रसेन्द्रचूडामणिRasendracūḍāmaṇi
RCūM, 13
Select a line for its word-by-word analysis.
माणिक्यरसायनसुजातिगुणमाणिक्यभस्म कर्षमितं शुभम् । (१।१)
māṇikyarasāyanasujātiguṇamāṇikyabhasma karṣamitaṃ śubham |
कनकाभ्रकताम्राणां कान्तस्य भसितं पृथक् ॥ (१।२)
kanakābhrakatāmrāṇāṃ kāntasya bhasitaṃ pṛthak ||
त्रिगुणत्वेन संवृद्धं मर्दयेत् समगन्धकैः । (२।१)
triguṇatvena saṃvṛddhaṃ mardayet samagandhakaiḥ |
तुल्यगन्धाश्मसूताभ्यां विहितां कज्जलीं शुभाम् ॥ (३।२)
tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām ||
ततस्तां कज्जलीं यत्नाद् गृहीत्वा तदनन्तरम् । (४।१)
tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram |
माणिक्यादीनि भस्मानि क्षिप्त्वा तत्र विमिश्रयेत् । (५।१)
māṇikyādīni bhasmāni kṣiptvā tatra vimiśrayet |
अथार्द्रकरसैस्तां तु मर्दयित्वाथ कज्जलीम् ॥ (५।२)
athārdrakarasaistāṃ tu mardayitvātha kajjalīm ||
सम्यक् शुष्कं विचूर्ण्याथ क्षिपेद्रम्यकरण्डके । (६।१)
samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake |
व्योषाज्यसम्मितं ह्येतन्माणिक्याद्यं रसायनम् ॥ (६।२)
vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam ||
क्षयादिजान् गदान् सर्वांस्तत्तद्रोगानुपानतः ॥ (८।२)
kṣayādijān gadān sarvāṃstattadrogānupānataḥ ||
मौक्तिकरसायनम्जयन्तीरसनिष्पिष्टं शुकपिच्छेन मारितम् । (९।१)
mauktikarasāyanamjayantīrasaniṣpiṣṭaṃ śukapicchena māritam |
मौक्तिकं रसमात्रं हि द्विगुणं स्वर्णभस्मकम् ॥ (९।२)
mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam ||
त्रिगुणं कान्तजं भस्म व्योमसत्त्वं चतुर्गुणम् । (१०।१)
triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam |
दत्त्वा च गन्धसौभाग्यं शृङ्गवेरेण भावितम् ॥ (१०।२)
dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam ||
विद्राव्य पूर्ववद् भस्म मुक्तादीनां परिक्षिपेत् । (१२।१)
vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet |
विमिश्र्य निक्षिपेत्तत्र क्षीरं छागीसमुद्भवम् ॥ (१२।२)
vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam ||
संशोषितं विचूर्ण्याथ काचकूप्यां विनिक्षिपेत् । (१३।१)
saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet |
पिप्पलीमधुना सार्धं सेवितं वल्लमात्रया ॥ (१३।२)
pippalīmadhunā sārdhaṃ sevitaṃ vallamātrayā ||
वलीपलितनिर्मुक्तं वार्धक्येन विवर्जितम् ॥ (१४।२)
valīpalitanirmuktaṃ vārdhakyena vivarjitam ||
श्रोत्रदन्तादिसम्पन्नं शतायुष्कं सचक्षुषम् । (१५।१)
śrotradantādisampannaṃ śatāyuṣkaṃ sacakṣuṣam |
लीढं मध्वाज्यतैलैश्च कणोपेताश्वगन्धया । (१६।१)
līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā |
क्षयरोगं निहन्त्येव मण्डलार्धेन निश्चितम् ॥ (१६।२)
kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam ||
वन्ध्यापुत्रप्रदं ह्येतत् सूतिकामयनाशनम् ॥ (१७।२)
vandhyāputrapradaṃ hyetat sūtikāmayanāśanam ||
बालानां परमं पथ्यं वृष्यमायुष्यमुत्तमम् । (१८।१)
bālānāṃ paramaṃ pathyaṃ vṛṣyamāyuṣyamuttamam |
नागोदरोपविष्टं च हन्ति स्त्रीणां च वेगतः ॥ (१८।२)
nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ ||
गर्भिणीसर्वरोगेषु प्रशस्तं परिकीर्तितम् ॥ (१९।२)
garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam ||
प्रवालरसयनचतुष्पलं प्रवालस्य भस्मनो मृततारकम् । (२०।१)
pravālarasayanacatuṣpalaṃ pravālasya bhasmano mṛtatārakam |
तत्समं द्विगुणं ताम्रं प्रवालादर्धमाक्षिकम् ॥ (२०।२)
tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam ||
