रसेन्द्रचूडामणिRasendracūḍāmaṇi

RCūM, 10

7 of 13 · 302 verses

Select a line for its word-by-word analysis.

1.1१.१

महारसाःमहारसाः स्युर् घनराजावर्तवैक्रान्तसस्याः विमलाद्रिजाते । (१।१)

mahārasāḥmahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte |

1.2१.२

तुत्थं च ताप्यं च रसायनास्ते सत्त्वानि तेषाम् अमृतोपमानि ॥ (१।२)

tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni ||

2.1२.१

अभ्रक:: मेदिच्। प्रोपेर्तिएस्गौरीतेजः परमम् अमृतं वातपित्तक्षयघ्नं प्रज्ञोद्बोधि प्रशमितरुजं वृष्यम् आयुष्यम् अग्र्यम् । (२।१)

abhraka:: medic. propertiesgaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam |

2.2२.२

बल्यं स्निग्धं रुचिदम् अकफं दीपनं शीतवीर्यं तत्तद्योगैः सकलगदहृद् व्योम सूतेन्द्रबन्धि ॥ (२।२)

balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi ||

3.1३.१

राजहस्ताद् अधस्ताद्यत्समानीतं घनं खनेः । (३।१)

rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ |

3.2३.२

भवेत्तदुक्तफलदं निःसत्त्वं निष्फलं परम् ॥ (३।२)

bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param ||

4.1४.१

अभ्रकभेदाःपिनाकनागमण्डूकवज्रम् इत्यभ्रकं मतम् । (४।१)

abhrakabhedāḥpinākanāgamaṇḍūkavajram ityabhrakaṃ matam |

4.2४.२

श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम् ॥ (४।२)

śvetādivarṇabhedena pratyekaṃ taccaturvidham ||

5.1५.१

अभ्र:: पिनाकपिनाकं पावकोत्तप्तं विमुञ्चति दलोच्चयम् । (५।१)

abhra:: pinākapinākaṃ pāvakottaptaṃ vimuñcati daloccayam |

5.2५.२

तत्सेवितं मलं बद्ध्वा मारयत्येव मानवम् ॥ (५।२)

tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam ||

6.1६.१

अभ्र:: नागनागाभ्रं नागवत्कुर्यात् ध्वनिं पावकसंस्थितम् । (६।१)

abhra:: nāganāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam |

6.2६.२

तद्भुक्तं कुरुते कुष्ठं मण्डलाख्यं न संशयः ॥ (६।२)

tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ ||

7.1७.१

अभ्र:: मण्डूकौत्प्लुत्योत्प्लुत्य मण्डूकं ध्मातं पतति चाभ्रकम् । (७।१)

abhra:: maṇḍūkautplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam |

7.2७.२

तत्कुर्यादश्मरीरोगमसाध्यं शस्त्रतोऽन्यथा ॥ (७।२)

tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā ||

8.1८.१

अभ्र:: वज्रवज्राभ्रं वह्निसंतप्तं निर्मुक्ताशेषवैकृतम् । (८।१)

abhra:: vajravajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam |

8.2८.२

देहलोहकरं तत्तु सर्वरोगहरं परम् ॥ (८।२)

dehalohakaraṃ tattu sarvarogaharaṃ param ||

9.1९.१

अभ्र:: सुब्त्य्पेस्:: चोलोउर्श्वेतं रक्तं च पीतं च कृष्णमेवं चतुर्विधम् । (९।१)

abhra:: subtypes:: colourśvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham |

9.2९.२

श्वेतं श्वेतक्रियासूक्तं रक्ताद्यं पीतकर्मणि ॥ (९।२)

śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi ||

10.1१०.१

चतुर्विधं वरं व्योम यद्यप्युक्तं रसायने । (१०।१)

caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane |

10.2१०.२

तथापि कृष्णवर्णाभं कोटिकोटिगुणाधिकम् ॥ (१०।२)

tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam ||

11.1११.१

अभ्र:: फ्य्स्। प्रोपेर्तिएस्स्निग्धं पृथुदलं वह्निसहं स्याद्भारतोऽधिकम् । (११।१)

abhra:: phys. propertiessnigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam |

11.2११.२

सुखनिर्मोच्यपत्रं च तदभ्रं शस्तम् ईरितम् ॥ (११।२)

sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam ||

12.1१२.१

अभ्र:: बद् त्य्पेस्सचन्द्रं काचकिट्टाभं व्योम न ग्रासयेद्रसम् । (१२।१)

abhra:: bad typessacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam |

12.2१२.२

ग्रासितश्चेन्न योज्योऽसौ लोहे चैव रसायने ॥ (१२।२)

grāsitaścenna yojyo'sau lohe caiva rasāyane ||

13.1१३.१

निश्चन्द्रिकं मृतं व्योम सेव्यं सर्वगदेषु च । (१३।१)

niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca |

13.2१३.२

सेवितं चन्द्रिकायुक्तं मेहं मन्दानलं चरेत् ॥ (१३।२)

sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret ||

14.1१४.१

यैरुक्तं युक्तिनिर्मुक्तैः पत्राभ्रकरसायनम् । (१४।१)

yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam |

14.2१४.२

तैर्दिष्टं कालकूटाख्यं विषं जीवनहेतवे ॥ (१४।२)

tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave ||

15.1१५.१

सत्त्वार्थं सेवनार्थं च योजयेच्छोधिताभ्रकम् । (१५।१)

sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam |

15.2१५.२

अन्यथा त्वगुणं कृत्वा विकरोत्येव निश्चितम् ॥ (१५।२)

anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam ||

16.1१६.१

अभ्र:: शोधनप्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् । (१६।१)

abhra:: śodhanaprataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam |

16.2१६.२

निर्दोषं जायते नूनं निक्षिप्तं वापि गोजले ॥ (१६।२)

nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale ||

17.1१७.१

त्रिफलाक्वथिते वापि गवां दुग्धे विशेषतः । (१७।१)

triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ |

17.2१७.२

अभ्र:: मारणततो धान्याभ्रकं कृत्वा पिष्ट्वा मत्स्याक्षिकारसैः ॥ (१७।२)

abhra:: māraṇatato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ ||

18.1१८.१

चक्रीं कृत्वा विशोष्याथ पुटेदर्धेभके पुटे । (१८।१)

cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe |

18.2१८.२

पुटेदेवं हि षड्वारं पौनर्नवरसैः सह ॥ (१८।२)

puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha ||

19.1१९.१

अभ्रांशटङ्कणेनापि संमर्द्य कृतचक्रिकम् । (१९।१)

abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam |

19.2१९.२

अर्धेभाख्यैः पुटैस्तद्वत्सप्तवारं पुटेत् खलु ॥ (१९।२)

ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu ||

20.1२०.१

एवं वासारसेनापि तण्डुलीयरसेन च । (२०।१)

evaṃ vāsārasenāpi taṇḍulīyarasena ca |

20.2२०.२

प्रपुटेत्सप्तवाराणि पूर्वप्रोक्तविधानतः ॥ (२०।२)

prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ ||

21.1२१.१

एवं सिद्धं घनं सर्वयोगेषु विनियोजयेत् । (२१।१)

evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet |

21.2२१.२

अभ्र:: मारणपादांशटङ्कणोपेतं मत्स्याक्षीरसमर्दितम् ॥ (२१।२)

abhra:: māraṇapādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam ||

22.1२२.१

रुन्ध्यात् कोष्ठ्यां दृढं ध्मातं सत्त्वरूपं भवेद् घनम् । (२२।१)

rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam |

22.2२२.२

पटचूर्णं विधायाथ गोघृतेन परिप्लुतम् ॥ (२२।२)

paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam ||

23.1२३.१

भर्जयेत्सप्तवाराणि चुल्लीसंस्थितखर्परे । (२३।१)

bharjayetsaptavārāṇi cullīsaṃsthitakharpare |

23.2२३.२

अग्निवर्णं भवेद्यावद् वारं वारं च चूर्णयेत् ॥ (२३।२)

agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet ||

24.1२४.१

तृणं क्षिप्तं दहेद्यावत्तावद्वा भर्जनं चरेत् । (२४।१)

tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret |

24.2२४.२

ततः सगन्धकं पिष्ट्वा वटमूलकषायतः ॥ (२४।२)

tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ ||

25.1२५.१

पुटेद्विंशतिवाराणि वाराहेन पुटेन हि । (२५।१)

puṭedviṃśativārāṇi vārāhena puṭena hi |

25.2२५.२

पुनर्विंशतिवाराणि त्रिफलोत्थकषायतः ॥ (२५।२)

punarviṃśativārāṇi triphalotthakaṣāyataḥ ||

26.1२६.१

त्रिफलामुण्डिकाभृङ्गपथ्यानीलीसुमूलकैः । (२६।१)

triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ |

26.2२६.२

भावयित्वा प्रयोक्तव्यं सर्वरोगेषु मात्रया ॥ (२६।२)

bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā ||

27.1२७.१

सत्त्वाभ्रात् किंचिद् अवरं निर्विकारं गुणाधिकम् । (२७।१)

sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam |

27.2२७.२

एवं चेच्छतवाराणि पुटपाकेन साधितम् ॥ (२७।२)

evaṃ cecchatavārāṇi puṭapākena sādhitam ||

28.1२८.१

गुणवज्जायतेऽत्यर्थं परं पाचनदीपनम् । (२८।१)

guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam |

28.2२८.२

क्षुधं करोति चात्यर्थं गुञ्जार्धमिति सेवया । (२८।२)

kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā |

28.3२८.३

तत्तद्रोगहरैर् योगैः सर्वरोगनिकृन्तनम् ॥ (२८।३)

tattadrogaharair yogaiḥ sarvaroganikṛntanam ||

29.1२९.१

अभ्र:: मारणधान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् । (२९।१)

abhra:: māraṇadhānyābhraṃ kāsamardasya rasena parimarditam |

29.2२९.२

पुटेत्तच्छतवाराणि म्रियते नात्र संशयः ॥ (२९।२)

puṭettacchatavārāṇi mriyate nātra saṃśayaḥ ||

30.1३०.१

अभ्र:: मारणतद्वन्मुस्तारसेनापि तण्डुलीयरसेन च । (३०।१)

abhra:: māraṇatadvanmustārasenāpi taṇḍulīyarasena ca |

30.2३०.२

शिवामलकसौभाग्यपिष्टं चक्रीकृताभ्रकम् ॥ (३०।२)

śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam ||

31.1३१.१

पुटेत्तत् षष्टिवाराणि सिन्दूराभं प्रजायते । (३१।१)

puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate |

31.2३१.२

क्षयाद्यनन्तरोगघ्नं भवेद्योगानुपानतः ॥ (३१।२)

kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ ||

32.1३२.१

अभ्र:: मारणवटमूलत्वचः क्वाथे ताम्बूलपत्रसारतः । (३२।१)

abhra:: māraṇavaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ |

32.2३२.२

वासामत्स्याक्षिकीभ्यां वा मत्स्याक्ष्या सकठिल्लया ॥ (३२।२)

vāsāmatsyākṣikībhyāṃ vā matsyākṣyā sakaṭhillayā ||

33.1३३.१

पयसा वटवृक्षस्य मर्दितं पुटितं घनम् । (३३।१)

payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam |

33.2३३.२

भवेद् विंशतिवारेण सिन्दूरसदृशं घनम् ॥ (३३।२)

bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam ||

34.1३४.१

अभ्रकभस्मन् (६)सटङ्कणं गवां दुग्धैः पिष्टं प्रपुटितं घनम् । (३४।१)

abhrakabhasman (6)saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam |

34.2३४.२

निश्चन्द्रिकं भवेद् वारैस् त्रिंशद्भिर्गुणवत्तरम् ॥ (३४।२)

niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram ||

35.1३५.१

एवं सिद्धानि चाभ्राणि तालेन पुटितानि चेत् । (३५।१)

evaṃ siddhāni cābhrāṇi tālena puṭitāni cet |

35.2३५.२

भवन्त्यतीव तीव्राणि रसादप्यधिकानि च ॥ (३५।२)

bhavantyatīva tīvrāṇi rasādapyadhikāni ca ||

36.1३६.१

अभ्र:: भस्मन्:: फ्य्स्। प्रोपेर्तिएस्रौक्ष्यं सौक्ष्म्यं जलप्लावः शोणवर्णसमुद्भवः । (३६।१)

abhra:: bhasman:: phys. propertiesraukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ |

36.2३६.२

विचित्रगुणदीप्तिश्च जायते बहुभिः पुटैः ॥ (३६।२)

vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ ||

37.1३७.१

अभ्र:: सत्त्व:: पातनकासमर्दघनध्वनिवासानां च पुनर्भुवः । (३७।१)

abhra:: sattva:: pātanakāsamardaghanadhvanivāsānāṃ ca punarbhuvaḥ |

37.2३७.२

मत्स्याक्ष्याः कारवेल्ल्याश्च हंसपाद्या रसैः पृथक् ॥ (३७।२)

matsyākṣyāḥ kāravellyāśca haṃsapādyā rasaiḥ pṛthak ||

38.1३८.१

पिष्ट्वा पिष्ट्वा प्रयत्नेन शोषयेद्घर्मयोगतः । (३८।१)

piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ |

38.2३८.२

खलिं गोधूमचूर्णं च क्षुद्रमत्स्यांश्च टङ्कणम् ॥ (३८।२)

khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam ||

39.1३९.१

प्रत्येकमभ्रकांशेन दत्त्वा चैव विमर्दयेत् । (३९।१)

pratyekamabhrakāṃśena dattvā caiva vimardayet |

39.2३९.२

मर्दने मर्दने सम्यक् शोषयेद्रविरश्मिभिः ॥ (३९।२)

mardane mardane samyak śoṣayedraviraśmibhiḥ ||

40.1४०.१

पञ्चाजं पञ्चगव्यं च पञ्चमाहिषमेव च । (४०।१)

pañcājaṃ pañcagavyaṃ ca pañcamāhiṣameva ca |

40.2४०.२

क्षिप्त्वा गोलान् प्रकुर्वीत किंचित् तिन्दुकसंमितान् ॥ (४०।२)

kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān ||

41.1४१.१

पञ्चाङ्गपयो दधि घृतं मूत्रं विट् च पञ्चाङ्गम् उच्यते । (४१।१)

pañcāṅgapayo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate |

41.2४१.२

अधःपातनकोष्ठ्यां हि ध्मात्वा सत्त्वं निपातयेत् ॥ (४१।२)

adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet ||

42.1४२.१

अभ्र:: सत्त्व:: पातन:: सेपरतिन्ग् किट्ट अन्द् सत्त्वकोष्ठ्याः किट्टं समाहृत्य विचूर्ण्य रवकान् हरेत् । (४२।१)

abhra:: sattva:: pātana:: separating kiṭṭa and sattvakoṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret |

42.2४२.२

तत्किट्टं स्वल्पटङ्केन गोमयेन विमर्दयेत् ॥ (४२।२)

tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet ||

43.1४३.१

गोलान्विधाय संशोष्य धमेद् भूयोऽपि पूर्ववत् । (४३।१)

golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat |

43.2४३.२

भूयः किट्टं समाहृत्य मृदित्वा सत्त्वमाहरेत् ॥ (४३।२)

bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet ||

44.1४४.१

एवमेव पुनः किट्टं ध्मात्वा सत्त्वं समाहरेत् । (४४।१)

evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet |

44.2४४.२

अभ्रकसत्त्वशोधनमथ सत्त्वकणांस्तांस्तु क्वाथयित्वाम्लकाञ्जिकैः ॥ (४४।२)

abhrakasattvaśodhanamatha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ ||

45.1४५.१

शोधनीयगणोपेतं मूषामध्ये निरुध्य च । (४५।१)

śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca |

45.2४५.२

सम्यग् द्रुतं समाहृत्य द्विवारं प्रधमेत् पुनः ॥ (४५।२)

samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ ||

46.1४६.१

इति सिद्धं भवेत्सत्त्वं योज्यं रसरसायने । (४६।१)

iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane |

46.2४६.२

अभ्रकसत्त्वमृदुकरणम्मधुतैलवसाज्येषु द्रावितं परिवापितम् ॥ (४६।२)

abhrakasattvamṛdukaraṇammadhutailavasājyeṣu drāvitaṃ parivāpitam ||

47.1४७.१

मृदु स्याद्दशवारेण सत्त्वं लोहादिकं खरम् । (४७।१)

mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam |

47.2४७.२

अभ्र:: सत्त्व:: ड़ोर्मुलतिओन्सत्त्वस्य गोलकं तप्तं सस्यसंयुक्तकाञ्जिके ॥ (४७।२)

abhra:: sattva:: formulationsattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike ||

48.1४८.१

निर्वाप्य तत्क्षणेनैव कण्डयेल्लोहपारया । (४८।१)

nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā |

48.2४८.२

सम्प्रताप्य घनस्थूलान् कणान्क्षिप्त्वा च काञ्जिके ॥ (४८।२)

sampratāpya ghanasthūlān kaṇānkṣiptvā ca kāñjike ||

49.1४९.१

तत्क्षणेन समाहृत्य खण्डयित्वा रजश्चरेत् । (४९।१)

tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret |

49.2४९.२

गोघृतेन च तच्चूर्णं भर्जयेत् पूर्ववत्त्रिधा ॥ (४९।२)

goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā ||

50.1५०.१

धात्रीफलरसैस् तद्वद्धात्रीपत्ररसेन वा । (५०।१)

dhātrīphalarasais tadvaddhātrīpatrarasena vā |

50.2५०.२

भर्जने भर्जने कार्यं शिलापट्टेन पेषणम् ॥ (५०।२)

bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam ||

51.1५१.१

ततः पुनर्नवावासारसैः काञ्जिकमिश्रितैः । (५१।१)

tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ |

51.2५१.२

प्रपुटेद्दशवाराणि दशवाराणि गन्धकैः ॥ (५१।२)

prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ ||

52.1५२.१

एवं संसाधितं व्योमसत्त्वं सर्वगुणोत्तरम् । (५२।१)

evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram |

52.2५२.२

यथेष्टं विनियोक्तव्यं जारणे च रसायने ॥ (५२।२)

yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane ||

53.1५३.१

वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाः शूलामकोष्ठामयम् । (५३।१)

vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam |

53.2५३.२

जूर्तिं श्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते योगैरशेषामयान् ॥ (५३।२)

jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān ||

54.1५४.१

अभ्रकद्रुतिःद्रुतयो नैव निर्दिष्टाः शास्त्रे दृष्टा अपि ध्रुवम् । (५४।१)

abhrakadrutiḥdrutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam |

54.2५४.२

विना शम्भोः प्रसादेन न सिध्यन्ति कथञ्चन ॥ (५४।२)

vinā śambhoḥ prasādena na sidhyanti kathañcana ||

55.1५५.१

राजावर्तः:: परीक्षाराजावर्त्तोऽल्परक्तो ऽरुनीलिमामिश्रितप्रभः । (५५।१)

rājāvartaḥ:: parīkṣārājāvartto'lparakto 'runīlimāmiśritaprabhaḥ |

55.2५५.२

गुरुश्च मसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः ॥ (५५।२)

guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ ||

56.1५६.१

राजावर्त:: मेदिच्। प्रोपेर्तिएस्प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः । (५६।१)

rājāvarta:: medic. propertiespramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ |

56.2५६.२

दीपनः पाचनो वृष्यो राजावर्त्तो रसायनः ॥ (५६।२)

dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ ||

57.1५७.१

राजावर्त:: शोधनम्निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु । (५७।१)

rājāvarta:: śodhanamnimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu |

57.2५७.२

द्वित्रिवारेण शुध्यन्ति राजावर्त्तादिधातवः ॥ (५७।२)

dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ ||

58.1५८.१

राजावर्त:: मारणभृङ्गाम्भो गन्धकोपेतो राजावर्त्तो विचूर्णितः । (५८।१)

rājāvarta:: māraṇabhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ |

58.2५८.२

पुटनात्सप्तरात्रेण राजावर्त्तो मृतो भवेत् ॥ (५८।२)

puṭanātsaptarātreṇa rājāvartto mṛto bhavet ||

59.1५९.१

धातु (गेन्।):: शोधनसूर्यावर्त्तकवज्रकन्दकदलीकोषातकीशिग्रुकाः । (५९।१)

dhātu (gen.):: śodhanasūryāvarttakavajrakandakadalīkoṣātakīśigrukāḥ |

59.2५९.२

वन्ध्या नीरकणा घना नृपशमी ध्वांक्षी कुमारी वरा । (५९।२)

vandhyā nīrakaṇā ghanā nṛpaśamī dhvāṃkṣī kumārī varā |

59.3५९.३

आसाम् एकरसेन साम्लपुटनाच्छुध्यन्ति धात्वादयः । (५९।३)

āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ |

59.4५९.४

स्वेदक्लेदवधान्व्रजन्ति च पुनर्ध्माताश्च सत्त्वानि ते ॥ (५९।४)

svedakledavadhānvrajanti ca punardhmātāśca sattvāni te ||

60.1६०.१

अयं योगो हि निःशेषधातुमलविशोधनः । (६०।१)

ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ |

60.2६०.२

राजावर्त:: सत्त्वपातनम्क्षारैश्च लवणैर् गेहधूमगुञ्जानिशाफलैः । (६०।२)

rājāvarta:: sattvapātanamkṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ |

60.3६०.३

एतैर्युक्ताः शिलाश्मानः सत्त्वं मुञ्चन्त्यशेषतः ॥ (६०।३)

etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ ||

61.1६१.१

वैक्रान्त:: फ्य्स्। प्रोपेर्तिएसष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः । (६१।१)

vaikrānta:: phys. propertiesaṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ |

61.2६१.२

शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥ (६१।२)

śuddhamiśritavarṇaiśca yukto vaikrānta ucyate ||

62.1६२.१

वैक्रान्त:: सुब्त्य्पेस्:: चोलोउर्श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः । (६२।१)

vaikrānta:: subtypes:: colourśveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ |

62.2६२.२

श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ॥ (६२।२)

śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ ||

63.1६३.१

वैक्रान्त:: मेदिच्। प्रोपेर्तिएसायुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषगदापहारी । (६३।१)

vaikrānta:: medic. propertiesāyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī |

63.2६३.२

दीप्ताग्निकृत् पविसमानगुणस् तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ॥ (६३।२)

dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī ||

64.1६४.१

रसायनेषु सर्वेषु पूर्वगण्यः प्रतापवान् । (६४।१)

rasāyaneṣu sarveṣu pūrvagaṇyaḥ pratāpavān |

64.2६४.२

वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्वरोगहा ॥ (६४।२)

vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā ||

65.1६५.१

वैक्रान्त:: शोधनकुलत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति । (६५।१)

vaikrānta:: śodhanakulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati |

65.2६५.२

वैक्रान्त:: मारणम्रियतेऽष्टपुटैर् गन्धनिम्बूकद्रवसंयुतः ॥ (६५।२)

vaikrānta:: māraṇamriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ ||

66.1६६.१

वैक्रान्त:: सत्त्वपातनसत्त्वपातनयोगेन मर्दितश्च वटीकृतः । (६६।१)

vaikrānta:: sattvapātanasattvapātanayogena marditaśca vaṭīkṛtaḥ |

66.2६६.२

मूषास्थो घटिकाध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ॥ (६६।२)

mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet ||

67.1६७.१

वैक्रान्त:: ड़ोर्मुलतिओन्भस्मत्वं समुपागतो विकृतको हेम्ना मृतेनान्वितः पादांशेन कणाज्यवेल्लसहितो वल्लोन्मितः सेवितः । (६७।१)

vaikrānta:: formulationbhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ |

67.2६७.२

यक्ष्माणं क्षरणं च पाण्डुगुदजं श्वासं च कासामयं दुष्टां च ग्रहणीम् उरःक्षतमुखान् रोगाञ्जयेद्देहकृत् ॥ (६७।२)

yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt ||

68.1६८.१

वैक्रान्त:: ड़ोर्मुलतिओन्सूतभस्मार्धसंयुक्तं नीलवैक्रान्तभस्मकम् । (६८।१)

vaikrānta:: formulationsūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam |

68.2६८.२

मृताभ्रसत्त्वमुभयोस्तुलितं परिमर्दितम् ॥ (६८।२)

mṛtābhrasattvamubhayostulitaṃ parimarditam ||

69.1६९.१

क्षौद्राज्यसंसृतं प्रातः गुञ्जामात्रं निषेवितम् । (६९।१)

kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam |

69.2६९.२

रसायनविधानेन जीवेच्चन्द्रार्कतारकम् ॥ (६९।२)

rasāyanavidhānena jīveccandrārkatārakam ||

70.1७०.१

तत्तद्रोगानुपानेन यवमात्रं निषेवितम् । (७०।१)

tattadrogānupānena yavamātraṃ niṣevitam |

70.2७०.२

निहन्ति सकलान्रोगान्दुस्तरानन्यभेषजैः ॥ (७०।२)

nihanti sakalānrogāndustarānanyabheṣajaiḥ ||

71.1७१.१

त्रिसप्तदिवसैर् नॄणां गङ्गाम्भ इव पातकम् । (७१।१)

trisaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam |

71.2७१.२

सस्यक:: म्य्थ्। ओरिगिन्पीत्वा हालाहलं वान्तं पीतामृतगरुत्मता ॥ (७१।२)

sasyaka:: myth. originpītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā ||

72.1७२.१

विषेणामृतयुक्तेन गिरौ च मरुताह्वये । (७२।१)

viṣeṇāmṛtayuktena girau ca marutāhvaye |

72.2७२.२

तद्वान्तं हि घनीभूतं संजातं सस्यकं खलु ॥ (७२।२)

tadvāntaṃ hi ghanībhūtaṃ saṃjātaṃ sasyakaṃ khalu ||

73.1७३.१

सस्य:: परीक्षा:: गोओद् क़ुअलित्य्मयूरकण्ठसच्छायं भाराढ्यमतिशस्यते । (७३।१)

sasya:: parīkṣā:: good qualitymayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate |

73.2७३.२

विषं द्रव्ययुतं यद्वद् द्रव्याधिकगुणं भवेत् । (७३।२)

viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet |

73.3७३.३

हालाहलं सुधायुक्तं सुधाधिकगुणं तथा ॥ (७३।३)

hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā ||

74.1७४.१

सस्यक:: मेदिच्। प्रोपेर्तिएस्निःशेषदोषविषहृद् गुदशूलशूलदुष्टाम्लपित्तकविबन्धहरं हितं च । (७४।१)

sasyaka:: medic. propertiesniḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca |

74.2७४.२

रासायनं वमनरेककरं गरघ्नं श्वित्रापहं गदितमत्र मयूरतुत्थम् ॥ (७४।२)

rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham ||

75.1७५.१

सस्यक:: शोधनदोलायन्त्रेण सुस्विन्नं सस्यकं प्रहरत्रयम् । (७५।१)

sasyaka:: śodhanadolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam |

75.2७५.२

नृमहिष्यजगोमूत्रैः शुध्यत्येवं च सस्यकम् ॥ (७५।२)

nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam ||

76.1७६.१

सस्यक:: मारणलकुचद्रवगन्धाश्मटङ्कणेन समन्वितम् । (७६।१)

sasyaka:: māraṇalakucadravagandhāśmaṭaṅkaṇena samanvitam |

76.2७६.२

निरुध्य मूषिकामध्ये म्रियते कौक्कुटैः पुटैः ॥ (७६।२)

nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ ||

77.1७७.१

सस्यक:: सत्त्वपातननिम्बुद्रवाल्पटङ्काभ्यां मूषामध्ये निरुध्य च । (७७।१)

sasyaka:: sattvapātananimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca |

77.2७७.२

ताम्ररूपं परिध्मातं सत्त्वं मुञ्चति सस्यकम् ॥ (७७।२)

tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam ||

78.1७८.१

सस्यक:: सत्त्वपातनशुद्धं सस्यं शिखिक्रान्तं पूर्वभेषजसंयुतम् । (७८।१)

sasyaka:: sattvapātanaśuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam |

78.2७८.२

नलिकाध्मानयोगेन सत्त्वं मुञ्चति निश्चितम् ॥ (७८।२)

nalikādhmānayogena sattvaṃ muñcati niścitam ||

79.1७९.१

सस्यक:: सत्त्व:: रिन्ग्सत्त्वमेतत्समादाय वरभूनागसत्त्वयुक् । (७९।१)

sasyaka:: sattva:: ringsattvametatsamādāya varabhūnāgasattvayuk |

79.2७९.२

तन्मुद्रिका कृतस्पर्शा शूलघ्नी तत्क्षणाद्भवेत् ॥ (७९।२)

tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet ||

80.1८०.१

चराचरं विषं भूतं डाकिनीं दृग्गतं जयेत् । (८०।१)

carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ dṛggataṃ jayet |

80.2८०.२

रामवत् सोमसेनानी मुद्रिकेति तथाक्षरम् ॥ (८०।२)

rāmavat somasenānī mudriketi tathākṣaram ||

81.1८१.१

मुद्रिकेयं विधातव्या दृष्टप्रत्ययकारिका । (८१।१)

mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā |

81.2८१.२

हिमालयोत्तरे पार्श्वे अश्वकर्णो महाद्रुमः ॥ (८१।२)

himālayottare pārśve aśvakarṇo mahādrumaḥ ||

82.1८२.१

तत्र शूलं समुत्पन्नं तत्रैव निधनं गतः । (८२।१)

tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ |

82.2८२.२

मन्त्रेणानेन मुद्राम्भो निपीतं सप्तमन्त्रितम् ॥ (८२।२)

mantreṇānena mudrāmbho nipītaṃ saptamantritam ||

83.1८३.१

सद्यः शूलहरं प्रोक्तम् इति भालुकिभाषितम् । (८३।१)

sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam |

83.2८३.२

अनया मुद्रया तप्तं तैलमग्नौ सुनिश्चितम् ॥ (८३।२)

anayā mudrayā taptaṃ tailamagnau suniścitam ||

84.1८४.१

लेपितं हन्ति वेगेन शूलं यत्र क्वचिद्भवम् । (८४।१)

lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam |

84.2८४.२

सद्यः सूतिकरं नार्याः सद्यो नेत्ररुजापहम् ॥ (८४।२)

sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham ||

85.1८५.१

विमल:: सुब्त्य्पेस्विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः । (८५।१)

vimala:: subtypesvimalastrividhaḥ prokto hemādyastārapūrvakaḥ |

85.2८५.२

तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ॥ (८५।२)

tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate ||

86.1८६.१

विमल:: फ्य्स्। प्रोपेर्तिएस्वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः । (८६।१)

vimala:: phys. propertiesvartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ |

86.2८६.२

विमल:: मेदिच्। प्रोपेर्तिएस्मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः ॥ (८६।२)

vimala:: medic. propertiesmarutpittaharo vṛṣyo vimalo'tirasāyanaḥ ||

87.1८७.१

विमल:: सुब्त्य्पेस्:: उसेपूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः । (८७।१)

vimala:: subtypes:: usepūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ |

87.2८७.२

तृतीयो भेषजे तेषु पूर्वः पूर्वगुणोत्तरः ॥ (८७।२)

tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ ||

88.1८८.१

विअमल:: शोधनआटरूषजलस्विन्नो विमलो विमलो भवेत् । (८८।१)

viamala:: śodhanaāṭarūṣajalasvinno vimalo vimalo bhavet |

88.2८८.२

विमल:: मारणगन्धाश्मलकुचाभ्यां स म्रियते दशभिः पुटैः ॥ (८८।२)

vimala:: māraṇagandhāśmalakucābhyāṃ sa mriyate daśabhiḥ puṭaiḥ ||

89.1८९.१

विमल:: सत्त्व:: पातनसटङ्कलकुचद्रावैर् मेषशृङ्गस्य भस्मना । (८९।१)

vimala:: sattva:: pātanasaṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā |

89.2८९.२

पिष्टो मूषोदरे लिप्तः संशोष्य च निरुध्य च ॥ (८९।२)

piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca ||

90.1९०.१

षट्प्रस्थकोकिलैर् ध्मातो विमलः सीससन्निभम् । (९०।१)

ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham |

90.2९०.२

सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्तु रसायनः ॥ (९०।२)

sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ ||

91.1९१.१

विमल:: सत्त्व:: मेदिच्। उसेएतत्सत्त्वं सूतसंयुक्तं पिष्टीकृत्वा सुमर्दितम् । (९१।१)

vimala:: sattva:: medic. useetatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam |

91.2९१.२

विलीने गन्धके क्षिप्त्वा जारयेत् त्रिगुणालकम् ॥ (९१।२)

vilīne gandhake kṣiptvā jārayet triguṇālakam ||

92.1९२.१

शिलां पञ्चगुणां चापि नालिकायन्त्रके खलु । (९२।१)

śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu |

92.2९२.२

तारभस्म दशांशेन तावद्वैक्रान्तकं मृतम् ॥ (९२।२)

tārabhasma daśāṃśena tāvadvaikrāntakaṃ mṛtam ||

93.1९३.१

सर्वमेकत्र संचूर्ण्य पटेन परिगाल्य च । (९३।१)

sarvamekatra saṃcūrṇya paṭena parigālya ca |

93.2९३.२

निक्षिप्य कूपिकामध्ये परिपूर्य प्रयत्नतः ॥ (९३।२)

nikṣipya kūpikāmadhye paripūrya prayatnataḥ ||

94.1९४.१

लीढो व्योषवरान्वितो विमलको युक्तो घृतैः सेवितो हन्याद् दुर्भगकृज्ज्वरान् श्वयथुकं पाण्डुप्रमेहारुचिम् । (९४।१)

līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim |

94.2९४.२

मूलार्तिं ग्रहणीं च शूलमतुलं यक्ष्मामयान् कामलां सर्वान्पित्तमरुद्गदान् किमपरं योगैरशेषान् गदान् ॥ (९४।२)

mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān ||

95.1९५.१

शिलाजतु:: सुब्त्य्पेस्शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनः । (९५।१)

