते । (७४।१)

brāhmaṇānāṃ prasādena brahmahā tu vimucyate |

74.2७४.२

सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥ (७४।२)

savanasthāṃ striyaṃ hatvā brahmahatyāvrataṃ caret ||

75.1७५.१

मद्यपश् च द्विजः कुर्यान् नदीं गत्वा समुद्रगाम् । (७५।१)

madyapaś ca dvijaḥ kuryān nadīṃ gatvā samudragām |

75.2७५.२

चान्द्रायणे ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ॥ (७५।२)

cāndrāyaṇe tataś cīrṇe kuryād brāhmaṇabhojanam ||

76.1७६.१

अनडुत्सहितां गां च दद्याद् विप्रेषु दक्षिणाम् । (७६।१)

anaḍutsahitāṃ gāṃ ca dadyād vipreṣu dakṣiṇām |

76.2७६.२

सुरापानं सकृत् कृत्वा अग्निवर्णं सुरां पिबेत् ॥ (७६।२)

surāpānaṃ sakṛt kṛtvā agnivarṇaṃ surāṃ pibet ||

77.1७७.१

स पावयेद् अथात्मानम् इहलोके परत्र च । (७७।१)

sa pāvayed athātmānam ihaloke paratra ca |

77.2७७.२

अपहृत्य सुवर्णं तु ब्राह्मणस्य ततः स्वयम् ॥ (७७।२)

apahṛtya suvarṇaṃ tu brāhmaṇasya tataḥ svayam ||

78.1७८.१

गच्छेन् मुसलम् आदाय राजाभ्याशं वधाय तु । (७८।१)

gacchen musalam ādāya rājābhyāśaṃ vadhāya tu |

78.2७८.२

ततः शुद्धिम् अवाप्नोति राज्ञासौ मुक्त एव च ॥ (७८।२)

tataḥ śuddhim avāpnoti rājñāsau mukta eva ca ||

79.1७९.१

कामतस् तु कृतं यत् स्यान् नान्यथा वधम् अर्हति । (७९।१)

kāmatas tu kṛtaṃ yat syān nānyathā vadham arhati |

79.2७९.२

आसनाच्छयनाद् यानात् संभाषात् सहभोजनात् ॥ (७९।२)

āsanācchayanād yānāt saṃbhāṣāt sahabhojanāt ||

80.1८०.१

संक्रामन्ति हि पापानि तैलबिन्दुर् इवाम्भसि । (८०।१)

saṃkrāmanti hi pāpāni tailabindur ivāmbhasi |

80.2८०.२

चान्द्रायणं यावकं तु तुलापुरुष एव च ॥ (८०।२)

cāndrāyaṇaṃ yāvakaṃ tu tulāpuruṣa eva ca ||

81.1८१.१

गवां चैवानुगमनं सर्वपापप्रणाशनम् । (८१।१)

gavāṃ caivānugamanaṃ sarvapāpapraṇāśanam |

81.2८१.२

एतत् पाराशरं शास्त्रं श्लोकानां शतपञ्चकं । (८१।२)

etat pārāśaraṃ śāstraṃ ślokānāṃ śatapañcakaṃ |

81.3८१.३

द्विनवत्या समायुक्तं धर्मशास्त्रस्य संग्रहः ॥ (८१।३)

dvinavatyā samāyuktaṃ dharmaśāstrasya saṃgrahaḥ ||

82.1८२.१

यथाध्ययनकर्माणि धर्मशास्त्रम् इदं तथा । (८२।१)

yathādhyayanakarmāṇi dharmaśāstram idaṃ tathā |

82.2८२.२

अध्येतव्यं प्रयत्नेन नियतं स्वर्गगामिना ॥ (८२।२)

adhyetavyaṃ prayatnena niyataṃ svargagāminā ||

Data courtesy of The Digital Corpus of Sanskrit.

ParDhSmṛti, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit