रसेन्द्रचूडामणिRasendracūḍāmaṇi
RCūM, 9
Select a line for its word-by-word analysis.
मधुरत्रयघृतं खण्डो माक्षिकं च विज्ञेयं मधुरत्रयम् । (१।१)
madhuratrayaghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam |
मूत्रवर्गःमूत्राणि हस्तिकरभमहिषीखरवाजिनाम् ॥ (१।२)
mūtravargaḥmūtrāṇi hastikarabhamahiṣīkharavājinām ||
गोऽजावीनां स्त्रियः पुंसां पुष्पं बीजं च योजयेत् । (२।१)
go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet |
पञ्चमृत्तिकाइष्टिका गैरिकं लोणं भस्म वल्मीकमृत्तिका ॥ (२।२)
pañcamṛttikāiṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā ||
क्षारत्रयटङ्कणं च यवक्षारः सर्जिक्षारस्तृतीयकः ॥ (३।२)
kṣāratrayaṭaṅkaṇaṃ ca yavakṣāraḥ sarjikṣārastṛtīyakaḥ ||
क्षारवर्गःपलाशकदलीशिग्रुतिलापामार्गमोक्षकाः । (४।१)
kṣāravargaḥpalāśakadalīśigrutilāpāmārgamokṣakāḥ |
कम्बलोऽपरकुड्यानि क्षारश्चैषां पृथग्विधः । (५।१)
kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ |
अम्लवर्गःअम्लवेतसजम्बीरनिम्बुकं राजनिम्बुकम् ॥ (६।२)
amlavargaḥamlavetasajambīranimbukaṃ rājanimbukam ||
चणाम्लं काञ्जिकं तद्वदम्लिका चाम्लदाडिमम् ॥ (७।२)
caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam ||
रसादीनां विशुद्ध्यर्थं द्रावणे जारणे हितः ॥ (८।२)
rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ ||
लवणवर्गःसामुद्रं सिन्धुसंजातं काचोत्थं विडसंज्ञितम् । (९।१)
lavaṇavargaḥsāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam |
विषवर्गःशृङ्गिकं कालकूटं च वत्सनाभं च सक्तुकम् । (११।१)
viṣavargaḥśṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam |
पीतं च विषवर्गोऽयं स वरः परिकीर्तितः ॥ (११।२)
pītaṃ ca viṣavargo'yaṃ sa varaḥ parikīrtitaḥ ||
विषवर्ग:: मेदिच्। प्रोपेर्तिएस्रसकर्मणि शस्तोऽयं तद्बन्धनवधेऽपि च । (१२।१)
viṣavarga:: medic. propertiesrasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca |
अयुक्त्या सेवितश्चायं मारयत्येव निश्चितम् ॥ (१२।२)
ayuktyā sevitaścāyaṃ mārayatyeva niścitam ||
उपविषवर्गःलाङ्गली विषमुष्टिश्च करवीरश् च जया तथा । (१३।१)
upaviṣavargaḥlāṅgalī viṣamuṣṭiśca karavīraś ca jayā tathā |
नीलकः कनकोऽर्कश्च वर्गो ह्युपविषात्मकः ॥ (१३।२)
nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ ||
उपविष:: मेदिच्। प्रोपेर्तिएस्दीपनः पाचनो भेदी रसे क्वापि च युज्यते । (१४।१)
upaviṣa:: medic. propertiesdīpanaḥ pācano bhedī rase kvāpi ca yujyate |
विषेषु जङ्गमाद्येषु विषं सर्पस्य नापरम् ॥ (१४।२)
viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam ||
तैलवर्गःतिलातसीकुसुम्भानां निम्बस्य करजस्य च । (१५।१)
tailavargaḥtilātasīkusumbhānāṃ nimbasya karajasya ca |
राज्याः सिद्धार्थकस्यापि गुञ्जाकङ्गुणिबीजयोः ॥ (१५।२)
rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ ||