śilājatu:: subtypesśilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ |

95.2९५.२

कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः पुनः ॥ (९५।२)

karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ ||

96.1९६.१

ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः । (९६।१)

sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ |

96.2९६.२

शिलाजतु:: ओरिगिन् ड़्रोम् हेअतेद् रोच्क्स्ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः ॥ (९६।२)

śilājatu:: origin from heated rocksgrīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ ||

97.1९७.१

स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर् विनिःसरेत् । (९७।१)

svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret |

97.2९७.२

शिलाजतु:: ड़्रोम् गोल्द्स्वर्णगर्भगिरेर्जातं जपापुष्पनिभं गुरु ॥ (९७।२)

śilājatu:: from goldsvarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru ||

98.1९८.१

स स्वल्पतिक्तं सुस्वादु परमं तद्रसायनम् । (९८।१)

sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam |

98.2९८.२

शिलाजतु:: ड़्रोम् सिल्वेर्रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु ॥ (९८।२)

śilājatu:: from silverrūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru ||

99.1९९.१

शिलाजं पित्तरोगघ्नं विशेषात् पाण्डुरोगहृत् । (९९।१)

śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt |

99.2९९.२

शिलाजतु:: ड़्रोम् चोप्पेर्ताम्रगर्भगिरेर्जातं नीलवर्णं घनं गुरु ॥ (९९।२)

śilājatu:: from coppertāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru ||

100.1१००.१

शिलाजं कफवातघ्नं तिक्तोष्णं क्षयरोगनुत् । (१००।१)

śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut |

100.2१००.२

शिलाजतु:: तेस्तिन्ग् ड़ोर् पुरित्य्वह्नौ क्षिप्तं भवेद्यत्तु लिङ्गाकारं ह्यधूमकम् । (१००।२)

śilājatu:: testing for purityvahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam |

100.3१००.३

सलिलेऽथ विलीनं च तच्छुद्धं हि शिलाजतु ॥ (१००।३)

salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu ||

101.1१०१.१

शिलाजतु:: मेदिच्। प्रोपेर्तिएस्नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं मूत्रामयोन्मूलनम् । (१०१।१)

śilājatu:: medic. propertiesnūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam |

101.2१०१.२

गुल्मप्लीहविनाशनं जठरहृच्छूलघ्नम् आमापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम् ॥ (१०१।२)

gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam ||

102.1१०२.१

शिलाजतु:: पोस्सेस्सेस् प्रोपेर्तिएस् ओड़् ओथेर् सुब्स्तन्चेस्रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः । (१०२।१)

śilājatu:: possesses properties of other substancesrasoparasasūtendraratnaloheṣu ye guṇāḥ |

102.2१०२.२

वसन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ (१०२।२)

vasanti te śilādhātau jarāmṛtyujigīṣayā ||

103.1१०३.१

शिलाजतु:: शोधनक्षाराम्लैर्गुग्गुलूपेतैः स्वेदनीयन्त्रमध्यगैः । (१०३।१)

śilājatu:: śodhanakṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ |

103.2१०३.२

स्वेदितं घटिकामानाच्छिलाधातुर् विशुध्यति ॥ (१०३।२)

sveditaṃ ghaṭikāmānācchilādhātur viśudhyati ||

104.1१०४.१

शिलाजतु:: मारणशिलया गन्धतालाभ्यां मातुलुङ्गरसेन च । (१०४।१)

śilājatu:: māraṇaśilayā gandhatālābhyāṃ mātuluṅgarasena ca |

104.2१०४.२

पुटितं हि शिलाधातुर् म्रियते ऽष्टगिरिण्डकैः ॥ (१०४।२)

puṭitaṃ hi śilādhātur mriyate 'ṣṭagiriṇḍakaiḥ ||

105.1१०५.१

शिलाजतु:: मृत:: मेदिच्। उसेभस्मीभूतशिलोद्भवं समतुलं कान्तं च वैक्रान्तकं युक्तश्च त्रिफलाकटुत्रयघृतैर्वल्लेन तुल्यं भजेत् । (१०५।१)

śilājatu:: mṛta:: medic. usebhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet |

105.2१०५.२

पाण्डौ यक्ष्मगुदे तथाग्निसदने महेषु मूत्रामये गुल्मप्लीहमहोदरे बहुविधे शूले च योन्यामये ॥ (१०५।२)

pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye ||

106.1१०६.१

सेवेत यदि षण्मासं रसायनविधानतः । (१०६।१)

seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ |

106.2१०६.२

वलीपलितनिर्मुक्तो जीवेद्वर्षशतं सुखी ॥ (१०६।२)

valīpalitanirmukto jīvedvarṣaśataṃ sukhī ||

107.1१०७.१

शिलाजतु:: सत्त्व:: पातनपिष्टं द्रावणवर्गेण साम्लेन गिरिसम्भवम् । (१०७।१)

śilājatu:: sattva:: pātanapiṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam |

107.2१०७.२

लिप्त्वा मूषोदरे रुद्ध्वा गाढैर्ध्मातं हि कोकिलैः ॥ (१०७।२)

liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ ||

108.1१०८.१

सत्त्वं मुञ्चेच्छिलाधातुः स्वखनेर्लोहसन्निभम् । (१०८।१)

sattvaṃ muñcecchilādhātuḥ svakhanerlohasannibham |

108.2१०८.२

कर्पूरशिलाजतु:: फ्य्स्। प्रोपेर्तिएस्पाण्डुरं सिकताकारं कर्पूराद्यं शिलाजतु ॥ (१०८।२)

karpūraśilājatu:: phys. propertiespāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu ||

109.1१०९.१

कर्पूरशिलाजतु:: मेदिच्। प्रोपेर्तिएस्मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् । (१०९।१)

karpūraśilājatu:: medic. propertiesmūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam |

109.2१०९.२

कर्पूरशिलाजतु:: शोधनएलातोयेन संस्विन्नं शुष्कं शुद्धिमुपैति तत् ॥ (१०९।२)

karpūraśilājatu:: śodhanaelātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat ||