त्रिंशद्विभागिकं वज्रं षोडशांशं च नीलकम् । (२१।१)
triṃśadvibhāgikaṃ vajraṃ ṣoḍaśāṃśaṃ ca nīlakam |
व्योमसत्त्वं समं सर्वैस्तालकं सर्वतः समम् ॥ (२१।२)
vyomasattvaṃ samaṃ sarvaistālakaṃ sarvataḥ samam ||
सर्वार्धशुद्धसूतेन तस्माद् द्विगुणगन्धकैः ॥ (२२।२)
sarvārdhaśuddhasūtena tasmād dviguṇagandhakaiḥ ||
विहितां कज्जलीं सम्यक् द्रावयित्वा यथा पुरा । (२३।१)
vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā |
प्रवालादीनि भस्मानि विनिक्षिप्य विमिश्र्य च ॥ (२३।२)
pravālādīni bhasmāni vinikṣipya vimiśrya ca ||
निर्वाप्य गोघृते सम्यग् द्वादशाब्दपुरातने । (२४।१)
nirvāpya goghṛte samyag dvādaśābdapurātane |
शरावसम्पुटे रुद्ध्वा घृताक्तं स्वेदयेच्छनैः ॥ (२४।२)
śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ ||
विचूर्ण्य भावयेद्भृङ्गरसैर्वाराणि सप्त च । (२५।१)
vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca |
व्योषाज्यसहितं हन्ति जूर्तिरोगं दिनैस्त्रिभिः ॥ (२५।२)
vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ ||
क्षयं च मण्डलार्धेन ग्रहणीं पाण्डुकामले । (२६।१)
kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale |
प्रमेहं मेदसो वृद्धिं वातव्याधिं कफामयम् । (२७।१)
pramehaṃ medaso vṛddhiṃ vātavyādhiṃ kaphāmayam |
गुदरोगं च मन्दाग्निं मूत्रवातम् अशेषतः ॥ (२७।२)
gudarogaṃ ca mandāgniṃ mūtravātam aśeṣataḥ ||
स्मरमन्दिरजव्याधिं वन्ध्यारोगांस् त्वगामयान् । (२८।१)
smaramandirajavyādhiṃ vandhyārogāṃs tvagāmayān |
व्योषाज्यचित्रतोयैश्च ह्यनुपानम् अशेषतः ॥ (२८।२)
vyoṣājyacitratoyaiśca hyanupānam aśeṣataḥ ||
भूयो भूयो विसूच्यर्तिर् देहिनो यस्य जायते । (२९।१)
bhūyo bhūyo visūcyartir dehino yasya jāyate |
रसोऽयं तस्य दातव्यो मण्डलानां त्रयं खलु । (२९।२)
raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu |
तार्क्ष्यरसायनतार्क्ष्यभस्म तु शाणैकं वज्रभस्म तदर्धकम् । (३०।१)
tārkṣyarasāyanatārkṣyabhasma tu śāṇaikaṃ vajrabhasma tadardhakam |
मृतस्वर्णार्ककान्तानां निष्कद्वयमितं पृथक् ॥ (३०।२)
mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak ||
लोहभस्म मृतं सूतं सर्वमेकत्र मर्दयेत् । (३१।१)
lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet |
पुटेद्विंशतिवाराणि पुटैः कुक्कुटसंज्ञकैः ॥ (३१।२)
puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ ||
सप्तवारं द्रवैः सार्धं दशभिः पिष्टकैः पुटेत् ॥ (३२।२)
saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet ||
एवं सिद्धं प्रभावाढ्यं तार्क्ष्यं नाम रसायनम् । (३३।१)
evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam |
चित्रकार्द्रकरसोपेतं पीतं राजिकया मितम् ॥ (३३।२)
citrakārdrakarasopetaṃ pītaṃ rājikayā mitam ||
त्रिदोषजान् गदान्सर्वान् कफवातोद्भवानपि । (३४।१)
tridoṣajān gadānsarvān kaphavātodbhavānapi |
असाध्यान् सर्ववैद्यानां भेषजानां च कोटिभिः । (३४।२)
asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ |
करोति क्षुधमत्यर्थं भुक्तं जरयति क्षणात् ॥ (३४।३)
karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt ||
पुष्परागरसायनपुष्परागोद्भवं भस्म पलार्धप्रमितं शुभम् । (३५।१)
puṣparāgarasāyanapuṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham |
तदर्धं पीतकाचं च तदर्धं ताम्रभस्मकम् ॥ (३५।२)
tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam ||
ताम्रस्यार्धं च रजतं जातरूपं तदर्धकम् । (३६।१)
tāmrasyārdhaṃ ca rajataṃ jātarūpaṃ tadardhakam |
वज्रभस्म तदर्धं च सर्वतुल्यं मृताभ्रकम् ॥ (३६।२)
vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam ||
तुल्येन बलिना सार्धं दशवारं पुटेत् खलु ॥ (३७।२)
tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu ||
इति सिद्धमिदं प्रोक्तं पुष्परागरसायनम् ॥ (३८।२)
iti siddhamidaṃ proktaṃ puṣparāgarasāyanam ||
क्षयादिसर्वरोगघ्नं कुष्ठव्याधिहरं परम् । (३९।१)
kṣayādisarvarogaghnaṃ kuṣṭhavyādhiharaṃ param |
गुदगुल्मार्त्तिशमनं पुत्रीयं वृष्यमुत्तमम् ॥ (३९।२)
gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam ||
रसायनं तथा चैतत् क्षिप्रं गुल्महरं स्त्रियाः । (४०।१)
rasāyanaṃ tathā caitat kṣipraṃ gulmaharaṃ striyāḥ |
वज्ररसायनएककर्षं मृतं वज्रं तावद्भूनागसत्त्वकम् । (४१।१)
vajrarasāyanaekakarṣaṃ mṛtaṃ vajraṃ tāvadbhūnāgasattvakam |
ततश्च द्विगुणं स्वर्णं स्वर्णतुल्यं खसत्त्वकम् ॥ (४१।२)
tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam ||
तावन्मात्रं च कान्तायः सर्वं वारितरं कृतम् । (४२।१)
tāvanmātraṃ ca kāntāyaḥ sarvaṃ vāritaraṃ kṛtam |
अष्टमांशश्च सूतस्य सर्वेभ्यः परिकीर्तितः ॥ (४२।२)
aṣṭamāṃśaśca sūtasya sarvebhyaḥ parikīrtitaḥ ||
शुकपिच्छः समः सर्वैर् मर्दयेच्चणकाम्लकैः । (४३।१)
śukapicchaḥ samaḥ sarvair mardayeccaṇakāmlakaiḥ |
विधाय गोलकं रम्यं छायाशुष्कं समाचरेत् ॥ (४३।२)
vidhāya golakaṃ ramyaṃ chāyāśuṣkaṃ samācaret ||
ततो भूनागसत्त्वं हि गन्धकेन समं क्षिपेत् । (४४।१)
tato bhūnāgasattvaṃ hi gandhakena samaṃ kṣipet |
सूर्यपर्णैश्च दुग्धैर्वा वाराणां विंशतिं ततः । (४५।१)
sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ |
गुञ्जाटङ्कणसिक्थैश्च भूनागस्य रजोवृतम् ॥ (४५।२)
guñjāṭaṅkaṇasikthaiśca bhūnāgasya rajovṛtam ||
वर्तयित्वा तु तं गोलं कल्केनानेन लेपयेत् । (४६।१)
vartayitvā tu taṃ golaṃ kalkenānena lepayet |
निक्षिपेद् वालुकायन्त्रे प्रपचेद्दिनपञ्चकम् । (४७।१)
nikṣiped vālukāyantre prapaceddinapañcakam |
ततस् त्रिकोणगण्डीरदुग्धैर् गन्धकसंयुतैः ॥ (४७।२)
tatas trikoṇagaṇḍīradugdhair gandhakasaṃyutaiḥ ||
मर्दयित्वा तु तं गोलं पुटेद्वाराणि विंशतिम् । (४८।१)
mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim |
पटचूर्णं ततः कृत्वा क्षिपेदन्तःकरण्डके ॥ (४८।२)
paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake ||
न सोऽस्ति रोगो लोकेऽस्मिन्यो ह्यनेन न शाम्यति ॥ (५०।२)
na so'sti rogo loke'sminyo hyanena na śāmyati ||
बिल्वमेकं विना सर्वं पथ्यमत्र प्रकीर्तितम् ॥ (५१।३)
bilvamekaṃ vinā sarvaṃ pathyamatra prakīrtitam ||
नीलरसायननीलरत्नकृतं भस्म पलमात्रं च हीरकम् । (५२।१)
nīlarasāyananīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam |
स्वर्णं रौप्यं च कान्तं च ताप्यकं नृपवर्तकम् ॥ (५२।२)
svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam ||
समांशं सर्वमेतत् स्यात् सर्वतुल्यं च शुल्वकम् । (५३।१)
samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam |
सर्वमेतन्मृतं ग्राह्यं समगन्धकसंयुतम् ॥ (५३।२)
sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam ||
मर्दयेत् कङ्गुणीतैलैर्यावत्स्याद्दिवसाष्टकम् । (५४।१)
mardayet kaṅguṇītailairyāvatsyāddivasāṣṭakam |
ऊर्ध्वाधो गन्धकं दत्त्वा पुटेद्वाराणि विंशतिम् ॥ (५४।२)
ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim ||
श्वेतमुण्डीरसैः पश्चाद्भावयेत् सप्तवारकम् । (५५।१)
śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam |
इति सिद्धं प्रभावाढ्यं रम्यं नीलरसायनम् ॥ (५५।२)
iti siddhaṃ prabhāvāḍhyaṃ ramyaṃ nīlarasāyanam ||
निहन्ति सकलान्रोगान्गुञ्जामात्रं निषेवितम् । (५६।१)
nihanti sakalānrogānguñjāmātraṃ niṣevitam |
ज्वरं पाण्डुं क्षयं कासं शूलमर्शश्च गुल्मकम् ॥ (५६।२)
jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam ||
उदरं कुष्ठरोगं च श्वासं पञ्चविधं तथा । (५७।१)
udaraṃ kuṣṭharogaṃ ca śvāsaṃ pañcavidhaṃ tathā |
गोमेदरसायनगोमेदं गन्धयोगेन लकुचद्रवयोगिना । (५८।१)
gomedarasāyanagomedaṃ gandhayogena lakucadravayoginā |
पुटित्वा दशवारैश्च जातं भस्म पलोन्मितम् ॥ (५८।२)
puṭitvā daśavāraiśca jātaṃ bhasma palonmitam ||
निरुत्थं जायते भस्म सर्वथैव गुणाधिकम् ॥ (६०।२)
nirutthaṃ jāyate bhasma sarvathaiva guṇādhikam ||
पूर्वभस्मत्रयं क्षिप्त्वा विमिश्र्य च समाहरेत् ॥ (६१।२)
pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet ||
विचूर्ण्य मुण्डिकाद्रावैर्भावयेत् सप्तवारकम् । (६२।१)
vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam |
योज्यं सर्वेषु रोगेषु तत्तद्रोगानुपानतः ॥ (६३।२)
yojyaṃ sarveṣu rogeṣu tattadrogānupānataḥ ||
करोति दीपनं तीव्रं सर्वार्हं च प्रियंकरम् । (६४।१)
karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram |
परमं वृष्यमायुष्यं नेत्र्यं मुखगदापहम् ॥ (६४।३)
paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham ||
वैदूर्यरसायनकान्तकल्केन वैदूर्यं सह गन्धेन मारितम् । (६५।१)
vaidūryarasāyanakāntakalkena vaidūryaṃ saha gandhena māritam |
तयोः समं तीक्ष्णरजो मृतं रूप्यं च तत्समम् । (६६।१)
tayoḥ samaṃ tīkṣṇarajo mṛtaṃ rūpyaṃ ca tatsamam |
मृतं च विमलं सर्वैः समं सर्वं विमर्दितम् ॥ (६६।२)
mṛtaṃ ca vimalaṃ sarvaiḥ samaṃ sarvaṃ vimarditam ||
वालुकायन्त्रमध्यस्थं पक्षार्धं शनकैः पचेत् । (६८।१)
vālukāyantramadhyasthaṃ pakṣārdhaṃ śanakaiḥ pacet |
चिरबिल्वभवैस्तोयैर् विशोष्य च विचूर्ण्य च । (७०।१)
cirabilvabhavaistoyair viśoṣya ca vicūrṇya ca |
आर्द्रकद्रवसंयुक्तं गुञ्जामात्रं रसायनम् । (७१।१)
ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam |
दातव्यं चित्रतोयैर्वा सन्निपाते विसंज्ञके ॥ (७१।२)
dātavyaṃ citratoyairvā sannipāte visaṃjñake ||
दन्तबन्धे तु संजाते वल्लमात्रममुं रसम् । (७२।१)
dantabandhe tu saṃjāte vallamātramamuṃ rasam |
पादयोर्घर्षयेद्यत्नात् ततश्चेष्टामवाप्नुयात् ॥ (७२।२)
pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt ||
जातचेष्टस्य सलिलं मूर्ध्नि शीतं विनिक्षिपेत् । (७३।१)
jātaceṣṭasya salilaṃ mūrdhni śītaṃ vinikṣipet |
शतकुम्भमितं स्वादु तीव्रा क्षुज्जायते ततः ॥ (७३।२)
śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ ||
यत् किंचिद् याचते तस्मै तत्तद्देयमभीप्सितम् । (७४।१)
yat kiṃcid yācate tasmai tattaddeyamabhīpsitam |
धृतानि वा तानि समर्चितानि सुजातियुक्तानि च संस्तुतानि । (७७।१)
dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni |
हरन्ति रत्नान्यखिलं दुरिष्टं कुर्वन्त्यभीष्टं सततं यथेष्टम् ॥ (७७।२)
haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam ||
हरन्त्यलक्ष्मीं सततं समस्तान् दुष्कर्मजातान् इह सर्वरोगान् । (७८।१)
harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān |
आयुष्यकारीणि हितानि सर्वरत्नप्रसूतानि रसायनानि ॥ (७८।२)
āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni ||
Data courtesy of The Digital Corpus of Sanskrit.