रसेन्द्रचूडामणिRasendracūḍāmaṇi
RCūM, 14
Select a line for its word-by-word analysis.
वर्गस् ओड़् मेतल्स्शुद्धं लोहं कनकरजतं भानुलोहाश्मसारं पूतीलोहं द्वितयमुदितं नागवङ्गाभिधानम् । (१।१)
vargas of metalsśuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam |
मिश्रं लोहं त्रितयमुदितं पित्तलं कांस्यवर्तं धातुर् लोहे लुह इति मतः सोऽपि कषार्थवाची ॥ (१।२)
miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī ||
गोल्द्:: सुब्त्य्पेस्प्राकृतं सहजं वह्निसम्भूतं खनिसम्भवम् । (२।१)
gold:: subtypesprākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam |
रसेन्द्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम् ॥ (२।२)
rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam ||
प्राकृतब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु । (३।१)
prākṛtabrahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu |
तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम् ॥ (३।२)
tatprākṛtamiti proktaṃ devānāmapi durlabham ||
सहजब्रह्मा येनावृतो जातः सुवर्णेन जरायुणा । (४।१)
sahajabrahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā |
वह्निसम्भवविसृष्टमग्निना शैवं तेजः पीतं सुदुःसहम् । (५।१)
vahnisambhavavisṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham |
अभूत्स्वर्णं तदुद्दिष्टं सुवर्णं वह्निसंभवम् ॥ (५।२)
abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam ||
एतत् स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् । (६।१)
etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam |
खनिजतत्र तत्र गिरीणां हि जातं खनिषु यद्भवेत् । (७।१)
khanijatatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet |
तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत् ॥ (७।२)
taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt ||
वेधजरसेन्द्रवेधसम्भूतं तद्वेधजमुदाहृतम् । (८।१)
vedhajarasendravedhasambhūtaṃ tadvedhajamudāhṛtam |
रसायनं महाश्रेष्ठं पापघ्नं वेधजं हि तत् ॥ (८।२)
rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat ||
तारार्करीतीतरलोहकुञ्जरं वङ्गाभ्रकं माक्षिकवङ्गपारदम् । (९।१)
tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam |
यत्तारजं हि प्रवदन्ति रागतः स्वर्णं कलावर्णचतुर्गुणं हि ॥ (९।२)
yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi ||
गोल्द्:: परीक्षा:: गोओद् क़ुअलित्य्घृष्टं वर्णे घुसृणसदृशं रक्तवर्णं च दाहे छेदे किंचित् सितम् अकपिलं निर्दलं भूरिभारम् । (१०।१)
gold:: parīkṣā:: good qualityghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram |
स्निग्धं स्वर्णं रविविरहितं स्त्यानरक्तप्रभाढ्यं श्रेष्ठं दिष्टम् अतुलितलसच्चारुवर्णं च स्वर्णम् ॥ (१०।२)
snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam ||
गोल्द्:: परीक्षा:: बद् क़ुअलित्य्रूक्षं विवर्णं मलिनं कठोरं कृष्णं च दाहे निकषे च पाण्डु । (११।१)
gold:: parīkṣā:: bad qualityrūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu |
स्थूलाङ्गकं निर्भरकं कडारं स्फुटत्सुवर्णं दशधा न शस्तम् ॥ (११।२)
sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam ||
मिश्रलोह:: प्रोदुच्तिओन्स्वर्णरूप्यादिसंयोगान्मिश्रलोहं प्रजायते । (१२।१)
miśraloha:: productionsvarṇarūpyādisaṃyogānmiśralohaṃ prajāyate |
शोधन:: उसे ओड़् ~स्वर्णकार्यं न तेन स्यात्तस्मात् शुद्धिर् विधीयते । (१२।२)
śodhana:: use of ~svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate |
शोध्यं न केवलं स्वर्णं लोहान्यन्यानि शोधयेत् ॥ (१२।३)
śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet ||
गोल्द्:: रेड़्रेस्हिन्ग् इत्स् चोलोउर् (?)कर्षप्रमाणं तु सुवर्णपत्रं शरावरुद्धं पटुधातुयुक्तम् । (१३।१)
gold:: refreshing its colour (?)karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam |
अङ्गारसंस्थं प्रहरार्धमानं ध्मातेन तत्स्यान्ननु पूर्णवर्णम् ॥ (१३।२)
aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam ||
मेतल्स्:: मारण:: त्य्पेस्लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना । (१४।१)
metals:: māraṇa:: typeslohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā |
मूलीभिर्मध्यमं प्राहुर्निकृष्टं गन्धकादिभिः ॥ (१४।२)
mūlībhirmadhyamaṃ prāhurnikṛṣṭaṃ gandhakādibhiḥ ||
गोल्द्:: मारणकृत्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् ॥ (१५।२)
gold:: māraṇakṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet ||
लुङ्गाम्बुभस्मसूतेन म्रियन्ते दशभिः पुटैः । (१६।१)
luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ |
गोल्द्:: मारणद्रुते विनिक्षिपेत् स्वर्णे लोहमानं मृतं रसम् ॥ (१६।२)
gold:: māraṇadrute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam ||
जायते कुङ्कुमच्छायं स्वर्णं द्वादशभिः पुटैः ॥ (१७।२)
jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ ||
गोल्द्:: मारण:: अपुनर्भवश्लेष्मान्तकाण्डेन सकाञ्चनारजटापुटैः कुक्कुटनामधेयैः । (१८।१)
gold:: māraṇa:: apunarbhavaśleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ |
त्रिंशत्प्रमाणैर् अपुनर्भवं स्यान्निःशेषयोगेषु च योजनीयम् ॥ (१८।२)
triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam ||
गोल्द्:: मारणसूतेन पिष्टिकां कृत्वा स्वर्णं रुद्ध्वा शरावके । (१९।१)
gold:: māraṇasūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake |
स्वल्पनीलाञ्जनोपेतं दग्धं स्वल्पैर्वनोत्पलैः ॥ (१९।२)
svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ ||
गोल्द्:: मारणस्नुग्दुग्धहिङ्गुहिङ्गूलशिलासिन्दूरकाम्लकैः ॥ (२०।२)
gold:: māraṇasnugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ ||
गोल्द्:: मृत:: मेदिच्। प्रोपेर्तिएस्स्निग्धं मेध्यं विषगरहरं बृंहणं वृष्यमग्र्यं यक्ष्मोन्मादप्रशमनपरं देहरोगप्रमाथि । (२२।१)
gold:: mṛta:: medic. propertiessnigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi |
मेधाबुद्धिस्मृतिसुखकरं सर्वदोषामयघ्नं रुच्यं दीपि प्रशमितजरं स्वादुपाकं सुवर्णम् ॥ (२२।२)
medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam ||
गोल्द्:: मृत:: मेदिच्। उसेएतद्भस्म सुवर्णजं कटुघृतोपेतं द्विगुञ्जोन्मितं लीढं हन्ति नृणां क्षयाग्निसदनं श्वासं सकासारुचिम् । (२३।१)
gold:: mṛta:: medic. useetadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim |
ओजोधातुविवर्धनं बलकरं पाण्ड्वामयध्वंसनं वृष्यं सर्वविषापहं गरहरं दुष्टग्रहण्यादिनुत् ॥ (२३।२)
ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut ||
विना बिल्वफलं चात्र सर्वमन्यत् प्रशस्यते । (२५।१)
vinā bilvaphalaṃ cātra sarvamanyat praśasyate |
दशाब्दसेवितं स्वर्णं स्वेच्छाहारविहारिणम् । (२५।२)
daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam |
न कश्चिद्बाधते व्याधिर्यावदायुर्न संशयः ॥ (२५।३)
na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ ||
सिल्वेर्:: सुब्त्य्पेस्सहजं खनिसंजातं कृत्रिमं च त्रिधा मतम् । (२६।१)
silver:: subtypessahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam |
रजतं पूर्वपूर्वं हि स्वगुणैरुत्तमोत्तमम् ॥ (२६।२)
rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam ||
सिल्वेर्:: सहजकैलासाद्यद्रिसम्भूतं रजतं सहजं भवेत् । (२७।१)
silver:: sahajakailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet |
तत्स्पृष्टं हि महाव्याधिनाशनं देहिनां भवेत् ॥ (२७।२)
tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet ||
सिल्वेर्:: खनिजहिमाचलाद्रिकूटेषु यद् रूप्यं जायते हि तत् । (२८।१)
silver:: khanijahimācalādrikūṭeṣu yad rūpyaṃ jāyate hi tat |
खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनम् ॥ (२८।२)
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam ||
सिल्वेर्:: पादरूप्यश्रीरामपादुकान्यस्तं वङ्गं यद्रूप्यतां गतम् । (२९।१)
silver:: pādarūpyaśrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam |
तत् पादरूप्यम् इत्युक्तं कृत्रिमं सर्वरोगनुत् ॥ (२९।२)
tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut ||
सिल्वेर्:: परीक्षा:: गोओद् क़ुअलित्य्घनं स्निग्धं मृदु स्वच्छं दाहे छेदे सितं गुरु । (३०।१)
silver:: parīkṣā:: good qualityghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru |
शङ्खाभं मसृणं स्फोटरहितं रजतं शुभम् ॥ (३०।२)
śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham ||
सिल्वेर्:: परीक्षा:: बद् क़ुअलित्य्दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु । (३१।१)
silver:: parīkṣā:: bad qualitydāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu |
स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यम् अष्टधा ॥ (३१।२)
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā ||
सिल्वेर्:: शोधनखर्परे भस्मचूर्णाभ्यां परितः पालिकां चरेत् । (३२।१)
silver:: śodhanakharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret |
तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् ॥ (३२।२)
tatra rūpyaṃ vinikṣipya samasīsasamanvitam ||
स्वच्छं संशोधितं रूप्यं योजनीयं रसादिषु ॥ (३३।२)
svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu ||
सिल्वेर्:: मारणलकुचद्रवसूताभ्यां तारपिष्टीं प्रकल्पयेत् । (३४।१)
silver:: māraṇalakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet |
ऊर्ध्वाधो गन्धकं दत्त्वा मूषागर्भे निरुध्य च ॥ (३४।२)
ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca ||
स्वेदयेद् वालुकायन्त्रे दिनमेकं दृढाग्निना । (३५।१)
svedayed vālukāyantre dinamekaṃ dṛḍhāgninā |
स्वाङ्गशीतां च तां पिष्टीं साम्लतालेन मर्दिताम् ॥ (३५।२)
svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām ||
सिल्वेर्:: मारणमाक्षीकचूर्णलुङ्गाम्लमर्दितं पुटितं शनैः ॥ (३६।२)
silver:: māraṇamākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ ||
त्रिंशद्वारेण तत्तारं भस्म संजायतेतराम् । (३७।१)
triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām |
एड़्ड़ेच्त् ओड़् मारण ओड़् अ भस्मन्रागः स्यात् सर्वलोहानां पुटाधिक्ये न संशयः । (३७।२)
effect of māraṇa of a bhasmanrāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ |
सिल्वेर्:: मृत:: मेदिच्। प्रोपेर्तिएस्रूप्यं विपाकमधुरं तुवराम्लसारं शीतं सरं परमलेखनकं च रुच्यम् । (३८।१)
silver:: mṛta:: medic. propertiesrūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam |
स्निग्धं च वातकफजिज्जठराग्निदीपि बल्यप्रदं स्थिरवयस्करणं च वृष्यम् ॥ (३८।२)
snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam ||
सिल्वेर्:: मृत:: मेदिच्। उसेभस्मीभूतं रजतममलं तत्समौ व्योमभानू सर्वैस्तुल्यं त्रिकटुकलितं सारघाज्येन युक्तम् । (३९।१)
silver:: mṛta:: medic. usebhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam |
लीढं प्रातः क्षपयतितरां यक्ष्मपाण्डूदरार्शः कासं श्वासं नयनजरुजः पित्तरोगानशेषान् ॥ (३९।२)
līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān ||
चोप्पेर्:: सुब्त्य्पेस्म्लेच्छं नेपालकं चेति तयोर्नेपालमुत्तमम् । (४०।१)
copper:: subtypesmlecchaṃ nepālakaṃ ceti tayornepālamuttamam |
नेपालादन्यखन्युत्थं म्लेच्छमित्यभिधीयते ॥ (४०।२)
nepālādanyakhanyutthaṃ mlecchamityabhidhīyate ||
म्लेच्छताम्र:: फ्य्स्। प्रोपेर्तिएस्सितकृष्णारुणच्छायं वामि भेदि कठोरकम् । (४१।१)
mlecchatāmra:: phys. propertiessitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam |
क्षालितं च पुनः कृष्णमेतन्म्लेच्छकताम्रकम् ॥ (४१।२)
kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam ||
नेपालताम्र:: फ्य्स्। प्रोपेर्तिएस्सुस्निग्धं मृदुलं शोणं घनाघातक्षमं गुरु । (४२।१)
nepālatāmra:: phys. propertiessusnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru |
निर्विकारं गुणैः श्रेष्ठं ताम्रं नेपालमुच्यते ॥ (४२।२)
nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate ||
चोप्पेर्:: परीक्षा:: बद् क़ुअलित्य्पाण्डुरं कृष्णशोणं च लघुस्फुटनसंयुतम् । (४३।१)
copper:: parīkṣā:: bad qualitypāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam |
रूक्षाङ्गं सदलं ताम्रं नेष्यते रसकर्मणि ॥ (४३।२)
rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi ||
चोप्पेर्:: अशुद्ध:: दोषौत्क्लेदमोहभ्रमदाहभेदास्ताम्रस्य दोषाः खलु दुर्धरास्ते । (४४।१)
copper:: aśuddha:: doṣautkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste |
विशोधनात् तद् विगतस्वदोषं सुधामयं स्याद्रसवीर्यपाके ॥ (४४।२)
viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke ||
चोप्पेर्:: शोधनताम्रं क्षाराम्लसंयुक्तं द्रावितं दत्तगैरिकम् । (४५।१)
copper:: śodhanatāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam |
पञ्चदोषविनिर्मुक्तं भस्मयोग्यं च जायते । (४६।१)
pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate |
ताम्रशोधनम्ताम्रनिर्दलपत्राणि विलिप्तानि तु सिन्धुना ॥ (४६।२)
tāmraśodhanamtāmranirdalapatrāṇi viliptāni tu sindhunā ||
ध्मात्वा सौवीरके क्षेपाद् विशुध्यन्त्यष्टवारतः । (४७।१)
dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ |
चोप्पेर्:: शोधननिम्बाम्बुपटुलिप्तानि तापितान्यष्टवारकम् ॥ (४७।२)
copper:: śodhananimbāmbupaṭuliptāni tāpitānyaṣṭavārakam ||
विशुध्यन्त्यर्कपत्राणि निर्गुण्ड्या रसमज्जनात् । (४८।१)
viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt |
चोप्पेर्:: शोधनतालपत्रसमाभानि ताम्रपत्राणि कारयेत् ॥ (४८।२)
copper:: śodhanatālapatrasamābhāni tāmrapatrāṇi kārayet ||
निष्क्वाथ्य काञ्जिके यामं भस्मना परिशोध्य च । (४९।१)
niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca |
यामं क्षीरेण निष्क्वाथ्य तत्रैव स्थापयेद्दिनम् ॥ (४९।२)
yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam ||
ध्मात्वाजामूत्रमध्ये तु सकृदेव निमज्जयेत् । (५१।१)
dhmātvājāmūtramadhye tu sakṛdeva nimajjayet |
ताम्रस्यार्धं ससिन्धूत्थैः पक्वनिम्बुकवारिभिः ॥ (५१।२)
tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ ||
लिप्त्वा ध्मात्वा क्षिपेत्तक्रे महिषीछगणान्विते । (५२।१)
liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite |
तत्ताम्रं तुल्यभागेन हेममाक्षिकसंयुतम् ॥ (५२।२)
tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam ||
विना ताप्यैस्त्रिवारं च चक्रिकां कल्पयेत्ततः ॥ (५३।२)
vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ ||
ततस्त्रिकटुकक्वाथे त्रिदिनं स्थापयेत्ततः । (५४।१)
tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ |
उत्क्वाथ्य भस्मना मृज्य जलैः प्रक्षाल्य सारघैः ॥ (५४।२)
utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ ||
पुटेद् वनोत्पलैस्ताम्रं भवेत् स्वर्णसमं गुणैः ॥ (५५।२)
puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ ||
कुमारीपत्रमध्ये तु शुल्बपत्रं निवेशितम् । (५६।१)
kumārīpatramadhye tu śulbapatraṃ niveśitam |