110.1११०.१

नैतस्य मारणं सत्त्वपातनं विहितं बुधैः । (११०।१)

naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ |

110.2११०.२

रसक:: सुब्त्य्पेस्रसको द्विविधः प्रोक्तो दर्दुरः कारवेल्लकः ॥ (११०।२)

rasaka:: subtypesrasako dvividhaḥ prokto darduraḥ kāravellakaḥ ||

111.1१११.१

सदलो दर्दुरः प्रोक्तो निर्दलः कारवेल्लकः । (१११।१)

sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ |

111.2१११.२

सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ॥ (१११।२)

sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu ||

112.1११२.१

रसक:: मेदिच्। प्रोपेर्तिएस्रसकः सर्वमेहघ्नः कफपित्तविनाशनः । (११२।१)

rasaka:: medic. propertiesrasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ |

112.2११२.२

नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः ॥ (११२।२)

netrarogakṣayaghnaśca lohapāradarañjanaḥ ||

113.1११३.१

रसक:: हिघ् क़ुअलित्य्नागार्जुनेन निर्दिष्टौ रसश्च रसकावुभौ । (११३।१)

rasaka:: high qualitynāgārjunena nirdiṣṭau rasaśca rasakāvubhau |

113.2११३.२

श्रेष्ठौ सिद्धरसौ स्यातां देहलोहकरौ परौ ॥ (११३।२)

śreṣṭhau siddharasau syātāṃ dehalohakarau parau ||

114.1११४.१

रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ । (११४।१)

rasaśca rasakaścobhau yenāgnisahanau kṛtau |

114.2११४.२

देहलोहमयी सिद्धिर्दासी तस्य न संशयः ॥ (११४।२)

dehalohamayī siddhirdāsī tasya na saṃśayaḥ ||

115.1११५.१

रसक:: शोधनखर्परः परिसंतप्तः सप्तवारं निमज्जितः । (११५।१)

rasaka:: śodhanakharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ |

115.2११५.२

बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ॥ (११५।२)

bījapūrarasasyāntarnirmalatvaṃ samaśnute ||

116.1११६.१

रसक:: शोधननृमूत्रे मेषमूत्रे वा तक्रे वा काञ्जिके तथा । (११६।१)

rasaka:: śodhananṛmūtre meṣamūtre vā takre vā kāñjike tathā |

116.2११६.२

प्रताप्य मज्जितं सम्यक् खर्परं परिशुध्यति ॥ (११६।२)

pratāpya majjitaṃ samyak kharparaṃ pariśudhyati ||

117.1११७.१

रसक:: रञ्जन wइथ् ~नरमूत्रे स्थितो मासं रसको रञ्जयेद् ध्रुवम् । (११७।१)

rasaka:: rañjana with ~naramūtre sthito māsaṃ rasako rañjayed dhruvam |

117.2११७.२

शुद्धं ताम्रं रसं तारं शुद्धं स्वर्णप्रभं तथा ॥ (११७।२)

śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā ||

118.1११८.१

रसक:: सत्त्वपातनहरिद्रात्रिफलारालसिन्धुधूमैः सटङ्कणैः । (११८।१)

rasaka:: sattvapātanaharidrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ |

118.2११८.२

सारुष्करैश्च पादांशैः साम्लैः संमर्द्य खर्परम् ॥ (११८।२)

sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam ||

119.1११९.१

लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च । (११९।१)

liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca |

119.2११९.२

मूषामुखोपरि न्यस्य खर्परं प्रधमेत्ततः ॥ (११९।२)

mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ ||

120.1१२०.१

खर्परेऽपहृते ज्वाला भवेन्नीला सिता यदि । (१२०।१)

kharpare'pahṛte jvālā bhavennīlā sitā yadi |

120.2१२०.२

तदा सन्दंशतो मूषां धृत्वा कृत्वा ह्यधोमुखीम् ॥ (१२०।२)

tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm ||

121.1१२१.१

शनैरास्फालयेद् भूमौ यथा नालं न भज्यते । (१२१।१)

śanairāsphālayed bhūmau yathā nālaṃ na bhajyate |

121.2१२१.२

वङ्गाभं पतितं सत्त्वं तदादाय नियोजयेत् ॥ (१२१।२)

vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet ||

122.1१२२.१

एवं हि त्रिचतुर्वारैः सर्वं सत्त्वं विनिःसरेत् । (१२२।१)

evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret |

122.2१२२.२

रसकसत्त्वपातन (२)यद्वा जलयुतां स्थालीं निखनेत् कोष्ठिकोदरे ॥ (१२२।२)

rasakasattvapātana (2)yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare ||

123.1१२३.१

सच्छिद्रं तन्मुखे मल्लं तन्मुखेऽधोमुखीं क्षिपेत् । (१२३।१)

sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet |

123.2१२३.२

मूषोपरि शिखित्रांश्च प्रक्षिप्य प्रधमेद् दृढम् ॥ (१२३।२)

mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham ||

124.1१२४.१

पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् । (१२४।१)

patitaṃ sthālikānīre sattvamādāya yojayet |

124.2१२४.२

रसक:: सत्त्व:: मारणम्तत्सत्त्वं तालकोपेतं निक्षिप्य खलु खर्परे ॥ (१२४।२)

rasaka:: sattva:: māraṇamtatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare ||

125.1१२५.१

भर्जयेल्लोहदण्डेन भस्मीभवति निश्चितम् । (१२५।१)

bharjayellohadaṇḍena bhasmībhavati niścitam |

125.2१२५.२

रसक:: सत्त्व:: मृत:: मेदिच्। उसेतद्भस्म मृतकान्तेन समेन सह योजितम् ॥ (१२५।२)

rasaka:: sattva:: mṛta:: medic. usetadbhasma mṛtakāntena samena saha yojitam ||

126.1१२६.१

अष्टगुञ्जामितं चूर्णं त्रिफलाक्वाथसंयुतम् । (१२६।१)

aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam |

126.2१२६.२

कान्तपात्रस्थितं रात्रौ तिलजप्रतिवापकम् ॥ (१२६।२)

kāntapātrasthitaṃ rātrau tilajaprativāpakam ||

127.1१२७.१

निषेवितं निहन्त्याशु मधुमेहमपि ध्रुवम् । (१२७।१)

niṣevitaṃ nihantyāśu madhumehamapi dhruvam |

127.2१२७.२

पैत्तं क्षयं च पाण्डुं च श्वयथुं गुल्ममेव च ॥ (१२७।२)

paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca ||

128.1१२८.१

रक्तगुल्मं च नारीणां प्रदरं सोमरोगकम् । (१२८।१)

raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam |

128.2१२८.२

योनिरोगानशेषांश्च विषमांश्च ज्वरानपि । (१२८।२)

yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi |

128.3१२८.३

रजःशूलं च नारीणां कासं श्वासं च हिध्मिकाम् ॥ (१२८।३)

rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām ||

129.1१२९.१

माक्षिकमाक्षिको द्विविधो हेममाक्षिकस्तारमाक्षिकः । (१२९।१)

mākṣikamākṣiko dvividho hemamākṣikastāramākṣikaḥ |

129.2१२९.२

स्वर्णमाक्षिक:: ओरिगिन्तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसन्निभम् ॥ (१२९।२)

svarṇamākṣika:: origintatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham ||