दुग्धवर्गःहस्त्यश्ववनिताधेनुगर्दभीछागिकाविकाः ॥ (१६।२)
dugdhavargaḥhastyaśvavanitādhenugardabhīchāgikāvikāḥ ||
उष्ट्रिकोदुम्बराश्वत्थभानुन्यग्रोधतिल्वकः । (१७।१)
uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ |
दुग्धिका स्नुग्गणं चैतत्तथैवोत्तमकर्णिका ॥ (१७।२)
dugdhikā snuggaṇaṃ caitattathaivottamakarṇikā ||
एषां दुग्धैर् विनिर्दिष्टो दुग्धवर्गो रसादिषु । (१८।१)
eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu |
पित्तवर्गःमहिषक्रोडमत्स्यानां छागस्य च शिखण्डिनः ॥ (१८।२)
pittavargaḥmahiṣakroḍamatsyānāṃ chāgasya ca śikhaṇḍinaḥ ||
कृष्णाहिरोहितानां च मार्जारस्य च मायुभिः । (१९।१)
kṛṣṇāhirohitānāṃ ca mārjārasya ca māyubhiḥ |
वसावर्गःभेककूर्मवराहाहिनरमांससमुत्थया । (२०।१)
vasāvargaḥbhekakūrmavarāhāhinaramāṃsasamutthayā |
विड्गणःपारावतस्य चाषस्य कपोतस्य कलापिनः । (२१।१)
viḍgaṇaḥpārāvatasya cāṣasya kapotasya kalāpinaḥ |
गृध्रस्य कुक्कुटस्यापि विनिर्दिष्टो हि विड्गणः ॥ (२१।२)
gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ ||
रक्तवर्गःकुसुम्भखदिरो लाक्षा मञ्जिष्ठा रक्तचन्दनम् ॥ (२२।२)
raktavargaḥkusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam ||
अद्री च बन्धुजीवं च तथा कर्पूरगन्धिनी । (२३।१)
adrī ca bandhujīvaṃ ca tathā karpūragandhinī |
माक्षिकं चेति विज्ञेयो रक्तवर्गो ऽतिरञ्जनः ॥ (२३।२)
mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ ||
पीतवर्गःकिंशुकः कर्णिकारश्च हरिद्राद्वितयं तथा । (२४।१)
pītavargaḥkiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā |
श्वेतवर्गःतगरः कुटजं कुन्दो गुञ्जा जीवन्तिका तथा । (२५।१)
śvetavargaḥtagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā |
कृष्णवर्गःकदली क्रूरवल्ली च त्रिफला नीलिका नलः । (२६।१)
kṛṣṇavargaḥkadalī krūravallī ca triphalā nīlikā nalaḥ |
रक्तवर्गादिवर्गैश्च द्रव्यं यज्जारणात्मकम् । (२७।१)
raktavargādivargaiśca dravyaṃ yajjāraṇātmakam |
शोधनीयगणःकाचटङ्कणशिप्राभिः शोधनीयो गणो मतः । (२८।१)
śodhanīyagaṇaḥkācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ |
मृदुकरवर्गःमहिषीमेषशृङ्गोऽत्र कलिङ्गोद्भवबीजयुक् । (२९।१)
mṛdukaravargaḥmahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk |
द्रावकवर्गःगुडगुग्गुलुगुञ्जाज्यसारघैष्टङ्कणान्वितैः । (३०।१)
drāvakavargaḥguḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ |
दुर्द्रावाखिललोहादेर् द्रावणेऽयं गणो मतः ॥ (३०।२)
durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ ||
क्षाराः सर्वे मलं हन्युरम्लं शोधनजारणम् । (३१।१)
kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam |
मान्द्यं विषाणि निघ्नन्ति स्नैग्ध्यं स्नेहाः प्रकुर्वते ॥ (३१।२)
māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate ||
Data courtesy of The Digital Corpus of Sanskrit.