पुटितं दोषनिर्मुक्तं पाण्डुरं च प्रजायते ॥ (५६।२)
puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate ||
इत्थं विशोधितं ताम्रं सर्वदोषविवर्जितम् । (५७।१)
itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam |
इमां शुद्धिं विजानाति शिवो वा नन्दिकेश्वरः । (५८।१)
imāṃ śuddhiṃ vijānāti śivo vā nandikeśvaraḥ |
सर्वलोकाश्रयः श्रीमान् सोमदेवो न चापरः ॥ (५८।२)
sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ ||
चोप्पेर्:: मारणबलिना निहतं ताम्रं सप्तवारं समुत्थितम् । (५९।१)
copper:: māraṇabalinā nihataṃ tāmraṃ saptavāraṃ samutthitam |
ताम्रपत्राणि संस्थाप्य स्थालीमध्ये निरुध्य च ॥ (६०।२)
tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca ||
याममात्रं पचेत् सम्यक् मृतान्याकृष्य चूर्णयेत् । (६१।१)
yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet |
चोप्पेर्:: मृत:: मेदिच्। उसेतद्भस्म वल्लमात्रं हि ताम्बूलीदलवेष्टितम् ॥ (६१।२)
copper:: mṛta:: medic. usetadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam ||
भक्षितं वामयित्वाथ रेचयित्वा द्वियामतः । (६२।१)
bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ |
ज्वरं विनाशयेन्नॄणां शूलाध्मानसमन्वितम् ॥ (६२।२)
jvaraṃ vināśayennṝṇāṃ śūlādhmānasamanvitam ||
पथ्यमत्र प्रदातव्यं गोतक्रं भक्तसंयुतम् ॥ (६३।२)
pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam ||
तत्तदौचित्ययोगेन कुर्याच्छीतां प्रतिक्रियाम् ॥ (६४।२)
tattadaucityayogena kuryācchītāṃ pratikriyām ||
अतिवान्तौ भजेद्भृष्टमिक्षुखण्डं तु शीतलम् । (६५।१)
ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam |
यद्वा बिल्वभवं क्वाथं सितया सह पाययेत् ॥ (६५।२)
yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet ||
चोप्पेर्:: मारणशुल्बतुल्येन सूतेन बलिना तत्समेन च ॥ (६६।२)
copper:: māraṇaśulbatulyena sūtena balinā tatsamena ca ||
विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसन्निभाम् ॥ (६७।२)
vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām ||
यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे । (६८।१)
yantrādhyāyavinirdiṣṭagarbhayantrodarāntare |
कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत् । (६८।२)
kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet |
प्रपचेद्यामपर्यन्तं स्वाङ्गशीतं प्रचूर्णयेत् ॥ (६८।३)
prapacedyāmaparyantaṃ svāṅgaśītaṃ pracūrṇayet ||
चोप्पेर्:: मृत:: मेदिच्। प्रोपेर्तिएस्ताम्रं तिक्तकषायकं च मधुरं पाके च वीर्योष्णकं साम्लं पित्तकफापहं जठररुक्कुष्ठामजूर्त्त्यन्तकृत् । (६९।१)
copper:: mṛta:: medic. propertiestāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt |
ऊर्ध्वाधः परिशोधनं विषयकृत्स्थौल्यापहं क्षुत्करं दुर्नामक्षयपाण्डुरोगशमनं नेत्र्यं परं लेखनम् ॥ (६९।२)
ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam ||
तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितं संलीढं परिणामशूलमुदरं शूलं च पाण्डुं ज्वरम् । (७०।१)
tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram |
गुल्मप्लीहयकृत्क्षयाग्निसदनं मेहं च मूलामयं दुष्टां च ग्रहणीं हरेद् ध्रुवमिदं तत्सोमनाथाभिधम् ॥ (७०।२)
gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham ||
नान्यन्निःशेषदोषघ्नं वृष्यं स्वस्थोचितं नॄणाम् ॥ (७१।२)
nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nṝṇām ||
चोप्पेर्:: मारणबलिना पलमात्रेण तद्द्रव्ये रजसंमितैः । (७२।१)
copper:: māraṇabalinā palamātreṇa taddravye rajasaṃmitaiḥ |
कृत्वा चूर्णं हि जम्बीरद्रवेणातिद्रवीकृतम् ॥ (७३।२)
kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam ||
तत्सर्वं खल्वके भाण्डे विनिक्षिप्य ततः परम् । (७४।१)
tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param |
लिप्तपादांशसूतानि तस्मिन् कल्के निगूहयेत् ॥ (७४।३)
liptapādāṃśasūtāni tasmin kalke nigūhayet ||
एतत् सर्वगुणाढ्यताप्रभवितं श्रीसोमदेवोदितं गुञ्जायुग्ममितं कणाज्यसहितं संसेवितं हन्ति वै । (७५।१)
etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai |
गुल्मप्लीहयकृद्विबन्धजठरं शूलाग्निमान्द्यामयं वातश्लेष्मसशोषपाण्डुनिवहं जूर्त्त्यामयं भक्षितम् ॥ (७५।२)
gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam ||
पथ्यं रोगोचितं देयं रसमम्लं विवर्जयेत् । (७६।१)
pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet |
एतत्सात्म्यीकृतं येन तेन मृत्युर् विनिर्जितः ॥ (७६।२)
etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ ||
इरोन्:: सुब्त्य्पेस्मुण्डं तीक्ष्णं च कान्तं च त्रिःप्रकारमयः स्मृतम् । (७७।१)
iron:: subtypesmuṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam |
मुण्ड:: सुब्त्य्पेस्मृदु कुण्ठं कडारं च त्रिविधं मुण्डमुच्यते ॥ (७७।२)
muṇḍa:: subtypesmṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate ||
मृदु:: फ्य्स्। प्रोपेर्तिएस्द्रुतद्रावम् अविस्फोटं चिक्कणं मृदुलं शुभम् । (७८।१)
mṛdu:: phys. propertiesdrutadrāvam avisphoṭaṃ cikkaṇaṃ mṛdulaṃ śubham |
कुण्ठ:: फ्य्स्। प्रोपेर्तिएस्हतं यत्प्रसरेद्दुःखं तन्मुण्डं मध्यमं स्मृतम् । (७८।२)
kuṇṭha:: phys. propertieshataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam |
कडार:: फ्य्स्। प्रोपेर्तिएस्यन्मुण्डं भज्यते भङ्गे कृष्णं स्यात्तत्कडारकम् ॥ (७८।३)
kaḍāra:: phys. propertiesyanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam ||
मुण्ड:: मृदु:: मेदिच्। प्रोपेर्तिएस्मुण्डं परं मृदुलकं कफवातशूलमूलाममेहगदकामलपाण्डुहारि । (७९।१)
muṇḍa:: mṛdu:: medic. propertiesmuṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri |
गुल्मामवातजठरार्त्तिहरं प्रदीपि शोफापहं रुधिरकृत् खलु कोष्ठशोधि ॥ (७९।२)
gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi ||
तीक्ष्णलोह:: सुब्त्य्पेस्खरं सारं च होन्नालं तारापट्टं च भाजरम् । (८०।१)
tīkṣṇaloha:: subtypeskharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram |
काललोहाभिधानं च षड्विधं तीक्ष्णमुच्यते ॥ (८०।२)
kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate ||
खरलोह:: फ्य्स्। प्रोपेर्तिएस्परुषं पोगरोन्मुक्तं भङ्गे पारदसच्छविः । (८१।१)
kharaloha:: phys. propertiesparuṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ |
सार:: फ्य्स्। प्रोपेर्तिएस्वेगभङ्गुरधारं यत्सारलोहं तदीरितम् । (८२।१)
sāra:: phys. propertiesvegabhaṅguradhāraṃ yatsāralohaṃ tadīritam |
होन्नाल:: फ्य्स्। प्रोपेर्तिएस्कृष्णपाण्डुवपुश्चञ्चुबीजतुल्योरुयोगरम् । (८३।१)
honnāla:: phys. propertieskṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram |
भाजर:: फ्य्स्। प्रोपेर्तिएस्योगरैर् वज्रसङ्काशैः सूक्ष्मरेखैश्च सान्द्रकैः । (८४।१)
bhājara:: phys. propertiesyogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ |
निचितं श्यामलाङ्गं च भाजरं तत् प्रकीर्तितम् ॥ (८४।२)
nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam ||
काललोह:: फ्य्स्। प्रोपेर्तिएस्नीलकृष्णप्रभं सान्द्रं मसृणं गुरु भासुरम् । (८५।१)
kālaloha:: phys. propertiesnīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram |
लोहाघातेऽप्यभग्नात्मधारं कालायसं मतम् ॥ (८५।२)
lohāghāte'pyabhagnātmadhāraṃ kālāyasaṃ matam ||
खरलोहात् परं सर्वमेकैकस्माच्छतोत्तरम् ॥ (८६।०)
kharalohāt paraṃ sarvamekaikasmācchatottaram ||