130.1१३०.१

तारमाक्षिक:: ओरिगिन्तपतीतीरसम्भूतं पञ्चवर्णसुवर्णवत् । (१३०।१)

tāramākṣika:: origintapatītīrasambhūtaṃ pañcavarṇasuvarṇavat |

130.2१३०.२

पाषाणबहुलः प्रोक्तस्ताप्याख्योऽसौ गुणाल्पकः ॥ (१३०।२)

pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ ||

131.1१३१.१

माक्षिक:: मेदिच्। प्रोपेर्तिएस्माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः । (१३१।१)

mākṣika:: medic. propertiesmākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ |

131.2१३१.२

दुर्मेललोहद्वयमेलकश्च गुणोत्तरः सर्वरसायनाग्र्यः ॥ (१३१।२)

durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ ||

132.1१३२.१

माक्षिक:: शोधनमेरण्डतैललुङ्गाम्बुसिद्धे शुध्यति माक्षिकम् । (१३२।१)

mākṣika:: śodhanameraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam |

132.2१३२.२

माक्षिक:: शोधनसिद्धं च कदलीकन्दतोये च घटिकाद्वयम् ॥ (१३२।२)

mākṣika:: śodhanasiddhaṃ ca kadalīkandatoye ca ghaṭikādvayam ||

133.1१३३.१

तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् । (१३३।१)

taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam |

133.2१३३.२

माक्षिक:: मारणमातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम् ॥ (१३३।२)

mākṣika:: māraṇamātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam ||

134.1१३४.१

पञ्चक्रोडपुटैर्दग्धं म्रियते माक्षिकं खलु । (१३४।१)

pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu |

134.2१३४.२

माक्षिक:: मारणएरण्डतैलगव्याज्यैर्मातुलुङ्गरसेन च ॥ (१३४।२)

mākṣika:: māraṇaeraṇḍatailagavyājyairmātuluṅgarasena ca ||

135.1१३५.१

खर्परस्थं दृढं पक्वं जायते धातुसन्निभम् । (१३५।१)

kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham |

135.2१३५.२

एवं मृतं रसे योज्यं रसायनविधावपि ॥ (१३५।२)

evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi ||

136.1१३६.१

माक्षिक:: सत्त्वपातनत्रिंशांशनागसंयुक्तं क्षारैरम्लैश्च वर्तितम् । (१३६।१)

mākṣika:: sattvapātanatriṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam |

136.2१३६.२

ध्मातं प्रकटमूषायां सत्त्वं मुञ्चति माक्षिकम् ॥ (१३६।२)

dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam ||

137.1१३७.१

माक्षिक:: सत्त्व:: शोधनसप्तवारं परिद्राव्य क्षिप्तं निर्गुण्डिकारसे । (१३७।१)

mākṣika:: sattva:: śodhanasaptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase |

137.2१३७.२

माक्षीकसत्त्वसम्मिश्रं नागं नश्यति निश्चितम् ॥ (१३७।२)

mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam ||

138.1१३८.१

गुञ्जाबीजसमच्छायं द्रुतद्रावं च सीसवत् । (१३८।१)

guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat |

138.2१३८.२

ताप्यसत्त्वं विशुद्धं तु देहलोहकरं परम् ॥ (१३८।२)

tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param ||

139.1१३९.१

माक्षिकरसायन (१)माक्षीकसत्त्वेन रसस्य पिष्टीं कृत्वा विलीने च बलिं निधाय । (१३९।१)

mākṣikarasāyana (1)mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya |

139.2१३९.२

संमिश्र्य संमर्द्य च खल्वमध्ये निक्षिप्य सत्त्वं द्रुतमभ्रकस्य च ॥ (१३९।२)

saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca ||

140.1१४०.१

विधाय गोलं लवणाख्ययन्त्रे पचेद्दिनार्धं मृदुवह्निना च । (१४०।१)

vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca |

140.2१४०.२

स्वतः सुशीतं परिचूर्ण्य सम्यग् वल्लोन्मितं खण्डविडङ्गयुक्तम् ॥ (१४०।२)

svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam ||

141.1१४१.१

संसेवितं क्षौद्रयुतं निहन्ति जरां सरोगाम् अपमृत्युमेव । (१४१।१)

saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva |

141.2१४१.२

दुःसाध्यरोगानपि सप्तवारैर्नैतेन तुल्योऽस्ति सुधारसोऽपि ॥ (१४१।२)

duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi ||

142.1१४२.१

माक्षिकरसायन (२)मृतमाक्षीकपाषाणस् तदर्धं मृतमभ्रकम् । (१४२।१)

mākṣikarasāyana (2)mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam |

142.2१४२.२

तदर्धं कान्तलोहं च तदर्धं ताम्रभस्मकम् ॥ (१४२।२)

tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam ||

143.1१४३.१

सर्वमेकत्र संमेल्य समगन्धेन योजयेत् । (१४३।१)

sarvamekatra saṃmelya samagandhena yojayet |

143.2१४३.२

निम्बुद्रवेण संमर्द्य प्रपुटेद्दशवारकम् ॥ (१४३।२)

nimbudraveṇa saṃmardya prapuṭeddaśavārakam ||

144.1१४४.१

वनोत्पलशतेनैव भावयेत् परिचूर्ण्य तत् । (१४४।१)

vanotpalaśatenaiva bhāvayet paricūrṇya tat |

144.2१४४.२

व्योषबाह्लीकतोयेन वाराणामेकविंशतिम् ॥ (१४४।२)

vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim ||

145.1१४५.१

भवेद्धि मृतमाक्षीकं सर्वव्याधिविनाशनम् । (१४५।१)

bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam |

145.2१४५.२

क्षयं पाण्डुं च कुष्ठानि ग्रहणीं गुदजां रुजः ॥ (१४५।२)

kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ ||

146.1१४६.१

मन्दाग्निं कामलां शोषं स्वरभङ्गमरोचकम् । (१४६।१)

mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam |

146.2१४६.२

नानारूपान् ज्वरान् उग्रान् आमदोषं विसूचिकाम् ॥ (१४६।२)

nānārūpān jvarān ugrān āmadoṣaṃ visūcikām ||

147.1१४७.१

वातपित्तकफोद्भूतांस्तत्तद्रोगान् अशेषतः । (१४७।१)

vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ |

147.2१४७.२

तत्तदौचित्ययोगेन प्रयुक्तैरनुपानकैः । (१४७।२)

tattadaucityayogena prayuktairanupānakaiḥ |

147.3१४७.३

महारसेषु सर्वेषु ताप्यमेव वरं मतम् ॥ (१४७।३)

mahāraseṣu sarveṣu tāpyameva varaṃ matam ||

Data courtesy of The Digital Corpus of Sanskrit.

RCūM, 10

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit