पराशरधर्मसंहिताParāśaradharmasaṃhitā
ParDhSmṛti, 9
Select a line for its word-by-word analysis.
गवां संरक्षणार्थाय न दुष्येद् रोधबन्धयोः । (१।१)
gavāṃ saṃrakṣaṇārthāya na duṣyed rodhabandhayoḥ |
तद्वधं तु न तं विद्यात् कामाकामकृतं तथा ॥ (१।२)
tadvadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā ||
दण्डाद् ऊर्ध्वं यद् अन्येन प्रहाराद् यदि पातयेत् । (२।१)
daṇḍād ūrdhvaṃ yad anyena prahārād yadi pātayet |
प्रायश्चित्तं तदा प्रोक्तं द्विगुणं गोवधे चरेत् ॥ (२।२)
prāyaścittaṃ tadā proktaṃ dviguṇaṃ govadhe caret ||
रोधबन्धनयोक्त्राणि घातश् चेति चतुर्विधम् । (३।१)
rodhabandhanayoktrāṇi ghātaś ceti caturvidham |
एकपादं चरेद् रोधे द्वौ पादौ बन्धने चरेत् ॥ (३।२)
ekapādaṃ cared rodhe dvau pādau bandhane caret ||
योक्त्रेषु पादहीनं स्याच् चरेत् सर्वं निपातने । (४।१)
yoktreṣu pādahīnaṃ syāc caret sarvaṃ nipātane |
गोवाटे वा गृहे वापि दुर्गे वाप्य् असमस्थले ॥ (४।२)
govāṭe vā gṛhe vāpi durge vāpy asamasthale ||
नदीष्व् अथ समुद्रेषु त्व् अन्येषु न नदीमुखे । (५।१)
nadīṣv atha samudreṣu tv anyeṣu na nadīmukhe |
दग्धदेशे मृता गावः स्तम्भनाद् रोध उच्यते ॥ (५।२)
dagdhadeśe mṛtā gāvaḥ stambhanād rodha ucyate ||
गृहे वापि वने वापि बद्धा स्याद् गौर् मृता यदि ॥ (६।२)
gṛhe vāpi vane vāpi baddhā syād gaur mṛtā yadi ||
तद् एव बन्धनं विद्यात् कामाकामकृतं च यत् । (७।१)
tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat |
हले वा शकटे पङ्क्तौ पृष्ठे वा पीडितो नरैः ॥ (७।२)
hale vā śakaṭe paṅktau pṛṣṭhe vā pīḍito naraiḥ ||
गोपतिर् मृत्युम् आप्नोति योक्त्रो भवति तद्वधः । (८।१)
gopatir mṛtyum āpnoti yoktro bhavati tadvadhaḥ |
मत्तः प्रमत्त उन्मत्तश् चेतनो वाप्य् अचेतनः ॥ (८।२)
mattaḥ pramatta unmattaś cetano vāpy acetanaḥ ||
कामाकामकृतक्रोधो दण्डैर् हन्याद् अथोपलैः । (९।१)
kāmākāmakṛtakrodho daṇḍair hanyād athopalaiḥ |
प्रहृता वा मृता वापि तद्धि हेतुर् निपातने ॥ (९।२)
prahṛtā vā mṛtā vāpi taddhi hetur nipātane ||
अङ्गुष्ठमात्रस्थूलस् तु बाहुमात्रः प्रमाणतः । (१०।१)
aṅguṣṭhamātrasthūlas tu bāhumātraḥ pramāṇataḥ |
आद्रस् तु सपलाशश् च दण्ड इत्य् अभिधीयते ॥ (१०।२)
ādras tu sapalāśaś ca daṇḍa ity abhidhīyate ||
मूर्छितः पतितो वापि दण्डेनाभिहितः स तु । (११।१)
mūrchitaḥ patito vāpi daṇḍenābhihitaḥ sa tu |
उत्थितस् तु यदा गच्छेत् पञ्च सप्त दशैव वा ॥ (११।२)
utthitas tu yadā gacchet pañca sapta daśaiva vā ||
ग्रासं वा यदि गृह्णीयात् तोयं वापि पिबेद् यदि । (१२।१)
grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi |
पूर्वं व्याध्युपसृष्टश् चेत् प्रायश्चित्तं न विद्यते ॥ (१२।२)
pūrvaṃ vyādhyupasṛṣṭaś cet prāyaścittaṃ na vidyate ||
पिण्डस्थे पादम् एकं तु द्वौ पादौ गर्भसंमिते । (१३।१)
piṇḍasthe pādam ekaṃ tu dvau pādau garbhasaṃmite |
पादोनं व्रतम् उद्दिष्टं हत्वा गर्भम् अचेतनम् ॥ (१३।२)
pādonaṃ vratam uddiṣṭaṃ hatvā garbham acetanam ||
पादे ऽङ्गरोमवपनं द्विपादे श्मश्रुणो ऽपि च । (१४।१)
pāde 'ṅgaromavapanaṃ dvipāde śmaśruṇo 'pi ca |
त्रिपादे तु शिखावर्जं सशिखं तु निपातने ॥ (१४।२)
tripāde tu śikhāvarjaṃ saśikhaṃ tu nipātane ||
पादे वस्त्रयुगं चैव द्विपादे कांस्यभाजनम् । (१५।१)
pāde vastrayugaṃ caiva dvipāde kāṃsyabhājanam |
त्रिपादे गोवृषं दद्याच् चतुर्थे गोद्वयं स्मृतम् ॥ (१५।२)
tripāde govṛṣaṃ dadyāc caturthe godvayaṃ smṛtam ||
निष्पन्नसर्वगात्रस् तु दृश्यते वा सचेतनः । (१६।१)
niṣpannasarvagātras tu dṛśyate vā sacetanaḥ |
अङ्गप्रत्यङ्गसम्पूर्णो द्विगुणं गोव्रतं चरेत् ॥ (१६।२)
aṅgapratyaṅgasampūrṇo dviguṇaṃ govrataṃ caret ||
शृङ्गभङ्गे चरेत् पादं द्वौ पादौ नेत्रघातने ॥ (१७।२)
śṛṅgabhaṅge caret pādaṃ dvau pādau netraghātane ||
लाङ्गूले पादकृच्छ्रं तु द्वौ पादाव् अस्थिभञ्जने । (१८।१)
lāṅgūle pādakṛcchraṃ tu dvau pādāv asthibhañjane |
त्रिपादं चैव कर्णे तु चरेत् सर्वं निपातने ॥ (१८।२)
tripādaṃ caiva karṇe tu caret sarvaṃ nipātane ||
शृङ्गभङ्गे ऽस्थिभङ्गे च कटिभङ्गे तथैव च । (१९।१)
śṛṅgabhaṅge 'sthibhaṅge ca kaṭibhaṅge tathaiva ca |
यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥ (१९।२)
yadi jīvati ṣaṇmāsān prāyaścittaṃ na vidyate ||
व्रणभङ्गे च कर्तव्यः स्नेहाभ्यङ्गस् तु पाणिना । (२०।१)
vraṇabhaṅge ca kartavyaḥ snehābhyaṅgas tu pāṇinā |
यावत् सम्पूर्णसर्वाङ्गस् तावत् तं पोषयेन् नरः । (२१।१)
yāvat sampūrṇasarvāṅgas tāvat taṃ poṣayen naraḥ |
गोरूपं ब्राह्मणस्याग्रे नमस्कृत्वा विसर्जयेत् ॥ (२१।२)
gorūpaṃ brāhmaṇasyāgre namaskṛtvā visarjayet ||
यद्य् असंपूर्णसर्गाङ्गो हीनदेहो भवेत् तदा । (२२।१)
yady asaṃpūrṇasargāṅgo hīnadeho bhavet tadā |
गोघातकस्य तस्यार्थं प्रायश्चित्तं विनिर्दिशेत् ॥ (२२।२)
goghātakasya tasyārthaṃ prāyaścittaṃ vinirdiśet ||
काष्ठलोष्टकपाषाणैः शस्त्रेणैवोद्धतो बलात् । (२३।१)
kāṣṭhaloṣṭakapāṣāṇaiḥ śastreṇaivoddhato balāt |