खरलोह:: मेदिच्। प्रोपेर्तिएस्रूक्षं स्यात् खरलोहकं सुमधुरं पाके च वीर्ये हिमं तिक्तोष्णं कफपित्तकुष्ठजठरप्लीहामपाण्ड्वर्तिनुत् । (८७।१)
kharaloha:: medic. propertiesrūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut |
सद्यः शूलयकृद्गदक्षयजरामेहामवातापहं दीप्तं चातिरसायनं बलकरं दुर्नाममेदोऽपहम् ॥ (८७।२)
sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham ||
कान्तलोह:: सुब्त्य्पेस्कान्तलोहं चतुर्धोक्तं रोमकं भ्रामकं तथा । (८८।१)
kāntaloha:: subtypeskāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā |
चुम्बकं द्रावकं चेति तेषु श्रेष्ठं परं परम् ॥ (८८।२)
cumbakaṃ drāvakaṃ ceti teṣu śreṣṭhaṃ paraṃ param ||
रोमक:: ओरिगिन्खन्यमानाद् यतः कान्तपाषाणान्निःसरन्ति हि । (८९।१)
romaka:: originkhanyamānād yataḥ kāntapāṣāṇānniḥsaranti hi |
सतेजांसि हि रोमाणि कान्तं तद्रोमकं मतम् ॥ (८९।२)
satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam ||
भ्रामक:: ओरिगिन्क्वापि क्वापि गिरिश्रेष्ठे सुलभो भ्रामकोपलः । (९०।१)
bhrāmaka:: originkvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ |
तन्मुखे क्षेपणाल्लोहं चक्रवद् भ्रमति ध्रुवम् ॥ (९०।२)
tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam ||
चुम्बक:: ओरिगिन्विन्ध्याद्रौ चुम्बकाश्मानश्चुम्बन्त्यायसकीलकम् । (९१।१)
cumbaka:: originvindhyādrau cumbakāśmānaścumbantyāyasakīlakam |
क्षिप्रं समाहरत्येव यूनां चित्तमिवाङ्गना ॥ (९१।२)
kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā ||
द्रावक:: ओरिगिन्यत्स्पृष्ट्वा द्रावयेल्लोहं सुवर्णाद्यम् अशेषतः । (९२।१)
drāvaka:: originyatspṛṣṭvā drāvayellohaṃ suvarṇādyam aśeṣataḥ |
कान्तलोह:: परीक्षापात्रे यस्य प्रसरति जले तैलबिन्दुर्न लिप्तो हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्कः । (९३।१)
kāntaloha:: parīkṣāpātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ |
पाच्यं दुग्धं भवति शिखराकारकं नैति भूमौ कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥ (९३।२)
pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat ||
कान्तलोह:: मेदिच्। प्रोपेर्तिएस्कान्तायो ऽतिरसायनोत्तरतरं स्वस्थे चिरायुःप्रदं स्निग्धं मेहहरं त्रिदोषशमनं शूलाममूलापहम् । (९४।१)
kāntaloha:: medic. propertieskāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham |
गुल्मप्लीहयकृत्क्षयामयहरं पाण्डूदरव्याधिनुत् तिक्तोष्णं हिमवीर्यकं किमपरं योगेन सर्वार्तिनुत् ॥ (९४।२)
gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut ||
लक्षोत्तरगुणं सर्वं लोहं स्याद् उत्तरोत्तरम् । (९५।१)
lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram |
कान्तं कोटिगुणं तत्र तदप्येवं गुणोत्तरम् ॥ (९५।२)
kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram ||
इरोन्:: शोधनशशक्षतजसंलिप्तं त्रिवारं परितापितम् । (९६।१)
iron:: śodhanaśaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam |
लोहशोधन (२)सामुद्रलवणोपेतं तप्तं निर्वापितं खलु । (९७।१)
lohaśodhana (2)sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu |
त्रिफलाक्वथिते नूनं गिरिदोषम् अयस्त्यजेत् ॥ (९७।२)
triphalākvathite nūnaṃ giridoṣam ayastyajet ||
लोहशोधन (३)चिञ्चाफलदलक्वाथादयो दोषमुदस्यति । (९८।१)
lohaśodhana (3)ciñcāphaladalakvāthādayo doṣamudasyati |
लोहशोधन (४)यद्वा फलत्रयोपेतं गोमूत्रे क्वथितं क्षणम् ॥ (९८।२)
lohaśodhana (4)yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam ||
इरोन्:: मारण:: वारितररेतितं घृतसंसिक्तं क्षिप्त्वायः खर्परे पचेत् । (९९।१)
iron:: māraṇa:: vāritararetitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet |
चालयन् लोहदण्डेन यावत् क्षिप्तं तृणं दहेत् ॥ (९९।२)
cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet ||
पिष्ट्वा पिष्ट्वा पचेदेवं पञ्चवारमतः परम् । (१००।१)
piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param |
धात्रीपत्ररसैर्यद्वा त्रिफलाक्वथितोदकैः ॥ (१००।२)
dhātrīpatrarasairyadvā triphalākvathitodakaiḥ ||
पुटेल्लोहं चतुर्वारं भवेद्वारितरं खलु । (१०१।१)
puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu |
तीक्ष्णलोह:: मारणतीक्ष्णलोहस्य पत्राणि निर्दलानि दृढानले ॥ (१०१।२)
tīkṣṇaloha:: māraṇatīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale ||
ध्मात्वा क्षिप्त्वा जले सद्यः पाषाणोलूखलोदरे । (१०२।१)
dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare |
तन्मध्यात् स्थूलखण्डानि रुद्ध्वा मल्लद्वयान्तरे । (१०३।१)
tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare |
ध्मात्वा सिक्त्वा जलैः सम्यक् पूर्ववत् कण्डयेत् खलु ॥ (१०३।२)
dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu ||
तच्चूर्णं गुडगन्धाभ्यां पुटेद् विंशतिवारकम् । (१०४।१)
taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam |
पुटे पुटे विधातव्यं पेषणं दृढवत्तरम् ॥ (१०४।२)
puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram ||
एवं भस्मीकृतं लोहं तत्तद्रोगेषु योजयेत् । (१०५।१)
evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet |
तीक्ष्णलोह:: मारणअथ पूर्वोदितं तीक्ष्णं वसुभल्लकवासयोः ॥ (१०५।२)
tīkṣṇaloha:: māraṇaatha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ ||
पुटितं पत्रतोयेन त्रिंशद्वाराणि यत्नतः । (१०६।१)
puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ |
शोणितं जायते भस्म कृतसिन्दूरविभ्रमम् ॥ (१०६।२)
śoṇitaṃ jāyate bhasma kṛtasindūravibhramam ||
इरोन्:: मारणयद्वा तीक्ष्णदलोद्भूतं रजस् तत् त्रिफलाजलैः । (१०७।१)
iron:: māraṇayadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ |
पिष्ट्वा दत्त्वौदनं किंचिच्चक्रिकां प्रविधाय च ॥ (१०७।२)
piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca ||
शोषयित्वातियत्नेन प्रपचेत् पञ्चभिः पुटैः । (१०८।१)
śoṣayitvātiyatnena prapacet pañcabhiḥ puṭaiḥ |
रक्तवर्णं हि तद्भस्म योजनीयं यथायथम् ॥ (१०८।२)
raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham ||
इरोन्:: मारण:: निरुत्थमत्स्याक्षीगन्धवाह्लीकैर् लकुचद्रवपेषितैः । (१०९।१)
iron:: māraṇa:: nirutthamatsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ |
विलिप्य सकलं लोहं मत्स्याक्षीकल्कगोपितम् ॥ (१०९।२)
vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam ||
भस्त्राभ्यां सुदृढं ध्मात्वा त्रिशूलीनिर्गमावधि । (११०।१)
bhastrābhyāṃ sudṛḍhaṃ dhmātvā triśūlīnirgamāvadhi |
अथोद्धृत्य क्षिपेत्क्वाथे त्रिफलागोजलात्मके ॥ (११०।२)
athoddhṛtya kṣipetkvāthe triphalāgojalātmake ||
पुनश्च पूर्ववद् ध्मात्वा मारयेदखिलायसम् ॥ (१११।२)
punaśca pūrvavad dhmātvā mārayedakhilāyasam ||
पुटेद् विंशतिवारेण निरुत्थं जायते ध्रुवम् ॥ (११२।२)
puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam ||
इरोन्:: मारणसमगन्धम् अयश्चूर्णं कुमारीवारिमर्दितम् । (११३।१)
iron:: māraṇasamagandham ayaścūrṇaṃ kumārīvārimarditam |
पुञ्जीकृतं कियत्कालं छायास्थं म्रियते ह्ययः ॥ (११३।२)
puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ ||
इरोन्:: मृत:: मेदिच्। उसेएतत्स्यादपुनर्भवं हि भसितं लोहस्य दिव्यामृतं सम्यक् सिद्धरसायनं त्रिकटुकीवेल्लाज्यमध्वन्वितम् । (११४।१)
iron:: mṛta:: medic. useetatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam |
हन्यान्निष्कमितं जरां च मरणं व्याधींश्च सत्पुत्रदं दिष्टं श्रीगिरिशेन कालयवनोद्भूत्यै पुरा तत्पितुः ॥ (११४।२)
hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ ||
