रसेन्द्रचूडामणिRasendracūḍāmaṇi
RCūM, 15
Select a line for its word-by-word analysis.
रसपाथोधिभिः किंचिन्निःशेषं न प्रकाशितम् । (१।१)
rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam |
दशाष्टभिः क्रियां वक्ष्ये रसराजस्य साम्प्रतम् ॥ (१।२)
daśāṣṭabhiḥ kriyāṃ vakṣye rasarājasya sāmpratam ||
अमर्त्या भवितुं मर्त्या निषेवध्वं मिथो युतम् ॥ (२।२)
amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam ||
मेर्चुर्य्:: प्रोपेर्तिएसायुर्वज्रं वितरति नृणाम् अङ्गवर्णं सुवर्णं सत्त्वं व्योम्नो मदकरिबलं ताम्रम् उग्रां क्षुधां च । (३।१)
mercury:: propertiesāyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca |
मायोः शान्तिं रजतममलं कान्तमेतत्समस्तं श्रीमान् सूतः सकलगदहृद् देहलोहे तु सिद्धः ॥ (३।२)
māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ ||
मेर्चुर्य्:: म्य्थ्। ओरिगिन्कल्पादौ शिवयोः प्रीत्या परस्परजिगीषया । (४।१)
mercury:: myth. originkalpādau śivayoḥ prītyā parasparajigīṣayā |
सम्प्रवृत्ते तु सम्भोगे त्रिलोकीक्षोभकारिणि ॥ (४।२)
sampravṛtte tu sambhoge trilokīkṣobhakāriṇi ||
देवैः संप्रेषितो वह्निः सुरतं विनिवारितुम् । (५।१)
devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum |
काङ्क्षया तत्सुतोद्भूतेर् निहन्तुं तारकासुरम् ॥ (५।२)
kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram ||
तं वीक्ष्य लज्जितः शम्भुर्विरम्य सुरतात्तदा । (७।१)
taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā |
निक्षिप्तं वदने वह्नेर् गङ्गायाम् अपतच्च तत् । (८।१)
nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat |
अमर्त्या निर्जरास्तेन संजातास् त्रिदशोत्तमाः । (१०।१)
amartyā nirjarāstena saṃjātās tridaśottamāḥ |
पावकास्याच्च्युतं यत्तु रसस्तत्समभूत् खलु । (११।१)
pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu |
सेवितः स हि नागेन्द्रैर् जरामृत्युजिगीषया ॥ (११।२)
sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā ||
गेwइन्नुन्ग् वोन् ह्ग् मित् नच्क्तेन् ड़्रौएन्स्नातामाद्यरजस्वलां हयगतां प्राप्तां जिघृक्षुश्च तां सोऽप्यागच्छति योजनं हि परितः प्रत्येति कूपं पुनः । (१३।२)
Gewinnung von Hg mit nackten Frauensnātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ |
तन्मार्गे कृतगर्त्तके च बहुशः संतिष्ठते सूतराट् सोऽयं तत्र निवासिभिः खलु जनैरेवं समानीयते ॥ (१३।३)
tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate ||
मेर्चुर्य्:: एxत्रच्तिओन् ड़्रोम् एअर्थ्नीयमानस्तु गङ्गाया वायुना गौरवेन यत् । (१४।१)
mercury:: extraction from earthnīyamānastu gaṅgāyā vāyunā gauravena yat |
एवं चतुर्विधं जातं शंकरं शाङ्करं महः । (१६।१)
evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ |
इत्थं सूतोद्भवं ज्ञात्वा न रोगैर् बाध्यते नरः ॥ (१६।२)
itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ ||
रसेन्द्रश्च रसश्चैव स्यातां सिद्धरसावुभौ । (१७।१)
rasendraśca rasaścaiva syātāṃ siddharasāvubhau |
साध्यावन्यौ चिराज्जातौ भूम्यादेर् देशयोगतः ॥ (१७।२)
sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ ||
मेर्चुर्य्:: निरुक्तिजरापमृत्युदौर्गत्यव्याधीनां रसनाद्रसः । (१८।१)
mercury:: niruktijarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ |
रोगाब्धिं पारयेद्यस्मात्तस्मात् पारद उच्यते ॥ (१९।२)
rogābdhiṃ pārayedyasmāttasmāt pārada ucyate ||
त्रिपादी च क्षयं याति तेन पादरसः स्मृतः ॥ (२०।२)
tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ ||
मेर्चुर्य्:: दोष:: म्य्थ्। ओरिगिनित्थं भूतस्य सूतस्य मर्त्यमृत्युगदच्छिदः । (२१।१)
mercury:: doṣa:: myth. originitthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ |
प्रभावान्मानुषान् दृष्ट्वा देवतुल्यबलायुषः ॥ (२१।२)
prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ ||
इन्द्रेणाभ्यर्थितो रुद्रो रसं द्वादशदूषणैः । (२२।१)
indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ |
योजयामास तं पूर्वं विना शुद्ध्यापि सिद्धिदम् ॥ (२२।२)
yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam ||
पारददोषाःदोषो मलो विषं वह्निर् मदो दर्पश्च तत्फलम् । (२३।१)
pāradadoṣāḥdoṣo malo viṣaṃ vahnir mado darpaśca tatphalam |
मूर्च्छा मृत्युः सदादाहो विस्फोटश्च शिरोभ्रमः ॥ (२३।२)
mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ ||
मेर्चुर्य्:: कञ्चुकाःभूशैलजलताम्रायोनागवङ्गसमुद्भवाः । (२४।१)
mercury:: kañcukāḥbhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ |
कञ्चुकाः सप्त सूतस्य ताभिः सूतो विषोपमः ॥ (२४।२)
kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ ||
कुष्ठं जाड्यं च वातार्तिं दाहं चावृतकण्ठताम् । (२५।१)
kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām |
उन्मादं च महाशूलं क्रमात्कुर्वन्ति कञ्चुकाः ॥ (२५।२)
unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ ||
एतान् सूतगतान् दोषान् पञ्च सप्त च कञ्चुकाः । (२६।१)
etān sūtagatān doṣān pañca sapta ca kañcukāḥ |
अनपाकृत्य यो दद्यात् स वैद्यो ब्रह्महा भवेत् ॥ (२६।२)
anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet ||
१८ संस्कारस्सूते ऽष्टादशसंस्क्रिया निगदिताः स्युः स्वेदनं मर्दनं मूर्च्छोत्थापनपातरोधनियमाः प्रोद्दीपनं ग्रासजम् । (२८।१)
18 saṃskārassūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam |
मानं चारणगर्भबाह्यजनितद्रुतिश्च तज्जारणा रागः सारणकं परिक्रमविधिर् वेधस्ततः सेवनम् ॥ (२८।२)
mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam ||
सूतः पञ्चपलान्न्यूनः शोधितो ऽल्पफलो भवेत् । (३०।१)
sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet |
ऊर्ध्वं दशपलांशेन शुद्धिम् आप्नोत्यशेषतः ॥ (३०।२)
ūrdhvaṃ daśapalāṃśena śuddhim āpnotyaśeṣataḥ ||
मेर्चुर्य्:: शोधनस्वेदमर्दनमूर्च्छाभिः सप्तवारोर्ध्वपातनैः । (३१।१)
mercury:: śodhanasvedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ |
स्वेदनं मर्दनं तद्वत्सप्तवारान् विमूर्च्छनम् । (३२।१)
svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam |
स हि सिद्धिकरं प्राह गुणकारि च भास्करः ॥ (३२।२)
sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ ||
मर्दनस्वेदसंन्यासैः शुध्यतीति दिनेश्वरः । (३३।१)
mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ |
ऊर्ध्वाधःपातनाभ्यां हि विशुद्धिर्भालुकेर्मता ॥ (३३।२)
ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā ||
स्वेदनं मर्दनं मूर्च्छा प्रत्युत्थानं च पातनम् । (३४।१)
svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam |
गोविन्दभगवान् पूज्यैः सूतराजस्य निश्चिता ॥ (३४।३)
govindabhagavān pūjyaiḥ sūtarājasya niścitā ||
अथ श्रीनन्दिना प्रोक्तप्रकारेण विशोधनम् । (३५।१)
atha śrīnandinā proktaprakāreṇa viśodhanam |
१। स्वेदनसंस्कारमूलकाग्निपटुराजिकार्द्रकैः व्योषकैश्च रसषोडशांशकैः । (३६।१)
1. svedanasaṃskāramūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ |
स्वेदितस्त्रिदिवसं हि दोलया काञ्जिकेन मलमुक्तये रसः ॥ (३६।२)
sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ ||
२। मर्दनसंस्कारदग्धोर्णागृहधूमाब्जसर्षपैः सगुडेष्टकैः । (३७।१)
2. mardanasaṃskāradagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ |
मर्द्यो रसः षोडशांशैस् त्र्यहं तद्वह्निशान्तये ॥ (३७।२)
mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye ||
जीर्णे जीर्णे सदाग्रासे मर्दनीयो रसः खलु । (३८।१)
jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu |
एतैरेवौषधैर्यस्माद्रागान् गृह्णाति निर्मलः ॥ (३८।२)
etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ ||
३। मूर्छनव्योषसौभाग्यसंयुक्तलकुचद्रावमर्दनात् । (३९।१)
3. mūrchanavyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt |
मूर्छितस्त्रिदिनं सूतो मदं मुञ्चति दुर्धरम् ॥ (३९।२)
mūrchitastridinaṃ sūto madaṃ muñcati durdharam ||
रेमोवल् ओड़् विषदोषसौभाग्यत्रिफलाश्यामाटङ्कणैः सह काञ्जिकैः । (४०।१)
removal of viṣadoṣasaubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ |
त्रिदिनं संस्थितः सूतो विषं संत्यजति स्वकम् ॥ (४०।२)
tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam ||
रेमोवल् ओड़् दर्पदोषसर्पाक्षिकाकमाव्योषरसैर् उत्क्वथितोत्थितः । (४१।१)
removal of darpadoṣasarpākṣikākamāvyoṣarasair utkvathitotthitaḥ |
दर्पं मुञ्चति च क्षिप्रमिति दोषविशोधनम् ॥ (४१।२)
darpaṃ muñcati ca kṣipramiti doṣaviśodhanam ||
क्षाराम्लैः सोष्णतोयेन निवातस्थानसंस्थितः । (४२।१)
kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ |
रसस्य कुरुते वीर्यशैत्यं तद्वीर्यनाशनम् ॥ (४२।२)
rasasya kurute vīryaśaityaṃ tadvīryanāśanam ||
रेमोवल् ओड़् भूकञ्चुककांक्षीकासीसलुङ्गाम्बुमर्दितः पारदो दिनम् । (४३।१)
removal of bhūkañcukakāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam |
क्षालितः काञ्जिकैः पिष्टस्त्यजति क्षोणिकञ्चुकम् ॥ (४३।२)
kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam ||
अद्रिकञ्चुकगिरिकर्ण्या जयन्त्याश्च स्वरसैर्भावितो रसः । (४४।१)
adrikañcukagirikarṇyā jayantyāśca svarasairbhāvito rasaḥ |
त्रिभिर्वारैस्त्यजत्येव गिरिजाम् आत्मकञ्चुकाम् ॥ (४४।२)
tribhirvāraistyajatyeva girijām ātmakañcukām ||
जलकञ्चुकगुडगुग्गुलुनिम्बानां क्वाथेन क्वथितस्त्र्यहम् । (४५।१)
jalakañcukaguḍaguggulunimbānāṃ kvāthena kvathitastryaham |
त्यजत्यम्बुभवां सूतः कञ्चुकां बहुदोषदाम् ॥ (४५।२)
tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām ||
ताम्रकञ्चुकसितासार्द्रकतक्रैश्च मर्दयित्वा तथोत्थितः । (४६।१)
tāmrakañcukasitāsārdrakatakraiśca mardayitvā tathotthitaḥ |
धौतश्चोष्णैर् गवां मूत्रैस्त्यजेत्ताम्रजकञ्चुकम् ॥ (४६।२)
dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam ||
अयःकञ्चुककारवेल्ल्याश्च कर्कोट्या रसैः संमर्दितो रसः । (४७।१)
ayaḥkañcukakāravellyāśca karkoṭyā rasaiḥ saṃmardito rasaḥ |
कञ्चुकामायसीं मुञ्चेच्चपलः सौहृदं यथा ॥ (४७।२)
kañcukāmāyasīṃ muñceccapalaḥ sauhṛdaṃ yathā ||
नाग-, वङ्गकञ्चुकताम्रपिष्टीकृतः सूतः पातनायन्त्रपातितः । (४८।१)
nāga-, vaṅgakañcukatāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ |
मुञ्चेत् कञ्चुलिकां शीघ्रं नागवङ्गसमुद्भवाम् ॥ (४८।२)
muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām ||
वङ्गकञ्चुकसूतं वराग्निपटुशिग्रुकराजिकाञ्जनैः पिष्टैर्विलिप्य परिपातनकोर्ध्वभागे । (४९।१)
vaṅgakañcukasūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge |
भाण्डोदरे भृतजले परितो विमुञ्चेन्मृद्वग्निना त्यजति कञ्चुलिकां हि वाङ्गीम् ॥ (४९।२)
bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm ||
इत्थं निपातितः सूतश् चलद्विद्युल्लताप्रभः । (५०।१)
itthaṃ nipātitaḥ sūtaś caladvidyullatāprabhaḥ |
नागवङ्गविनिर्मुक्तः ततश्चैतत् प्रजायते ॥ (५०।२)
nāgavaṅgavinirmuktaḥ tataścaitat prajāyate ||
मेर्चुर्य्:: आप्यायनस्वेदनाद्यैः पातनान्ते शोधनैः स कदर्थितः । (५२।१)
mercury:: āpyāyanasvedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ |
मन्दवीर्यो भवेत्सूतस्तस्मादाप्यायनं चरेत् ॥ (५२।२)
mandavīryo bhavetsūtastasmādāpyāyanaṃ caret ||
सोदके सैन्धवे सूतः स्थितस् त्रिदिवसावधिः । (५३।१)
sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ |
पुनर् आप्यायनं प्राप्य न स्यात् षण्ढो भवेद्बली ॥ (५३।२)
punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī ||
स्वेदनविधिभालुकिः स्वेदसंन्यासौ दिष्टवान्नियमात् परम् । (५४।१)
svedanavidhibhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param |
भक्षितुं सर्वलोहानि मुखं कर्तुं विनिश्चितम् ॥ (५४।२)
bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam ||
अङ्गारस्थापिते पात्रे रसं क्षिप्त्वा प्रजारयेत् । (५५।१)
aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet |
षोडशांशेन चित्रां तु तदत्र स्वेदनं मतम् ॥ (५५।२)
ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam ||
संन्यासविधिक्षाराम्ललवणैः सार्द्धं संन्यासाज्जायते तथा । (५७।१)
saṃnyāsavidhikṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā |
बुभुक्षा व्यापकत्वं च तीव्रता वेगकारिता । (५८।१)
bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā |
दीपनसंस्कारमरिचाब्जासुरी चैव शिग्रुभूखगटङ्कणैः । (५९।१)
dīpanasaṃskāramaricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ |
ससंधानैस् त्र्यहं स्वेदाद् भवेत्सूतस्य दीपनम् ॥ (५९।२)
sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam ||
रसस्य दीपनं कुर्यात् तद् अत्यन्तगुणावहम् ॥ (६०।२)
rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham ||
मुखकरणस्वेदितोऽष्टादशांशेन हेमयुक्तो हि पारदः । (६१।१)
mukhakaraṇasvedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ |
क्षारैरम्लैरदोषैश्च भोक्तुमास्यं प्रजायते ॥ (६१।२)
kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate ||
राक्षसवक्त्रकलांशताप्यसत्त्वेन स्वर्णेन द्विगुणेन च । (६२।१)
rākṣasavaktrakalāṃśatāpyasattvena svarṇena dviguṇena ca |
युक्तं युक्तं हि चुक्रेण चूलिकालवणेन च ॥ (६२।२)
yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca ||
एवं राक्षसवक्त्रः स्यात्सर्वाशी च न संशयः ॥ (६४।२)
evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ ||
अष्टादशक्रिया नृणां न सिध्यन्ति रसस्य हि । (६५।१)
aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi |
सर्वैर्युक्ता विविधविधिभिः संस्कृतीभिः सुरम्यैः सूतो मुञ्चत्यखिलविकृतीन् श्वित्ररोगप्रमाथी । (६६।१)
sarvairyuktā vividhavidhibhiḥ saṃskṛtībhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī |
तावच्छुद्धिं कृतबहुगुणां नन्दिनोक्तां सुसाध्यां पथ्यायुक्तां पुरवरपतिः सोमदेवोऽभिधत्ते ॥ (६६।२)
tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte ||
मेर्चुर्य्:: शोधनत्रिक्षारैः पटुपञ्चकाम्लसहितैः संखल्वसूतस्त्र्यहं बाह्लीकासुरिविश्वपिण्डजठरे रुद्ध्वाथ संवेशयेत् । (६७।१)
mercury:: śodhanatrikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet |
सन्धाने त्रिदिनं हि मन्दशिखिना दोलाख्ययन्त्रे पचेद्दोषोन्मुक्तरसः सुधारससमः पथ्यैर् विना सिद्धिदः ॥ (६७।२)
sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ ||
किंत्वत्र राजिका विश्वहिङ्गूनां मानसंस्थितिः । (६८।१)
kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ |
नाग, वङ्ग:: रेमोवल्नागवङ्गौ महादोषौ दुर्जयौ शुद्धकोटिभिः । (६९।१)
nāga, vaṅga:: removalnāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ |
गन्धो विनाशमायाति रसः स्यान्नैव दुर्गुणः ॥ (७०।२)
gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ ||
महागुणत्वं शिखिनः सखित्वं स्वल्पेषु रोगेषु च तुल्यवीर्यम् । (७२।१)
mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam |
रसायनत्वं च महाप्रभावो भवेद्रसेन्द्रस्य च पातनाभिः ॥ (७२।२)
rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.