व्यापादयति यो गां तु तस्य शुद्धिं विनिर्दिशेत् ॥ (२३।२)
vyāpādayati yo gāṃ tu tasya śuddhiṃ vinirdiśet ||
चरेत् सांतपनं काष्ठे प्राजापत्यं तु लोष्टके । (२४।१)
caret sāṃtapanaṃ kāṣṭhe prājāpatyaṃ tu loṣṭake |
तप्तकृच्छ्रं तु पाषाणे शस्त्रे चैवातिकृच्छ्रकम् ॥ (२४।२)
taptakṛcchraṃ tu pāṣāṇe śastre caivātikṛcchrakam ||
पञ्च संतपने गावः प्राजापत्ये तथा त्रयः । (२५।१)
pañca saṃtapane gāvaḥ prājāpatye tathā trayaḥ |
तप्तकृच्छ्रे भवन्त्य् अष्टाव् अतिकृच्छ्रे त्रयोदश ॥ (२५।२)
taptakṛcchre bhavanty aṣṭāv atikṛcchre trayodaśa ||
प्रमापणे प्राणभृतां दद्यात् तत् प्रतिरूपकम् । (२६।१)
pramāpaṇe prāṇabhṛtāṃ dadyāt tat pratirūpakam |
तस्यानुरूपं मूल्यं वा दद्याद् इत्य् अब्रवीन् मनुः ॥ (२६।२)
tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ ||
अन्यत्राङ्कनलक्ष्मभ्यां वाहने मोचने तथा । (२७।१)
anyatrāṅkanalakṣmabhyāṃ vāhane mocane tathā |
सायं संगोपनार्थं च न दुष्येद् रोधबन्धयोः ॥ (२७।२)
sāyaṃ saṃgopanārthaṃ ca na duṣyed rodhabandhayoḥ ||
नदीपर्वतसंचारे प्रायश्चित्तं विनिर्दिशेत् ॥ (२८।२)
nadīparvatasaṃcāre prāyaścittaṃ vinirdiśet ||
अतिदाहे चरेत् पादं द्वौ पादौ वाहने चरेत् । (२९।१)
atidāhe caret pādaṃ dvau pādau vāhane caret |
नासिक्ये पदहीनं तु चरेत् सर्वं निपातने ॥ (२९।२)
nāsikye padahīnaṃ tu caret sarvaṃ nipātane ||
दहनात् तु विपद्यते अनड्वान् योक्त्रयन्त्रितः । (३०।१)
dahanāt tu vipadyate anaḍvān yoktrayantritaḥ |
रोधनं बन्धनं चैव भारः प्रहरणं तथा । (३१।१)
rodhanaṃ bandhanaṃ caiva bhāraḥ praharaṇaṃ tathā |
दुर्गप्रेरणयोक्त्रं च निमित्तानि वधस्य षट् ॥ (३१।२)
durgapreraṇayoktraṃ ca nimittāni vadhasya ṣaṭ ||
भवने तस्य पापी स्यात् प्रायश्चित्तार्धम् अर्हति ॥ (३२।२)
bhavane tasya pāpī syāt prāyaścittārdham arhati ||
न नारिकेलैर् न च शाणवालैः न वापि मौञ्जैर् न च वल्कशृङ्खलैः । (३३।१)
na nārikelair na ca śāṇavālaiḥ na vāpi mauñjair na ca valkaśṛṅkhalaiḥ |
एतैस् तु गावो न निबन्धनीया बद्ध्वापि तिष्ठेत् परशुं गृहीत्वा ॥ (३३।२)
etais tu gāvo na nibandhanīyā baddhvāpi tiṣṭhet paraśuṃ gṛhītvā ||
कुशैः काशैश् च बध्नीयाद् गोपशुं दक्षिणामुखम् । (३४।१)
kuśaiḥ kāśaiś ca badhnīyād gopaśuṃ dakṣiṇāmukham |
पाशलग्नाग्निदग्धासु प्रायश्चित्तं न विद्यते ॥ (३४।२)
pāśalagnāgnidagdhāsu prāyaścittaṃ na vidyate ||
यदि तत्र भवेत् काष्ठं प्रायश्चित्तं कथं भवेत् । (३५।१)
yadi tatra bhavet kāṣṭhaṃ prāyaścittaṃ kathaṃ bhavet |