जायते च सुतः श्रीमान् धीधैर्य्यबलसंयुतः ॥ (११५।२)
jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ ||
काललोह, कान्तलोह:: हिघ् क़ुअलित्य् ओड़् भस्मन्काललोहेन कान्तेन भस्मैतत्परिकल्पयेत् । (११६।१)
kālaloha, kāntaloha:: high quality of bhasmankālalohena kāntena bhasmaitatparikalpayet |
इरोन्:: मारणमत्स्याक्षीक्षीरगन्धाश्मपिष्टं वेति तदायसम् । (११७।१)
iron:: māraṇamatsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam |
विंशतिः पुटितं वारान्निरुत्थं भस्म जायते ॥ (११७।२)
viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate ||
इरोन्:: मृत:: मेदिच्। उसेतदष्टपलिकं भस्म मूत्रैर् अष्टगुणैर् गवाम् । (११८।१)
iron:: mṛta:: medic. usetadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām |
पचेल्लोहमये पात्रे लोहदर्व्या विघट्टयेत् ॥ (११८।२)
pacellohamaye pātre lohadarvyā vighaṭṭayet ||
इत्थं सिद्धमिदं लोहं वल्लद्वितयसंमितम् । (११९।१)
itthaṃ siddhamidaṃ lohaṃ valladvitayasaṃmitam |
निहन्ति सकलान्रोगांस्तत्तद्दोषसमुद्भवान् ॥ (११९।२)
nihanti sakalānrogāṃstattaddoṣasamudbhavān ||
क्षयं पाण्डुगदं गुल्मं शूलं मूलामयं तथा । (१२०।१)
kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā |
मेहं मेदोऽग्निमान्द्यं च यकृत्प्लीहं च कामलाम् ॥ (१२०।२)
mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām ||
श्वासं कासं च कुष्ठं च ज्वरं शूलान्वितं तथा ॥ (१२१।०)
śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā ||
कान्तलोह:: मेदिच्। उसेकान्तं तुल्याभ्रसत्त्वं चरणपरिमितं हेम तत्तुल्यमर्कं वैक्रान्तं ताप्यरूप्यं क्रिमिरिपुकटुकैस् तुल्यभागैः समेतम् । (१२२।१)
kāntaloha:: medic. usekāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam |
लीढं देवद्रुतैलैः प्रवितरति नृणां देहसिद्धिं समृद्धां पथ्यं पूर्वोक्तवत् तद्धरति च सकलं रोगपूगं जवेन ॥ (१२२।२)
līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena ||
तदेतत्सर्वरोगघ्नं रम्यं कान्तरसायनम् । (१२३।१)
tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam |
बल्यं वृष्यं सुपुत्रीयं मङ्गल्यं दीपनं परम् ॥ (१२३।२)
balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param ||
इरोन्:: मारणपलार्धं रेतितं लोहं बालबिल्वफलाम्बुना । (१२४।१)
iron:: māraṇapalārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā |
पिष्ट्वा पिष्ट्वा पचेत्क्षिप्रं भस्मसाज्जायते खलु ॥ (१२४।२)
piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu ||
तथा लिङ्गीफलाम्भोभिर् धात्रीफलरसेन च । (१२५।१)
tathā liṅgīphalāmbhobhir dhātrīphalarasena ca |
इरोन्:: मृत:: मेदिच्। उसेपुनर्भूसिन्ध्वपामार्गवज्रिणीतिन्तिडीत्वचाम् । (१२६।१)
iron:: mṛta:: medic. usepunarbhūsindhvapāmārgavajriṇītintiḍītvacām |
क्षारैः सर्वायसां भस्म सेवितं शाणमात्रतः ॥ (१२६।२)
kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ ||
क्वाथं त्रिफलासंयुक्तं प्रतिमासं पिबेन्नरः । (१२७।१)
kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ |
मण्डूरलोहकिट्टविशुद्ध्यर्थं जायते चान्यथाश्मरी ॥ (१२७।२)
maṇḍūralohakiṭṭaviśuddhyarthaṃ jāyate cānyathāśmarī ||
नन्दिना तु विशुद्ध्यर्थं लोहं प्रोक्तं सुधासमम् ॥ (१२८।२)
nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam ||
इरोन् (?):: मेदिच्। उसेरात्रौ कान्तशरावके स्थितवरामित्राजलैः स्वादुभिः प्रातर्मुष्टिमितं खलु प्रतिदिनं षण्मासम् आसेवितम् । (१२९।१)
iron (?):: medic. userātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam |
हन्यात्पित्तकफामयान् बहुविधान्कुष्ठप्रमेहांस्तथा पाण्डुं यक्ष्मगदं च कामलगदं मूलामयं वातजान् ॥ (१२९।२)
hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān ||
इरोन्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसशोधितायः सपुनर्भवं तद्गुणं प्रदर्श्याल्पमथ प्रकुर्यात् । (१३०।१)
iron:: aśuddha:: medic. propertiesaśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt |
आमाग्निमान्द्यारुचिगुल्मशोफविड्भेदम् आलस्यम् उरोविबन्धम् ॥ (१३०।२)
āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham ||
तिन्:: सुब्त्य्पेस्खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते । (१३१।१)
tin:: subtypeskhurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate |
खुरं तत्र गुणैः श्रेष्ठं मिश्रकं न हितं मतम् ॥ (१३१।२)
khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam ||
खुरक:: फ्य्स्। प्रोपेर्तिएस्धवलं च मृदु स्निग्धं द्रुतद्रावं सगौरवम् । (१३२।१)
khuraka:: phys. propertiesdhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam |
मिश्रक:: फ्य्स्। प्रोपेर्तिएस्निःशब्दं खुरवङ्गं स्यान् मिश्रकं श्यामशुभ्रकम् ॥ (१३२।२)
miśraka:: phys. propertiesniḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam ||
तिन्:: मेदिच्। प्रोपेर्तिएस्वङ्गं तिक्तोष्णकं रूक्षमीषद्वातप्रकोपणम् । (१३३।१)
tin:: medic. propertiesvaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam |
मेदःश्लेष्मामयघ्नं च क्रिमिघ्नं मेहनाशनम् ॥ (१३३।२)
medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam ||
खुर:: शोधनद्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसे । (१३४।१)
khura:: śodhanadrāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase |
विशुध्यति त्रिवारेण खुरवङ्गं न संशयः ॥ (१३४।२)
viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ ||
मिश्रक:: शोधनअम्लतक्रविनिष्पिष्टवर्षाभूविषसिन्धुभिः । (१३५।१)
miśraka:: śodhanaamlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ |
कट्वलाबुगतं वङ्गं द्वितीयं परिशुध्यति ॥ (१३५।२)
kaṭvalābugataṃ vaṅgaṃ dvitīyaṃ pariśudhyati ||
तिन्:: मारणम्सतालेनार्कदुग्धेन लिप्त्वा वङ्गदलान्यथ । (१३६।१)
tin:: māraṇamsatālenārkadugdhena liptvā vaṅgadalānyatha |
बोधिचिञ्चात्वचां क्षारैर्दद्याल्लघुपुटानि च ॥ (१३६।२)
bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca ||
मर्दयित्वा चरेद्भस्म तद्रसादिषु शस्यते । (१३७।१)
mardayitvā caredbhasma tadrasādiṣu śasyate |
तिन्:: मारणप्रद्राव्य खर्परे वङ्गं षोडशांशं रसं क्षिपेत् ॥ (१३७।२)
tin:: māraṇapradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet ||
स्वल्पस्वल्पालकं दत्त्वा भारद्वाजस्य काष्ठतः । (१३८।१)
svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ |
मर्दयित्वा चरेद्भस्म तद्रसादिषु कीर्तितम् ॥ (१३८।२)
mardayitvā caredbhasma tadrasādiṣu kīrtitam ||
तिन्:: मृत:: मेदिच्। उसेवङ्गभस्मसमं कान्तं व्योमभस्म च तत्समम् । (१३९।१)
tin:: mṛta:: medic. usevaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam |
मर्दयेत्कन्यकाम्भोभिर् निम्बपत्ररसैर् अपि ॥ (१३९।२)
mardayetkanyakāmbhobhir nimbapatrarasair api ||
भूपालावर्तभस्माथ विनिक्षिप्य समांशकम् । (१४०।१)
bhūpālāvartabhasmātha vinikṣipya samāṃśakam |
गोमूत्रकशिलाधातुजलैः सम्यग्विमर्दयेत् ॥ (१४०।२)
gomūtrakaśilādhātujalaiḥ samyagvimardayet ||
ततो गुग्गुलुतोयेन मर्दयित्वा दिनाष्टकम् । (१४१।१)
tato guggulutoyena mardayitvā dināṣṭakam |
विशोष्य परिचूर्ण्याथ समभागेन योजयेत् ॥ (१४१।२)
viśoṣya paricūrṇyātha samabhāgena yojayet ||
भृष्टबर्बूरनिर्यासैर् वाकुचीबीजचूर्णकैः । (१४२।१)
bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ |
ततः क्षिपेत्करण्डान्तर्विधाय पटगालितम् ॥ (१४२।२)
tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam ||
चतुर्भिर्वल्लकैस्तुल्यं रम्यं वङ्गरसायनम् ॥ (१४३।२)
caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam ||
निश्चितं तेन नश्यन्ति मेहा विंशतिभेदकाः । (१४४।१)
niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ |
पटोलं तिक्ततुण्डीरं तक्रं पथ्यं प्रशस्यते ॥ (१४४।३)
paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyaṃ praśasyate ||
लेअद्:: शुद्ध:: परीक्षाद्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलम् । (१४५।१)
lead:: śuddha:: parīkṣādrutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam |
पूतिगन्धं बहिःकृष्णं शुद्धं सीसमतोऽन्यथा ॥ (१४५।२)
pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā ||
लेअद्:: मेदिच्। प्रोपेर्तिएसत्युष्णं सीसकं स्निग्धं तिक्तं वातापहम् । (१४६।१)
lead:: medic. propertiesatyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham |
सीषशोधनसिन्दुवारजटाक्वाथे हरिद्राचूर्णकं क्षिपेत् । (१४७।१)
sīṣaśodhanasinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet |
द्रुतं नागं च निर्गुण्ड्यास्त्रिवारं निक्षिपेद्रसे ॥ (१४७।२)
drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase ||
नागः शुद्धो भवेदेवं मूर्च्छास्फोटादि नाचरेत् । (१४८।१)
nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret |
भ्राष्ट्रयन्त्रतिर्यगाकारचुल्ल्यां तु तिर्यग्वक्त्रं घटं क्षिपेत् । (१४८।२)
bhrāṣṭrayantratiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet |
तं च वक्त्रं विना सर्वं गोपयेद्यत्नतो मृदा । (१४८।३)
taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā |
भ्राष्ट्रयन्त्राभिधं चैतन्नागमारणम् उत्तमम् ॥ (१४८।४)
bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam ||
सीसमारणम्भ्राष्ट्रयन्त्राभिधे तस्मिन्यन्त्रे सीसं विनिक्षिपेत् । (१४९।१)
sīsamāraṇambhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet |
पलविंशतिकं नागमधस्तीव्रानलं क्षिपेत् ॥ (१४९।२)
palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet ||
द्रुते नागे क्षिपेत्सूतं शुद्धं कर्षमितं शुभम् । (१५०।१)
drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham |
विघट्ट्य निक्षिपेत् क्षारमेकैकं हि पलं पलम् ॥ (१५०।२)
vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam ||
दाडिमस्य मयूरस्य क्षिप्त्वा क्षारं पृथक् पृथक् ॥ (१५१।२)
dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak ||
एवं विंशतिरात्राणि पचेत्तीव्रेण वह्निना । (१५२।१)
evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā |
विघट्टयन् दृढं दोर्भ्यां दर्व्या चाथ प्रयत्नतः ॥ (१५२।२)
vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ ||
नागं दोषविनिर्मुक्तं जायते तु रसायनम् ॥ (१५३।२)
nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam ||
लेअद्:: मारण:: निरुत्थ (?)हतमुत्थापितं सीसं दशवारेण सिध्यति । (१५४।१)
lead:: māraṇa:: niruttha (?)hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati |
तन्मृतं सीसकं सर्वदोषमुक्तं रसायनम् ॥ (१५४।२)
tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam ||
लेअद्:: मृत:: मेदिच्। उसेएवं नागोद्भवं भस्म ताप्यभस्मार्धभागिकम् । (१५५।१)
lead:: mṛta:: medic. useevaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam |
पादं पादं क्षिपेद्भस्म शुल्बस्य रजतस्य च ॥ (१५५।२)
pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca ||
कान्ताभ्रसत्त्वयोश् चापि स्फटिकस्य पृथक् पृथक् । (१५६।१)
kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak |
सर्वमेकत्र संचूर्ण्य पुटेत् त्रिफलवारिणा ॥ (१५६।२)
sarvamekatra saṃcūrṇya puṭet triphalavāriṇā ||
त्रिंशद्वनगिरिण्डैश्च त्रिंशद्वारं विचूर्ण्य तत् । (१५७।१)
triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat |
व्योषवेल्लकचूर्णैश्च समांशैः सह योजयेत् ॥ (१५७।२)
vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet ||
मध्वाज्यसहितं हन्ति प्रलीढं वल्लमात्रया । (१५८।१)
madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā |
अशीतिं वातजान् रोगान् धनुर्वातान् विशेषतः ॥ (१५८।२)
aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ ||
कफरोगानशेषांश्च मूत्ररोगांश्च सर्वशः । (१५९।१)
kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ |
श्वासं कासं क्षयं पाण्डुं श्वयथुं शीतकं ज्वरम् ॥ (१५९।२)
śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram ||
ग्रहणीमामदोषं च वह्निमान्द्यं च दुर्जयम् । (१६०।१)
grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam |
सर्वान् गुदजदोषांश्च तत्तद्रोगानुपानतः ॥ (१६०।२)
sarvān gudajadoṣāṃśca tattadrogānupānataḥ ||
पित्तलरीतिका काकतुण्डीति द्विविधं पित्तलं भवेत् । (१६१।१)
pittalarītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet |
रीतिका:: परीक्षासंतप्ता काञ्जिके क्षिप्ता ताम्राभा रीतिका मता । (१६१।२)
rītikā:: parīkṣāsaṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā |
राजरीति:: परीक्षाएवं प्रजायते कृष्णा काकतुण्डीति सा मता ॥ (१६१।३)
rājarīti:: parīkṣāevaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā ||
रीतिका:: परीक्षा:: गोओद् क़ुअलित्य्गुर्वी मृद्वी च पीताभा साराङ्गी ताडनक्षमा । (१६२।१)
rītikā:: parīkṣā:: good qualitygurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā |
सुस्निग्धा मसृणाङ्गी च रीतिका तादृशी शुभा ॥ (१६२।२)
susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā ||
रीतिका:: परीक्षा:: बद् क़ुअलित्य्पाण्डुराभा खरा रूक्षा बर्बरा घट्टनाक्षमा । (१६३।१)
rītikā:: parīkṣā:: bad qualitypāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā |
पूतिगन्धा तथा लघ्वी रीतिर्नेष्टा रसादिषु ॥ (१६३।२)
pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu ||
रीतिका:: मेदिच्। प्रोपेर्तिएस्रीतिस्तिक्तरसा रूक्षा जन्तुघ्नी सास्रपित्तनुत् । (१६४।१)
rītikā:: medic. propertiesrītistiktarasā rūkṣā jantughnī sāsrapittanut |
क्रिमिकुष्ठहरा योगात् सोष्णवीर्या च शीतला ॥ (१६४।२)
krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā ||
राजरीति:: मेदिच्। प्रोपेर्तिएस्काकतुण्डी गतस्नेहा तिक्तोष्णा कफपित्तनुत् । (१६५।१)
rājarīti:: medic. propertieskākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut |
रीतिका:: शोधनतप्ता क्षिप्ता च निर्गुण्डीरसे श्यामारजोऽन्विते । (१६६।१)
rītikā:: śodhanataptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite |
पञ्चवारेण संशुद्धिं रीतिरायाति निश्चितम् ॥ (१६६।२)
pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam ||
रीतिमारणम्निम्बूरसशिलागन्धवेष्टिता पुटिताष्टधा । (१६७।१)
rītimāraṇamnimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā |
रीतिरायाति भस्मत्वं ततो योज्या यथायथम् ॥ (१६७।२)
rītirāyāti bhasmatvaṃ tato yojyā yathāyatham ||
रीतिका:: प्रोदुच्तिओन् ओड़् द्रुतिसुवर्णरीतिकाचूर्णं भक्षितं विष्ठितं पुनः । (१६८।१)
rītikā:: production of drutisuvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ |
तल्लिप्तं खर्परे दग्धं द्रुतिं मुञ्चति शोभनाम् । (१६९।१)
talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām |
ब्रस्स्:: मृत:: मेदिच्। उसेमृतारकूटकं कान्तं व्योमसत्त्वं च मारितम् ॥ (१७०।२)
brass:: mṛta:: medic. usemṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam ||
त्रयं समांशकं तुल्यव्योषजन्तुघ्नसंयुतम् । (१७१।१)
trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam |
सेवितं निष्कमात्रं हि जन्तुघ्नं कुष्ठनाशनम् । (१७२।१)
sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam |
विशेषाच्छ्वेतकुष्ठघ्नं दीपनं पाचनं हितम् ॥ (१७२।२)
viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam ||
ब्रोन्ज़े:: प्रोदुच्तिओनष्टभागेन ताम्रेण द्विभागकुटिलेन च । (१७३।१)
bronze:: productionaṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca |
विद्रुतेन भवेत् कांस्यं तत् सौराष्ट्रभवं शुभम् ॥ (१७३।२)
vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham ||
ब्रोन्ज़े:: परीक्षा:: गोओद् क़ुअलित्य्तीक्ष्णशब्दं मृदु स्निग्धमीषच्छ्यामलशुभ्रकम् । (१७४।१)
bronze:: parīkṣā:: good qualitytīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam |
निर्मलं दाहरक्तं च षोढा कांस्यं प्रशस्यते ॥ (१७४।२)
nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate ||
ब्रोन्ज़े:: परीक्षा:: बद् क़ुअलित्य्यत्पीतं दहने ताम्रं खरं रूक्षं घनासहम् । (१७५।१)
bronze:: parīkṣā:: bad qualityyatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham |
मन्दनादं गतज्योतिः सप्तधा कांस्यमुत्सृजेत् ॥ (१७५।२)
mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet ||
ब्रोन्ज़े:: मेदिच्। प्रोपेर्तिएस्कांस्यं लघु च तिक्तोष्णं लेखनं दृक्प्रसादनम् । (१७६।१)
bronze:: medic. propertieskāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam |
क्रिमिकोटिहरं वातपित्तघ्नं भाजने हितम् ॥ (१७६।२)
krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam ||
ब्रोन्ज़े:: सुइतब्ले ड़ोर् वेस्सेल्स्घृतमेकं विना चान्यत्सर्वं कांस्यगतं नृणाम् । (१७७।१)
bronze:: suitable for vesselsghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām |
भुक्तम् आरोग्यसुखदं हितं सात्म्यकरं तथा ॥ (१७७।२)
bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā ||
कांस्यशोधनम्तप्तं कांस्यं गवां मूत्रे वापितं परिशुध्यति । (१७८।१)
kāṃsyaśodhanamtaptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati |
ब्रोन्ज़े:: मारण:: निरुत्थम्रियते गन्धतालाभ्यां निरुत्थं पञ्चभिः पुटैः ॥ (१७८।२)
bronze:: māraṇa:: nirutthamriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ ||
वर्तलोह:: प्रोदुच्तिओन्कांस्यार्करीतिलोहाहिजातं तद्वर्त्तलोहकम् । (१७९।१)
vartaloha:: productionkāṃsyārkarītilohāhijātaṃ tadvarttalohakam |
तदेव पञ्चलोहाख्यं लोहविद्भिरुदाहृतम् ॥ (१७९।२)
tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam ||
वर्तलोह:: मेदिच्। प्रोपेर्तिएस्हिमाम्लकटुकं रूक्षं कफपित्तविनाशनम् । (१८०।१)
vartaloha:: medic. propertieshimāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam |
रुच्यं त्वच्यं क्रिमिघ्नं च नेत्र्यं मलविशोधनम् ॥ (१८०।२)
rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam ||
वर्तलोह:: वेस्सेल्स् मदे ओड़् ~तद्भाण्डसाधितं सर्वम् अन्नव्यञ्जनसूपकम् । (१८१।१)
vartaloha:: vessels made of ~tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam |
अम्लेन वर्जितं चापि दीपनं पाचनं शुभम् ॥ (१८१।२)
amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham ||
वर्तलोहशोधनम्द्रुतमश्वजले क्षिप्तं वर्त्तलोहं विशुध्यति । (१८२।१)
vartalohaśodhanamdrutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati |
वर्तलोहमारणम्म्रियते गन्धतालाभ्यां पुटितं वर्त्तलोहकम् ॥ (१८२।२)
vartalohamāraṇammriyate gandhatālābhyāṃ puṭitaṃ varttalohakam ||
जातिमद्भिर्विशुद्धैश्च विधिना परिसाधितैः । (१८३।२)
jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ |
रसोपरसलोहाद्यैः सूतः सिध्यति नान्यथा ॥ (१८३।३)
rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā ||
??रत्नानि लोहानि वराटशुक्तिपाषाणजातं खुरशृङ्गशल्यम् । (१८४।१)
??ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam |
महारसाद्येषु कठोरदेहं भस्मीकृतं तत्खलु सूतयोग्यम् ॥ (१८४।२)
mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam ||
भूनाग:: सत्त्व:: उसेद् ड़ोर् द्रावणवज्राणां द्रावणार्थाय सत्त्वं भूनागजं ब्रुवे । (१८५।१)
bhūnāga:: sattva:: used for drāvaṇavajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve |
भूनाग:: सत्त्व:: पातनधौतं भूनागसम्भूतं मर्दयेद् भृङ्गजै रसैः । (१८६।१)
bhūnāga:: sattva:: pātanadhautaṃ bhūnāgasambhūtaṃ mardayed bhṛṅgajai rasaiḥ |
निम्बुद्रवैश्च निर्गुण्ड्याः स्वरसैस्त्रिदिनं पृथक् ॥ (१८६।२)
nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak ||
तद् द्रावणगणोपेतं संमर्द्य वटकीकृतम् । (१८७।१)
tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam |
निरुध्य दृढमूषायां द्विदण्डं प्रधमेद् दृढम् ॥ (१८७।२)
nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham ||
स्वतः शीतं समाहृत्य पट्टके विनिवेश्य यत् । (१८८।१)
svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat |
रवकान् राजिकातुल्यान् रेणूनपि भरान्वितान् ॥ (१८८।२)
ravakān rājikātulyān reṇūnapi bharānvitān ||
द्वादशांशार्कसंयुक्तान् धमित्वा रवकांश्चरेत् । (१८९।१)
dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret |
वज्रादिद्रावणं तेन प्रकुर्वीत यथेप्सितम् ॥ (१८९।२)
vajrādidrāvaṇaṃ tena prakurvīta yathepsitam ||
खरसत्त्वमिदं प्रोक्तं रसायनमनुत्तमम् । (१९०।१)
kharasattvamidaṃ proktaṃ rasāyanamanuttamam |
द्वित्रिमूषासु चैकस्यां सत्त्वं भवति निश्चितम् ॥ (१९०।२)
dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam ||
भूनाग:: सत्त्व:: पातनसुवर्णरूप्यताम्रायःकान्तसम्भूतभूमिजान् । (१९१।१)
bhūnāga:: sattva:: pātanasuvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān |
भुजङ्गमान् उपादाय चतुःप्रस्थसमन्वितान् ॥ (१९१।२)
bhujaṅgamān upādāya catuḥprasthasamanvitān ||
प्रक्षाल्य रजनीतोयैः शीतलैश्च जलैरपि । (१९२।१)
prakṣālya rajanītoyaiḥ śītalaiśca jalairapi |
क्रमेण चारयित्वाथ तद्विष्ठां समुपाहरेत् । (१९३।१)
krameṇa cārayitvātha tadviṣṭhāṃ samupāharet |
क्षाराम्लैः सह संपेष्य विशोष्य च खरातपे ॥ (१९३।२)
kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape ||
ततः खर्परके क्षिप्त्वा भर्जयित्वा मषीं चरेत् । (१९४।१)
tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret |
मषीं द्रावणवर्गेण संयुक्तां संप्रमर्दिताम् ॥ (१९४।२)
maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām ||
निरुध्य कोष्ठिकामध्ये प्रधमेद् घटिकाद्वयम् । (१९५।१)
nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam |
शीतलीभूतमूषायाः खोटमुद्धृत्य पेषयेत् ॥ (१९५।२)
śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet ||
सुवर्णमानवद् ध्मात्वा रवं कृत्वा नियोजयेत् ॥ (१९६।२)
suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet ||
भूनाग:: सत्त्व:: रिन्ग् ओड़् ~भूनागोद्भवसत्त्वम् उत्तमतमं श्रीसोमदेवोदितं दत्तं पादमितं द्विशाणकनके कुर्वीत तेनोर्मिकाम् । (१९७।१)
bhūnāga:: sattva:: ring of ~bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām |
तद्धौताम्बुविलेपनं स्थिरचरोद्भूतं विषं नेत्ररुक् शूलं मूलगदं च कर्णजरुजो हन्यात् प्रसूतिग्रहम् ॥ (१९७।२)
taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham ||
अङ्कोलतैलपातनम् (१)कथ्यतेऽङ्कोलतैलं च रसभस्मादिनिर्मितौ । (१९८।१)
aṅkolatailapātanam (1)kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau |
पुण्यश्लोकमहामात्यैः श्रीमद्भिर्देवसूनुभिः ॥ (१९८।२)
puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ ||
पुराणाङ्कोलबीजानां पेषं कृत्वा तु दुर्घनम् । (१९९।१)
purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam |
आढकप्रमितं कुम्भे विनिधाय निरुध्य च ॥ (१९९।२)
āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca ||
कुम्भस्य च तलच्छिद्रे शलाकामायसीं क्षिपेत् । (२००।१)
kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet |
सार्धहस्तप्रविस्तारे निम्ने गर्ते सुगर्त्तके ॥ (२००।२)
sārdhahastapravistāre nimne garte sugarttake ||
तत्र प्रादेशिके गर्त्ते सीसपात्रं निधाय च । (२०१।१)
tatra prādeśike gartte sīsapātraṃ nidhāya ca |
पटं च परिबद्ध्वा तु सन्धिबन्धं समाचरेत् ॥ (२०१।२)
paṭaṃ ca paribaddhvā tu sandhibandhaṃ samācaret ||
लद्दिभिः पूरयेद् गर्तं कण्ठावधि ततः परम् । (२०२।१)
laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param |
षण्मासात् सीसपात्रस्थं तत्तैलं समुपाहरेत् ॥ (२०२।२)
ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet ||
अङ्कोल:: ओइल्:: (मेदिच्।) उसेतेन तैलेन संक्लिन्नाः पाषाणा ये भुवर्तिकाः । (२०३।१)
aṅkola:: oil:: (medic.) usetena tailena saṃklinnāḥ pāṣāṇā ye bhuvartikāḥ |
कूपे प्रक्षालिताः क्षिप्ता ज्वलन्ति निशि ते चिरम् ॥ (२०३।२)
kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram ||
तेन लिप्तं तथैवोक्तं बीजमुद्भवति ध्रुवम् । (२०४।१)
tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam |
वध्यते म्रियते सूतस्तैलेनानेन निश्चितम् ॥ (२०४।२)
vadhyate mriyate sūtastailenānena niścitam ||
तत्तैले मासमात्रं हि स्थिता दालिश्चणोद्भवा । (२०५।१)
tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā |
भक्षितास्याच्चतुर्थांशा षष्टिवारं विरेचयेत् ॥ (२०५।२)
bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet ||
तक्रं भक्तं ततः पथ्यं दातव्यं रेकशान्तये । (२०६।१)
takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye |
पक्षान्ते दालिकार्धेन पूर्ववद्रेचयेत् खलु ॥ (२०६।२)
pakṣānte dālikārdhena pūrvavadrecayet khalu ||
ततो दाली त्रिपादेन चूर्णार्धेन ततः परम् । (२०७।१)
tato dālī tripādena cūrṇārdhena tataḥ param |
पक्षे पक्षे विरेकेण सर्वं कुष्ठं विनश्यति ॥ (२०७।२)
pakṣe pakṣe virekeṇa sarvaṃ kuṣṭhaṃ vinaśyati ||
रेकसाध्यगदाः सर्वे विनश्यन्ति न संशयः । (२०८।१)
rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ |
रेकसाध्यगदाः सर्वे श्वेतकुष्ठं विशेषतः ॥ (२०८।२)
rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ ||
अङ्कोल:: ओइल्:: मेदिच्। उसेबिन्दुमात्रेण तैलेन शुद्धो गुञ्जामितो रसः । (२०९।१)
aṅkola:: oil:: medic. usebindumātreṇa tailena śuddho guñjāmito rasaḥ |
मर्दितोऽहिलतापत्रे पत्रेण सह भक्षितः ॥ (२०९।२)
mardito'hilatāpatre patreṇa saha bhakṣitaḥ ||
तत्क्षणाद् एव कुरुते ह्यनलं दीप्तमुद्धतम् । (२१०।१)
tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam |
संसेविनं नरं चापि वृकस्येवाति भोजिनम् ॥ (२१०।२)
saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam ||
घृतवज्जायते स्त्यानं तत्सर्वमिति कथ्यते ॥ (२१२।२)
ghṛtavajjāyate styānaṃ tatsarvamiti kathyate ||
अङ्कोलतैलपातनविधिः (२)निस्त्वचाङ्कोलबीजानि किंचिज्जर्जरितानि च । (२१३।१)
aṅkolatailapātanavidhiḥ (2)nistvacāṅkolabījāni kiṃcijjarjaritāni ca |
रुद्ध्वा विद्याधरे यन्त्रे दण्डार्धं प्रपचेच्छनैः ॥ (२१३।२)
ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ ||
ऊर्ध्वस्थालीगतं तैलं नागवल्लीदले क्षिपेत् । (२१४।१)
ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet |
अङ्कोल:: ओइल्:: मेदिच्। उसेतस्मिन्गुञ्जामितं सूतं विमर्द्य सदलं ग्रसेत् ॥ (२१४।२)
aṅkola:: oil:: medic. usetasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset ||
कुर्याद् दीपनम् उद्धतं गुरुतरद्रव्यादिसंचूर्णनं हन्यादष्टविधं च गुल्मम् अरुचिं प्लीहामयं स्वामयम् । (२१५।१)
kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam |
श्वित्राद्यं सकलं च कुष्ठमचिरात्पाण्ड्वामयं च ज्वरं शूलं मूलगदं तथा श्वयथुकं श्वासं च कासं नृणाम् ॥ (२१५।२)
śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām ||
अङ्कोलतैलपातनविधिः (३)निरस्थ्यङ्कोलबीजानि सूक्ष्माण्युष्णेन वारिणा । (२१६।१)
aṅkolatailapātanavidhiḥ (3)nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā |
गोण्यां निक्षिप्य निस्त्वञ्चि विधाय तदनन्तरम् ॥ (२१६।२)
goṇyāṃ nikṣipya nistvañci vidhāya tadanantaram ||
भाण्डस्थिते ततः क्षारे प्रक्षिपेत्सलिले खलु । (२१७।१)
bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu |
तिलपर्णीजटां क्षुण्णां निक्षिपेत्तत्र मात्रया ॥ (२१७।२)
tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā ||
द्विरात्रमुषितं तत्र भाजनेऽन्ये विनिक्षिपेत् । (२१८।१)
dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet |
शुष्के तु निर्गतं तैलं क्षिपेन्नागकरण्डके ॥ (२१८।२)
śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake ||
चणानां दालयस्तत्र स्थिता मासत्रयं ततः । (२१९।१)
caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ |
तत्राद्ये पादमात्रं हि प्रदद्यात्कुष्ठरोगिणे ॥ (२१९।२)
tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe ||
तेनाशु रेचितस्त्रिंशद्वाराणि तदनन्तरम् । (२२०।१)
tenāśu recitastriṃśadvārāṇi tadanantaram |
ससंभक्तं तथा पथ्यं दातव्यं शाकवर्जितम् ॥ (२२०।२)
sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam ||
सर्वकुष्ठैर् विमुच्येत वारैः षट्सप्तभिः खलु ॥ (२२१।२)
sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu ||
पूर्वप्रोक्तेन तैलेन गुणैस्तुल्यं प्रकीर्तितम् । (२२२।१)
pūrvaproktena tailena guṇaistulyaṃ prakīrtitam |
अङ्कोलतैलपातनविधिः (४)मूलान्युत्तरवारुण्या जर्जरीकृत्य काञ्जिकैः ॥ (२२२।२)
aṅkolatailapātanavidhiḥ (4)mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ ||
क्षिपेदङ्कोलबीजानां पेषिकां जर्जरीकृताम् । (२२३।१)
kṣipedaṅkolabījānāṃ peṣikāṃ jarjarīkṛtām |
तत्तैलं घृतवत्स्त्यानं परं ग्राह्यं यथाविधि ॥ (२२३।२)
tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi ||
अङ्कोलतैलपातनविधिः (५)सम्पिष्योत्तरवारुण्या पेटकार्या दलान्यथ । (२२४।१)
aṅkolatailapātanavidhiḥ (5)sampiṣyottaravāruṇyā peṭakāryā dalānyatha |
रजश्चाङ्कोलबीजानां तद्बद्ध्वा विरलाम्बरे । (२२५।१)
rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare |
तद्विलम्ब्यातपे तीव्रे तस्याधश्चषकं न्यसेत् ॥ (२२५।२)
tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset ||
तत्र निपतितं तैलमादेयं श्वित्रनाशनम् । (२२६।१)
tatra nipatitaṃ tailamādeyaṃ śvitranāśanam |
अङ्कोलतैलपातनविधिः (६)अङ्कोलबीजसम्भूतं चूर्णं संमर्द्य काञ्जिकैः ॥ (२२६।२)
aṅkolatailapātanavidhiḥ (6)aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ ||
एकरात्रोषितं तत्तु पिण्डीकृत्य ततः परम् । (२२७।१)
ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param |
स्वेदयेत् कन्दुके यन्त्रे घटिकाद्वितयं ततः ॥ (२२७।२)
svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ ||
तां च पिण्डीं दृढे वस्त्रे बद्ध्वा निष्पीड्य काष्ठतः । (२२८।१)
tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ |
अधः पात्रस्थितं तैलं समाहृत्य नियोजयेत् । (२२८।२)
adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet |
एवं कन्दुकयन्त्रेण सर्वतैलान्युपाहरेत् ॥ (२२८।३)
evaṃ kandukayantreṇa sarvatailānyupāharet ||
Data courtesy of The Digital Corpus of Sanskrit.