पराशरधर्मसंहिताParāśaradharmasaṃhitā
ParDhSmṛti, 10
Select a line for its word-by-word analysis.
चातुर्वर्ण्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम् । (१।१)
cāturvarṇyeṣu sarveṣu hitāṃ vakṣyāmi niṣkṛtim |
अगम्यागमने चैव शुद्ध्यै चान्द्रायणं चरेत् ॥ (१।२)
agamyāgamane caiva śuddhyai cāndrāyaṇaṃ caret ||
एकैकं ह्रासयेद् ग्रासं कृष्णे शुक्ले च वर्धयेत् । (२।१)
ekaikaṃ hrāsayed grāsaṃ kṛṣṇe śukle ca vardhayet |
अमावास्यां न भुञ्जीत ह्य् एष चान्द्रायणो विधिः ॥ (२।२)
amāvāsyāṃ na bhuñjīta hy eṣa cāndrāyaṇo vidhiḥ ||
कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत् । (३।१)
kukkuṭāṇḍapramāṇaṃ tu grāsaṃ vai parikalpayet |
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् । (४।१)
prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam |
गोद्वयं वस्त्रयुग्मं च दद्याद् विप्रेषु दक्षिणाम् ॥ (४।२)
godvayaṃ vastrayugmaṃ ca dadyād vipreṣu dakṣiṇām ||
चण्डालीं वा श्वपाकीं वा ह्यभिगच्छति यो द्विजः । (५।१)
caṇḍālīṃ vā śvapākīṃ vā hyabhigacchati yo dvijaḥ |
त्रिरात्रम् उपवासित्वा विप्राणाम् अनुशासनम् ॥ (५।२)
trirātram upavāsitvā viprāṇām anuśāsanam ||
सशिखं पवनं कृत्वा प्राजापत्यद्वयं चरेत् । (६।१)
saśikhaṃ pavanaṃ kṛtvā prājāpatyadvayaṃ caret |
गोद्वयं दक्षिणां दद्याच्छुद्धिं पाराशरो ऽब्रवीत् ॥ (६।२)
godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt ||
क्षत्रियो वाथ वैश्यो वा चण्डालीं गच्छतो यदि । (७।१)
kṣatriyo vātha vaiśyo vā caṇḍālīṃ gacchato yadi |
प्राजापत्यद्वयं कुर्याद् दद्याद् गोमिथुनद्वयम् ॥ (७।२)
prājāpatyadvayaṃ kuryād dadyād gomithunadvayam ||
श्वपाकीं वाथ चण्डालीं शूद्रो वा यदि गच्छति । (८।१)
śvapākīṃ vātha caṇḍālīṃ śūdro vā yadi gacchati |
प्राजापत्यं चरेत् कृच्छ्रं चतुर्गोमिथुनं ददेत् ॥ (८।२)
prājāpatyaṃ caret kṛcchraṃ caturgomithunaṃ dadet ||
मातरं यदि गच्छेत् तु भगिनीं स्वसुतां तथा । (९।१)
mātaraṃ yadi gacchet tu bhaginīṃ svasutāṃ tathā |
एतास् तु मोहितो गत्वा त्रीणि कृच्छ्राणि संचरेत् ॥ (९।२)
etās tu mohito gatvā trīṇi kṛcchrāṇi saṃcaret ||
चान्द्रायणत्रयं कुर्याच्छिश्नछेदेन शुध्यति । (१०।१)
cāndrāyaṇatrayaṃ kuryācchiśnachedena śudhyati |
अज्ञानेन तु यो गच्छेत् कुर्याच् चान्द्रायणद्वयम् । (११।१)
ajñānena tu yo gacchet kuryāc cāndrāyaṇadvayam |
दश गोमिथुनं दद्याच्छुद्धिं पाराशरो ऽब्रवीत् ॥ (११।२)
daśa gomithunaṃ dadyācchuddhiṃ pārāśaro 'bravīt ||
पितृदारान् समारुह्य मातुर् आप्तां तु भ्रातृजाम् । (१२।१)
pitṛdārān samāruhya mātur āptāṃ tu bhrātṛjām |
गुरुपत्नीं स्नुषां चैव भ्रातृभार्यां तथैव च ॥ (१२।२)
gurupatnīṃ snuṣāṃ caiva bhrātṛbhāryāṃ tathaiva ca ||
मातुलानीं सगोत्रां च प्राजापत्यत्रयं चरेत् । (१३।१)
mātulānīṃ sagotrāṃ ca prājāpatyatrayaṃ caret |
गोद्वयं दक्षिणां दद्याच्छुध्यते नात्र संशयः ॥ (१३।२)
godvayaṃ dakṣiṇāṃ dadyācchudhyate nātra saṃśayaḥ ||
खरीं च सूकरीं गत्वा प्राजापत्यव्रतं चरेत् ॥ (१४।२)
kharīṃ ca sūkarīṃ gatvā prājāpatyavrataṃ caret ||
गोगामी च त्रिरात्रेण गाम् एकां ब्राह्मणे ददन् । (१५।१)
gogāmī ca trirātreṇa gām ekāṃ brāhmaṇe dadan |
महिष्युष्ट्रीखरीगामी त्वहोरात्रेण शुध्यति ॥ (१५।२)
mahiṣyuṣṭrīkharīgāmī tvahorātreṇa śudhyati ||
बन्दिग्राहे भयार्ता वा सदा स्वस्त्रीं निरीक्षयेत् ॥ (१६।२)
bandigrāhe bhayārtā vā sadā svastrīṃ nirīkṣayet ||
चण्डालैः सह संपर्कं या नारी कुरुते ततः । (१७।१)
caṇḍālaiḥ saha saṃparkaṃ yā nārī kurute tataḥ |
विप्रान् दश वरान् कृत्वा स्वकं दोषं प्रकाशयेत् ॥ (१७।२)
viprān daśa varān kṛtvā svakaṃ doṣaṃ prakāśayet ||
तत्र स्थित्वा निराहारा त्वहोरात्रेण निष्क्रमेत् ॥ (१८।२)
tatra sthitvā nirāhārā tvahorātreṇa niṣkramet ||
सशिखं वपनं कृत्वा भुञ्जीयाद् यावकौदनम् । (१९।१)
saśikhaṃ vapanaṃ kṛtvā bhuñjīyād yāvakaudanam |
त्रिरात्रम् उपवासित्वा त्वेकरात्रं जले वसेत् ॥ (१९।२)
trirātram upavāsitvā tvekarātraṃ jale vaset ||
शंखपुष्पीलतामूलं पत्रं वा कुसुमं फलम् । (२०।१)
śaṃkhapuṣpīlatāmūlaṃ patraṃ vā kusumaṃ phalam |
सुवर्णं पञ्चगव्यं च क्वाथयित्वा पिबेज्जलम् ॥ (२०।२)
suvarṇaṃ pañcagavyaṃ ca kvāthayitvā pibejjalam ||
एकभक्तं चरेत् पश्चाद् यावत् पुष्पवती भवेत् । (२१।१)
ekabhaktaṃ caret paścād yāvat puṣpavatī bhavet |
व्रतं चरति तद् यावत् तावत् संवसते बहिः ॥ (२१।२)
vrataṃ carati tad yāvat tāvat saṃvasate bahiḥ ||
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् । (२२।१)
prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam |
गोद्वयं दक्षिणां दद्याच्छुद्धिं पाराशरो ऽब्रवीत् ॥ (२२।२)
godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt ||
चातुर्वर्ण्यस्य नारीणां कृच्छ्रं चान्द्रायणं व्रतम् । (२३।१)
cāturvarṇyasya nārīṇāṃ kṛcchraṃ cāndrāyaṇaṃ vratam |
यथा भूमिस् तथा नारी तस्मात् तां न तु दूषयेत् ॥ (२३।२)
yathā bhūmis tathā nārī tasmāt tāṃ na tu dūṣayet ||
बन्दिग्राहेण या भुक्ता हत्वा बद्ध्वा बलाद् भयात् । (२४।१)
bandigrāheṇa yā bhuktā hatvā baddhvā balād bhayāt |
कृत्वा सांतपनं कृच्छ्रं शुध्येत् पाराशरो ऽब्रवीत् ॥ (२४।२)
kṛtvā sāṃtapanaṃ kṛcchraṃ śudhyet pārāśaro 'bravīt ||
सकृद् भुक्ता तु या नारी नेच्छन्ती पापकर्मभिः । (२५।१)
sakṛd bhuktā tu yā nārī necchantī pāpakarmabhiḥ |
पतत्य् अर्धं शरीरस्य यस्य भार्या सुरां पिबेत् । (२६।१)
pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet |
गायत्रीं जपमानस् तु कृच्छ्रं सांतपनं चरेत् । (२७।१)
gāyatrīṃ japamānas tu kṛcchraṃ sāṃtapanaṃ caret |
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ (२७।२)
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam ||
एकरात्रोपवासश् च कृच्छ्रं सांतपनं स्मृतम् । (२८।१)
ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam |
जारेण जनयेद् गर्भं मृते ऽव्यक्ते गते पतौ ॥ (२८।२)
jāreṇa janayed garbhaṃ mṛte 'vyakte gate patau ||
तां त्यजेद् अपरे राष्ट्रे पतितां पापकारिणीम् । (२९।१)
tāṃ tyajed apare rāṣṭre patitāṃ pāpakāriṇīm |
ब्राह्मणी तु यदा गच्छेत् परपुंसा समन्विता ॥ (२९।२)
brāhmaṇī tu yadā gacchet parapuṃsā samanvitā ||
सा तु नष्टा विनिर्दिष्टा न तस्यागमनं पुनः । (३०।१)
sā tu naṣṭā vinirdiṣṭā na tasyāgamanaṃ punaḥ |
कामान् मोहात् तु या गच्छेत् त्यक्त्वा बन्धून् सुतान् पतिम् ॥ (३०।२)
kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim ||
दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते ॥ (३२।२)
daśame tu dine prāpte prāyaścittaṃ na vidyate ||
दशाहं न त्यजेन् नारीं त्यजेन् नष्टश्रुतां तथा । (३३।१)
daśāhaṃ na tyajen nārīṃ tyajen naṣṭaśrutāṃ tathā |
भर्ता चैव चरेत् कृच्छ्रं कृच्छ्रार्धं चैव बान्धवाः ॥ (३३।२)
bhartā caiva caret kṛcchraṃ kṛcchrārdhaṃ caiva bāndhavāḥ ||
तेषां भुक्त्वा च पीत्वा च अहोरात्रेण शुध्यति । (३४।१)
teṣāṃ bhuktvā ca pītvā ca ahorātreṇa śudhyati |
ब्राह्मणी तु यदा गच्छेत् परपुंसा विवर्जिता ॥ (३४।२)
brāhmaṇī tu yadā gacchet parapuṃsā vivarjitā ||
गत्वा पुंसां शतं याति त्यजेयुस्तां तु गोत्रिणः । (३५।१)
gatvā puṃsāṃ śataṃ yāti tyajeyustāṃ tu gotriṇaḥ |
पुंसो यदि गृहे गच्छेत् तद् अशुद्धं गृहं भवेत् ॥ (३५।२)
puṃso yadi gṛhe gacchet tad aśuddhaṃ gṛhaṃ bhavet ||
पतिमातृगृहं यच् च जारस्यैव तु तद् गृहम् । (३६।१)
patimātṛgṛhaṃ yac ca jārasyaiva tu tad gṛham |
उल्लिख्य तद् गृहं पश्चात् पञ्चगव्येन सेचयेत् ॥ (३६।२)
ullikhya tad gṛhaṃ paścāt pañcagavyena secayet ||
त्यजेच्च मृण्मयं पात्रं वस्त्रं काष्ठं च शोधयेत् । (३७।१)
tyajecca mṛṇmayaṃ pātraṃ vastraṃ kāṣṭhaṃ ca śodhayet |
संभारान् शोधयेत् सर्वान् गोबालैश् च फलोद्भवान् ॥ (३७।२)
saṃbhārān śodhayet sarvān gobālaiś ca phalodbhavān ||
ताम्राणि पञ्चगव्येन कांस्यानि दश भस्मभिः । (३८।१)
tāmrāṇi pañcagavyena kāṃsyāni daśa bhasmabhiḥ |
प्रायश्चित्तं चरेद् विप्रो ब्राह्मणैर् उपपादितम् ॥ (३८।२)
prāyaścittaṃ cared vipro brāhmaṇair upapāditam ||
गोद्वयं दक्षिणां दद्यात् प्राजापत्यद्वयं चरेत् । (३९।१)
godvayaṃ dakṣiṇāṃ dadyāt prājāpatyadvayaṃ caret |
उपवासैर् व्रतैः पुण्यैः स्नानसंध्यार्चनादिभिः । (४०।१)
upavāsair vrataiḥ puṇyaiḥ snānasaṃdhyārcanādibhiḥ |
आकाशं वायुर् अग्निश् च मेध्यं भूमिगतं जलम् । (४१।१)
ākāśaṃ vāyur agniś ca medhyaṃ bhūmigataṃ jalam |
न प्रदुष्यन्ति दर्भाश् च यज्ञेषु चमसा यथा ॥ (४१।२)
na praduṣyanti darbhāś ca yajñeṣu camasā yathā ||
Data courtesy of The Digital Corpus of Sanskrit.