जपित्वा पावनीं देवीं मुच्यते तत्र किल्बिषात् ॥ (३५।२)
japitvā pāvanīṃ devīṃ mucyate tatra kilbiṣāt ||
गवाशनेषु विक्रीणंस् ततः प्राप्नोति गोवधम् ॥ (३६।२)
gavāśaneṣu vikrīṇaṃs tataḥ prāpnoti govadham ||
आराधितस् तु यः कश्चिद् भिन्नकक्षो यदा भवेत् । (३७।१)
ārādhitas tu yaḥ kaścid bhinnakakṣo yadā bhavet |
श्रवणं हृदयं भिन्नं मग्नो वा कूपसंकटे ॥ (३७।२)
śravaṇaṃ hṛdayaṃ bhinnaṃ magno vā kūpasaṃkaṭe ||
कूपाद् उत्क्रमणे चैव भग्नो वा ग्रीवपादयोः । (३८।१)
kūpād utkramaṇe caiva bhagno vā grīvapādayoḥ |
स एव म्रियते तत्र त्रीन् पादांस् तु समाचरेत् ॥ (३८।२)
sa eva mriyate tatra trīn pādāṃs tu samācaret ||
पानीयेषु विपन्नानां प्रायश्चित्तं न विद्यते ॥ (३९।२)
pānīyeṣu vipannānāṃ prāyaścittaṃ na vidyate ||
अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते ॥ (४०।२)
anyeṣu dharmakhāteṣu prāyaścittaṃ na vidyate ||
वेश्मद्वारे निवासेषु यो नरः खातम् इच्छति । (४१।१)
veśmadvāre nivāseṣu yo naraḥ khātam icchati |
स्वकार्यगृहखतेषु प्रायश्चित्तं विनिर्दिशेत् ॥ (४१।२)
svakāryagṛhakhateṣu prāyaścittaṃ vinirdiśet ||
निशि बन्धनिरुद्धेषु सर्पव्याघ्रहतेषु च । (४२।१)
niśi bandhaniruddheṣu sarpavyāghrahateṣu ca |
अग्निविद्युद्विपन्नानां प्रायश्चित्तं न विद्यते ॥ (४२।२)
agnividyudvipannānāṃ prāyaścittaṃ na vidyate ||
अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ॥ (४३।२)
ativṛṣṭihatānāṃ ca prāyaścittaṃ na vidyate ||
संग्रामे प्रहतानां च ये दग्धा वेश्मकेषु च । (४४।१)
saṃgrāme prahatānāṃ ca ye dagdhā veśmakeṣu ca |
दावाग्निग्रामघातेषु प्रायश्चित्तं न विद्यते ॥ (४४।२)
dāvāgnigrāmaghāteṣu prāyaścittaṃ na vidyate ||
यन्त्रिता गौश् चिकित्सार्थं मूढगर्भविमोचने । (४५।१)
yantritā gauś cikitsārthaṃ mūḍhagarbhavimocane |
यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते ॥ (४५।२)
yatne kṛte vipadyeta prāyaścittaṃ na vidyate ||
व्यापन्नानां बहूनां च बन्धने रोधने ऽपि वा । (४६।१)
vyāpannānāṃ bahūnāṃ ca bandhane rodhane 'pi vā |
भिषङ्मिथ्योपचारे च प्रायश्चित्तं विनिर्दिशेत् ॥ (४६।२)
bhiṣaṅmithyopacāre ca prāyaścittaṃ vinirdiśet ||
गोवृषाणां विपत्तौ च यावन्तः प्रेक्षका जनाः । (४७।१)
govṛṣāṇāṃ vipattau ca yāvantaḥ prekṣakā janāḥ |
एको हतो यैर् बहुभिः समेतैर् न ज्ञायते यस्य हतो ऽभिघातात् । (४८।१)
eko hato yair bahubhiḥ sametair na jñāyate yasya hato 'bhighātāt |
दिव्येन तेषाम् उपलभ्य हन्ता निवर्तनीयो नृपसंनियुक्तैः ॥ (४८।२)
divyena teṣām upalabhya hantā nivartanīyo nṛpasaṃniyuktaiḥ ||
एका चेद् बहुभिः काचिद् दैवाद् व्यापादिता यदि । (४९।१)
ekā ced bahubhiḥ kācid daivād vyāpāditā yadi |
पादं पादं तु हत्यायाश् चरेयुस् ते पृथक् पृथक् ॥ (४९।२)
pādaṃ pādaṃ tu hatyāyāś careyus te pṛthak pṛthak ||
हते तु रुधिरं दृश्यं व्याधिग्रस्तः कृशो भवेत् । (५०।१)
hate tu rudhiraṃ dṛśyaṃ vyādhigrastaḥ kṛśo bhavet |
ग्रासार्थं चोदितो वापि अध्वानं नैव गच्छति । (५१।१)
grāsārthaṃ codito vāpi adhvānaṃ naiva gacchati |
प्रायश्चित्तं तु तेनोक्तं गोघ्नश् चान्द्रायणं चरेत् । (५२।१)
prāyaścittaṃ tu tenoktaṃ goghnaś cāndrāyaṇaṃ caret |
केशानां रक्षणार्थाय द्विगुणं व्रतम् आचरेत् ॥ (५२।२)
keśānāṃ rakṣaṇārthāya dviguṇaṃ vratam ācaret ||
द्विगुणे व्रत आदिष्टे द्विगुणा दक्षिणा भवेत् । (५३।१)
dviguṇe vrata ādiṣṭe dviguṇā dakṣiṇā bhavet |
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ॥ (५३।२)
rājā vā rājaputro vā brāhmaṇo vā bahuśrutaḥ ||
अकृत्वा वपनं तस्य प्रायश्चित्तं विनिर्दिशेत् । (५४।१)
akṛtvā vapanaṃ tasya prāyaścittaṃ vinirdiśet |
सर्वान् केशान् समुद्धृत्य छेदयेद् अङ्गुलद्वयम् ॥ (५४।२)
sarvān keśān samuddhṛtya chedayed aṅguladvayam ||
न च गोष्ठे वसेद् रात्रौ न दिवा गा अनुव्रजेत् । (५६।१)
na ca goṣṭhe vased rātrau na divā gā anuvrajet |
न स्त्रीणाम् अजिनं वासो व्रतम् एव समाचरेत् । (५७।१)
na strīṇām ajinaṃ vāso vratam eva samācaret |
त्रिसंध्यं स्नानम् इत्य् उक्तं सुराणाम् अर्चनं तथा ॥ (५७।२)
trisaṃdhyaṃ snānam ity uktaṃ surāṇām arcanaṃ tathā ||
बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणादिकम् । (५८।१)
bandhumadhye vrataṃ tāsāṃ kṛcchracāndrāyaṇādikam |
गृहेषु सततं तिष्ठेच्छुचिर् नियमम् आचरेत् ॥ (५८।२)
gṛheṣu satataṃ tiṣṭhecchucir niyamam ācaret ||
इह यो गोवधं कृत्वा प्रच्छादयितुम् इच्छति । (५९।१)
iha yo govadhaṃ kṛtvā pracchādayitum icchati |
विमुक्तो नरकात् तस्मान् मर्त्यलोके प्रजायते । (६०।१)
vimukto narakāt tasmān martyaloke prajāyate |
क्लीबो दुःखी च कुष्ठी च सप्त जन्मानि वै नरः ॥ (६०।२)
klībo duḥkhī ca kuṣṭhī ca sapta janmāni vai naraḥ ||
तस्मात् प्रकाशयेत् पापं स्वधर्मं सततं चरेत् । (६१।१)
tasmāt prakāśayet pāpaṃ svadharmaṃ satataṃ caret |
स्त्रीबालभृत्यगोविप्रेष्व् अतिकोपं विवर्जयेत् ॥ (६१।२)
strībālabhṛtyagovipreṣv atikopaṃ vivarjayet ||
Data courtesy of The Digital Corpus of Sanskrit.